सुशर्मोवाच |

अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः |
यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः |
यात्यन्ते दुःखशोकार्ता महानिरयगामिनः || १ ||
रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः |
पुनः पुनर्वा भीमो हि रौरवस्तेन कीर्त्यते || २ ||
पूर्णस्तु सर्वः कारीष्या ज्वलत्या सो ऽतिदारुणः |
मध्ये स्तम्भो ऽस्य लोहो वै तप्तकाञ्चनसप्रभः || ३ ||
तत्र जन्तुर्भृशं मग्नः प्रविशन्दह्यते भृशम् |
आर्तनादान्प्रकुर्वाणो मूर्छितः पतितः पुनः || ४ ||
ततः क्लेशेन महता उद्धृत्यात्मानमात्मना |
भूयो ऽन्यं देशमासाद्य तथैव प्रविशन्स हि || ५ ||
ततस्तस्मादुपोत्पत्य स्तम्भमाश्रयते यदि |
तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः || ६ ||
एवं स यात्यते तत्र बहूनब्दान्सुदुःखितः |
ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते || ७ ||
तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः |
पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा || ८ ||
गोघ्नो ऽथ दमकश्चैव जन्तूनां भृशदारुणः |
गलकर्त्ता कूटमानी कर्मणांश्च करोति यः || ९ ||
परिवित्तिः परिवेत्ता श्मशानरतिरेव च |
पुनर्भूसुतसंयोगी यस्य चोपपतिर्गृहे |
एते सर्वे ऽभिगच्छन्ति नरकं रौरवं नराः || १० ||
य इमं शृणुयाच्च रौरवं नरकं पापकृतां सुरौरवम् |
नियतं प्रयतो ऽतिरौरवं न स गच्छेन्मनसापि रौरवम् || ११ ||
स्कन्दपुराणे षट्चत्वारिंशो ऽध्यायः ||