सनत्कुमार उवाच |

अथ ता देवताः क्रुद्धा दैत्यानग्रेसरांस्तदा |
निजघ्नुर्विविधैः शस्त्रैस्ते च ता बिभिदुर्युधि || १ ||
दैत्या नानायुधोपेता देवीर्जघ्नुस्तदाभयाः |
अबला बलिनो धीराः समरे ऽमरविद्विषः || २ ||
तुरंगिणस्तुरंगस्थाः पदातीश्च पदातयः |
रथिनो रथसंस्थाश्च गजस्था गजसादिनः || ३ ||
रथान्नागास्तुरंगाश्च रथी नागांस्तुरंगमान् |
पदातीः सादिनः शूराः सादिनीश्च पदातयः || ४ ||
देव्यो ऽपि युधि संक्रुद्धाः पत्तिसादिरथद्विपान् |
निजघ्नुर्दानवेन्द्राणां प्रासशक्तिपरश्वधैः || ५ ||
पादैश्च पिपिषुः शूरान्निपात्य युधि दानवान् |
बिभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम् || ६ ||
विदार्योरःस्थलं काश्चित्समरे दर्पशालिनाम् |
पपुश्च रुधिरं देव्यः प्राणैः सह सुरद्विषाम् || ७ ||
छिन्नांश्च खण्डशः काश्चिद्धेतीनुत्सृज्य वेगिताः |
निजघ्नुर्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः || ८ ||
केचिन्मदाम्बुविष्यन्दश्यामगण्डस्थला गजाः |
पिपिषुः परमक्रुद्धाः समरे देवतारथान् || ९ ||
कपोलभित्तिसंलीनमत्तषट्पदपङ्क्तयः |
हतारोहा गजाः केचिन्निजघ्नुर्दैत्यदेवताः || १० ||
वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः |
चिच्छिदुर्देवतानीकं देवता दानवानपि || ११ ||
मत्ताः प्रतिच्छन्नमुखाश्च केचिद्गन्धेन विज्ञाय गजं गजेन्द्राः |
घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यतिसंगृहीताः || १२ ||
विस्फार्यमाणानि महाधनूंषि महाबलैर्दानवयोधमुख्यैः |
तारं विरेसुः समराजिरेषु क्रौञ्चा इव व्योम शरन्निशान्ते || १३ ||
तूर्यस्वनैर्ज्यातलसंनिपातैर्नागाश्वनादै रथनेमिघोषैः |
सम्पूर्णकुञ्जोदरकन्दरो ऽसौ विन्ध्यश्चचालेव तदा समग्रः || १४ ||
देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि |
नेदुश्च नादान्परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः || १५ ||
बलानि किंचित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि |
महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि || १६ ||
छिन्नानि वक्त्राणि पुरःसराणां विचित्रहेमाभरणोज्ज्वलानि |
देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि || १७ ||
प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा |
दैत्येन्द्रसिंहैः प्रतिसंनिवृत्तैर्दोलायमानेव चमूर्बभूव || १८ ||
हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः |
देवीभिराबद्धविचित्रघण्टा मर्मातिगैर्बाणवरैर्गजेन्द्राः || १९ ||
बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ |
महोदधिं प्राप्य विवृद्धकाले प्रत्याहतानीव सरिज्जलानि || २० ||
देव्यश्च दैत्याश्च महासमाजे विरेजिरे ऽन्योन्यविषक्तबाणाः |
संसक्तभासो ऽपगमे घनानामभ्रे समूहा इव तारकाणाम् || २१ ||
उद्घुष्य नामान्यथ दानवेन्द्रा निर्जग्मुराशु स्वबलाद्रथस्थाः |
क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य चित्राणि शरासनानि || २२ ||
देव्यो ऽपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः |
मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा || २३ ||
द्रुमेण लक्ष्मीर्युधि संससञ्जे मयेन कान्तिः सरमा मुरेण |
घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात्सरोषा || २४ ||
दैत्या युयुत्सोत्सुकमानसास्ते देवीः समायाः स्वभुजैः सशस्त्रैः |
अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैः सुयत्ताः || २५ ||
ज्योतिःप्रकाशांस्तपनीयपुङ्खानाकर्णपूर्णायतचापमुक्तान् |
सम्प्रेषयामासुरदीनसत्त्वा बाणप्रवेकान्युधि देवतानाम् || २६ ||
देव्यो ऽथ तेषां निशितान्सुपुङ्खान्मर्मच्छिदो दूरगमान्सुपत्रान् |
आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव || २७ ||
ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः |
ते पूर्णमास्यां विघने दिनान्ते भासां समूहा इव चन्द्रसौराः || २८ ||
छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम् |
निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः || २९ ||
मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी |
आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशो ऽन्तरिक्षे || ३० ||
बाणानथोद्वीक्ष्य तदा निकृत्तांल् लघ्वीयसो ऽन्यान्विससर्ज तूर्णम् |
दैत्यो ऽपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त || ३१ ||
निकृत्य बाणान्दितिजः पुरस्तांश्चिक्षेप षष्ठ्या दश रुक्मपुङ्खान् |
तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ट्या तपनीयपुङ्खैः || ३२ ||
स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः किंचिदवाङ्बभूव |
अपाकरोत्तं समरात्स सूतो रथेन जाम्बूनदचित्रितेन || ३३ ||
कार्तस्वरः काञ्चनचित्रपुङ्खान्ससर्ज देव्याः समरे पृषत्कान् |
चिच्छेद तान्मृत्युरुदारपुङ्खैरनागतानेव शराञ्छरौघैः || ३४ ||
छित्त्वा शरांस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ट्या |
भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव वारिवाहः || ३५ ||
अश्वांश्च तस्याशु जघान मृत्युः पृथक्पृषत्कैस्तपनीयपुङ्खैः |
आप्रुत्य दैत्यो ऽथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरं च धौतम् || ३६ ||
क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार |
तच्चर्म तस्यापततः शरौघैश्चकर्त मृत्युः शतशः शिताग्रैः || ३७ ||
स कृत्तचर्मावरणो ऽसुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम् |
अभ्यद्रवन्मृत्युमृभूं तदानीं खे रोहिणीं मेघ इवाभिविद्युत् || ३८ ||
तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजंगतुल्यैः |
जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु || ३९ ||
लक्ष्मी द्रुमं बाणवरैरजय्या समाकिरद्वारणराजलीलम् |
कर्णान्तमुक्तैर्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुङ्खैः || ४० ||
अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे |
स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणैरिवाश्रितैः || ४१ ||
लक्ष्मीं ततः किंपुरुषाधिपो ऽसौ विव्याध बाणैर्दशभिः सुपुङ्खैः |
वक्त्रे सुपूर्णेन्दुसमानवक्त्रां बाह्वोः पृथक्चाष्टशतेन धीरः || ४२ ||
अचिन्तयित्वेषुवरान्वरास्या मुखे ऽस्य तीक्ष्णान्निचखान बाणान् |
अन्यानसंख्यांश्च पृथक्शरीरे सुपत्रितान्हाटकमृष्टपुङ्खान् || ४३ ||
लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथध्वजाग्रम् |
अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम् || ४४ ||
नाराचमादाय ततो ऽस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः |
विव्याध वाहांश्च पृथक्पृषत्कैर्ध्वजं च चिच्छेद रथस्य तूर्णम् || ४५ ||
यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः |
संग्रामभूमेरपनिन्युराशु प्राणानिवाश्वाः परिरक्षमाणाः || ४६ ||
कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः |
नीहारपातैरिव सान्धकारं तदा तयोरन्तरमास तत्र || ४७ ||
आदानसंधानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु |
शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये || ४८ ||
कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विसृष्टान् |
छिद्रं समासेदतुरप्रधृष्यौ किंचिन्न तौ तत्र परस्परस्य || ४९ ||
अश्वेषु सूते सरथे ध्वजे च सर्वेषु गात्रावयवेषु चास्य |
अजिह्मगान्हाटकमृष्टपुङ्खान्मयस्य कान्तिर्निचखान बाणान् || ५० ||
मयश्च कान्तिं सरथां ससूतां सचारुचित्रध्वजवाजिमुख्याम् |
संछादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः || ५१ ||
क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन |
सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ तुरगांश्च बाणैः || ५२ ||
हताश्वसूतो विरथो मयो ऽथ निस्त्रिंशमादाय निशातधारम् |
ज्ञात्वैव कान्त्याः समरे प्रभावं विहाय युद्धं वियदुत्पपात || ५३ ||
विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम् |
दैत्यो ऽपि बाणैः सरमामजिह्मगैरभ्याहनद्गृध्रमयूरपत्रिभिः || ५४ ||
क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम् |
अन्यद्धनुः सो ऽथ तदा गृहीत्वा विव्याध देव्याश्चतुरस्तुरंगान् || ५५ ||
ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरंगाः |
भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः || ५६ ||
क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम् |
उत्पत्य खं तस्य तदा जघान यन्तारमश्वांश्च महाप्रमाणान् || ५७ ||
मुरो ऽथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः |
विव्याध देवीं दशभिः शिताग्रैः शरैरुरस्युग्रभुजंगकल्पैः || ५८ ||
अचिन्तयित्वा सरमा शरांस्तान्धनुर्विचिच्छेद तदा मुरस्य |
स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा || ५९ ||
विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुङ्कैः |
विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः || ६० ||
अभ्यद्रवत्तानविचिन्त्य बाणांश्चण्डां घनः सायकजालवर्षी |
आगच्छतस्तस्य शरैः सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान् || ६१ ||
चिच्छेद दैत्यो ऽपि समुच्छ्रिताग्रं ध्वजं तुरंगांश्च जघान देव्याः |
हित्वा रथौ ताववतीर्य भूमिं गृहीतचर्मासिवरौ प्रयत्तौ || ६२ ||
विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ |
तांस्तांश्च मार्गांल् लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ || ६३ ||
अभिप्रुतोच्चप्रुतसिंहयातान्निवृत्तकाक्रीडितकोर्ध्वबाहून् |
खगावलीनाभिहतापयातान्निषण्णकाविद्धशिरोभिघातान् || ६४ ||
उत्प्रुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा |
स कृत्तमूर्धा निपपात तस्यां संग्रामभूमावुरसाशु दैत्यः || ६५ ||
स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरित्र्याम् |
रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः || ६६ ||
विव्याध तीक्ष्णैर्नियतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुङ्खैः |
आयोधने संमुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त || ६७ ||
विद्धः स तैरभ्यपतत्सरोषो देवीं जिघांसुः समरे ऽरिहन्ता |
गुर्वीं गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः || ६८ ||
सा दानवाग्र्येण गदा प्रमुक्ता विचित्रहेमोज्ज्वलचारुघण्टा |
संचूर्णयामास रथं नियत्या यन्त्रीं ध्वजं चाशु समुच्छ्रिताग्रम् || ६९ ||
उत्पत्य तूर्णं नियतिः स्ववाहात्क्रोधेन संरक्तविलोलनेत्रा |
अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्ये ऽस्य शिरः पफाल || ७० ||
स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः |
वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही || ७१ ||
प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः |
उरस्युदारा दशभिः शिताग्रैर्घने घनव्रातसमानवर्णैः || ७२ ||
जघान सा षोडश देवतारेस्तुरंगमान्षोडशभिः पृषत्कैः |
निहत्य चैकेन रथस्य सूतमेकेन चास्य ध्वजमुच्चकर्त || ७३ ||
धुन्धुर्गदां भारसहस्रगुर्वीं चिक्षेप कार्तस्वरचारुघण्टाम् |
तामापतन्तीं शतशश्चकर्त प्रभावती दैत्यपतिप्रमुक्ताम् || ७४ ||
आदाय दैत्यः परिघं महान्तमाप्रुत्य वाहादभितः ससार |
देवीमसावञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः || ७५ ||
अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत्सुपत्रैः |
देव्या समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात् || ७६ ||
उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं परिघोरुबाहुः |
न्यपातयत्तं परिघं रथे ऽस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः || ७७ ||
अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम् |
कालायसो ऽसौ परिघो ऽसुरास्तो वेगेन तत्रापससार देवी || ७८ ||
दृष्ट्वा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा |
अभ्यद्रवद्दानवयोधमुख्यो दिवीव चित्रामसितः पयोदः || ७९ ||
उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघं चकर्त |
उद्यम्य मुष्टिं निबिडं ततो ऽस्या भूयो ऽथ दैत्यो वियदुत्पपात || ८० ||
तं मर्मगैर्मर्मसु बाणमुख्यैः साताडयद्दानवमाशु देवी |
भिन्नः स तैर्मर्मगमैः सुपुङ्खैरन्तर्दधे दानवयोधमुख्यः || ८१ ||
अथ समरमपास्य योधमुख्यैर्विहतपराक्रमपौरुषैरुपेतैः |
सुरपतिरिपवो विनद्य नादान्द्विरदवरानधितस्थुरात्तशस्त्राः || ८२ ||
इति स्कन्दपुराणे पञ्चषष्टो ऽध्यायः ||