Adhikāra 30

लघ्वन्नं दीपनं स्निग्धमुष्णं वातानुलोमनम् ॥
बृंहणं च भवेत्सर्वं तद्धितं सर्वगुल्मिनाम् ॥ १ ॥
गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरणीया ॥
मारुतेऽत्र विजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात् ॥ २ ॥
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम् ॥
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥ ३ ॥
प्रागेव वातिके गुल्मे सुस्निग्धं स्वेदितं नरम् ॥
रेचितं स्नेहरेकैश्च निरूहैः सानुवासनैः ॥
उपाचरेद्भिषक्प्राज्ञो मात्राकालविवेकतः ॥ ४ ॥
262
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ॥
कटुत्रिकसमायुक्ता हिताः पानेषु गुल्मिनाम् ॥ ५ ॥
कुम्भीपिण्डेष्टकास्वेदान्कारयेत्कुशलो भिषक् ॥ ६ ॥
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः ॥
स्थानावसेको रक्तस्य बाहुमध्ये शिराव्यधः ॥
स्वेदोऽनुलोमनं चैव प्रशस्तं सर्वगुल्मिनाम् ॥ ७ ॥
263
मातुलुङ्गरसो हिङ्गु दाडिमं विडसैन्धवम् ॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम् ॥ ८ ॥
पिबेदेरण्डतैलं वा वारुणीमण्डमिश्रितम् ॥
तदेव तैलं पयसा वातगुल्मी पिबेन्नरः ॥ ९ ॥
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा ॥
तैलेन पीतः शमयेद्गुल्मं पवनसंभवम् ॥ १० ॥
वातगुल्मप्रतीकारे प्रकुप्यति यदा कफः ॥
शस्तमुल्लेखनं तत्र चूर्णाद्याश्च कफापहाः ॥ ११ ॥
यदि कुप्यति वा पित्तं विरेकस्तत्र भेषजम् ॥
दोषघ्नैरप्यशान्ते तु गुल्मे शोणितमोक्षणम् ॥ १२ ॥
काकोल्यादिमहातिक्तवासाद्यैः पित्तगुल्मिनम् ॥
स्नेहितं स्रंसयेत्पश्चाद्योजयेद्बस्तिकर्मणा ॥ १३ ॥
264
स्निग्धोष्णजे पित्तगुल्मे कम्पिल्लं मधुना लिहेत् ॥
रेचनार्थी रसं वाऽथ द्राक्षायाः सगुडं पिबेत् ॥ १४ ॥
दाहशूलादिसंक्षोभस्वप्ननाशारुचिज्वरैः ॥
विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत् ॥ १५ ॥
पक्वस्तु पीडितोन्नामी बहिस्तुङ्गोऽल्पवेदनः ॥
श्यावो बस्तिनिभस्तत्र व्यधः शोधनरोपणम् ॥ १६ ॥
स्वयमूर्ध्वमधो वाऽपि स चेद्दोषः प्रवर्तते ॥
द्वादशाहमुपेक्षेत रक्षन्नन्नैरुपद्रवान् ॥ १७ ॥
परं तु शोधनं सर्पिः शुद्धे समधु तिक्तकम् ॥ १८ ॥
265
स्नेहोपनाहनस्वेदतीक्ष्णस्रंसनबस्तिभिः ॥
योगैश्च वातगुल्मोक्तैः श्लेष्मगुल्ममुपाचरेत् ॥ १९ ॥
पञ्चमूलीशृतं तोयं पुराणं वारुणीरसम् ॥
कफगुल्मी पिबेत्काले जीर्णमार्द्वीकमेव च ॥ २० ॥
यवानीचूर्णितं तक्रं विडेन लवणीकृतम् ॥
पिबेत्संदीपनं वातमूत्रवर्चोनुलोमनम् ॥
व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः ॥ २१ ॥
संनिपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः ॥ २२ ॥
वचाऽभया विडं शुण्ठीहिङ्गुकुष्ठाग्निदीप्यकाः ॥
द्वित्रिषट्चतुरेकाष्टसप्तपञ्चांशकाः क्रमात् ॥ २३ ॥
चूर्णं मद्यादिभिः पीतं गुल्मानाहोदरापहम् ॥
शूलार्शःश्वासकासघ्नं ग्रहणीदीपनं परम् ॥ २४ ॥
यवानीहिङ्गुसिन्धूत्थक्षारसौवर्चलाभयाः ॥
सुरामण्डेन पातव्या गुल्मशूलनिषूदनाः ॥ २५ ॥
266
पूतीकपत्रगजचिर्भटचव्यवह्नि-
व्योषं च संस्तरचितं लवणोपधानम् ॥
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं
गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ २६ ॥
हिङ्गुपुष्करमूलानि तुम्बुरूणि हरीतकी ॥
श्यामा बिडं सैन्धवं च यवक्षारं महौषधम् ॥ २७ ॥
267
यवक्वाथोदकेनैतद्घृतभृष्टं तु पाययेत् ॥
तेनास्य भिद्यते गुल्मः सशूलः सपरिग्रहः ॥ २८ ॥
वचा हरीतकी हिङ्गु सैन्धवं साम्लवेतसम् ॥
यवक्षारं यवानीं च पिबेदुष्णेन वारिणा ॥ २९ ॥
एतद्धि गुल्मनिचयं सशूलं सपरिग्रहम् ॥
भिनत्ति सप्तरात्रेण वह्निवृद्धिं करोति च ॥ ३० ॥
पिप्पलीपिप्पलीमूलाजाजीचित्रकसैन्धवैः ॥
युक्ता पीता सुरा हन्ति गुल्ममाशु सुदुस्तरम् ॥ ३१ ॥
नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान् ॥
वासामुष्ककपाटलाः सलवणा दग्ध्वा जले पाचितं
हिङ्ग्वादिप्रतिवापमेतदुदितं गुल्मोदराष्ठीलिषु ॥ ३२ ॥
268
हिङ्गूग्रगन्धाविडशुण्ट्यजाजीहरीतकीपुष्करमूलकुष्ठम् ॥
भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराजीर्णविषूचिकासु ॥ ३३ ॥
त्रिफलाकाञ्चनक्षीरीसप्तलानीलिनीवचाः ॥
त्रायन्तीहपुषातिक्तात्रिवृत्सैन्धवपिप्पलीः ॥ ३४ ॥
पिबेद्विचूर्ण्य मूत्रोष्णवारिमांसरसादिभिः ॥
सर्वगुल्मोदरप्लीहकुष्ठार्शःशोषपीडितः ॥ ३५ ॥
शताह्वाचिरबिल्वत्वग्दारुभार्गीकणोद्भवः ॥
कल्कः पीतो हरेद्गुल्मं तिलक्वाथेन रक्तजम् ॥ ३६ ॥
तिलक्वाथो गुडव्योषहिङ्गुभार्गीयुतो भवेत् ॥
पानं रक्तभवे गुल्मे नष्टे पुष्पे च योषिताम् ॥ ३७ ॥
269
पीतो धात्रीरसो युक्त्या किंशुकक्षारसाधितः ॥
क्षारत्र्यूषणसंयुक्ता मदिरा चास्रगुल्मनुत् ॥ ३८ ॥
विशेषमपरं चास्य शृणु रक्तप्रसादनम् ॥
पलाशक्षारतोयेन सिद्धं सर्पिः पिबेच्च सा (?) ॥
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ॥ ३९ ॥
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः ॥
साजाजीपिप्पलीमूलदीप्यकैर्विपचेद्घृतम् ॥ ४० ॥
सकोलमूलकरसं सक्षीरदधिदाडिमम् ॥
तत्परं वातगुल्मघ्नं शूलानाहविबन्धनुत् ॥ ४१ ॥
योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् ॥
पार्श्वहृद्बस्तिशूलं च घृतमेतद्व्यपोहति ॥ ४२ ॥
पञ्चप्रभृति यत्र स्युर्द्रवाणि स्नेहसंविधौ ॥
तत्र स्नेहसमान्याहुरर्वाक्तु स्याच्चतुर्गुणम् ॥ ४३ ॥
270
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः ॥
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च ॥ ४४ ॥
ततोऽष्टभागशेषेण पचेद्दन्तीसमं गुडम् ॥
ताश्चाभयास्त्रिवृच्चूर्णात्तैलाच्चापि चतुष्पलम् ॥ ४५ ॥
पलमेकं कणाशुण्ठ्योः सिद्धे लेहेऽथ शीतले ॥
क्षौद्रार्धकुडवं दद्याच्चातुर्जातपलं तथा ॥ ४६ ॥
ततो लेहपलं लीढ्वा जग्ध्वा चैकां हरीतकीम् ॥
स्निग्धो विरिच्यते दोषः प्रस्थमद्याद्रसौदनम् ॥ ४७ ॥
प्लीहश्वयथुगुल्मार्शोहृत्पाण्डुग्रहणीगदाः ॥
शाम्यन्त्पुत्क्लेशविषमज्वरकुष्ठान्यरोचकाः ॥ ४८ ॥
271
त्र्यूषणत्रिफलाधान्यविडङ्गचव्यचित्रकैः ॥
कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत् ॥ ४९ ॥
द्राक्षामधुकखर्जूरं विदारीं सशतावरीम् ॥
परूषकाणि त्रिफलां साधयेत्पलसंमिताम् ॥ ५० ॥
जलाढके पादशेषे रसमामलकस्य च ॥
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् ॥ ५१ ॥
साधयेत्तु घृतं सिद्धं शर्कराक्षौद्रपादिकम् ॥
पित्तगुल्महरं सर्पिः सर्वपित्तामयापहम् ॥ ५२ ॥
सव्योषक्षारलवणं दशमूलशृतं घृतम् ॥
कफगुल्मं हरत्याशु सहिङ्गुबिडदाडिमम् ॥ ५३ ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ॥
पलिकैः सवयक्षारैर्घृतप्रस्थं विपाचयेत् ॥ ५४ ॥
क्षीरप्रस्थेन तत्सर्पिर्हन्ति गुल्मं कफात्मकम् ॥
ग्रहणीपाण्डुहृद्रोगप्लीहकासज्वरापहम् ॥ ५५ ॥
272
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् ॥
शर्करासैन्धवोपेतं तद्धितं सर्वगुल्मिनाम् ॥ ५६ ॥
वृश्चीवमुरुबूकं च वर्षाभूबृहतीद्वयम् ॥
चित्रकं च जलद्रोणे पचेत्पादावशेषितम् ॥ ५७ ॥
मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ॥
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् ॥ ५८ ॥
तुषोषितं दशाहं तं जीर्णभक्तः पिबेन्नरः ॥
अरिष्टोऽयं जयेद्गुल्ममविपाकं सुदुस्तरम् ॥ ५९ ॥
वल्लूरं मूलकं मत्स्याञ्शुष्कशाकानि वैदलम् ॥
न खादेद्वालुकं गुल्मी मधुराणि फलानि च ॥ ६० ॥