सुशर्मोवाच |

अतः परं तृतीयस्तु नरकः कालसूत्रकः |
समन्तान्महतोच्चेन प्राकारेण सुसंवृतः |
लोहजालेन च तथा आकाशे ऽप्यभिसंवृतः || १ ||
यथैकश्च तथा सर्वे नरका अभिसंवृताः |
सोच्छ्रयाश्चैव विज्ञेया न वक्ष्ये तदहं पुनः || २ ||
शोकद्रोहजनास्तत्र यात्यन्ते पुरुषाधमाः |
ये हरन्ति स्त्रियं वाजिविक्रेता यस्तथा गवाम् || ३ ||
धर्मस्य चात्मनश्चैव ब्राह्मणानां च निन्दकाः |
छद्मना यश्च शास्त्राणि गुरुभ्यो ऽपहरेत्पुनः || ४ ||
गुरुं निन्दति यश्चापि पितरं मातरं तथा |
श्वशुरं भ्रातरं ज्येष्ठं तथा चान्यान्गरीयसः |
आक्रोशते च यस्तान्वै तथा चाप्यवमन्यते || ५ ||
आश्रमाणां तथा भेत्ता रहस्यानां च सर्वशः |
अदत्तं यः समादद्यात्स गच्छेद्द्विज तत्र वै || ६ ||
ते तत्र पतिता घोरे नरके पापचेतसः |
तिस्रः कोट्यस्तु संपूर्णा वर्षाणां तु नराधमाः |
यात्यन्ते मृत्युवचनात्क्रन्दमाना विचेतसः || ७ ||
कालसूत्रेण महता मित्वा मित्वा तु दुष्कृतम् |
छिद्यन्त्यङ्गानि जन्तूनां कुण्ठाग्रैरायुधैर्भृशम् |
किंकरैस्तैरविश्रान्तं दिवारात्रिमतन्द्रितम् || ८ ||
पूर्णे काले ततो जन्तुरुच्छ्रयान्प्रतिपद्यते |
विश्राम्य स तदा जन्तुः पात्यते नरके पुनः |
यावदस्य कृतं पापं क्षीणं सर्वमशेषतः || ९ ||
य इमं बहुपापकर्तृसूत्रं शृणुयात्सुरलोककर्मसूत्रम् |
न स याति तमुग्रदुःखसूत्रं नरकं यमलोककालसूत्रम् || १० ||
स्कन्दपुराण एकोनचत्वारिंशत्तमो ऽध्यायः ||