सनत्कुमार उवाच |

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया |
वनं विवेश तत्राभूत्पुरुषादो महाबलः || १ ||
सो ऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् |
ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः || २ ||
ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः |
नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति |
पुत्रशोकेन महता भृशमेवान्वकीर्यत || ३ ||
स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः |
नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् |
शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः || ४ ||
पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी |
तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः || ५ ||
ततो ऽटवीं समासाद्य निराहारो जितेन्द्रियः |
वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् || ६ ||
अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् |
अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत || ७ ||
अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा |
उपतस्थे ऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा || ८ ||
तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः |
सोवाच दीनया वाचा रुदती श्वशुरं तदा || ९ ||

अदृश्यन्त्युवाच |

यदैव सुतदुःखेन निर्गतो ऽस्याश्रमाद्गुरो |
तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता || १० ||
अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो |
उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः || ११ ||

सनत्कुमार उवाच |

इदानीमस्ति मे वत्से जीविताशेति सो ऽब्रवीत् |
क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः || १२ ||
तदाश्रमपदं गच्छन्पथि राजानमैक्षत |
वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम् || १३ ||
अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः |
ततो ऽस्य निर्गतः कायाद्रक्षः परमदारुणः || १४ ||
उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् |
दग्धेन च त्वया किं मे गच्छ मुक्तो ऽसि दुर्मते || १५ ||
ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् |
प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् || १६ ||
गते निशाचरे राजा प्रणम्य शिरसा मुनिम् |
प्रसादयामास तदा स चोवाचेदमर्थवत् || १७ ||
न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै |
कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः || १८ ||
प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो |
ब्रूहि किं वा प्रियं ते ऽद्य करोमि नरपुंगव || १९ ||

राजोवाच |

इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत |
देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् || २० ||

सनत्कुमार उवाच |

एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः |
पुत्रं च शोणकं नाम जनयामास निर्वृतः || २१ ||
तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः |
जगाम वनमेवाशु सभार्यस्तपसि स्थितः || २२ ||
वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् |
अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः || २३ ||
वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत |
तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् || २४ ||
ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् |
पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा || २५ ||
तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् |
जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् || २६ ||
सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः |
ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् || २७ ||

ब्रह्मोवाच |

†देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः |
अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्† || २८ ||

पराशर उवाच |

सह देवैरहं सर्वांल् लोकान्धक्ष्यामि पावकैः |
दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः || २९ ||

सनत्कुमार उवाच |

तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः |
उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः || ३० ||

पितामह उवाच |

कृतमेतन्न संदेहो यथा ब्रूषे महामते |
क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया || ३१ ||
यैस्ते पिता महाभाग भक्षितः सह सोदरैः |
त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः |
अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः || ३२ ||
†तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् |
वसिष्ठस्य महाभाग त्वं निवारय पुत्रक† || ३३ ||
देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् |
ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा || ३४ ||
ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् |
विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् || ३५ ||
य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् |
रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति || ३६ ||
तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः |
विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ || ३७ ||

सनत्कुमार उवाच |

ततो देवाः सगन्धर्वाः पितामहपुरःसराः |
प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् || ३८ ||
हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु |
संजहार ततः सत्त्रं ब्रह्मणो ऽनुमते तदा || ३९ ||

सनत्कुमार उवाच |

य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् |
श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः || ४० ||
पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् |
निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् || ४१ ||
इति स्कन्दपुराणे ऽष्टादशमो ऽध्यायः ||