71
वान्तर्भावेऽपि बाधकम् । न हि स्थूलमेकमनेकं च परमाणु
रूप253मपीष्यते । विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो
यदि वाऽनेकः परमाणुशो भिन्नः उभयथाऽपि बाह्यार्थपक्ष
भाविदूषणमशक्यमुद्धर्तुम् । न हि तद्विज्ञाने बहिर्भावनिबन्धनं
दूषणम्! येन तद्भावेन भवेत् । मूर्तिनिमित्तं बाधकम्;
नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम् । साकारतायां विज्ञान
स्यापि मूर्तत्वात् । अयमेव हि 254देशवितानवानाकारो
मूर्तिरिति ॥
255श्रीमन्महाजगद्धलविहारीय महापण्डितभिक्षुमोक्षाकर
गुप्तविरचितायां तर्कभाषायां परार्थानुमानपरिच्छेदः समाप्तः ॥