परार्थानुमानम्


त्रिरूपलिङ्गाख्यानं परार्थानुमानम् । अन्वयव्यतिरेक
पक्षधर्मतासंज्ञकानि त्रीणि रूपाणि येन वचनेन प्रख्याप्यन्ते
तद्बचनमुपचारादनुमानशब्देनोच्यते ॥


तद्द्विविधम् साधर्म्यवद्वैधर्म्यबच्च । साध्यधर्मिदृष्टान्त
धर्मिणोर्हेतुसत्ताकृतं सादृश्यं साधर्म्यम् । तद्यस्यास्ति तत्
साधर्म्यवत् साधनवाक्यम् । साध्यधर्मिदृष्टान्तधर्मिणोर्हेतु
सत्ताकृतं वैसादृश्यं वैधर्म्यम् । तद्यस्..स्ति तद्वैधर्म्यवत्
साधनवाक्यम् । तत्र स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्श
यितुं सौत्रान्तिकमतमाश्रित्य भगवता यदुक्तं, संस्कृतं
क्षणिकं सर्वं
इति तद्व्युत्पाद्यते । समेत्य सम्भूय हेतुप्रत्ययैः
कृतं वस्तुजातं संस्कृतम् । क्षणिकमिति उत्पत्तिक्षण एव
सत्त्वात् । सर्वं तावत् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं
गच्छत् दृश्यते । तत्र येन स्वरूपेण अन्त्यावस्थायां घटादिकं
35 विनश्यति तच्चेत् स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादा
नन्तरमेव तेन विनष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् । अथेदृश
एव स्वभावस्तस्य स्वहेतोर्जातः, यत् कियन्तं कालं स्थित्वा
विनश्यतीति । एवं तर्हि मुद्गरादिसन्निधाने च एष एव
तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम्,
पुनरप्येवमिति नैव विनश्येदिति । तस्मात् क्षणद्वयस्थायि
त्वेनाप्युत्पत्तौ प्रथमक्षणवद्द्वितीयक्षणेऽपि क्षणद्वयस्थायित्वात्
पुनरपरं क्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभाव
त्वान्नैव विनश्येदिति । स्यादेतत्, स्थावरमेव तद्वस्तु स्वहेतो
र्जातम्, बलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तद
सत्; कथं पुनरेत125 द्युज्यते, न च तद्विनश्यति स्थावरत्वात्,
विनाशश्च तस्य विरोधिना बलेन क्रियत इति । न ह्येतत्सम्भ
वति, जीवति देवदत्तो मरणं चास्य भवतीति । अथ
विनश्यति, कथं तर्ह्यविनश्वरं तद्वस्तु स्वहेतोर्जातम् ? न हि
म्रियते चामरणधर्मा चेति युज्यते वक्तुम् । तस्मादनश्वरत्वे
कदाचिदपि नाशायोगात्, दृष्टत्वाच्च नाशस्य, नश्वरमेव
तद्वस्तु स्वहेतोरुप126 जायत इत्यङ्गीकुर्मः । तस्मादुत्पन्नमात्रमेव
विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगः
पुन127रेवं कर्तव्यः--यद्यत् विनश्वरस्वरूपं तत्तदनन्तरानवस्थायि
यथा अन्त्यक्षणवर्तिघटस्य स्वरूपम् । विनश्वररूपं च रूपा
36 दिकमुदयकाल इति स्वभावहेतुः । यदि क्षणक्षयिणो भावाः,
कथं तर्हि स एवायमिति प्रत्यभिज्ञानं स्यात् ? उच्यते—
निरन्तरसदृशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाश
काल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारेण वैलक्षण्य
स्याभावादभावेन चाव्यवधानात्128 भेदेऽपि स एवायमित्य
भेदाध्यवसायप्रत्ययः पृथग्जनानां प्रसूयते । अत्यन्तभिन्ने
ष्वपि च लूनपुन 129र्जातकुशकेशादिष्वपि दृष्ट एव स एवाय
मिति प्रत्ययः । तथेहापि किं न सम्भाव्यते ? तस्मात्सर्वं
संस्कृतं क्षणिकमिति सिद्धमेवैतत् निर्विशेषणस्य स्वभावहेतो
रयं प्रयोग इति ॥


तथाऽपरोऽपि निर्विशेषणप्रयोगः--यत्सत् तत्सर्वमनित्यं,
यथा घटः
। सन्तश्चामी प्रमाणप्रतीताः130 । तथाऽपरोऽपि 131वेदस्य
पौरुषेयत्व132साधनाय स्वभावहेतुः । यद्वाक्यं तत्पौरुषेयं, यथा
रथ्यापुरुषवाक्यम् । वाक्यं चेदंअग्निहोत्रं जुहुयात्स्वर्गकाम
इति ॥


सविशेषणप्रयोगो यथा--यद्यदुत्पत्तिमत् तत्सर्वमनित्यं,
यथा घटः । उत्पत्तिमांश्च शब्दः
। अनुत्पन्नेभ्यो व्यावृत्तो
भाव उत्पन्न उच्यते । यदा सैव व्यावृत्तिर्व्यावृत्त्यन्तरव्यवच्छे
देन व्यतिरिक्तोच्यते भावस्योत्पत्तिरिति तदा कल्पितेन भेदेन
स्वभावभूतधर्मेण विशिष्टः स्वभावो हेतुः । तथा भिन्नविशेष
37 णस्य प्रयोगः--यत्कृतकं तदनित्यं यथा घटः, कृतकश्च शब्दः ।
ननु चित्रगुरिति भिन्नविशेषणस्य प्रयोगः, यथा चात्र चित्र
गोशब्दे भिन्नशेषणवाचकोऽस्ति न तथा कृतकशब्दे भिन्न
विशेषणवाचकं किमप्यस्ति । तत्कथं भिन्नविशेषणस्योदाहर
णमिति चेदुच्यते--अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः
कृतक
इत्युच्यते । ततः कृतकशब्दः परव्यापारसापेक्षं स्वभावं
प्रकृत्यैव वदन् भिन्नविशेषणमेवाह ॥


प्रयुक्तभिन्नविशेषणस्य स्वभावस्य प्रयोगः--यः प्रत्यय
भेदभेदी स कृतकः, यथा धूमः, प्रत्ययभेदभेदी च शब्दः ।
प्रत्ययः कारणं, तस्य भेदस्तेन भेत्तुं शीलं यस्य स प्रत्ययभेद
भेदी । कारणमहत्त्वेन महत्त्वं कारणाल्पत्वेनाल्पत्वं यस्येत्यर्थः ।
प्रत्ययभेदभेदिशब्दस्य भिन्नविशेषणवाचकस्यात्र प्रयुक्तत्वात्
प्रयुक्तभिन्नविशेषणोऽयम् । स्वभावहेतोः नानाप्रभेददर्शनं च
व्यामोहनिवृत्तये धर्मभेदकल्पनयापि स्वभावहेतुरेव 133प्रयुज्यत
इति 134प्रतिपादयितुम् ।


स्वभावहेतोर्वैधर्म्यवान् प्रयोगो यथा--यद्यदाऽनन्त
रानवस्थायि न भवति न तत्तदा विनश्वररूपं, यथाऽऽका
शम् । विनश्वररूपं च रूपादिकमुदयकाले । व्यतिरेकप्रयोगे
साधनाभावेन साध्याभावस्य व्याप्तत्वात् साध्याभावः साध
38 नाभावे नियतो भवतीति बोद्धव्यम् । तथाऽपरोऽपि वैधर्म्यवान्
प्रयोगः--यत्र क्षणिकत्वं नास्ति तत्र सत्त्वमपि नास्ति, यथा
गगनारविन्दे । संश्च शब्दः । तथा यत्रानित्यत्वं निवृत्तं
तत्रोत्पत्तिमत्त्वमपि, यथा कूर्मरोम्णि । उत्पत्तिमांश्च शब्दः ।
यत्रानित्यत्वं निवृत्तं तत्र कृतकत्वमपि, यथा शशशृङ्गे । कृतकश्च
शब्दः । यत्र कृतकत्वं नास्ति तत्र प्रत्ययभेदभेदित्वमपि नास्ति,
यथा गगने । प्रत्ययभेदभेदी च शब्द इति ॥


कार्यहेतोः साधर्म्यवान् प्रयोगो यथा--यत्र यत्र धूम
स्तत्रतत्राग्निः, यथा महानसे, धूमश्चात्र
। कार्यहेतुरपि प्रत्यक्षा
नुपलम्भाभ्यां सिद्ध एव कार्यकारणभावे सति कारणे
साध्ये प्रयोक्तव्यः । वैधर्म्यप्रयोगो यथा--असत्यग्नौ न भव
त्येव धूमः
यथा--महाह्रदे । अस्ति चेह धूम इति । अनुपलब्धेः
साधर्म्यवान् प्रयोगोऽवयविनिराकरणाय यथा--यद्यत्रोपल
ब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासद्व्यवहारयोग्यम्, यथा
नरशिरसि शृङ्गम् । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तः परा
भिमतोऽवयवी घटशब्दवाच्येषु कपालेषु । अनुपलब्धेर्वै
धर्म्यवान् प्रयोगो यथा--यत्सदुपलब्धिलक्षणप्राप्तं तदुपल
भ्यत एव, यथा 135नीलादिविशेषः । नेह उपलब्धिलक्षणप्राप्तस्य
सत उपलब्धिर्घटस्येति
। सर्वत्र साधर्म्यवति साधन
39 वाक्ये साध्येन136 साधनं व्याप्तम् । वैधर्म्यवति पुनः137
साधनवाक्ये साधनाभावेन साध्याभावो व्याप्त इति प्रति
पत्तव्यम् । साधनस्य च साध्ये नियतत्वकथनं साध्या
भावस्य साधनाभावे नियतत्वकथनं नाम व्याप्तिरभिधीयते ।
ततः प्रमाणेन व्याप्तिसिद्धौ सत्यां नेदं क्वापि शङ्कनीयं साधनं
च स्यात्, साध्यं च तत्र धर्मिणि न 138स्यादिति । यत्र
प्रमाणेन सर्वोपसंहारवती व्याप्तिरेव न सिद्धा, तत्र शङ्काप्रस
रोऽनिवार्यः । यथेश्वर 139सिद्धौ कार्यत्वानुमाने । तथा
हि तेषां साधनोपन्यासः । इहान्यः सर्वज्ञो भगवान्
भवतु वा मा भूत्, ईश्वरः पुनस्सर्वज्ञः शक्यते साधयितुम् ।
तथा हि, लोके *त्रयः खलु*140 भावाः केचिन्निश्चितकर्तृकाः,
यथा घटादयः । केचिन्निश्चितकर्तृनिवृत्तयः, यथा व्योमादयः ।
अन्ये पुनः सन्दिग्धकर्तृकाः, यथा क्षित्यादयः । न पुनरेते
भ्योऽन्यः प्रकारोऽस्ति । तत्र ये दृश्यमानोत्पत्तयो वनस्पत्या
दयो ये च चिरोत्पन्ना विश्वम्भरादयः ते सर्वे सन्दिग्धकर्तृ
त्वेन व्यवतिष्ठमाना बुद्धिमत्कर्तृकाः कार्यत्वात्, 141घटादिवत् ।
नायमसिद्धो हेतुः, कार्यत्वस्य सर्वेषां प्रमाणसिद्धत्वात् ।
नापि विरुद्धः, सपक्षे भावात् । न चानैकान्तः, साध्यविपर्यये
बाधकप्रमाणसद्भावात् । तथाहि--कार्यं 142तावत् बुद्धिमतः
40 कुम्भकारादुपजायमानं भूयोदर्शनसहायेन मानसप्रत्यक्षेणो
पलब्धम् । तद्यदि बुद्धिमन्तरेणापि स्यात् तदानीं बुद्धिमतः
सकाशात्कदाचिदपि नोपजायेत । 143कारणाभावे कार्यस्य
सकृदप्युत्पादायोगात् । तस्मान्नेदं क्वापि शङ्कनीयं कार्यं च
स्यात् न बुद्धिमद्धेतुकमिति । अत्रेदमभिधीयते--साधनं
खलु सर्वत्र साध्यसाधनयोः सर्वोपसंहारेण प्रमाणेन व्याप्तौ
सिद्धायां साध्यं गमयेदिति सर्ववादिसम्मतम् । तत्र यदि दृश्य
शरीरविशिष्टेन बुद्धिमता व्याप्तिर्गृह्यते तदा तथाभूतसाध्यम
न्तरेणापि जायमाने तृणादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादि
वत् साधारणानैकान्तिकोऽयं हेतुः । तृणादयः पक्षीकृता
इत्यपि न वक्तव्यम् । न हि व्यभिचारविषय एव पक्षो भवि
तुमर्हति सन्दिग्धे हेतुवचनात् 144व्यक्तो हेतोरनाश्रय
इति न्यायात् । अथाशक्यारोहणेऽपि पर्वते दहनमन्तरेण च
धूमदर्शनात्, एवं धूमेऽपि व्यभिचारो वक्तुं सुलभ एव । तन्न ।
अशक्यारोहणत्वेन पर्वते दहनस्य द्रष्टुमशक्यत्वात् युक्तं तत्र
सन्दिग्धविषयत्वम् । प्रस्तुते तु दृश्यशरीरविशिष्टेन बुद्धि
मता व्याप्तौ गृह्ममाणायां दृश्यानुपलम्भेन बुद्धिमतो बाधो
भवतीति युक्तम् । अथ दृश्यशरीरेण बुद्धिमन्मात्रेण वा
व्याप्तिरवगम्यते तदा अदृश्यस्य बुद्धिमन्मात्रस्य वा साध्यस्य
दृश्यानुपलम्भेन व्यतिरेकासिद्धेः सन्दिग्धविपक्षव्यावृत्ति
41 कोऽयं हेतुः । साध्याभावप्रयुक्तस्य साधानाभावस्या काशादाव145
सिद्धत्वेन व्याप्तेरभावात् । तथा चोक्तम् ज्ञानश्रीमित्रपादैः146

कार्यत्वस्य विपक्षवृत्तिहतये सम्भाव्यतेऽतीन्द्रियः

कर्ता चेद्व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति ।

दृश्योऽथ व्यतिरेकसिद्धिमनसा कर्ता समाश्रीयते

147तद्योगेन विना तृणादिकमिति व्यक्तं विपक्षेक्षणम् ॥

यच्च त्रिलोचनेनोक्तम्--यथा स्वाभाविकः सम्बन्धो धूमा
दीनां वह्न्यादिभिस्सह तथा *कार्यत्वस्य बुद्धिमता सार्धम्,**148
तदुपाधेरनुपलभ्यमानत्वात्, क्वचिद्व्यभिचारस्यादर्शनात्

इति । तन्न युक्तम् । यतोऽर्थान्तरं किञ्चिदपेक्षणीयमुपाधि
शब्देनाभिधीयते । न चार्थान्तरमवश्यं दृश्यं स्यात् । अदृश्यमपि
देशकालस्वभावविप्रकृष्टं सम्भाव्यते । अतो धूमस्य दहनेन
सह सम्बन्धे भविष्यत्युपाधिः । न चोपलभ्यत इति कथम
दर्शनमात्रेण नास्त्येवेत्युच्यते । यदप्युक्तं व्यभिचारस्याद
र्शनादिति साधनं, तदपि सन्दिग्धासिद्धम् । प्रत्ययान्तरवै
कल्येनाहत्य व्यभिचारस्यादर्शनेऽपि सर्वंत्र निषेद्धुमशक्य
त्वात् । न चैतावता प्रामाणिकलोकयात्रातिक्रमः । प्रामा
णिकैरेव साधकबाधकप्रमाणाभावे संशयस्य विहितत्वात् ।
42 नचैवं संशयेन सर्वत्राप्रवृत्तिप्रसङ्गः, प्रमाणादर्थ 149सन्देहाच्च
प्रवृत्तेरुपपत्तेः । यदप्युक्तं--यथाऽन्यत्वाविशेषेऽपि बौद्धानां
किञ्चिदेव वस्तु कार्यं स्यात्, किञ्चिदेव कारणं, न सर्वं, तथा
ममाप्यन्यत्वाविशेषेऽपि किञ्चिदेव धूमादिकं वस्तु स्वाभा
विकसम्बन्धेन सम्बद्धं न सर्वम्
इति । तन्न युक्तम् । यथा
धूमाख्यं वस्तु दहनायत्तमिति प्रमाणसिद्धं तथा किं स्वाभा
विकसम्बन्धोऽपि प्रमाणसिद्धः, येनैवमुच्यते । किञ्च स्वाभा
विकसम्बन्ध इति कोऽर्थः ? किं स्वतो भूतः, स्वहेतोर्वा भूतः,
अहेतुको वा इति त्रयो विकल्पाः । तत्र न तावदाद्यः पक्षः,
स्वात्मनि 150क्रियाविरोधात् । नापि द्वितीयः, तदुत्पत्तिसम्बन्ध
स्वीकारप्रसङ्गात् । अथाहेतुकः, तदा देशकालस्वभावनियमा
भावादतीवासङ्गः स्वभाविकसम्बन्धवादः । किञ्च साधर्म्येण
वैधर्म्येण वा दृष्टान्तमात्रमस्तीति व्याप्तिसिद्धिः । यदृच्छया
मिलितयोरपि करभगर्दभयोस्तथाभावप्रसङ्गात् । तस्मान्निदर्शनं
नाम दृष्टान्त उच्यते । स च151 गृहीत152विस्मृतप्रतिबन्धसाधक
प्रमाणस्मरणद्वारेणैव हेताबुपयुज्यते, न-स्वसन्निधिमात्रेण ।
तथाहि--न तावदाकाशे साध्याभावेन साधनाभावः प्रती
यते । आकाशे हि यथा बुद्धिमत्कारणनिवृत्तिस्तथा अचेतन
स्यापि कारणस्य निवृत्तिर्नास्त्येव । तत्कस्याभावप्रयुक्तकार्य
त्वाभावः प्रतीयतां, येन साध्याभावप्रयुक्तसाधनाभावव्यति
43 रेकः सिध्यतीति । नापि घटे कार्यत्वस्य बुद्धिमदन्वयदर्शना
दाकाशेऽपि *बुद्धिमदभावादेव 153कार्यत्वाभावो वक्तुं युज्यते,
यस्मादनयोस्तादात्म्यं तदुत्पत्तिरन्यो वा स्वाभाविकादिसम्बन्धः
पूर्वप्रमाणेन न प्रसाधितः स्यादित्युक्तम् ॥


किञ्चादर्शनमात्रेण व्यतिरेको न सिध्यति । तथा हि,
विपक्षे हेतुर्नोपलभ्यत इत्यनेन तदुपलम्भकप्रमाणनिवृत्ति
रुच्यते । प्रमाणं च प्रमेयस्य कार्यम्, नाकारणं विषय इति
न्यायात् । न च कार्यनिवृत्तौ कारणनिवृत्ति 154र्युज्यते, निर्धूम
स्यापि वह्ने 155र्भानात् । यदि पुनः प्रमाणसत्तया प्रमेयसत्ता
व्याप्ता स्यात् तदा युक्तमेवैतत् । केवलमियमेव व्याप्तिरसम्भा
विनी, सर्वस्य सर्वदर्शित्वप्रसङ्गात् । तस्मान्नादर्शनमात्रेण व्यति
रेकः सिध्यति । यथोक्तम्—

सर्वाऽदृष्टिश्च सन्दिग्धा स्वाऽदृष्टिर्व्यभिचारिणी ।

156भूजलान्तर्गतस्यापि बीजस्यासत्त्वदर्शनात् ॥ इति

यदपि वाचस्पतिराह--विशेषस्मृत्यपेक्ष एव संशयो भवति
ततो यथादर्शनमेव शङ्कितुमुचितम्
इति । अत्रोच्यते--नायं
न्यायः सार्वत्रिकः । तथा चाभ्युपगम्यापि ब्रूमः । तथा हि—
कार्यत्वधूमत्वयोः तादात्म्यतदुत्पत्तिसम्बन्ध157 वियोगित्वेन
44 साधारणेन धर्मेण प्रमेयत्वधूमत्वकार्यत्वादीनां तन्मतेनापि
सजातीयत्वम् । तत्र प्रमेयत्वस्य व्यभिचारदर्शनमेवान्यत्रापि
शङ्कामुपस्थापयतीति यथादर्शनमेवेदमाशङ्कितम् । अतः सन्दि
ग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदूषणं दुर्वारमेव । एतच्च सद्दूषण
मेव । अतो यदनेनोक्तम्--नायं हेतुदोषः, अतो न परिहर्तव्यः,
तस्य चोपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानम्
इति ।
तदिदानीं स्वमतेनैवानेन वादिना निरनुयोज्यानुयोगलक्षणेन
निग्रहस्थानेनात्मा 158बाधित इत्युपेक्षणीयोऽयं देवानां
प्रियः ॥


*ननु यदि दृश्याग्निधूमसामान्ययोरिव दृश्यात्मनोरेव
कार्यकारणसामान्ययोः प्रत्यक्षानुपलम्भतो व्याप्तिस्तदा 159सन्ता
नान्तरानुमानं न स्यात्, परचित्तस्यादृश्यात्मकतया व्याप्ति
ग्रहणकालेऽनन्तर्भावादिति चेन्न । स्वसंवेदनं हि तत्र व्याप्ति
ग्राहकम् । 160स्वसंवेदनमात्रापेक्षया परचित्तस्यापि दृश्यत्वात् ।
न चैवं व्यावहारिकेन्द्रियप्रत्यक्षमात्रबुद्धिमन्मात्रं जठरचित्रसा
धारणं वह्निमात्रं वा गोचरो युज्यते, येनास्यापि दृश्यता स्यात् ।
तस्मात् दृश्येनैव वह्निना धूमस्य प्रत्यक्षानुपलम्भाभ्यां
व्याप्तिरिति न्यायः ॥*161


45

किञ्च यदि बुद्धिमन्मात्रपूर्वकत्वमनेन साध्यते, तदा
सिद्धसाधनतादूषणं साधनस्य । अथ एको नित्यः सर्वज्ञ इत्या
दिविशेषणविशिष्टबुद्धिमत्पूर्वकत्वं साध्यते, तदा एवं विशे
षणविशिष्टेन साध्येन सह कार्यत्वस्य साधनस्य दृष्टान्तध
र्मिणि प्रमाणेन व्याप्तेरसिद्धेरनैकान्तिकत्वम् । अथ सामा
न्येन व्याप्तिमादाय विशेषस्य पक्षधर्मताबलात् सिद्धिरुच्यते ?
तन्न युक्तम् । येन साध्यगतेन विशेषणेन विना हेतोर्वृत्ति
र्धर्मिणि न घटते, तस्य विशेषस्य पक्षधर्मबलाद्युक्ता सिद्धिः ।
यथा धूमात् पर्वतदेशवृत्तित्वस्य दहनधर्मस्य, न तु तार्णत्वा
दीनां विशेषाणाम् । तार्णतामन्तरेणापि पर्वते धूमदर्शनात् ।
तद्वत् बुद्धिमतोऽपि शरीरादिवृत्तित्वं यदि सिध्यति, सिध्यतु ।
न पुनरत्यन्तविलक्षणं सर्वज्ञत्वम् । असर्वज्ञत्वेऽपि कार्य
त्वस्य सम्भवात् । उपादानाद्यभिज्ञत्वादपि न सर्वज्ञत्व
सिद्धिः । एकत्वसिद्धौ सिध्यत्येतत् । न चैकत्वं सिद्धम् ।
अनेककर्तृपूर्वकत्वेऽपि कार्यत्वस्य सम्भवात् । यथाऽनेककीटि
कानिष्पादितः शक्रमूर्धा । अथ शक्रमूर्ध्नोऽपीश्वरपूर्वकत्वं
साध्यं, तर्हि घटस्यापीश्वरपूर्वकत्वसिद्धौ कुतो दृष्टान्तत्वम् ?
अथ कुम्भकारस्य 162कर्तृत्वं दृष्टं कथमपाक्रियते ? कीटकादीनां
च हेतुत्वं दृष्टं तदपि कथं वार्यते ? नापि बहूनां कारणत्वे
46 163विप्रतिपत्तिसम्भावना, दृष्टत्वादेवेति । 2तस्मात् साध्यसा
धनयोः सर्वोपसंहारवती व्याप्तिर्दृष्टान्तधर्मिणि प्रमाणेनावश्यं
दर्शयितव्येति स्थितम्2164 । किञ्च नित्यैकसर्वज्ञे बुद्धिमति साध्ये
विरुद्धोऽप्येषः । अनित्यानेकासर्वज्ञेन बुद्धिमता व्याप्तत्वात्
कार्यत्वस्य । तथा हि, साध्यविपर्ययसाधनादिह विरुद्ध
उच्यते । अयं च साध्यविपरीतं a साधयतीत्यास्तां तावत्
प्रस्तावायातेश्वरदूषणोद्भावनानिबन्धकरणम्*165


ननु साधर्म्यवति साधनवाक्ये अन्वय एवोक्तः न
तु व्यतिरेकः । वैधर्म्यवति च व्यतिरेक एवोक्तः न त्वन्वयः ।
तत्कथमाभ्यां त्रिरूपं लिङ्गं कथ्यत इति चेत्, नैव दोषः ।
यस्मात् साधर्म्यवति च साधनवाक्ये उपन्यस्ते सामर्थ्यादेव
व्यतिरेकोऽवगम्यते । व्यतिरेकागृहीतौ च साध्याभावेऽपि
न साधनाभाव इति विपर्ययः सम्भावयितव्यः । एवं चान्व
यस्यैवाभावः स्यात् । सत्यपि साधने साध्याभावादिति साम
र्थ्यम् । तथा वैधर्म्यवति साधनवाक्ये उपन्यस्ते सामर्थ्यादेवा
न्वयोऽवगम्यते, अन्वयागृहीतौ हि साधनं च स्यात् साध्यं च
न भवेदिति विपर्ययः सम्भावयितव्यः । एवं च व्यतिरेक एव
न भवेत् । साध्याभावेऽपि साधनस्य166 भावादिति सामर्थ्यम् ।
तस्मात् द्वावपि प्रयोगौ त्रिरूपलिङ्गप्रकाशकावित्यदोषः ॥


47

सम्प्रति साध्यसाधनयोर्व्याप्तिः यत्र धर्मिणि ग्रही
तव्या, येन च प्रमाणेन, तदुभयं सुखावबोधार्थं कथ्यते—
स्वभावहेतोः सत्त्वलक्षणस्य क्षणिकत्वेन व्याप्तिः साध्यधर्मि
ण्येव ग्रहीतव्येति केचित् । तेषामन्तर्व्याप्तिपक्षोऽभिमतः ।
प्रसङ्गप्रसङ्गविपर्ययाभ्यां दृष्टान्तधर्मिणि घटादौ व्याप्तिर्ग्रहीत
व्येत्यन्ये । तेषां बहिर्व्याप्तिपक्षोऽभिमतः । सत्त्वादन्येषां
स्वभावहेतूनां कार्यहेतूनामनुपलम्भहेतूनां च दृष्टान्त एव
व्याप्तिर्ग्रहीतव्या । तत्र शिंशपात्वस्य वृक्षत्वव्यवहारे साध्ये
दृष्टान्ते प्रत्यक्षानुपलम्भाम्यां व्याप्तिर्ग्राह्या । सत्वक्षणिक
त्वयोस्तु प्रसङ्गप्रसङ्गविपर्ययाभ्यां प्रमाणाभ्यां, साध्यविपर्यय
बाधकप्रमाणेन वा क्रमयौगपद्यनिवृत्तिलक्षणेन स्वसंवेदन
सामर्थ्यसिद्धेर्विकल्पसिद्धेर्वा वस्तुत्वावस्तुत्वाभ्यां सन्दिह्यमाने
विपक्षे धर्मिणि कार्यहेतोर्धूमादेर्वह्न्यादिना महानसादौ दृष्टा
न्तधर्मिणि त्रिविधप्रत्यक्षानुपलम्भतः पञ्चविधप्रत्यक्षानुपल
म्भतो वा व्याप्तिर्ग्रहीतव्या । अनुपलम्भस्य तु असद्व्यवहार
योग्यत्वेन सह व्याप्तिः प्रत्यक्षेणैव । अन्येषां तु स्वभावहेतूनां
कार्यहेतूनां वा केषाञ्चित्, 167यथास्वभावं प्रमाणेनोन्नीय 168ग्रही
तव्येति ॥


व्याप्त्यनिश्चये हेतोरनैकान्तिको दोषः । स च त्रिविधः—
असाधारणानैकान्तिकः साधारणानैकान्तिकः सन्दिग्धविपक्ष
48 व्यावृत्तिकश्चेति । तत्र असाधारणानैकान्तिको यथा--सात्मकं
जीवच्छरीरम्, प्राणादिमत्त्वात् अपरजीवच्छरीरवत् घटवत् ।
अयं हेतुरपरजीवच्छरीरे आत्मना व्याप्त इति न निश्चितः । घटे
च विपक्षे आत्मनोऽभावान्निवृत्त इति न निश्चितः । धर्मिणि
तु जीवच्छरीरे विद्यत इति असाधारणानैकान्तिक उच्यते ।
अपरश्चासाधारणो यथा--अनित्यश्शब्दः श्रावणत्वात्, घट
वत्, आकाशवदिति । साधारणानैकान्तिको कथा--नित्यः
शब्दः प्रमेयत्वात्, घटवत् आकाशवत् । सन्दिग्धविपक्षव्या
वृत्तिको यथा--सः श्यामस्तत्पुत्रत्वात्, परिदृश्यमानतत्पुत्र
वदिति ॥


यदुक्तं प्राक्, सत्त्वस्य क्षणिकत्वेन सह व्याप्तिः
प्रसङ्गप्रसङ्गविपर्ययाभ्यां ग्रहीतव्येति, तत्र कोऽयं प्रसङ्गो
नाम ? प्रमाणप्रसिद्धव्याप्तिकेन वाक्येन परस्यानिष्टत्वापाद
नाय प्रसञ्जनं प्रसङ्गः169 । यथा सामान्यस्य एकस्य अनेक
वृत्तित्वाभ्युपगमे अनेकत्वप्रसञ्जनम् । तथा हि--यदनेकवृत्ति
तदनेकं यथा अनेकभाजनगतं तालफलम् । अनेकवृत्ति च
सामान्यम् । तस्मादनेनाप्यनेकेन भवितव्यमिति प्रसङ्गः ।
अथानेकत्वं नेष्यते, तदाऽनेक 170वृत्तित्वं च मा स्वीकुर्वीथाः ।
49 ननु यद्येतत् प्रसङ्गाख्यं साधनं 171प्रमाणं न भवति त्रैरूप्या
भावात्
कथमस्योपन्यास इति, व्याप्तिस्मरणार्थं व्याप्यैक
देशकथनवदिति । यदुक्तम्--प्रसङ्गो द्वयसम्बन्धादे172 का
भावेऽन्यहानये
इति । अस्यायमर्थः--व्याप्यव्यापकयोः सम्बन्धे
सति यदि व्यापकं नेष्यते तदा व्याप्यमपि नेष्यताम् । अथ
व्याप्यमिष्यते तदा व्यापकमपीष्यतामिति ॥


वादिना साधन उपन्यस्ते प्रतिवादिना तत्र दूषणं वक्तव्य
मिति न्यायः । असिद्धविरुद्धानैकान्तिकानामन्यतमस्यो
द्भावनं दूषणम् । यथोक्तम्--दूषणानि न्यूनताद्युक्तिः इति ।
नन्वेषामेवोद्भावनं यदि दूषणं, क्व तर्हि वैयर्थ्यांसामर्थ्याति
प्रसङ्गादीनामन्तर्भावः ? अत्रैव त्रिषु । तत्र वैयर्थ्यं तावद
सिद्धेऽन्तर्भवति । सन्दिग्धसाध्यधर्मो हि हेतुरुच्यते । वैयर्थ्यं
तु यत्रोपन्यस्यते तत्र सन्दिग्धसाध्यधर्मकत्वं हेतोर्लक्षणं हेतौ
न सम्भवतीति असिद्ध उच्यते । हेतोर्लक्षणस्यासिद्धेः
यदुक्तम्--सन्दिग्धे हेतुवचनात् 173व्यक्तो हेतोरनाश्रयः
इति । असामर्थ्यं तु स्वरूपासिद्धावन्तर्भवति । न हि हेतोः
सामर्थ्यं नाम हेतुस्वरूपादन्यत् । हेतोरवस्तुत्वप्रसङ्गात् ।
अतिप्रसङ्गश्चानैकान्तिकेऽन्तर्भाव्यः, साध्य4धर्म4174मतिक्रम्य विपक्षे
ऽपि प्रसक्तेरिति ॥


50

यत्र तु धर्मिणि साध्यं साधयितुमारब्धं तस्य धर्मिणः
प्रमाणवाधितत्वे आश्रयासिद्धिर्हेतोर्दूषणम् । यथा सर्वगत
आत्मा सर्वत्रोपलभ्यमानगुणत्वात् । तदिह बौद्धस्यात्मैव न
सिद्धः, किं पुनरस्य सर्वदेशोपलभ्यमानगुणत्वं सेत्स्यति ।
तथा हि, तैर्थिकाः खल्वेवं 175ब्रुवन्ति । शरीरादिवस्तुव्यतिरिक्तं
शुभाशुभकर्मकर्तृतत्फलभोक्तृनित्यव्यापिरूपमात्माख्यं द्रव्या
न्तरमस्ति । तेन च यदि नाम विश्वं व्याप्तं तदापि यदु
पभोगायतनतया 2परेण2176 परिगृहीतं जीवच्छरीरं तदेव सात्मक
मभिधीयत इति । एतच्चायुक्तम् । आत्मनः सिद्धये प्रमाणाभा
वात् । न हि प्रत्यक्षेण आत्मा प्रतीयते । चक्षुरादिज्ञानानां
रूपादिविषयपञ्चकनियतत्वात् । मानसस्याप्यहंप्रत्ययस्य शरी
रादिविषयत्वात् गौरोऽहं स्थूलोऽहं गच्छाम्यह 3मित्याद्या
कारेण3177 अहं 4प्रत्यय4178 उत्पद्यते । यदाह अलङ्कारकारः—

अहमित्यपि यज्ञानं तच्छरीरेन्द्रि 179यांशवित् ।

अहं काणस्सुखी गौरः समानाधारवेदनात् ॥

न चास्य शरीरव्यतिरिक्तस्य180 तद्धर्मो गौरत्वं स्थूलत्वं वा । न
च विभोरमूर्तस्य मूर्तद्रव्यानुविधायिनी गमनक्रिया युक्तिमती ।
न चायं माणवके सिंहप्रत्यय इव भाक्तो युक्तः, स्खलद्वृत्ति
51 प्रसङ्गात् । नाप्यनुमानेन प्रतीयते, कार्यस्वभावलिङ्गाभावात् ।
नित्यपरोक्षेण 181देशकालाकारव्यतिरेकविकलेनात्मना सह कस्य
चिदन्वयव्यतिरेकात्मककार्यकारणभावासिद्धेः कार्यलिङ्गायोगात् ।
धर्मिसत्तायाश्चासिद्धत्वात् स्वभावलिङ्गानुपपत्तेः । न चान्य
ल्लिङ्गमस्ति । अन्येनापि लिङ्गेन भवता साध्यव्याप्तेन भवितव्यम् ।
तस्य च सर्वथाऽसिद्धेः कथं तेन व्याप्तत्वं लिङ्गस्य निश्चीयताम् ?
182किञ्च, किमयमात्मा बोधरूपः, अबोधरूपो वा ? यदि बोधरूपो
नित्यश्च तदा चक्षुरादिवैफल्यप्रसङ्गो दुर्वारः । अथानित्यो
बोधरूपस्तदा ज्ञानस्यैवात्मेति नाम कृतम्, न विप्रतिपत्तिः ।
अथाबोधरूपो दृश्यश्च तदाऽनुपलम्भोऽस्य सत्तां न क्षमत इति
निरात्मसिद्धिरनवद्या । तस्मात् सर्वं संस्कृतं वस्तु निरात्मक
मिति ॥


स्वरूपासिद्ध्याऽप्यसिद्धो हेत्वाभासो भवति । यथा
अनित्यश्शब्दः चाक्षुषत्वादिति । ननु व्याप्त्यसिद्धिरपि दूषणम्,
तेनापि परेष्टार्थासिद्धेः । तत्किं नोच्यते ? अनैकान्तिक
दूषणेनैव गतार्थत्वात् पृथङ्नोक्तम् । तथा हि--न स्वलक्ष
णाभ्यां व्याप्तिर्ग्रहीतुं शक्या । स्वलक्षणस्य देशकालाकार
नियतत्वेनाप्यन्यत्रानुगमाभावात् । अपि तु साध्यसाधन
सामान्याभ्यामव व्याप्तिर्ग्रहीतव्या । तत्र च यदि साधनं
52 साध्येन व्याप्तं न प्रतीयते तदा साधनं च स्यात् साध्यं च
न स्यादित्यनैकान्तिकमेव भवति ॥


1ननु सामान्यं चेदप्रसिद्धं1183, तत्कथं साध्यसाधनसामा
न्याभ्यां सर्वोपसंहारवती व्याप्तिः प्रमाणेन गृह्यते ? नैष दोषः ।
यतो यादृशं सामान्यं परैः परिकल्प्यते तादृशं प्रमाणेन
वाध्यत इति नाभ्युपेयते तत्सौगतैः । नतु व्यवहारप्रसिद्ध
मन्यव्यावृत्ति184 लक्षणमपोहसंज्ञितमपि । ननु कोऽयमपोहो
नाम ? यथा185 ध्यावसायं वाह्य एव घटादिरर्थः अपोह इत्यभि
धीयते, अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा । यथा
प्रतिभासं बुद्ध्याकारो वाऽपोहः, अपोह्यते पृथक् क्रियतेऽ
स्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा । यथातत्त्वं निवृत्ति
मात्रं प्रसज्यरूपो वाऽपोहः, अपोहनमपोह इति कृत्वा । ननु
यथाध्यवसायं विधिरेव, तर्हि केवलो विषय इत्यागतम् । न
186अपोहविशिष्टो विधिरभिप्रेतः । यत्तु गोप्रतीतौ न गवात्मा
अगवात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवा
दिनां मतम् । अन्यापोहप्रतिपत्तौ च सामर्थ्यादन्यापोढो गवा
दिरर्थोऽवधार्यत इति187 निवृत्त्यपोहवादिनां मतम् । तन्न युक्तम्,
व्यवहारकाले प्रथमं वर्तमानस्यापि 6प्रतीति6188 क्रमादर्शनात् ।
53 न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति ।
अपोहं वा प्रतिपद्य पश्चा1दन्यापोढ1189मवगच्छति । तस्मात् गो
प्रतिपत्तिरेव अन्यापोढप्रतिपत्तिरुच्यते । यद्यपि गोशब्दादुच्चरि
तादन्यापोढशब्दानुल्लेख उक्तः, तथाऽपि नाप्रतिपत्तिरेव विशे
षणभूतस्यान्यापोहस्य । अगवापोढ एव वस्तुनि गोशब्दस्य
षङ्केतितत्वात् । यथा नीलोत्पलसङ्केतितेन्दीवरशब्दात् उत्पल
प्रतीतौ तत्काल एव नीलिमस्फुरणमनिवार्यं, तथा गोशब्दा
दप्यगवापोढ एव वस्तुनि सङ्केतितात् गोप्रतीतौ 190तुल्यकालमेव
विशेषणत्वात् अपोहस्य अगवापोहस्फुरणमनिवार्यम् । यथा
च प्रत्यक्षस्य प्रसज्यप्रतिषेधरूपाभावग्रहणमभावविकल्पोत्पादन
शक्तिरेव, तथा 191विधिविकल्पानामपि तदनुरूपानुष्ठानशक्तिरेवा
भावग्रहण192 मभिधीयते । अन्यथा यदि गोशब्दादर्थप्रति
पत्तिकाले नावगतः परापोहः, कथं तर्हि अन्यपरिहारेण प्रति
पत्ता गवि वर्तताम् । ततो गां बधानेति चोदितोऽश्वानपि
बध्नीयादिति । तस्मात् स्थितमेतत्, बाह्यार्थोंऽध्यवसायादेव
शब्दवाच्ये व्यवस्थाप्यते; न तु स्वलक्षणपरिस्फूर्त्या; प्रत्यक्ष
वहेशकालाकारावस्थानियतप्रव्यक्तस्वलक्षणास्फुरणात् । यदाह
न्यायपरमेश्वरः--


54

शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् । अर्थस्य
दृष्टाविव
इति ॥


किञ्च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रति
पत्तेः विधिनिषेधयोरयोगः । तस्य हि सद्भावे अस्तीति व्यर्थम् ।
नास्तीत्यसमर्थम् । *असद्भावे तु नास्तीति व्यर्थम् ।
अस्तीत्यसमर्थम् । *193अस्ति चास्त्यादिपदप्रयोगः । तस्मात् पर
मार्थतो न स्वलक्षणं शब्दैरभिधीयत इति स्थितम् ॥


ननु यथा प्रत्यक्षेण घटस्वरूपे गृहीतेऽपि पश्चात्तत्रैव
क्षणिकत्वादिनिश्चयार्थं प्रमाणान्तरं प्रवर्तते, तथा वृक्षशब्देन
वृक्षत्वांशे प्रतिपादिते सत्वांशनिश्चयार्थमेव सदादिपदप्रयोगो
भविष्यतीति चेत्, न । प्रत्यक्षस्यानिश्चयात्मकत्वादनभ्यस्तस्वरूप
विषये प्रमाणान्तरं 194वर्तत इति युक्तम् । विकल्पस्य तु स्वयं
निश्चयात्मकत्वात्, गृहीते स्वरूपे किं 195प्रमाणान्तरेण परं
ग्रहीतव्यमिति ॥


यादृशं सामान्यं परैः परिकल्प्यते अनेकव्यक्तिसमवेतं
दृश्यमेकं नित्यं तादृशस्य सत्तासाधकं न किञ्चित्प्रमाणमुप
लभामहे । ततः सदिति व्यवस्थापयितुं तन्न युक्तम् । तथा
हि--गवादिव्यक्त्यनुभवकाले वर्णसंस्थानाद्यात्मकं व्यक्तिस्व
55 रूपमपहाय नान्यत् किञ्चिदेकमनुयायि प्रत्यक्षे भासते ।
तादृशस्यानुभवाभावात् । नापि स्वलक्षणानुभवानन्तरमेकाकार
परामर्शप्रत्ययात् अन्यथाऽनुपपत्त्या सामान्यपरिकल्पनं युक्ति
सङ्गतम् । व्यक्तिभ्य एव स्वहेतुदत्तशक्तिभ्योऽस्य प्रत्ययस्य
परम्परयोत्पत्तेः । भेदेऽपि काश्चिदेव व्यक्तयोऽस्य जननाय
समर्थाः, न सर्वाः, इत्यत्र कार्यकारणभावस्य प्रत्यक्षानुपलम्भाभ्यां
दृष्टस्यातिवर्तयितुमशक्यत्वात् । दृष्टं चेदं सामर्थ्यं भेदाविशेषेऽपि
कासाञ्चिदेव व्यक्तीनाम् । यथा ज्वरादिप्रशमने गुळूचीनिम्बादि
नाम् । यथोक्तम्—

*एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने*196

भेदेऽपि नियताः केचित्स्वभावेनेन्द्रियादिवत् ॥

इति । किञ्च 197सर्वगते विजातीयाद्व्यावृत्ते सत्यपि सामान्ये किं
भेदाविशेषेऽपि गोव्यक्तिष्वेव समवेतं तत् सामान्यं तत्रैव
चैकाकारां बुद्धिं जनयतीति प्रश्ने स्वभावेनैवेत्युत्तरं परस्य । तच्च
प्रमाणासङ्गतम् । अस्माकं तु स्वभावेनोत्तरं प्रमाण 198सिद्धत्वात्
a199 युक्तिसङ्गतभेव ॥


तथेदमपरं जातिसाधनाय साधनं परस्य । यत्
विशिष्टं ज्ञानं तत् विशेषणग्रहणनान्तरीयकम्, यथा दण्डि
56 ज्ञानम् । विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः ।
अत्रोच्यते--विशिष्टबुद्धेर्भिन्नविशेषणग्रहणनान्तरीयकत्वं साध्यं,
विशेषणमात्रानुभवनान्तरीयकत्वं वा । प्रथमपक्षे प्रत्यक्षबाधा ।
वस्तुग्राहिणि प्रत्यक्षे उभयप्रतिभासाभावात् । विशिष्टबुद्धित्वं
च सामान्यमित्यनैकान्तिको हेतुः स्यात्, भिन्नविशेषणग्रहण
मन्तरेणापि तस्य दर्शनात् । यथा स्वरूपवानयं घटः, गोत्व
सामान्यमिति वा । द्वितीयपक्षे तु सिद्धसाधनम्, स्वरूपवान्
घट इत्यादिवत् गोत्वादिजातिमान् पिण्ड इति परिकल्पित
1भेदमुपादाय1200 विशेषणविशेष्यभाव2स्येष्टत्वात्2201 । अगोव्यावृत्त्य
नुभवभावित्वात् गौरयमिति व्यवहारस्य । तदेवं a अतोऽपि
साधनान्न साभान्यसिद्धिरिति a202 । तदेवं परपरिकल्पित
सामान्यस्य विचारासहत्वात्, अतद्रूपपरावृत्तवस्तुमात्रमेव
सामान्यमपोहशब्दवाच्यं व्यवहाराङ्गं यथाध्यवसायमनवद्य
मिति स्थितम् । सामान्यस्य निषेधाय प्रयोगः पुनरेवं कर्तव्यः—
यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र असद्व्यवहार
विषयः, यथा तुरङ्गमोत्तमाङ्गे शृङ्गं, नोपलभ्यते चोपलब्धि
लक्षणप्राप्तं सामान्यं परिदृश्यमानासु व्यक्तिष्विति स्वभावा
नुपलब्धिः । नचासिद्धसम्भावना । वर्णसंस्थानलक्षणं व्यक्ति
स्वरूपमपहाय द्वितीयस्यानुयायिनो रूपस्य निपुणमपि निरू
प्यमाणस्य 203सर्वथा दर्शनाभावात् । नापि ज्ञानवद्दर्शना
57 भावेऽपि प्रत्यक्षसिद्धत्वमस्याभिधातुमुचितम् । ज्ञानं हि स्वसं
वेदनप्रमाणसिद्धम्, न तु चक्षुर्विज्ञानग्राह्यम् । इदं तु सामान्यं204
चक्षुर्विज्ञानग्राह्यमर्थधर्मत्वात् । प्रत्यक्षं च परैरिष्टमिति । a
तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात्, अतद्रूप
परावृत्तवस्तुमात्रमेव सामान्यमुक्तम् a205 । तस्मात् सर्वं संस्कृतं
वस्तु परपरिकल्पितसामान्येन शून्यमिति स्थितम् ॥


नापि केनचिद्वुद्धिमतोपरचितमित्यपि विज्ञेयम् । तथा
हि--अस्य जगतः कर्ता भवन् नित्यो वा भवेदनित्यो वा ।
तत्र न तावन्नित्यो युक्तः, नित्ये कर्तरि समर्थे सति सर्गस्थि
तिप्रलयानां नियमेन यौगपद्यप्रसङ्गात् । येन हि स्वरूपेण
स्थितिप्रलययोः स कर्ता तदस्य स्वरूपं सर्गकालेऽपि सन्निहित
मिति तदैव स्थितिप्रलयौ कुर्यात् । सहकारिविरहान्न करोतीति
चेत्, तदसत् । न हि नित्येन सहकारिणा कदाचिदप्ययं विर
हितः, सदा सन्निहितत्वात् । नाप्यनित्येन सहकारिणा विर
हितः, अनित्यसहकारिणोऽपि तदायत्तजन्मत्वात् । तत एकदा
सर्वकरणादिप्रसङ्गः ॥


ननु बुद्धिमत्त्वादीश्वरस्य नैष दोषः । बुद्धिशून्यो हि
स्वसत्तामात्रजन्यं कार्यमक्रमेणैव कुर्यात् । बुद्धिमांस्तु कर्त्त
मीशानोऽपि अनिच्छन्न करोतीति कस्तस्योपालम्भः ? उच्यते—
58 ता अपीच्छाः स्वसत्तामात्रनिबन्धनाः किं करोतीति स
एवास्योपालम्भः । अथ स्वरूपेण सामर्थ्ये सत्यपि एष एव तस्य
स्वभावः, यत्सहकारिलक्षणयाऽऽगन्तुकशक्त्या विना न करो
तीति चेत्, तर्हि माताऽपि सती वन्ध्या सा प्रकृत्यैवैतदपि
वक्तव्यं भवेद्भवतामिति यत्किञ्चिदेतत् ॥


नन्वेष एव कार्यस्वभावः, केवलात् समर्थादपि नोदेति,
सहकारिणमपेक्ष्यैव पश्चाद्भवति नास्योपालम्भ इति206 तन्न
युक्तम् । समर्थो हि सहकार्यपेक्षामनादृत्य बलादेव कार्यं
कुर्यात् । अन्यथा ह्यस्य207 असमर्थत्वप्रसङ्गात् । नापि नित्यः
क्रमेण कार्यकारीति युक्तम्, निरपेक्षत्वात् । यदाह दिङ्मण्डल
विख्यातकीर्तिर्धर्मकीर्तिः—

नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्न युज्यते ।

क्रियायामक्रियायां च कालयोः सदृशा208त्मनः ॥*209

इति । एतेन आत्मादीना 210मक्षणिकानां घटादीनां क्षणिकानां
च क्रमेण कार्यकरणं प्रत्युक्तम् । न चात्र प्रत्यक्षविरोधः,
प्रत्यक्षेणाक्षणिकस्य ग्रहणायोगात् । न हि क्षणिकं प्रत्यक्षम
क्षणिकमीक्षितुं क्षमते । अनेकक्षणव्यापारो ह्यक्षणिकः । स
कथमेकक्षणभाविना211 ध्यक्षेण ग्रहीतुं शक्यः । न हि प्रागूर्ध्वं
59 चावस्थानमधुना प्रकाशते । तस्याप्य212 धुनातनताप्रसङ्गात् ।
जन्मविनाशावधिप्रतिभासप्रसङ्गादिति नेदं प्रत्यक्षं पूर्वापर
कालव्याप्तमर्थं कञ्चिदपि ग्रहीतुमलम् । एतेन प्रत्यभिज्ञान
213स्याप्रत्यक्षत्वमाख्यातम् । साक्षात्कारि हि ज्ञानं प्रत्यक्षम् ।
न च प्राग214 वस्थमधुना साक्षात्कर्त्तव्यं, अपि तु स्मर्त्तव्यम् ।
न च स्मरणस्वरूपं प्रत्यक्षम् । अथ मतं भवेदिदं स्मरणं यदि
दानीन्तनमवस्थानं न साक्षात्कुर्यात्, तत्साक्षात्करणप्रवणं
कथमिदं स्मरणं नाम ? यदाह भट्टः—
पूर्व 215प्रमितमात्रे हि जायते स इति स्मृतिः ।

स एवायमितीयं तु प्रत्यभिज्ञाऽतिरेकिणी ॥

इति । स्मरणग्रहणस्वरूपं तर्हि प्रत्यभिज्ञानं स्यात्, न तु ग्रहण
स्वरूपमेव । स्मर्यमाणे ग्रहणायोगात्, गृह्यमाणे च स्मरणायो
गात् । न चैकस्य स्मरणग्रहणे सम्भवतः, परस्परविरोधात् ।
येन हि स्वरूपेण स्मरणं न तेन स्वरूपेण ग्रहणमित्यनुन्मत्तेन
शक्यते 216वक्तुम् । रूपान्तरेण चैकस्य स्मरणग्रहणे न स्याताम् ।
भावेऽपि प्रत्यक्षाप्रत्यक्षे स्याताम् । न तु स्मर्यमाणे प्रत्यक्षमेव,
प्रत्यक्षायोगात् । तस्मात् प्रत्यभिज्ञाप्रत्ययो भ्रान्त एव, निर्वि
षयत्वात् । प्रयोगश्चैवम्--यः प्रत्यभिज्ञाप्रत्ययः स तत्त्वतो
60 नैकालम्बनः, यथा लूनपुनर्जाततृणादिषु । प्रत्यभिज्ञाप्रत्ययश्चायं
तदेवेदं नीलादीतिप्रत्यय इति विरुद्धव्याप्तोपलब्धिः ।
एकत्वानेकत्वयोः परस्परविरोधात् 217तद्विषयकसंवेदनयोरपि
विरोधः । तेनैकालम्बनत्वविरुद्धेन अनेकालम्बनत्वेन पूर्वो
क्तया नीत्या प्रत्यभिज्ञाप्रत्ययो व्याप्त इति न प्रत्यभिज्ञानं
क्षणिकानुमानबाधकम् । न च केशादिष्वपि सामान्यालम्बन
तया एकालम्बनत्वम् । केशादिव्यक्तेरेव प्रत्यभिज्ञायमानत्वात् ।
सामान्ये प्रत्यभिज्ञायमाने तदेवेदं केशत्वादीति स्यात्, न
तदेवेदं केशादीति । अत एवैकालम्बनत्वे प्रत्यभिज्ञाप्रत्ययस्य
क्रमेतराभ्यामुत्पत्तिविरोधात् विरुद्धानैकान्तिकत्वे नाशङ्कनीये ।
न च प्रत्यभिज्ञानमेव तदवस्थापकम्, तस्यैव विचार्यमाणत्वात् ।
तस्मात् स्थितमेतत् नित्यः कर्ता नास्तीति । यदि नित्यः कर्ता
जगतो न कारणं, किमस्य तर्हि कारणं ? सत्वानां शुभाशुभाख्यं
कर्म । यथोक्तम्:—
सत्त्वलोकमथ भाजनलोकं

चित्तमेव रचयत्यतिचित्रम् ।

कर्मजं हि जगदुक्तमशेषं

कर्म चित्तमवधूय न चास्ति ॥

इति । वैभाषिकमाश्रित्य पुनर्भगवता सर्वज्ञेन चोक्तम्--


61
1आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्1218

संस्कृतं क्षणिकं सर्व 219मात्मशून्यमकर्तृकम् ॥ इति ।

ननु सर्वज्ञसिद्धौ हि तद्वचनं निदर्शनीकर्तुमुचितम् ।
सर्वज्ञसिद्धये किं 220प्रमाणमिति चेत् उच्यते । यो यः सादर
निरन्तरदीर्घकालाभ्यास 221कलितचेतोगुणः स सर्वः 222स्फुटी
भावयोग्यः, यथा युवत्याकारः कामिनः पुरुषस्य । यथो
क्ताभ्यासकलितचेतोगुणाश्चामी चतुरार्यंसत्यविषयाकारा इति
स्वभावहेतुः । न तावदाश्रयद्वारेण हेतुद्वारेण वासिद्धसम्भा
वना । सङ्कल्परूढानां चतुरार्यसत्यविषयाकाराणां धर्मिणां
चेतोगुणमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात् । न चैष विरुद्धः,
सपक्षे कामिन्याकारे सम्भवात् । न चानैकान्तिकः, अभ्या
सेन सहितचेतोगुणस्फुटप्रतिभासयोः कारणकार्ययोः कुम्भ
कारघटयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारण
भावसिद्धौ अभ्याससहितचेतोगुणत्वस्य साधनस्य स्फुटप्रति
भासकारणयोग्यतया व्याप्तिसिद्धेः । तथा हि--व्याप्त्यधिकरणे
कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्यास
सहितचेतोगुणात् पूर्वमनुपलब्धिः स्फुटाभत्वस्य, पश्चादभ्यास
संवेदनं, स्फुटाभसंवेदनमिति त्रिविधप्रत्यक्षानुपलम्भसाध्यः
62 कार्यकारणभावः स्फुटप्रतिभासाभ्यास 223सहितचित्ताकारयो
रित्युपपन्ना सर्वोपसंहारवती व्याप्तिः । अतोऽनैकान्तिकत्वाभावात्
अनवद्यो हेतुः ॥


नन्वनेन साधनेन चतुरार्यसत्याकाराणां साक्षात्करणात्
चतुरार्यसत्याकारसाक्षात्कारी विवक्षितस्सर्वज्ञः सिध्यति,
न त्वविशेषेण सर्वधर्मसाक्षात्कारी, ततस्तत्सिद्धये साधना
न्तरमभिधेयम् । उच्यते--यत्प्रमाणसंवादि निश्चितार्थं वचनं,
तत् साक्षात् पारंपर्येण वा तदर्थसाक्षात्कारिज्ञानपूर्वकं, यथा
दहनो दाहक इति वचनम् । प्रमाणसंवादिनिश्चितार्थं चेदं
वचनं, क्षणिकाः सर्वसंस्कारा इति अर्थतः कार्यहेतुः ।
नास्यासिद्धिः, सर्वधर्मक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थ
त्वात् । नापि विरुद्धः, सपक्षे भावात् । न चानैकान्तिकता,
वचनमात्रस्य संशयविपर्यासपूर्वंकत्वेऽपि प्रमाण संवदि224
निश्चितार्थस्य वचनस्य225 साक्षात् पारंपर्येण वा तदर्थसाक्षा
त्कारिज्ञानपूर्वकत्वेन प्रत्यक्षानुपलम्भाभ्या 226मुपलम्भात् ।
अन्यथा धूमादा 227वपि हेतुत्यागप्रसङ्गादशेषकार्यहेतूच्छेदप्रसङ्गः ॥


स्यादेतत् । अनेकभवपरम्परालक्षणेन दीर्घंकालेन
228भाव्यस्य सङ्कल्पारूढस्य स्फुटाभत्वं सम्भाव्यते । भवपरम्प
63 रासिद्धये तु किं प्रमाणम् ? उच्यते । यच्चित्तं तत् चित्तान्तरं
प्रतिसन्धत्ते, यथेदानीन्तनं चित्तम् । चित्तं च मरणकालभावीति
स्वभावहेतुः । न 229चार्हच्चरमचित्तेन व्यभिचारः । तस्यागममात्र
प्रतीतत्वात् निःक्लेशचित्तान्तरजननाद्वा हेतोः क्लेशे सति
विशेषापेक्षणादित्यनागतभवसिद्धिः । इह पूर्वजन्माभ्यासात्
तपोदानाध्ययनादौ सर्वसत्वानामभ्यासे प्रवृत्तिरिति प्रवादः ।
ततस्तत्सिद्धये प्रमाणमुच्यते--यच्चितं तत् चित्तान्तरपूर्वकं
यथेदानीन्तनं चित्तम् । चित्तं च जन्मसमयभावीत्यर्थतः
कार्यहेतुः ॥


ननु तत्त्वसाक्षात्करणान्मुक्तिः । तत्त्वं चैकमेव, यथोक्तम्—
मुक्तिस्तु शून्यतादृष्टिस्तदर्थाशेषभावना इति । तत्कथं
सर्वज्ञद्वैतं, बौद्धप्रभेदश्चेति ? नैष दोषः । यस्मात्सर्वमेतत्
भूतार्थे सत्त्वानवतारयितुं भगवता प्रतिपादितम् । तथा हि
वैभाषिकाणां मतम्—

अकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् ।

संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम् ॥ इति ॥

सौत्रान्तिकानां मतम्--ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रति
भासते, न बाह्योऽर्थः, जडस्य प्रकाशायोगात् । यथोक्तम्—
स्वाकारज्ञानजनका दृश्या नेन्द्रियगोचराः

इति । अलङ्कारकारेणाप्युक्तम्—
64
यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते ।

नचेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते ॥

ननु यदि प्रकाशमानं ज्ञानमेवेदं, तदाऽस्ति बाह्योऽर्थ इति
कुतः ? बाह्यार्थसिद्धिस्तु स्याद्व्यतिरेकतः । न हि सर्वत्र
सर्वदा नीलादय आकाराः प्रकाशन्ते । न चैतत् स्वोपादान
मात्र 230बलभावित्वे सति युज्यते । नियतविषये प्रवृत्त्ययोगात् ।
तस्मादस्ति किञ्चिदेषां समनन्तरप्रत्ययव्यतिरिक्तं कारणं, यद्ब
लेन क्वचित् कदाचित् भवन्तीति शक्यमवसातुम्, स एव
बाह्योऽर्थ इति, 231न पुनरसौ बाह्योऽर्थः अवयवी, गुणादयो
धर्माः द्रव्याश्रयिणः पराभिमताः, नवविधं द्रव्यं परमाणवो
वेति । तत्र न तावत् गुणादयः, द्रव्यनिषेधेनैव तेषां निषेधात् ।
न चासति समवायिनि द्रव्ये समवाय इति तद्दूषण 232मत्र
नाद्रियते । द्रव्यं च पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा
मन इति नवविधम् । तत्रात्मनिषेधायेदमपि साधनम्—
यत्कादाचित्कं ज्ञानं तत्कादाचित्ककारणपूर्वकम्, यथा सौदा
मिनीज्ञानम् । कादाचित्कं चेदमहंकारज्ञानमित्यर्थतः कार्यहेतुः ।
नायमसिद्धः, 233अहंकारे धर्मिणि 64-5ज्ञानत्वस्य प्रत्यक्षसिद्धत्वात् ।
नापि कादाचित्कविशेषणमसिद्धम्, सर्वदाऽहमिति
ज्ञानाभावात् । नापि विरुद्धः, सपक्षे दर्शंनात् । न चानैका
65 न्तिकः, धूमपावकयोरिव कादाचित्कज्ञानकादाचित्ककारणयोः
प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिद्धेः । 234कादाचित्कज्ञानस्य चाकादा
चित्ककारणादुत्पत्तौ कादाचित्ककारणादनुत्पत्तिप्रसङ्गः । अनियत
हेतुकतायां चाहेतुकताप्रसङ्गः, तथाऽप्यनैकान्तिकत्वे प्रसिद्ध
धूमादिहेतुरप्यनैकान्तिकः स्यात्, विशेषाभावात् । अपि चाहं235
कारस्य अकादाचित्ककारणपूर्वकत्वे सदैवोदयप्रसङ्गः । कारणस्य
कुर्वद्रूपत्वात्, अकुर्वतश्चोपचारतः का णत्वात्, कुर्वदकुर्वतो
रैक्याभावात् । भावे वा कुर्वतोऽप्यकुवद्रूपतापत्तिः, तत्स्वभाव
त्वात् । किञ्चाहंकारस्य अकादाचित्ककारणादुत्पादे युगपदे
वोत्पादप्रसङ्गः, अव्यग्रसामग्रीकत्वात् । नन्वहंकारस्यालम्बन
मात्मा न कारणमिति चेन्न । अकारणस्यालम्बनत्वायोगादति
प्रसदिति ॥


अथ किमाकाशं नाम किञ्चिद्वस्तुभूतमस्ति ? त नास्ति वा ?
नास्त्येवैतत् । यत्र हि सप्रतिघं द्रव्यमस्ति न तत्राकाशमवकाशं
वा ददाति । यत्र नास्ति तत्र तदभावादेवावकाशः सिद्ध इति
क्व वाऽऽकाशमवकाशं दद्यात् ? यस्मादवकाशप्रदमाकाशं
भण्यते
236 तस्मात् सत्यस्मिन् सर्वदा 237सर्वथा सर्वत्रावकाशः
स्यात् । न चैतदस्ति । तस्मान्नास्त्येवाकाशमिति प्रतीमः । एतच्च
वैमाषिकमतमपेक्ष्य दूषणमुक्तम् ॥


66

परैस्त्वाकाशं शब्दगुणकमिष्यते । तच्चैकमिति चेत् समा
नदेशत्वात् सर्वशब्दानां विभागेन श्रवणं न स्यात् । ततस्स
न्निहितदेश इव दूरदेशाभिमतोऽपि शब्दः श्रूयेत । न वान्योऽ
पीत्येकान्तः । दिक्कालयोश्चैकत्वात् पूर्वापरादिप्रत्ययानुपपत्तिः ।
एतेन नित्यस्यापि मनसोऽसम्भव एव । तथा हि--युगपज्
ञानानुत्पत्त्या मनोऽनुमीयते तद्वादिभिः । अनुभूयन्त एव
युगपद्वह्वनि ज्ञानानि नर्त्तकीदर्शनादौ । यदि पुनर्मनो नित्यं
स्यात्तदानीमेतानि ज्ञानानि न युज्यन्ते । तस्मान्नास्त्येव
मनोऽपि ॥


पृथिव्यादयोऽवशिष्यन्ते । ते चावयविपरमाणुभेदेन द्विधा
इष्यन्ते । तत्र योऽवयवी घटादिः परमाणुभिर्द्व्यणुकादि
क्रमेणारब्धः प्रसिद्धः तस्य उपलब्धिलक्षणप्राप्तस्यानुपलम्भो
बाधक इत्युक्तम् । यद्यवयवी नास्ति कथं तर्ह्ययमेकत्वेन प्रति
भासत इति चेत्—

भागा एव हि भासन्ते सन्निविष्टास्तथा तथा ।

तद्वान्नैव पुनः कश्चिन्निर्भागः सम्प्रतीयते ॥

इत्युक्तम् । ननु कोऽयं भागप्रतिभासो नाम ? नानादिग्देशा
वष्टम्भेन सञ्चितः परमाणुप्रतिभास एव । यद्येवं कथं प्रति
भासधर्मः स्थौल्यम्
इत्युक्तं धर्मोत्तरेण; तत्राप्ययमेवार्थः ।
अर्थस्य स्वरूपेण नास्ति वेदनम्; भाक्तं स्यादर्थवेदनम्
67 इति वचनात् । तस्माद्योऽयं नीलादिप्रतिभासो नानादेश
व्यापित्वेनानुभूयते स एव स्थूलप्रतिभास इत्यदोषः । येऽपि
तदारम्भकाः परमाणवो वैशेषिकाणां, साक्षादध्यक्षगोचरा
वैभाषिकाणां दर्शने, स्वाकारसमर्पणप्रवणाः सौत्रान्तिकानां
मते, तेऽपि योगाचाराणां दर्शने न सम्भवन्ति । न खल्वेकः 238पर
माणुः प्रसिद्धिमध्यास्ते । तस्याधरोत्तरचतुर्दिक्षु परमाणुमध्या
सीनस्य नियमेन षडंशतापत्तेः । यो ह्यस्य स्वभावः पूर्वपरमाणु
प्रत्यासन्नः न स एवापरपरमाणुप्रत्यासन्नो घटते । तयो
रेकदेशताप्राप्तेः । एवं च स पूर्वपरमाणुसन्निहितस्वभावोऽ
परपरमाणुं प्रत्यासीदेद्यदि सोऽपि तत्र स्यात् । असत्यामपि
प्रत्यासत्तावाभिमुख्यमात्रेऽप्ययमेव वृत्तान्तः । ततश्च परमाणु
मात्रं पिण्डः प्रसंक्तः ॥


अथवाऽयं विचारः; यदेतत्प्रतिभासमानं तदेकं तावन्न
युक्तम्, अनन्तरोक्तविचारात् । नाप्यनेकं, 239परमाणुशः
परमाणो240रयोगात् । तथाहि--यद्यसौ सांशः कथं परमाणुः ?
अथ निरंशः तदा संयुक्ताः परमाणवः सर्वात्मना संयोगात्
परस्परमभिन्नदेशाः स्युरिति सर्वः पिण्डः परमाणुमात्रं स्यात्,
पर्वतोऽपि क्षितिरपीति । तस्मादवश्यं तयोः स्वभावयोर्भेदोऽ
भ्युपेतव्यः । यथा चानयोस्तथाऽधरोत्तरदक्षिणोत्तरपरमाणु
68 प्रत्यासन्नानां स्वभावानां च भेद इति षडंशतैव परमाणो
र्न्यायबलादापतति । यदाह—

षट्केन युगपद्योगात् परमाणोः षडंशता ।

षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥

इति । न 241चैकासिद्धौ अनेकस्यापि सिद्धिरिति न सन्ति परमा
णवः । यदि बाह्योऽर्थो नास्ति किं विषयस्तर्ह्ययं प्रतिभासः ?
प्रतिभासः खल्वेषोऽनादि242वितत243वासनातः प्रवर्तमानो निरा
लम्बन एव 244लक्ष्यते । तथा हि--सति विषये सालम्बनता
स्यात् । तेन चावयविना भवितव्यम् परमाणुप्रचयेन वा ।
स चायमुभयोऽप्यनन्तरोक्तबाधकप्रमाण ग्राह245 ग्रस्तविग्रहो न
व्योमतामरसमतिशेते । यथोक्तम्—
न सन्नावयवी नाम न सन्ति परमाणवः ।246

प्रतिभासो निरालम्बः स्वप्नानुभवसन्निभः ॥

इति । स्वप्नज्ञानं निरालम्बनं 247विदितमेव । न च स्वप्नजाग्र
दनुभवयोर्भेदः कश्चिदप्यस्ति । सर्वप्रकारसाधर्म्यदर्शनात् ।
न चानालम्बनादनवाप्तरूपविशेषं विज्ञानं सालम्बनसम्बन्ध
मनुभवितुमुत्सहते । यदनालम्बनादविशिष्टं तदनालम्बनम्,
यथैकस्मादाकाशकेशदर्शनात् 6द्वितीयम् ज्ञानं2486249 । अनालम्ब
69 नाच्च स्वप्नज्ञानादविशिष्टं विवादा250स्पदीभूतं जाग्रद्विज्ञान
मिति स्वभावहेतुः । यदि बाह्योऽर्थो नास्ति किं तर्हि परमार्थसत् ?
ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चविज्ञानमात्रं परमार्थसत् ।
यथोक्तम्--ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् इति ।
पुनश्चोक्तम्—
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः ।

ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥

उक्तं चैतद्भगवता—
बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते ।

वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते ॥ इति ।

तत्र केचिदेवमाहुः--विज्ञानमेवेदं सर्वं सर्वशरीर
विषयभावेन प्रसिद्धम् । तच्च स्वसंवेदनमिति न कस्यचित्
ग्राह्यं ग्राहकं वा । कल्पनया तु ग्राह्यग्राहकभाव इति व्यव
स्थाप्यते । ततः परिकल्पितग्राह्यग्राहकभावरहितं विज्ञानं
साकार251 सत्यमिति । अन्ये तु सकलाकारकलङ्कानङ्कितं
शुद्धस्फटिकसंकाशं वास्तवं विज्ञानम् । आकारास्त्वमी वितथा
एवाविद्यया दर्शिताः प्रकाशन्ते । तस्मात् ग्राह्यं नाम नास्त्येव ।
2ग्राह्याभावात्2252 तदपेक्षया यद्ग्राहकत्वं विज्ञानस्य तदपि
नास्तीति । माध्यमिकानां तु दर्शने तदपि विज्ञानं न परमा
70 र्थसत्, विचारासहत्वात् । स्वभावेन हि युक्तं पारमार्थिक
मुच्यते लोके । न चास्य विचारतः कश्चित्स्वभावो घटते
एको वाऽनेको वा, पूर्वविचारासहत्वात् । यथोक्तम्—
नेष्टं तदपि धीराणां विज्ञानं पारमार्थिकम् ।

एकानेकस्वभावेन वियोगाद्गगनाब्जवत् ॥

इति ॥ कीर्तिपादैरप्युक्तम्—
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।

यस्मादेकमनेकं वा रूपं तेषु न विद्यते ॥

इति ॥ तथाऽलङ्कारकारेणाप्युक्तम्—
यदा तु न विकल्पस्य न चान्यस्य प्रमाणता ।

तदा विशीर्यमाणेऽपि सर्वस्मिन् कोऽपराध्यतु ॥

बद्धमुक्तादिभेदोऽपि न चास्ति परमार्थतः ।

भेदो हि नावभात्येव सर्वत्र समदर्शिनाम् ॥

इति ॥ प्रयोगः पुनरेवम्--यदेकानेकस्वभावं न भवति न
तत्परमार्थसत्, यथा व्योमकमलम्, एकानेकस्वभावं च न
भवति विज्ञानमिति व्यापकानुपलब्धिः । न तावदयमसिद्धो
हेतुः । साकारे ज्ञाने बहिरर्थ इव एकानेकस्वभावायोग्यत्वस्य
परिस्फुटत्वात् । यत्र हि लोकस्य बाह्यार्थव्यवहारस्तदेव
साकारवादिनो ज्ञानम् । ततो यत्तस्य बहिर्भावे बाधकं तदे
71 वान्तर्भावेऽपि बाधकम् । न हि स्थूलमेकमनेकं च परमाणु
रूप253मपीष्यते । विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो
यदि वाऽनेकः परमाणुशो भिन्नः उभयथाऽपि बाह्यार्थपक्ष
भाविदूषणमशक्यमुद्धर्तुम् । न हि तद्विज्ञाने बहिर्भावनिबन्धनं
दूषणम्! येन तद्भावेन भवेत् । मूर्तिनिमित्तं बाधकम्;
नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम् । साकारतायां विज्ञान
स्यापि मूर्तत्वात् । अयमेव हि 254देशवितानवानाकारो
मूर्तिरिति ॥


255श्रीमन्महाजगद्धलविहारीय महापण्डितभिक्षुमोक्षाकर
गुप्तविरचितायां तर्कभाषायां परार्थानुमानपरिच्छेदः समाप्तः ॥


तर्कभाषामिमां कृत्वा पुण्य256भासादि यन्मया ।

तेन पुण्येन लोकोऽयं बुद्धत्वमधिगच्छतु ॥

॥ तर्कभाषा समाप्ता ॥

  1. Gos. योष्यते.

  2. Gos. जातमङ्गीकर्तव्यम्.

  3. Gos. अयं.

  4. Gos. अत्यन्तोच्छेदे.

  5. Gos. रुत्पन्न.

  6. T. °प्रतीताः सर्वे भावाः

  7. Gos. वेदवाक्यस्य.

  8. T. प्राप्त्यर्थं.

  9. Gos. प्रसज्यत.

  10. Gos. प्रतिपादितम्.

  11. T. दृश्यत्वेनाभिमतनीलादिबाह्यविशेषः.

  12. Found in M.

  13. Found in M.

  14. Gos. भवति

  15. साधने

  16. * Not found in T. & M.

  17. Gos. कुम्भा

  18. T. निमित्तेन.

  19. Gos. अकारणात्.

  20. Gos. व्यस्तो.

  21. Found in M.

  22. Found in M.

  23. Gos. तत्त्यागेऽपि तदा.

  24. * Omitted in Gos.

  25. Gos. संशया.

  26. Gos. कारित्व.

  27. Found in M.

  28. T. विश्रुत.

  29. Gos. बुद्धिम्.

  30. Gos. रुपलब्धा.

  31. Gos. T. उपलब्धेः.

  32. Gos. खलविला.

  33. Gos. त्यागेन.

  34. M. चोदित.

  35. T. परचित्तानुमानहानिः.

  36. T. स्वपरसन्तानगत

  37. * Omitted in Gos.

  38. M. हेतुत्वं.

  39. Gos. विमति.

  40. Gos. comes after साधयतीति. marked #tabha-46c

  41. * Not found in Gos.

  42. Gos. सत्वात्.

  43. Gos. यथास्वं.

  44. Gos. प्रतिपत्तव्वेति.

  45. T. contains a few more lines the restoration of which is given in the appendix.

  46. M. वृत्तिकं.

  47. M. प्रमाणमेव.

  48. Gos. कापाये.

  49. Gos. व्यस्तो.

  50. T. अर्थ.

  51. Gos. वदन्ति.

  52. Omited in T.

  53. Gos. मित्यादिना कारणेन.

  54. M. सम्प्रत्यय.

  55. M. याङ्ग.

  56. Gos. धर्मो.

  57. Gos. देशकालव्यतिरेक. T. देशकालाकारविकलेन.

  58. Gos. अपिच.

  59. T. ननु भवतामनैक्रान्तिकमेव नास्ति किं.

  60. M. लक्षण शब्दाभिधेयं.

  61. Gos. व्यवसायं.

  62. Gos. अन्यापोह.

  63. M. अभाववादि.

  64. Omitted in Gos; T. प्रत्येक.

  65. T. द्व्यावृत्ति.

  66. M. तत्काल.

  67. Gos. विकल्पानां, M. विधिकल्पानां.

  68. Gos. उच्यते.

  69. * Not found in Gos.

  70. Gos. प्रवर्तंते.

  71. M. शब्दान्तरेण.

  72. * Missing in T. & Gos.

  73. Gos. सर्वतः.

  74. M. युक्तत्वात्.

  75. a Not found in Gos.

  76. T. व्यवहारकारणं कृत्वा

  77. T. ॰स्य व्यक्तत्वात्

  78. a Not found in Gos.

  79. Gos. सर्वदा.

  80. Not found in T & Gos.

  81. a Not found in Gos.

  82. Not found in T & Gos.

  83. Not found in T & Gos.

  84. M. र्थतः.

  85. * cf. P S V. ii. 267.

  86. T. नित्यानां.

  87. T. प्रत्यक्षेण.

  88. Gos. धुनात्व.

  89. T. स्य प्रत्यक्षत्वं निरस्तम्.

  90. Gos. वस्थं.

  91. M. प्रतीत.

  92. M. कर्त्तुं.

  93. M. तद्विषययोरपि संवेदनयोर्विरोधात्.

  94. Found only in T.

  95. M. मात्मा.

  96. T. प्रमाणं नास्ति चेत्.

  97. Gos. सहित.

  98. स्फुटप्रतिभासयोग्यः.

  99. T. विशिष्ट ? Gos. सचिव.

  100. Not found in T & Gos.

  101. Not found in T & Gos.

  102. M. व्याप्तेः.

  103. M. वतिप्रसङ्गात्.

  104. Gos. भाव्यमानस्य.

  105. M. चात्र.

  106. T. नियतप्रतिभास.

  107. Gos, कः पुन.

  108. M. मपि ज्ञायते.

  109. M. अहंकारज्ञाने.

  110. M. कदाचित् ज्ञानत्वस्य.

  111. कारज्ञानस्य.

  112. Found only in M.

  113. Not found in T.

  114. T. मध्यस्थः +

  115. T. मध्यस्थः +

  116. T. परमाण्वंशस्य परमाणावनुपलब्धेः

  117. M. चैकता

  118. M. स्थित.

  119. M. वासनाबलात्.

  120. Gos. सम्भाव्यते.

  121. not found in T.

  122. not found in T.

  123. Gos. विहित.

  124. not found in T.

  125. T. आकाशकेशदर्शनं दितीयँ.

  126. Gos. ध्यासितं.

  127. Not found in T. & Gos.

  128. T. सर्वत्र तदभावात्.

  129. T. मुपपद्यते.

  130. M. देशे वितानवानारानो. Gos. देशचित्तानामाकारो.

  131. M. पण्डितस्थविरमोक्षाकरगुप्तविरचितायां सप्तशतिकायां. तर्कभाषायां परार्थानुमानपरिच्छेदः समाप्तः ॥ Gos. श्रीमद्राजजगद्धलविहारीय महायतिभिक्षु... समाप्तः ॥

  132. M. समासादितम्.