सुशर्मोवाच |

अतः परं प्रवक्ष्यामि संसारपरिवर्तनम् |
यथा वै नरकात्तीर्णाः संसरन्ति समासतः || १ ||
प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः |
शेषेण कर्मणा ते तु जायन्ते कृमियोनिषु || २ ||
कृमियोनौ परावृत्ताः सहस्राणां शतं यदा |
ततः पुनर्मर्कटास्ते जायन्ते ऽथ तरक्षवः || ३ ||
तत्र तावत्परावृत्ता जायन्ते गोषु ते यदा |
तदा तत्र शतेनैव जन्मनां शेषतस्ततः |
मानुषेषूपजायन्ते कुत्सितास्वेव योनिषु || ४ ||
तत्र ते कुर्वते भूयो यदि किंचिन्न किल्बिषम् |
ततो विशुद्धां जातिं ते पुनरेव लभन्त्युत |
न च भूयो ऽपि ते घोरं संसारं प्राप्नुवन्ति वै || ५ ||
द्वितीये ये मया प्रोक्तास्ते मुक्ताः शेषकर्मणा |
कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् || ६ ||
तथा शतसहस्रं च शतानां ते पुनर्गताः |
मत्सयोनौ प्रसूयन्ते तावदेव न संशयः || ७ ||
ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते |
मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा || ८ ||
तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः |
ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः |
कृमिकीटेषु जायन्ते सहस्राणां शतानि षट् || ९ ||
तथैव दश चान्यानि पक्षिणस्तावदेव च |
ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः || १० ||
चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः |
ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु || ११ ||
सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश |
योनीनां हि ततो भूयो जायन्ते ते ततो मृगाः || १२ ||
मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः |
ततो ऽजा गवयाश्चापि गावो मानुष्यतान्ततः || १३ ||
पञ्चमे ये मया प्रोक्तास्ते ऽपि शेषेण कर्मणा |
कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि || १४ ||
हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि |
ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते || १५ ||
षष्ठाच्चैव विनिर्मुक्तास्ततः शेषेण कर्मणा |
जायन्ते कृमिकीटेषु जन्मनां द्विगुणेन हि || १६ ||
कोटिमेकां ततो यूका ततो मत्सो ऽथ सूकरः |
महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः |
मानुषत्वे कुत्सितश्च व्याधितश्चैव जायते || १७ ||
सप्तमाच्च विनिर्मुक्तः कृमिकीटेषु जायते |
कोटित्रयं तावदेव वृक्षत्वमधिगम्य च || १८ ||
ततो लता ततो गुल्मस्ततो हस्ती च जायते |
गोत्वं च समनुप्राप्य जायते मानुषस्ततः || १९ ||
अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा |
जायते कृमिकीटेषु द्वे कोटी द्विगुणे च सः || २० ||
ततश्चौषधिभावेन वीरुत्सु च कुशेषु च |
ततो गोत्वाद्विनिर्मुक्तो जायते कुत्सितो नरः || २१ ||
नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा |
जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः || २२ ||
ततो मत्सश्च तावद्वै तावदेव सरीसृपः |
श्वा ततस्तावदेवाथ ततो भवति किंनरः || २३ ||
किंनरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते |
ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते || २४ ||
दशमादपि चोत्तीर्णः षट्कोटीर्जन्मनां कृमिः |
शेषेण कर्मणा जातस्ततो भवति वानरः || २५ ||
वानरस्तावदेवेह तावदेव च कुक्कुटः |
तावदेव च काकस्तु जीवंजीवक एव च || २६ ||
वृक्षदारकमार्जारपिपिलीका च जायते |
ततो गोषु प्रजातो ऽसौ मानुषेषूपजायते || २७ ||
महारौरवनिर्मुक्तः सप्तकोटीः सुदुःखितः |
जन्मनां कृमिकीटेषु ततो मत्सत्वमश्नुते || २८ ||
ततः श्वा गर्दभश्चैव भैनाशी शुक एव च |
ततो भवति गौश्चापि ततः षण्ढः प्रजायते || २९ ||
तमोनरकनिर्मुक्तस्त्वष्टकोटीः सुदुःखितः |
जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु || ३० ||
ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः |
ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु || ३१ ||
जायते किंनरश्चापि द्वीपी शरभ एव च |
ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते || ३२ ||
तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा |
जायते कृमिकीटेषु नवकोटीः स जन्मनाम् || ३३ ||
ततो भवति काकश्च भासश्चैव स जायते |
वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः || ३४ ||
पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः |
ततो गौर्मनुजश्चापि तत्र गर्भे स वै मृतः || ३५ ||
पुनः पुनर्जायमानः सहस्राणां शतं स तु |
व्याधितः कुत्सितश्चैव जायते स नरः पुनः || ३६ ||
यस्तु सर्वानिमान्प्राप्य नरकानिह जायते |
स योनिषु समस्तासु सर्वसंसारमश्नुते || ३७ ||
यदि मानुष्यतां याति कदाचित्कालपर्ययात् |
तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते || ३८ ||
अनिष्टः सर्वभूतानां दुःखितो व्याधितस्तथा |
विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः || ३९ ||

सुशर्मोवाच |

एतत्ते कथितं सर्वं समासात्पुत्र सर्वशः |
नरकाणां सतत्त्वं च क्रमभेदौ यथागति || ४० ||

सनत्कुमार उवाच |

य इमं शृणुयाद्युक्तः सदा पर्वसु पर्वसु |
श्रावयेद्वा द्विजान्सम्यक्सर्वपापैः प्रमुच्यते || ४१ ||
धर्म्यं यशस्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम् |
श्राव्यं च पठितव्यं च सततं भूतिमिच्छता || ४२ ||
इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं शुभम् |
सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसंमितं ध्रुवम् || ४३ ||
स्कन्दपुराणे पञ्चाशो ऽध्यायः ||