519 न्यभूत्वा भवति, तथा सिद्धमनागतं चक्षुर्नास्तीति । अपिच सदाऽवस्थितत्वे संस्का
राणां हेतुफलयोरभावात् दुःसमुदयसत्याभावः, तदभावान्निरोधमार्गयोरपि, ततश्च
सत्यचतुष्टयाभावात्परिज्ञाप्रहाणसाक्षाक्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां
प्रतिपन्नकानां च पुद्गलानामभाव इति सकलमेव प्रवचनं निरुध्यत इति नातीतादि
वस्तुजातकल्पना साध्वी ॥ १८५२ ॥


अतीतानागतज्ञानं विभक्तं योगिनां कथमित्यत्राह—पारम्पर्येणेत्यादि ।


पारम्पर्येण साक्षाद्वा कार्यकारणतां गतम् ।

यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः ॥ १८५३ ॥

अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः ।

शुद्धलौकिकविज्ञानैस्तत्वतोऽविषयैरपि ॥ १८५४ ॥

तद्धेतुफलयोर्भूतां भाविनीं चैव सन्ततिंसन्नतिं ।

तामाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः ॥ १८५५ ॥

समस्तकल्पनाजालरहितज्ञानसन्ततेः ।

तथागतस्य वर्त्तन्तेऽनाभोगेनैव देशनाः ॥ १८५६ ॥

इति त्रैकाल्यपरीक्षा ।

अतीतार्थापेक्षया कार्यतां गतम्, अनागतापेक्षया कारणताम् । विकल्पानुगता
त्मभि
रिति । सविकल्पैरित्यर्थः । तत्त्वतोऽविषयैरिति । आविष्टाभिलापैर्ज्ञानैः स्व
लक्षणस्याविषयीकरणात् । तत्—तस्मात् । हेतुफलयोः सन्ततिं भूतां भाविनीं
चाश्रिता अतीतादिदेशना योगिनामपरिशुद्धानां प्रवर्त्तन्ते । भगवतस्तु तथागतस्य
शुद्धलौकिकमपि ज्ञानं नास्ति, नित्यसमाहितत्वात्सर्वाविद्याप्रहाणेन । विकल्पस्य चा
विद्यास्वभावत्वात् । यदाह— विकल्पः स्वयमेवायमविद्यारूपतां गतः । स्वाकारं
बाह्यरूपेण यस्मादारोप्य वर्त्तते ॥
इति तस्य पूर्वप्रणिधानपुण्यज्ञानसम्भारसाम
र्थ्यादवाप्तचिन्तामणिसदृशात्मभावस्यानाभोगेनैव देशनाः प्रवर्त्तन्ते ॥ १८५३ ॥
॥ १८५४ ॥ १८५५ ॥ १८५६ ॥


इति त्रैकाल्यपरीक्षा ।

लोकायतपरीक्षा ।

अनाद्यन्तमित्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह—यदीत्यादि ।


यदि नानुगतोभावः कश्चिदप्यत्र विद्यते ।

परलोकस्तदा न स्यादभावात्परलोकिनः ॥ १८५७ ॥