यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्प्रेक्षावतामसद्व्यवहारमवतरति, यथा क
स्मिंश्चित्प्रदेशे पटोऽनुपलभ्यमानः नोपलभ्यते च रूपादिवस्तुव्यतिरेकेण कर्मेति स्वभा
वानुपलब्धिः । नहि रूपादेस्तथा देशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण क्वचिदि
न्द्रियज्ञाने प्रतिभासमानामालक्ष्यते कर्म । या चेयमुत्क्षेपणमवक्षेपणमिति जल्पानुष
ङ्गिणी धीरुपजायते, सा साभिजल्पत्वान्न प्रत्यक्षं, नचाप्येषा कर्मपदार्थानुभवभाविनी
युक्ता, रूपादेरेव तथातथोत्पद्यमानस्य दर्शनात्, यथासङ्केतं तेष्वेवाध्यवसायेन
वृत्तेः । एतच्चानन्तरमेव प्रतिपादितं नित्यानित्ययोर्गत्याद्यभावादिति । अतोऽसि
द्धमेतद्यदुक्तं प्रत्यक्षत एव कर्म सिद्धमिति ॥ ७०५ ॥
यथोक्तमेवार्थमुपसंहरन्नाह—अस्थिरे वेत्यादि ।
एवमिति—अनन्तरोक्ताभ्यां प्रत्यक्षानुमानाभ्यां निराकृतत्वात् । विभागप्राप्त्य
योगत इति । प्राक्तनेन विभागायोगात्, अपरदेशेन प्राप्त्ययोगादिति यथाक्रमं
सम्बन्धः ॥ ७०६ ॥
यद्येवं कथं तर्हि गतिव्यवहारो लोके भवतीत्याह—देशान्तरेत्यादि ।
समानापरवस्तूनामिति । समानानि च तान्यपराणि चेति समस्य तानि च व
स्तूनि चेति विग्रहः कार्यः । तेषां समानापरवस्तूनां यन्नैरन्तर्येण—स्वोपादानकार
णदेशपरिहारेण जन्म—सद्भावः, तस्य जन्मन उपलब्धेः कारणात्स एवायं गच्छ
तीति, यथा प्रदीपस्य केनचिन्नीयमानस्य देशान्तरं गच्छतीति बुद्धिहेतुत्वं भवति ।
नहि प्रदीपः स एव देशान्तरमाक्रामति । तस्य षट्क्षणस्थायित्वेनाभिमतत्वात् ।
भावस्वभाव एव हि पूर्वापरकोटिशून्यो जन्मेत्यभिधीयते । तेन तस्योपलब्धिर्युज्यत
एव । अथवा जन्मन इति पञ्चम्यन्तमेतत् । नैरन्तर्येणोत्पादात्समानापरवस्तूनां दे
शान्तरोपलब्धेरिति सम्बन्धः ॥ ७०७ ॥