518 विजानातीति विज्ञानमिति गीयते, असति च विज्ञेये किं विज्ञानं स्यादित्याह—
बोधानुगतिमात्रेणेति ।


बोधानुगतिमात्रेण विज्ञानमिति चोच्यते ।

सा चास्याजडरूपत्वं प्राकाश्यात्परिकल्पितम् ॥ १८४९ ॥

बोधानुगमोऽपि विना बोधेन (न) सम्भवतीति चेदाह—सा चेति । सा-बो
धानुगतिः । अस्य-विज्ञानस्य । किमुच्यते ?, यत्तदजडरूपत्वम्, प्रकाश्यवस्त्व
न्तराभावात्प्रकाशान्तरविरहाच्च नभोवर्त्त्यालोकवत्प्रकाशरूपत्वादभिधीयते बोधरूप
तेति ॥ १८४९ ॥


कर्मातीतं च कथं फलदमित्यत्राह—विपाकहेतुरित्यादि ।


विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते ।

सद्वासितात्तु विज्ञानप्रबन्धात्फलमिष्यते ॥ १८५० ॥

वासितं परम्परया फलोत्पादनसमर्थमुत्पादितम् ॥ १८५० ॥


यद्येवं कथमुक्तं भगवता, अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतमित्याह
तामेवेति ।


तामेव वासनां चेतःसन्ततावधिकृत्य तत् ।

अस्ति कर्मेति निर्दिष्टं भक्त्या मूलविनाशवत् ॥ १८५१ ॥

भक्त्येति । उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य स(म)
भावे विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते तद्वत्कर्मापि ॥ १८५१ ॥


उपचारेण देशनायाः किं प्रयोजनमित्याह—उच्छेददृष्टीति ।


उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् ।

अन्यथा शून्यतासूत्रे देशना नीयते कथम् ॥ १८५२ ॥

नास्त्यतीतं कर्मेत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा
तस्याप्यभावं प्रतिपद्येरन्नित्युच्छेददृष्टिमापन्नाः स्युर्विनेया इत्यस्ति कर्मेत्युक्तं भगवता ।
अन्यथा हि यद्यतीतं स्वरूपेण स्यात्तदा परमार्थशून्यता सूत्रे देशना कथं नीयते ।
चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुद्ध्यमानं न क्कचित्सन्निचयं गच्छतीति हि
चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छतीति । वर्त्तमानेऽध्वन्यभूत्वा भवतीति
चेन्न । अध्वनो भावानर्थान्तरत्वात्त एवाध्वानस्तथाऽवस्थितिवचनात् । अथ स्वात्म