षष्ठमाह्निकम्—शब्दपरीक्षा
पदवाक्यस्वरूपविमर्शः
उच्यते—किमत्र निरूपणीयम् ? यदनन्तरं हि यद्भवति तत्तस्य
निमित्तम् । पदवाक्यश्रवणे सति पदार्थवाक्यार्थसंप्रत्ययो भवतीति ते
एव तत्र निमित्तम् ॥
किं पुनरिदं पदं नाम ? किंच वाक्यमिति । उक्तमत्र वर्णसमूहः
पदम्, पदसमूहो वाक्यमिति ॥
स्फोटवादोपक्षेपः
ननु ! एतदेव न क्षमन्ते । न हि वर्णानां समूहः कश्चिदस्ति
वास्तवः । तेन कुतस्तत्समूहः पदं भविष्यति ? तदभावाच्च न तरां
पदसमूहो वाक्यमवकल्पते । न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन
वाचकत्वमुपपद्यते । तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति
प्रतिजानते ॥
II.144
स्फोटवादस्य नैयायिकप्रतिकूलत्वम्
ननु ! एवमस्तु । स्फोटोऽन्य एवार्थप्रतिपादको भवतु । का
क्षतिर्नैयायिकानाम् ? कथं न क्षतिः ! आप्तप्रणीतत्वेन हि शब्दस्य प्रमाण्यं
तैरुक्तम् । स्फोटस्य च नित्यत्वेन नाप्तप्रणीतत्वम् । अतश्च यस्यानि
त्यत्वं वर्णात्मनः शब्दस्य साधितम्, नासावर्थप्रतीतिहेतुः । अतो न
प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दः, तस्य नानित्यत्वम्, न
चाप्तप्रणीतत्वमिति797 अस्थाने नैयायिकाः क्लिष्टा भवेयुः । तस्मादनि
त्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयम् । पराकरणीयश्च स्फोट
इति ॥
वर्णा एवार्थप्रत्यायका इति प्रतिज्ञा
तदुच्यते—गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्, तदभावे
चाभावात् तेषामेवार्थप्रत्यायनसामर्थ्यम् । त एव च श्रवणकरणकावगम
गोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः
कश्चित् प्रत्यक्षानुमानातीतः परिकल्पनीयः ॥
अनित्यानां वर्णानामर्थप्रत्यायकत्वाक्षेपः
आह—कथमेवं भविष्यति ? दूरापेता इमे मनोरथाः । कुतो
वर्णानामर्थप्रत्यायकत्वम् ? ते हि वर्णा गकारादयः अर्थं प्रतिपादयन्तः
समस्ताः प्रतिपादयेयुः ? व्यस्ता वा ? न तावद्व्यस्ताः; एकैकवर्णाकर्णने
सत्यप्यर्थप्रतीतेरनुत्पादात् । सामस्त्यं वर्णानां नास्त्येव । तद्धि सत्ता
II.145
मात्रेण वा स्यात् ? प्रतीयमानत्वेन वा ? नैयायिकपक्षे तावत् सत्तया
यौगपद्यमविद्यमानम्, आशुविनाशिनः शब्दस्य दर्शितत्वात् ॥
वर्णानां नित्यत्वेऽपि अर्थप्रत्यायकत्वासंभवः
अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौग
पद्यस्य सकलवर्णसाधारणत्वात्798 केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति
नावधार्यते ॥
अर्थोच्यते—न चक्षुरादीनामिव वर्णानां 799कारकत्वम्, येनागृही
तानामेव सतां यौगपद्यमात्रमर्थप्रत्यायनाङ्गं स्यात् । 800ज्ञापकत्वात्तेषां
गृहीतानां सतां धूमादिवत् प्रत्यायकत्वमिति प्रतीतावेव सामस्त्यमुपयुज्यते
इति ॥
एतदप्यघटमानम् । 801प्रतीतिसामस्त्यं हि किमेकवक्तृप्रयुक्तानां
वर्णानाम् ? उत नानापुरुषभाषितानाम् ? तत्र—एकदा अनेकपुरुषभाषि
तानां कोलाहलस्वभावत्वेन स्वरूपभेद एव दुरवगम इति कस्य सामस्त्यम
सामस्त्यं वा चिन्त्येत ? सत्यपि वा तथाविधे सामस्त्ये नास्त्येवार्थ
प्रतीतिः ॥
एकवक्तृप्रयुक्तानां तु प्रयत्नस्थानकरणक्रमापरित्यागात् अवश्यंभावी
क्रमः । क्रमे च सत्येकैकवर्णकरणिकार्थप्रतीतिः प्राप्नोति । न चासौ
दृश्यत इति व्यस्तसमस्तविकल्पानुपपत्तेः न वर्णा वाचकाः ॥
II.146
वर्णविषया अपि बुद्धयस्तथैव विकल्पनीयाः । ता अपि न युग
पत्संभवन्ति । क्रमे च सति एकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्येतेति ॥
अन्तिमवर्णस्याप्यर्थप्रत्यायकत्वासंभवः
यदप्युच्यते—पूर्वपूर्ववर्णजनितसंस्कारसहितः—अन्त्यवर्णः प्रत्यायक
इति—तदप्ययुक्तम्—संस्कारो हि नाम यदनुभवजनितः, तद्विषयमेव
स्मरणमुपजनयति, न पुनरर्थान्तरविषयं ज्ञानमिति । स्मृतिद्वारेणासौ
तर्ह्यर्थप्रत्यायकोऽसौ भविष्यतीति चेत्—एतदपि नास्ति, ज्ञानयौगपद्य
प्रसङ्गात् । अन्त्यवर्णज्ञानानन्तरं हि पूर्ववर्णस्मरणमिव समयस्मरणमपि
तदैवापतति । ततश्च ज्ञानयौगपद्यम् ॥
न च क्रमोत्पादे किंचित्कारणमुत्पश्यामः । अथापि तेन क्रमेण
भवेताम्, तथापि तदानीमन्त्यवर्णज्ञानमुपरतमिति कस्य साहाय्यकं पूर्वं
वर्णस्मृतिर्विदधातीति ॥
एतच्चानेकपूर्ववर्णविषयामेकां स्मृतिममभ्युपगम्योक्तम् । न पुन
रेका सर्ववर्णगोचरा स्मृतिः । कुतः ?
वर्णसंकलनाज्ञानमप्यर्थप्रत्यायकं न
अथ वदेत्—803संकलनाज्ञानमेकं सदसद्वर्णगोचरं भविष्यति ।
तद्रूपारूढाश्च वर्णाः अर्थं प्रत्याययिष्यन्तीति—तदपि दुराशामात्रम्—तथा
II.147
विधज्ञानोत्पत्तौ कारणाभावात् । न चेन्द्रियमतीतवर्णग्रहणसमर्थम् । न
संस्कारो वर्तमानग्राही भवति । न च युगपदिन्द्रियं संस्कारश्चेमां बुद्धिं
जनयतः; संस्कारस्य सहचारदर्शनाद्याहितप्रबोधस्य सतः, स्मरण
मात्रजन्मनि निर्ज्ञातसामर्थ्यस्येन्द्रियेण सह व्यापाराभावात् । तस्मात्
न वर्णा वाचकाः ॥
अतश्चैवम्—यदि ते वाचका भवेयुः, 804विपरीतक्रमप्रयुक्ता अप्यर्थं
गमयेयुः । क्रमश्चेदपेक्ष्यते, स व्यतिरिक्ताव्यतिरिक्ततया चिन्तनीयः ।
अव्यतिरेके त एव ते वर्ण इति कथं न बोधकाः ? व्यतिरेके तु किमप्य
धिकं वाचकं अभ्युपगतं भवतीति मत्पक्षमाजिगमिषति भवान् ॥
व्युत्पत्तेरर्थप्रत्यायकत्वोपक्षेपः
ननु ? व्युत्पत्तिवशेन शब्दः अर्थप्रत्यायकतामुपयाति । व्युत्पत्तौ
च यावन्तो यत्क्रमावर्णा यदर्थमभिवदन्तो दृष्टाः, ते तावन्तः तत्क्रम
कास्तमर्थमभिवदिष्यन्तीति किं विकल्पमालया । तदुक्तम् श्लो. वा.
1-1-5 स्फोटवाद श्लो 69—
व्युत्पत्तिपदार्थः
तदुच्यते—व्युत्पत्तिरेवेयं विचारणीया वर्तते । 805परावगतिपूर्विका
हि शब्दात् स्वयमवगतिः । परावगतौ च के कियन्तः कथं कमर्थं
II.148
प्रतिपादयन्तोऽनेन दृष्टाः येभ्यस्तथैव तमर्थं प्रतीयादिति दुरधिगमा
हि वर्णवर्तनी ॥
तस्मात् सर्वप्रकारमवाचका वर्णाः ॥
स्फोटवादः
अस्ति चेयं शब्दादुच्चरितात् तदर्थावगतिः । न चेयमकरणिकैव
भवितुमर्हति । तदस्याः करणं स्फोट इति 806कार्यानुमानमिदमस्तु, परि
शेषानुमानं वा, अर्थापत्तिर्वा । सर्वथाऽर्थप्रतीतिलक्षणकार्यवशात् कल्प्य
मानं तत् करणं स्फोट इत्युच्यते । स च निरवयवः, नित्यः, एकः,
निष्कारणक इति न 807वर्णपक्षक्षेपणदक्षदूषणपात्रतां प्रतिपद्यते । अतश्च
स्फोटोऽर्थप्रतिपादकः, शब्दादर्थं प्रतिपद्यामह इति व्यवहारात् । भवतो
हि वर्णजनितस्संस्कारोऽर्थप्रतिपादकः । तत्र शब्दात् इति प्रातिपदि
कार्थीऽनुपपन्नः808 ॥
अथ वर्णाः शब्दशब्देनोच्यन्ते । ते 809चार्थप्रतिपादकाः इति—इद
मन्यथासिद्धम्—तथापि शब्दात्' इत्येकत्वं विभक्त्यर्थो न संगच्छते ।
शब्देभ्यः प्रतिपद्यामह इति व्यवहारः स्यात् । स्फोटात्मनि तु शब्देऽर्थ
II.149
प्रतिपादके इष्यमाणे शब्दात् इति प्रातिपादिकार्थः, विभक्त्यर्थश्च
द्वयमप्युपपन्नम्810 ॥
वर्णानामर्थबोधकत्वासंभवः
ननु ! न स्फोटः शब्दशब्देनोच्यते, किन्तु वर्णा एव । श्रोत्रग्रहणे
ह्यर्थे शब्दाशब्दः प्रसिद्धः । त एव च श्रोत्रग्रहणा इति—नैतदेवम्—
शब्दत्वस्यापि श्रोत्रग्रहणात्मनो भावात् । निर्झर झाङ्काररवप्रभृतीनां
च सत्यपि श्रोत्रग्रहणत्वे 811शब्दकार्यनिर्वर्तकत्वानुपपत्तेः । तस्मात्
यतोऽर्थप्रतिपत्तिः, स शब्दः । अर्थप्रतिपत्तिश्च स्फोटादेव, न वर्णेभ्य
इति स्फोट एव शब्दः ॥
स्फोटस्य शब्दात्मकत्वम्
ननु ! 812एवं सति धूमादीनामप्यथप्रतीतिहेतुत्वात् शब्दत्वं प्राप्नोति
—मैवं वादीः—अथ गौः इत्यत्र श्रोत्रजप्रतिभासे बहवोऽर्थाः प्रतिभासन्ते,
तत्र कस्तेषां शब्दः—इत्युपक्रम्य, यतोऽर्थप्रतिपत्तिः स शब्द इयुपसंहृते813
कुतो धूमादीनां शब्दत्वशङ्कावकाशः ॥
ननु चेयमर्थप्रतीतिः वर्णेषु भवत्सु भवन्ती, तेष्वभवत्सु चाभवन्ती
तानुत्सृज्य कथं स्फोटकार्यतामुपयायात्—उच्यते—अनन्यथासिद्धं तद्भाव
भावित्वं तत्कार्यतामवगमयति, नान्यथासिद्धम् । 814इदं त्वन्यथासिद्धम् ।
II.150
का पुनरन्यथासिद्धिः ! स्फोटव्यंजकत्वात् वर्णानां तदानन्तर्यमर्थप्रतीते
रुपप्लवते । वर्णाभिव्यक्तः स्फोटोऽर्थप्रतीतिमादधाति । भ्राम्यति
जनः वर्णैरियमर्थप्रतीतिरुत्पादितेति ॥
स्फोटवादे पूर्वोक्तदोषानवकाशः
ननु स्फोटव्यक्तावप्रीदानीं वर्णानां क्व गतास्ते व्यस्तसमस्त
विकल्पाः । आह च भट्टः श्लो-वा-11-5-स्फोट-84
भाष्यकृताऽपि—ननु संस्कारकल्पनायामदृष्टकल्पना इत्याशंक्य
प्रतिविहितं 815शब्दकल्पनायां सा च शब्दकल्पना च शा-भा-1-1-5
इति—नैषदोषः—न स्फोटव्यक्तौ विकल्पाः प्रभवन्ति । कुतः ?
एके तावदाचक्षते प्रथमवर्णश्रवणवेलायामेव स्फोटोऽभिव्यक्तो
भवति816 । न च द्वितीयादिवर्णवैफल्यम्; तदवगतेरेवातिशयकरणात् ।
यथा रत्नपरीक्षकाणां प्रथमदर्शने रत्नरूपममलमप्रकाशमानमपि पुनः
पुनः परीक्षमाणानां चरमे चेतसि चकास्ति निरवद्यं रत्नतत्त्वम्—एवमि
हापि प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीत्यै वर्णान्तराणि प्रयो
क्ष्यन्त इति ॥
II.151
ध्वनेः स्फोटव्यञ्जकत्ववर्णांसत्यत्वपक्षः
अपरे तु वदन्ति—ध्वनय एव स्फोटस्य च817 व्यंजकाः । तैश्च
मरुद्भिः अनवयव एव एष स्फोटोऽभिव्यज्यमानः ताल्वादिस्थानकरण
संयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते ।
मरुतां चंचलत्वादुच्चारितप्रध्वंसिनस्ते तं काल्पनिकाकारमवभासयन्ते ।
दृष्टं चोपाधिवशादसत्यमपि रूपमवभासमानम् । यथा—कृपाणमणिदर्प
णादिव्यंजकभेदेन श्यामदीर्घादिरूपं वदनस्य । नादात्मको हि शब्दः
वीणावेणुमृदङ्गपटहादिव्यंजकर्भदेन नानात्वमुपगच्छन् दृश्यते । तस्मान्न
पारमार्थिका एव ते वर्णाः, न च स्फोटस्य व्यंजका इति क्व समस्त
व्यस्तविकल्पाः प्रभवेयुः ॥
उपाधिभेदेन प्रतिभासमाना असत्याकाराश्च तेऽर्थप्रत्ययान्वयव्यति
रेकानुविधायिनो दृश्यन्ते ॥
तेन यदुच्यते शब्दकल्पनायां कल्पनाद्वैगण्यमिति—तत्रैकगुणाऽपि
कल्पना नास्ति । का कथा द्वैगुण्यस्येति । तस्मात् स्फोटात्मका
देव शब्दादर्थप्रत्ययः । वर्णानुविधायित्वं तु तस्यान्यथासिद्धमिति
सिद्धम् ॥
अपि च तार्किकाणामनुमानप्रियत्वात् तत्परितोषायेदमनुमानमभ्य
धायि, न परमार्थतः । परमार्थतस्तु श्रौत्रे प्रत्यये प्रतिभासमानः प्रत्यक्ष
एव स्फोटः ॥
II.152
स्फोटस्य प्रत्यक्षत्वसाधनम्
आह—किमिदमपूर्वं तस्कराचरितं वर्तते—वर्णाः प्रत्यक्षमुपलभ्य
माना अपि 818दुर्भगाः न प्रत्यक्षाः, स्फोटः पुनरनवभासमानोऽपि 819सुभगः
प्रत्यक्ष इति—उच्यते—न ब्रूमः वर्णा न प्रत्यक्षा इति । ते पुनरसन्तोऽपि
उपाधिवशाद्वदनदैर्ध्यादिवदवभासन्ते । शब्दस्त्वेको निरवयवः प्रतीयते ।
तथा च पदमिति वाक्यमिति एकाकारा प्रतीतिरस्ति । न च भिन्ना
वर्णास्तस्यामालम्बनीभवन्ति820 । न हि सामान्यप्रत्ययः व्यक्त्यालम्बनः,
अवयविप्रत्ययो वाऽवयबालम्बनः । न च सेनावनादिबुद्धिवदयथार्था
पदवाक्यबुद्धिः, बाधकाभावात् ॥
पद वाक्यार्थबुद्धीनामैक्यं नौपाधिकम्
एकार्थप्रत्ययवत्त्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेत्—एका-र्थ
प्रतीतिरिदानीं कुतस्त्या ? पदवाक्यप्रतीतिपूर्विका हि पदार्थवाक्यार्थ
प्रतीतिः, पदार्थवाक्यार्थप्रतीत्याख्यकार्यैक्याच्च पदवाक्यबुद्धिरेकाकारेति
दुरुत्तरमितरेतराश्रयत्वम् ॥
औपाधिकत्वं च सामान्यावयविबुद्धेरपि सुवचम् । बाधसंदेहरहित
प्रतीतिदार्ढ्यात् तत्र परिहार इति चेत्—तदितरत्रापि समानम् ।
तस्मात् पदबुद्धेः पदस्फोटः, वाक्यबुद्धेश्च वाक्यस्फोटो विषय इति प्रत्यक्ष
एव स्फोटः । तत्र पदस्फोटात् पदार्थप्रतिपत्तिः, वाक्यस्फोटाच्च वाक्यार्थ
प्रतिपत्तिः ॥
II.153
वाक्यस्फोटनिरूपणम्
आह—यदि निरवयवः स्फोटात्मा शब्दो भवति, 821वाक्यमपि शब्द
एव । तस्य पदात्मकास्त्वयवा मा भूवन् । तस्य चेत् पदात्मानोऽवयवा
भवन्ति, पदस्यापि तर्हि वर्णात्मानोऽवयवा भवन्तु—उच्यते—किंचि
दुच्छवसितमिव मे हृदयम् । मन्ये भविष्यत्यायुष्मतो विवेकालोकः ।
बोध्यमानो भोत्स्यसे किंचित् । ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभास
विप्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवोऽस्माभिर्दर्शितः ।
परमार्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव । निरवयवमेव वाक्यं
निरवयवस्यैव वाक्यार्थस्य बोधकम् । यथा पदस्यावयवा न सन्ति, तथा
वाक्यस्यावयवाः पदानीति822 । तथा चाहुः—वाक्ये पदानामसत्त्वात्
तदर्थे पदार्थानां निरवयवौ वाक्यवाक्यार्थाविति ॥
अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि, पदानामवयवा
वर्णाः, एवं वर्णानावप्यवयवैर्भवितव्यम् । तदवयवानामप्यवयवान्तरै
रित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान् प्राप्य तु यद्यवयवकल्पनातो
विरन्तव्यं, तद्वाक्य एव विरम्यताम् ॥
वाक्यस्याखण्डत्वम्
एकघटनाकारा हि वाक्यार्थबुद्धिः तथाविधादेव वाक्यादुत्पत्तुमर्हति
वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहर्तारः । तत्रास्य पदस्य
प्रयोग एव न केवलस्य दृश्यते, व्यवहारानङ्गत्वात्823 । वाक्यं तु
II.154
प्रयोगार्हमिति तत्रैव व्युत्पत्तिः । तत एवार्थसंप्रत्ययः । 824अवयवप्रति
भासस्तु भ्रममात्रम् । अर्थोऽपि वाक्यस्य एक एव नरसिंहाकारः ।
जात्यन्तरं हि नरसिंहो नाम । तत्र न नरार्थः, नापि सिंहार्थः ॥
वाक्यार्थस्याप्यखण्डत्वम्
एवं पदार्थेभ्योऽन्य एव वाक्यार्थः, पानकादिवत् । यथा पानकः
शर्करानागकेसरमरीच्यादिभ्योऽर्थान्तरमेव, यथा च सिन्दूरहरिताललाक्षा
दिभ्योऽर्थान्तरमेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्योऽ
र्थान्तरमेव ग्रामरागः; तथा पदेभ्यो वाक्यम्, पदार्थेभ्यो वाक्यार्थः ॥
कथं तर्हि 825तदंशावगम इति चेत्; कल्पनामात्रं तत्, नासौ
परमार्थः । तच्छब्दानुगमे तदर्थानुगमदर्शनात् पारमार्थिकत्वं भागाना
मिति चेत्—न—कूपसूपयूपानामेकाक्षरानुगमेऽप्यर्थानुगमाभावात् ॥
न च केवलानुगममात्रेण तत्कारणभावो वक्तुं शक्यः, 826रेणुपटलानु
गामितया करितुरगादिवत् पिपीलिकापङ्क्तेरपि दृश्यमानायास्तत्कारण
त्वप्रसङ्गात् । तस्मात् प्रकृतिप्रत्ययांशवत् असत्पदार्थपरिकल्पनं वाक्यार्था
वगमोपायतयाऽऽश्रीयते, न त्वर्थस्तदीयः तत्राश्वकर्णादिवदुपलभ्यते ॥
असत्यानामपि सत्यप्रत्यायकत्वम्
असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते । अलीकाहिदंशादयः
सत्यमरणकारणं भवन्ति । लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्ति
मादधति ॥
II.155
स्वरूपसत्यानि827 तानीति चेत्—न—रेखारूपतया तेषामर्थाप्रति
पादकत्वात् । गकारोऽयमित्येवंगृह्यमाणा रेखा अर्थप्रत्ययहेतवः । ता
828येन रूपेण सत्याः, तेन नार्थप्रदिपादकाः; येन चार्थप्रतिपादकाः, तेन
न सत्या इति ॥
प्रकृतिप्रत्ययादिविभागानामपारमार्थिकत्वम्
ननु प्रकृतिप्रत्ययाद्यंशा अपि परमार्थसन्त एव; तथा प्रतिभासात्,
अर्थप्रत्ययहेतुत्वाच्च—नैतदेवम्—अन्वाख्यानभेदेन तेषां स्वरूपेणेयत्ता
निश्चयानुपपत्तेः । भवतीत्यत्र भूशब्दः प्रकृतिः क्वचिदन्वाख्यायते,
क्वचिद्भवशब्दः829 । प्रत्ययादेशागमगुणवृद्धिवर्णलोपाद्यन्वाख्यानवि
संवादात् कः पारमार्थिकः प्रकृतिप्रत्ययविभागः ? कल्पनामात्रं त्वेतत् इयं
प्रकृतिः, एष प्रत्यय इति । एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवा
पोद्धारः । तदुक्तम् वाक्य-3-1—
पदानामपि अपारमार्थिकत्वम्
अपि च पारमार्थिकत्वे पदानां नियतमविसंवादिरूपं प्रतीयेत
विसंवादि तु तत् । 830नामाख्यातसाधारणवर्णसन्निवेशदर्शनात् न नियत
II.156
तेषां रूपम् । अतः काल्पनिकमेव तत, न वास्तवम् । न च निश्चेतु
मपि तत् पार्यते । कालेनदन्तिनागाः इत्यत्र कीदृशः पदविभागः ? अर्थ
द्वयोपपत्तेः । उभयत्र च वर्णतुल्यत्वात् । किं कालेन—कृष्णेन दन्तिना
—हस्तिना अगाः—त्वं गतः—इत्मेवमेतानि पदानि व्यवस्थाप्यन्ताम्,
अथ काले—समये, नदन्ति—शब्दायन्ते—नागा—करिणः फणिनो वेति ।
तस्मादनियमात् न पदतदर्थविभागः पारमार्थिकः ॥
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते,
तर्हि किं तेन तदानीं व्यवस्थापितेन ? वाक्यार्थस्य प्रथममेव प्रति
पन्नत्वात् ॥
किंच दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयोरदर्शनेऽपि
तदर्थसंप्रत्ययो दृश्यते । तस्मादपि न पारमार्थिकः पदवर्णविभागः ।
निरस्तावयवं वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् ॥
स्फोटस्य परमतत्त्वरूपत्वम्
ननु यथा पदेषु वर्णा न सन्ति, वाक्येषु पदानि न सन्ति, तथा महा
वाक्येष्ववान्तरवक्यान्यपि न स्युः । ततः किम् ? महावाक्यान्यपि प्रक
रणापेक्षया न तात्त्विकानि स्युः । ततः किम् ? 831प्रकरणान्यपि शास्त्रा
पेक्षया न स्युः । ततोऽपि किम् ? एकमेवेदं शास्त्रतत्त्वमविभागमद्वयमा
पतति ॥
उच्यते—यदि तत्त्वं पृच्छसि, बुद्ध्यसे वा—तदा एवमेवैतत्
साधो ! शब्दब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभदमर्थभावेन
II.157
विवर्तते832 । न तु वाचकाद्विभक्तं वाच्यमपि नाम किंचिदस्ति । तस्मात्
काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव 833विद्योपाय इत्या
श्रीयते । वाग्रूपता तत्त्वम्, सर्वत्र 834प्रत्यये तदनपायात् । यथोक्तम
वाक्य-1-125—
वाक्तत्त्वप्रभेदः
सा चेयं वाक् त्रैविध्येन व्यवस्थितैवावभासते—वैखरी, मध्यमा,
पश्यन्तीति836 । तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमु
दायात्मिका या वाक्, सा वैखरीत्युच्यते । विखर इति देहेन्द्रियसङ्घात
उच्यते । तत्र भवा वैखरी । तदुक्तम्—
या पुनरन्तस्संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता
वाक् सा मध्यमोच्यते । तदुक्तम्—
II.158
या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्, सा पश्यन्ती
त्युच्यते । तदुक्तम्—
तदलमतिप्रसक्तानुप्रसक्त्या । द्राधीयसी चर्चेयं प्रकृतान्तराय
कारिणीति न प्रतन्यते ॥
सर्वं व्यवहारमात्रम्
इह त्वेतावतैव पुनः प्रयोजनं—वर्णपदपूर्वको व्यवहारः न भवतीति ।
वाक्येन लोके व्यवहारात्, तस्य चावयवावयविव्यवस्थाऽनुपपत्तेः निर्भा
गमेव तत् वाचकं, निर्भागश्च तस्य वाच्यो ऽर्थ इति । अवान्तरवाक्यमपि
प्रयोगयोग्यं व्यवहारकारणमिति तन्न निह्नूयते । अविद्यावस्थेयं वर्तते ।
तत्रेयं व्यवहारवर्तनी यथादृश्यमानैवास्तु । विद्यायां सर्वमेवेदमसार
मिति837 ॥
838पदेन तु वर्णेन वा व्यवहाराभावात्, तस्य केवलस्याप्रयोगात्
तत्स्वरूपमस्यामपि दशायां न वास्तवमिष्यत इति ॥
II.159
स्फोटवादोपसंहारः
—स्फोटवादोपसंहारः—
स्फोटवादनिराकरणम्
अत्राभिधीयते—किमयमनुमानमहिम्ना स्फोटाभ्युपगमः, प्रत्यक्ष
प्रतीतिबलवत्तया वा ?
न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते । परिदृश्यमान
विशिष्टानुपूर्वीकवर्णकलापकरणेन अर्थप्रतीतेर्घटमानत्वात् ॥
वर्णानां वाचकत्वसमर्थनम्
ननु व्यस्तसमस्तादिविकल्पैरुत्सादितं वर्णानां वाचकत्वम्—नैतत्;
दुर्विकल्पास्ते—व्यस्तानां तावद्वाचकत्वं नेष्यत एव वर्णानाम् । समस्ता
एव ते वाचकाः ॥
यत्तु—तत्सामस्त्यं नास्ति, क्रमभावित्वादिति पुट —तदसत्—
क्रमभाविनामपि समस्तानां कार्यकारिणां अनेकशो दर्शनात् । यथा
युगपद्भाविनः समस्तास्त्रयो ग्रावाणः एकां 839नासां धारयन्तो दृश्यन्ते ॥
II.160
तथा क्रमभाविनोऽपि समस्ता ग्रासा एकां तृप्तिमुत्पादयन्तो दृश्यन्ते ।
एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः । अतः समस्ता
एव ते ग्रासाः तृप्तेः कारणम् । न च समस्ता अपि ते ग्रासा युगपत्प्र
योक्तुं शक्याः ॥
तथा एकानुवाकग्रहणे 840संस्थानां क्रमभाविनीनामपि सामस्त्ये सति
सामर्थ्यम् । एकया संस्थया तदामुखीकरणासंभवात् । एवं तावल्लोके
सामस्त्यं क्रमभाविनां दृष्टम् ॥
वेदेऽपि दर्शपूर्णमासाभ्यां इतीतरेतरयोगशंसिना द्वन्द्वेन समर्पित
साहित्यानां आग्नेयादियागानां 841पक्षद्वये प्रयोज्यत्वेन चापरिहार्यक्रमाणा
मेकाधिकारसंपादकत्वं दृष्टम् । तथा ऐन्द्रवायवं गृह्णाति आश्विनं
गृह्णाति इति सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनां च एकप्रधान
निर्वर्तकत्वं दृष्टमिति । अतश्च नायं विरोधः—सामस्त्यं क्रमभावित्वं
चेति ॥
एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति ॥
वर्णानां क्रमेणार्थप्रत्यायकत्वेऽविरोधः
ननु ग्राससंस्थादीनां युक्तं समस्तानां क्रमभावित्वम् । यतः कार्यमपि
तदीयं तृप्त्यादि क्रमेण निर्वर्त्यमानं दृश्यते । वर्णेभ्यस्तु क्रमेण श्रूयमाणेभ्यः
न यावती, तावती अर्थावगतिमात्रा निर्वर्त्यमाना दृश्यते ॥
II.161
यद्येवमाग्नेयादिभ्यस्तर्हि क्रमेण निर्वर्त्यमानं किं कार्यमुपलभ्यते ?
अवान्तरापूर्वमिति ब्रूमः, शब्दप्रामाण्यात् । परमापूर्वनिर्वृत्तिस्तु तेषां
सामस्त्ये सति सेस्यतीति—उच्यते । 842अवान्तरापूर्वनिर्वृत्ताविदानीं क्रम
भाविनामाग्नेयावयवभूतक्रियाक्षणानां किमवान्तरं कार्यं, का वा तस्य
निर्वृत्तिरुपलभ्यते ?
वर्णानां क्रमेणार्थबोधनसमर्थनम्
अपि च 843यथाभिमतं यत् कार्यं, तदभिसन्धानेन प्रवृत्तिः ।
तत् सामस्त्यात्पूर्वं न क्वचिदुपलभ्यते । न ह्यवान्तरापूर्वेण
844स्वर्गमात्रा काचिदभिनिर्वर्त्यते, शास्त्रार्थस्य तदानीमनिष्पन्नत्वात् ।
अतः किमवान्तरापूर्वेण कृतेनापि । यत्किंचित्ववान्तरापूर्वप्रायं कार्यं
वर्णेष्वपि न न दर्शयितुं शक्यते । किं तदिति चेत्—स्वरूपग्रहणं
संस्कारो वा भविष्यति ॥
तयोः प्रधानकार्यावयवत्वं नास्तीति चेत्—मा भूदनयवत्वम्, तदुप
योगिता तु विद्यत एव । अवयवावयविव्यवहारस्तु अवान्तरपरमापूर्व
योरपि दुरुपपादः । पदानां तु वाक्यार्थप्रितिपत्तिलक्षणप्रधानकार्यावयव
भूतपदार्थज्ञानाख्यकार्यनिर्वर्तकत्वमतिस्पष्टमस्त्येवेति न तेष्वेष दोषः845
प्रादुष्यात् ॥
II.162
वर्णानामपि, गमनक्रियाक्षणानामिव ग्रामप्राप्तौ, ग्रासानामिव तृप्तौ
संस्थानामिवामुखीकरणे यद्यपि क्रमोपचीयमानतत्कार्यमात्रसमुत्मेषो
नास्ति; तथापि तदौपयिकस्योपलब्धिसंस्कारादिकार्यस्य करणात्
तत्कार्यावयवस्तावत्कृतो भवतीति न समस्तानां क्रमकारित्वमपहीयते ।
तत्र पूर्वे वर्णा अतीता अप्युपकरिष्यन्ति846, चरमवर्णस्तु वर्तमान इतीदृश
एवायं काल्पनिकः क्रियाक्षणसमूह इव वर्णसमूहोऽर्थप्रत्यायकः ॥
संकलनाज्ञानस्यापि संभवोपपादनम्
अथवा क्रमोपलब्धेष्वपि वर्णेषु मानसमनुव्यवसायरूपमखिलवर्ण
विषयं संकलनाज्ञानं यदुपजायते, तत् अर्थप्रत्यायनाङ्गं भविष्यति ।
दृश्यते च विनश्वरेष्वपि पदार्थान्तरेषु क्रमानुभूतेषु युगपदनुव्यवसायो
मानसः शतमाम्राणि भक्षितवान् देवदत्तः इति । न चायं प्रत्ययो
नास्ति, सन्दिग्धः, बाध्यते वा । अनभ्युपगम्यमाने चेदृशि समुच्चयज्ञाने
तन्निबन्धना भूयांसो व्यवहारा उत्सीदेयुः ॥
स चायं संकलनाप्रत्ययः स्मर्यमाणानुभूयमानप्राक्तनान्त्यवर्णविषय
तया सदसद्वर्णगोचरश्चित्ररूप उपेयते । यदि वाऽन्त्यवर्णेऽपि तिरोहिते
भवन्847 असद्वर्णगोचर एव चित्राकारः सोऽर्थप्रतीतिहेतुरेक एवेति निरव
काशा व्यस्तसमस्तविकल्पाः ॥
II.163
क्रमविशिष्टतावद्वर्णविषयकं सङ्कलनाज्ञानम्
ननु ! संकलनाप्रत्ययेऽपि यदि ते वर्णाः क्रमेणावभासन्ते, तदसा
वपि पूर्वोत्पन्नैकैकवर्णबुद्धिर्निर्विशेष एव स्यादिति तदुपारूढा अपि वर्णा
नार्थप्रतीतिहेतवो भवेयुः । यदि त्वेकसुमनस्तबकाकारवती स प्रत्ययः,
तदा तस्मिन् क्रमानवगमात् विपरीतक्रमा अपि848 ते वर्णा अर्थप्रतीति
कारिणः स्युः—उच्यते—विशिष्टानुपूर्वीकवर्णमालाऽनुभवसमनन्तरभावी
हि संकलनाप्रत्ययोऽर्थप्रतीतेर्हतुः, न स्तबकाकारपरिच्छेदमात्रम् । विप
रीतक्रमाशङ्कनं च तदानीं कुतस्त्यम् ? स्तबकावभासे तावत् क्रम एव
नास्ति । कस्य वैपरीत्यमवैपरीत्यं वा, यदनन्तरजन्माऽयं समुच्चय
प्रत्ययः । ताश्च विशिष्टक्रमावभासिन्य एव 849पूर्वभाविन्यो वर्णबुद्धय
इति कुतो वैपरीत्यविकल्पः ? तस्मात् प्रथमपरिपठननियतानुपूर्वीकास्ते
तदनन्तरभाविसमस्तावभासिसंकलनाप्रत्ययोपारूढा वर्णा अर्थप्रतीति
कारिणः स्युरिति न दोषः ॥
यथा वा पूर्ववर्णजनितसंस्कारसहितोऽन्त्यवर्ण इति तत्रभवता मीमां
साभाष्यकृतावर्णितं शा-भा-1-1-5, तथा वर्णानामर्थप्रत्यायकत्वमस्तु ॥
संस्कारस्य गुणत्वं, अर्थप्रतीतिहेतुत्वं च
ननु ! अत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वं, स्मृतावेव
तस्य व्यापार इति—किमियं राजाज्ञा—स्मृतिरेव संस्कारेण कर्त
व्येति ॥
नेयं राजाज्ञा, नयाज्ञात्वेषा । न हि संस्कारो नाम स्वतन्त्रः कोऽपि
धर्मी । किन्तु पट्वभ्यासादरप्रत्ययगृहीतेष्वर्थेषु यत् आत्मनः स्मरण
II.164
कारणं, स संस्कारः । सा च स्मृत्यैव कार्येण कल्प्यमाना शक्तिः । न
च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीतिजन्मनि संभवति ।
येनैव कार्येण सा शक्तिः कल्पिता, तदपहाय किं कार्यान्तरं कुर्यात् ?
स्मरणहेतोश्च संस्कारस्य प्रसवकारणतनुभवः । 850अनुभवहेतोस्त्वस्य
नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः । तस्मान्नासावर्थ
प्रतीतिहेतुर्भवति ॥
नैतत्सारम्—वर्णानुभवसंस्कृतमतेः पुंसः अर्थप्रतीतिदर्शनात् । न
हि स्मरणशक्तिः संस्कारः । किन्त्वात्मगुणो वासनाख्यः । स च
स्मृतिमिवार्थप्रतीतिमपि जनयितुमुत्सहते । सर्वत्र नो दर्शनं प्रमाणम् ।
स्मरणजननकौशलमपि तस्य तथा दर्शनादवगम्यते । तदिदमनुभवजनन
मपि ततो दृश्यत एव । वर्णाश्च तदनुभवाश्च व्यतीताः अन्यच्च शब्द
तत्त्वं नानुभूयत इति वक्ष्यामः । अस्ति चार्थप्रतीतिः । नासौ निष्क
रणिका स्यात् । करणव्यतिरेकेण हि साऽनुद्भवन्ती करणमाक्षिपति ।
यदस्याः करणं, स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात्त
दनुमापिका भवत्येव ॥
संस्कारस्यानुभवजनकत्वेऽविरोधः
यत्तु कुतस्तादृशः 851संस्कार उदेतीति—जडप्रश्नोऽयम्, अनुभव
हेतुकस्य सुप्रसिद्धत्वात् । तथा चाहुः—वस्तुधर्मो ह्येषः, यदनुभवः
पटीयान् स्मृतिबीजमाधत्ते इति ॥
ननु स्मृतिबीजमिति यदुच्यते, तत् कथमनुभवबीजं स्यात् ?—नैष
नियमः—स्मृतेरेव बीजमिति । अनुभवस्तावत् तथाविधमात्मधर्ममाधत्ते ।
II.165
स 852कार्यभेदोऽपि नोत्पत्तौ कारणान्तरं मृगयते । कार्यभेदश्चास्य तथा
दशैनादवगम्यत इत्युक्तम् ॥
संस्कारस्य स्मृतिमात्रजनकत्वेऽप्यदोषः
अथवा किमनेन निर्बन्धेन । न साक्षादर्थप्रतीतिकारी संस्कारः ।
स्मृतिद्वारेण तां करिष्यति । पूर्ववर्णेषु संस्कारात् स्मरणम्, अन्त्यवर्णे
श्रोत्रेन्द्रियादनुभव इत्येवं स्मर्यमाणानुभूयमानवर्णकरणकोऽर्थप्रत्ययः—
स्यात् । को दोषः ?
ननु अनुभवक्रमाहितसंस्कारसामर्थ्यमनुरुध्यमानाः स्मृतयोऽपि क्रमे
णोत्पत्तुमर्हन्ति, न युगपदिति । ततश्च प्राक्तन एव दोषः, सामस्त्या
भावादिति—नैष दोषः—नानावर्णविषयैः क्रमभाविभिरनुभवैः 853क्रमोपचे
यात्मा, पुटपाकैरिव कार्तस्वरस्य, एक एवात्मनः संस्कारः तादृगुपाधीयते,
येन सर्वानेव पूर्वदृष्टान् वर्णानसौ सकृत् स्मरतीति ॥
संस्कारात् संस्कारोत्पत्तिरलौकिकीति चेत्—नालौकिकी, स्वाध्या
याध्ययने सिद्धत्वात् । उच्चारणक्रियायाः क्षणिकत्वात् तदार्हिते संस्का
रान्तरकारिणि संस्कारेऽनिष्यमाणेऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशि
ष्येतेति । ततः किम् ? पुरुषायुषेणापि नानुवाक एवामुखीक्रियेत ॥
सिद्धान्त एव कल्पनालाघवम्
ननु ! अयमीदृशः प्रकारः एकस्मरणसिद्धये कल्पनीयः, अर्थप्रतीति
हेतुता वा संस्कारस्य कल्पनीयेति सर्वथा चेयमदृष्टकल्पना । अतो न
II.166
पश्यामहे तत्र कः संस्कारं प्रति पक्षपातः ? कश्च स्फोटं प्रति विद्वेषः ?
यदेष854 कल्प्यते, नैष इति—उक्तमत्र पुट-129 तेनैव सुगृहीतनाम्ना
भाष्यकारेण शब्दकल्पनायां सा च, शब्दकल्पना च इति ॥
स्फोटवादे कल्पनागौरववर्णनम्
ननु नास्ति कल्पनाद्वैगुण्यम् । संस्कारो हि यथाप्रसिद्धि स्थित एव ।
का तत्र कल्पना ? न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलङ्घित
वन्तः, भवन्त इव855 ॥
कथं न लङ्घितवन्तो भवन्तः ? सर्ववर्णविषयैकस्मरणकारिता856
भवद्भिरपि कल्पितैव । यैव हि वर्तनी वर्णानामर्थप्रतीतौ, सैव स्फोट
व्यक्तावपि । तां च कल्पयित्वा शब्दोऽन्यः कल्पित एवम् । अतश्च
संस्कारस्योभयवादिविदितस्य857 स्मरणकारित्वमुल्लङ्घ्य अर्थप्रत्ययका
रित्वं केवलमस्माभिरभिहितम् । भवद्भिस्तु मूलत एवारभ्याभिनवं
विश्वमुत्थापितम्—858अपूर्वस्य शब्दस्य तावदस्तित्वं, पुनर्वर्णव्यतिरिक्तत्वं,
पुनरवयवशहित्यं कल्पितमिति कथं न कल्पनागुरुत्वम् ? तदुक्तम्—
श्लो-वा-स्फोट 90
II.167
स्फोटवादे अर्थप्रतीत्यनुपपत्तिः
यत्पुनरवादि—प्रथमवर्णबुद्धिवेलायामेव व्यक्तं स्फोटतत्त्वं उत्तरोत्तर
बुद्धिभिरतिशयिततरप्रत्ययविषयतां नीयते, रत्नतत्त्ववदिति—स एष
विषम उपन्यासः—रत्नस्य हि सावयवत्वात् प्रथमप्रत्ययाविषयीकृतसूक्ष्म
तरावयवविशेषग्राहिणां उत्तरोत्तरप्रत्ययानामस्ति तत्रावकाशः । स्फोटस्तु
वर्णस्वरुपवदनंश इति तत्स्वरूपसर्वस्वमाद्येनैव वर्णेन व्यक्तम् । किमि
दानीमन्ये वर्णाः करिष्यन्ति । एकदेशव्यक्तिस्तु निरवयवस्य859, वर्णस्येव
न संभवति । यथोक्तम्—श्लो-वा-स्फोट-10
योऽपि द्वितीयो दृष्टान्त उदाहारि—यथा अनुवाकः श्लोको वा
प्रथमसंस्थया गृहीतोऽपि संस्थान्तराभ्यासैः स्फुटतरं परिच्छिन्नो भवति
तथा स्फोटोऽपि प्रथमवर्णांन्तरैरर्तिशयिताभिव्यक्तिः भविष्यतीति—सोऽपि
न सदृशो दृष्टान्तः, श्लोकानुवाकयोरनंशत्वानुपपत्तेः । केचिदवयवा
वर्णात्मानः पदात्मानो वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धा
II.168
तिशयायां तस्यां प्रकटीभविष्यन्ति । स्फोटस्तु एकवर्ण इव निरंश इति
तत्र को बुद्धेरतिशययोगः तस्मादयमपि न संगतो दृष्टान्तः ॥
स्फोटस्य ध्वनिव्यङ्ग्यत्वपक्षनिरासः
येऽपि च मन्वते—ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पा
वसर इति—तेऽपि न सम्यग्दर्शिनः—861पराणुद्य वर्णप्रतीतिं ध्वनिभ्यः
शब्दप्रतीतेरनुत्पादात् । अतिद्रुतोच्चि चारयिषयाऽ862नुपलभ्यमानवर्ण
विभागाच्च शब्दादर्थप्रत्ययाभावात् ॥
वर्णनामसत्यत्वनिरासः
अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव
वर्णभेदमुपदर्शयन्ति, श्यामादिरूपमिव मुखस्य खङ्गादृय इत्युच्यते—तदप्य
सत्—असत्यत्वे निमित्ताभावात् । प्रतीयन्ते हि निर्बाधया बुद्ध्या वर्णाः ।
तदतिरिक्तस्तु शब्दो न प्रतीयते । यश्च न प्रतीयते, सोऽस्ति; ये च
प्रतीयन्ते, ते न सन्तौत्युच्यमाने—शशो नास्ति, विषाणमस्तीति स्यात् ।
तस्मादयमपि न कल्पनागौरवपरिहारक्षमः पन्थाः । अतः सुष्टूक्तं
शब्दकल्पनायां सा च, शब्दकल्पना च इति ॥
तस्मात् स्फोटप्रतिपत्तौ यः क्रम आस्थेयः, सः अर्थप्रतीतावेवास्थी
यतामिति किं तेन स्फोटेन ॥
वर्णनां बुद्धिकल्पितत्वपक्षनिरासः
अन्ये तु—उपलब्ध्यनन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते
—तदिह नेष्यते, क्षणिकत्वाद्वर्णानां उपलब्धेरूर्ध्वं सत्ताऽनुपपत्तेः ।
II.169
सर्वथा व्युत्पत्त्यनुसारेण वर्णानामर्थप्रत्यायकत्वं तद्यथा पुरा दृष्टं, तथाऽ
भ्थुपगम्यत इति । तदुक्तं—यावन्तो यादृशाः इति ॥
वर्णानां प्रत्यायकत्वं अनुभवसिद्धम्
यत्त्वत्र 863प्रतीपमुक्तं—कियन्तः कीदृशाः इति—तत्र प्रतीतयः
प्रष्टव्याः, न तपस्विनो वयमिति यत्किंचिदेतत् ॥
यत्पुनरभ्यधायि पु. —क्रमव्यत्यासप्रयुक्ता अपि वर्णा प्रत्यायका
भवेयुः । क्रम एव वा स्फोटः स्यात्—इति—तदपि न पेशलम्—क्रमो हि
नाम कालभेदः । न च काल एव स्फोटो भवितुमर्हति ॥
स्फोटकल्पकस्यान्यथासिद्धिः
क्रमोऽपि च न स्वतन्त्रः प्रतिपादकः, पदार्थान्तरवृत्तिर्वा; किन्तु
वर्णाश्रित एव । तत्र चोक्तम् श्लो. वा-1-1-8-श्लो-265-266—
तस्मात् ये यावत्क्रमका यमर्थं प्रत्यायन्तो दृष्टा वर्णाः, ते तत्क्रमका
वर्णास्तमर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिः । तदेवं कार्यानुमानं,
अर्थापत्तिर्वा न स्फोटसिद्धये प्रभवतीति सिद्धम् ॥
II.170
यदप्यभाणि—शब्दादथ प्रतिपद्यामहे इति व्यवहारः स्फोटपक्ष
साक्षितामालम्बत इति—तदप्यसारम्—वर्णानां वाचकत्वे यथोक्तनीत्या
साधिते तत्पक्षेऽपि तथा व्यवहारोपपत्तेः ॥
वर्णानां वाचकत्वाक्षेपः
ननु ! कथमुपपत्तिः ? संस्कारस्तावत् न शब्दशब्देनोच्यते । न
हि तथा लोके प्रसिद्धिः । 865संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा ।
परावगतिपूर्विका हि शब्दात् स्वावगतिः । न च परस्थः संस्कारः परस्य
प्रतीतिमुपजनयन् ग्रहीतुं शक्यः, परोक्षत्वात् ॥
वर्णेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्णं वा वर्तेत, वर्णसमुदाये वा ?
प्रतिवर्णं वर्तमाने च शब्दशब्दे न शब्दादर्थप्रतिपत्तिः स्यात्; एकस्य
वर्णस्य वाचकत्वायोगात् । समुदाये तु न वर्तितुमर्हति शब्दशब्दः, जाति
शब्दत्वात् । द्विवचनबहुवचनान्तव्यक्तिशब्दप्रयोगे हि तस्मात्सामानाधि
करण्येन न जातिशब्द एकवचनान्तः प्रयुज्यते । न हि भवति देवदत्त
यज्ञदत्तौ पुरुषः इति, धवखदिरपलाशा वृक्षः इति—तथा गकारौकार
विसर्जनीयाः शब्दः इत्यपि न ॥
वनं वृक्षाः इति वनशब्दवत् तर्हि समुदायवाची भविष्यति शब्द
शब्दः, न जातिशब्दवत्—इति चेत्—न—तत्र समुदायव्यतिरेकनिर्देश
दर्शनात्—आम्राणां वनम् कपित्थानां वनम् इति । न चैवमिह
व्यतिरेकनिर्देशोऽस्ति—गकारादीनां शब्दः इत्यदर्शनात् ॥
अथ ब्रूयात्—आम्रादयो वनम् इत्यभेदेनापि वनशब्दः प्रयुज्यते ।
तथेहापि गकारादयः शब्दः इति प्रयोक्ष्यते—एतदपि नास्ति—वनादौ
II.171
भेदव्यपदेशवशेन प्रतिव्यक्ति चाप्रयोगे, सिद्धे समुदायशब्दत्वे, समुदाय
समुदायिनोरभेदोपचारात् आम्रादयो वनम् इति युज्यते प्रयोक्तुम् ।
इह तु गकारादीनां शब्दः इति न कदाचिदपि व्यतिरेकनिर्देशो दृश्यत
इति समुदायशब्दत्वमघटमानम् । तत्सर्वथा वर्णशब्दवादिनामनुपपन्नोऽयं
व्यपदेशः शब्दादर्थं प्रतिपद्यामहे इति ॥
वर्णानां वाचकत्वसमर्थनम्
उच्यते—किमनेनोपपन्नेनानुपपन्नेन वा कृत्यम् । यद्ययमुपपद्यते,
ततः किम् ? अथापि नोपपद्यते, ततोऽपि किम् ? न हि लोकव्यपदेश
निबन्धना वस्तुस्थितिर्भवति866 ॥
ननु ! शास्त्रकारा अप्येवमेव व्यवहरन्ति—भावमाख्यातेनाचष्टे
867इति—न शास्त्रकारव्यवहारादप्यप्रामाणिकोऽर्थः शक्यतेऽभ्युपगन्तुम् ।
कतरच्चेदं प्रमाणं—लोकव्यपदेशो नाम । अनुमानं तावत् प्रतिक्षिप्तम् ।
प्रत्यक्षमपि प्रतिक्षेप्स्यते । न चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते
तदस्थानेऽयं लोकव्यपदेशनिरूपणेन स्फोटाटोपः ॥
वर्णानामेव अर्थप्रत्यायकत्वं अनुभवानुगुणम्
न चात्यन्तमसङ्गतोऽयं वर्णपक्षे लौकिको व्यपदेशः । पूर्ववर्ण
जनितसंस्कारसहिते तावदन्त्यवर्णे वाचके सुसङ्गत एवायं व्यपदेशः,
तस्य शब्दत्वात्, एकत्वाच्च ॥
II.172
संकलनाप्रत्ययोपारूढवर्णवाचकत्वपक्षेऽपि न दोषः । न हि भेदशब्द
सहित एष शब्दशब्दः प्रयुज्यते—गकारादिभ्यश्शब्दादर्थं प्रतिपद्यामहे
इति । केवलस्तु जातिशब्द एकवचनान्तो बहुष्वपि वर्णेषु न विरुद्धः ॥
किंच स्फोटपक्षे सुतरामनुपपन्नोऽयं व्यपदेशः शब्दात् इति, प्राति
पदिकार्थस्याभावात् । न हि वर्णवत् स्फोटे शब्दशब्दं प्रयुंजानो दृश्यते
व्यवहर्तृजनः ॥
स्फोटस्य शब्दरूपत्वमपि न प्रामाणिकम्
अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षणमसाधुः; धूमादिभिर्व्यभिचारात् ।
अथापि प्रक्रमपर्यालोचनया श्रौत्रग्राह्यत्वविशिष्टमर्थप्रतिपत्तिहेतुत्वं शब्द
लक्षणमभिधीयते; तदिदं स्फोटं प्रति न सिद्धम्; तस्य श्रौत्रप्रत्ययविषय
त्वाभावात् । श्रोत्रग्राह्यत्वमेव च तदितरव्ययवच्छेदक्षममिति तदेव युक्तं
किमुभयोपादानेन ? श्रोत्रग्राह्यत्वं च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव
शब्दाः । तदुक्तम्—श्लो-वा-स्फोट-9
शब्दलक्षणपरिष्कारः
श्रोत्रग्राह्यत्वं शब्दलक्षणं 869सत्तादावप्यस्तीति चेत्—न—श्रोत्रेणैवे
त्यवधारणस्य विवक्षितत्वात् ॥
II.173
श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेत्—न—870समान
जातीयव्यवच्छेदार्थत्वादवधारणस्य चक्षुरादीन्येव तेन व्यवच्छेद्यन्ते,
न मनः ॥
तथापि शब्दत्वे व्यभिचार इति चेत्—न—जातिमत्त्वे सतीति प्रक्रम
लभ्यविशेषणापेक्षणात् । स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारः,
तेषां शब्दत्वाभ्युपगमात्871 । तदुक्तं भाष्यकृता—द्विविधश्चायं शब्दः—
वर्णात्मा ध्वनिमात्रश्च ल्य-भा-2-2-40 इति ॥
परोक्तं शब्दलक्षणं न सुष्टु
अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम्, अगृहीतसंबन्ध वर्णात्म
न्यपि शब्दे तदभावेनाशब्दत्वप्रसङ्गात् । कालान्तरेण संबन्धबुद्धौ सत्यां
च तस्यैव शब्दत्वमिति अव्यवस्थितमिदं लक्षणम् ॥
यदपि शब्दस्वरूपनिरूपणप्रसङ्गेन तदभिधेयानां जातिगुणक्रियादीनां
शब्दताऽऽशङ्कनं, तत्परिहरणं च—तदपि किमाशयमिति न विद्मः—
तेषामतिविभक्तरूपग्रहणात् ॥
अतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावात् वर्ण
वादिनामेव—शब्दादर्थं प्रतिपद्यामहे इत्यनुकूलो लोकव्यपदेशः, न
स्फोटवादिनामिति स्थितम् ॥
स्फोटस्य श्रोत्रग्राह्यत्वाभावः
कथं पुनः श्रोत्रग्रहणत्वं स्फोटस्य न मृष्यते ? यावता पदं, वाक्य
मिति श्रोत्प्रकरणकमेकाकारं ज्ञानं प्रत्यात्मवेदनीयमस्तिः नचास्य वर्णा
II.174
आलम्बनीभवेयुरित्युक्तम् । न युक्तमुक्तम्—इह हि शाबलेयादौ प्रति
पिण्डं गौरिति बुद्धिरुपजायमाना सकलपिण्डसाधारणं रूपं विपयीकरोतीति
गोत्वसामान्यं तदिष्यते । एवं यदि प्रतिवर्णं872 पदं पदंमिति, वाक्यं
वाक्यमिति मतिरुपजायेत, जातिवत्, तर्हि पदं वाक्यं च सर्ववर्णवृत्ति
किमपि रूपमवगच्छेम, न त्वेवमस्ति प्रतीतिः । यथा च तन्त्वाद्यव
यवपरिघट्टितपटादिकार्यविषयमाद्यनयनसन्निपातसमय एव भेदग्रहरहित
मवयविज्ञानमुदेति, तथा क्रमसमुच्चरदेकैकवर्णस्वरूपोपग्रहनिरपेक्षं यदि
पदमिति, वाक्यमिति ज्ञानं भवेत्, तत् पदादिकमवयविनमिव पदं वाक्य
मेकैकरूपमनुमन्येमहि, न त्वेवमस्ति । न हि तन्तुभिरिव पटः, वीरण
रिव कटः, वर्णैः पदमारभ्यते ॥
वर्णानां स्वत एव भिन्नत्वम्
यत्तु गौगौरित्येवंज्ञानमभेदग्राहि दृश्यते—तदेकाजुपाधेः । भिन्ना
जुपश्लेषे तु देवदत्त इत्यादौ नानाक्षरग्रहणमेव विलम्बितमनुभूयते । न
चैवं पटादिबुद्धिषु तदवयवाः कदाचित् विच्छेदेनावभासन्ते । तस्मान्ना
वयवीव, जातिरिव वा पदं वाक्यमभिन्नमवभासते ॥
स्फोटस्य सामान्यरूपत्वनिरासः
II.175
मैवम्—स्फोट एवासौ न शब्दत्वं सामान्यं तत् । सामान्यं हि
तदुच्यते, यत्रैकव्यक्तिदर्शने व्यक्त्यन्तरानुसन्धानम्, शाबलेयग्रहणे बाहु
लेयस्येव । इहतु न गकारग्रहणे न वकारानुसन्धानमिति नेदं सामान्यम् ।
एकरूपस्त्वयं प्रतिभासः शब्दतत्त्वविषय एव । शब्दतत्त्वं च स्फोट
इत्युच्यते ॥
शब्दत्वं न स्फोटरूपम्
आ ! ज्ञातम्—अमुनैव हि भयेन 874कैश्चित् स्फोटशङ्किभिः शब्द
त्वसामान्यमपह्नुतम् । अस्थान एव त्वयं संसः । न हि शब्दत्वं
स्फोटः । प्रतिवर्णं हि शब्दः शब्द इति बुद्धिरस्ति, न च वर्णस्फोटः ।
तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनम्, न स्फोटः ॥
सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव
निर्णीतम् । तस्मान्नशब्दबुद्धावपि स्फोटोऽवभासते, पदवाक्यबुद्धा
विवेति ॥
एकश्च सत्यमाह यदियमेककार्यकारित्वनिबन्धना, वनपृतनादि
बुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धिरिति । न च जात्यादिबुद्धिष्वसमा
श्वासः, वैलक्षण्यस्य दर्शितत्वात् ॥
पदवाक्यादिष्वेकत्वबुद्धेरुपपादनम्
यदपि—एककार्यकारित्वनिबन्धनायामभेदबुद्धौ इतरेतराश्रयपरि
चोदनं—एकार्थप्रतीतिपूर्विका पदवाक्यबुद्धिः, पदवाक्यबुद्धिपूर्विका चैकार्थ
II.176
प्रतीतिरिति पु. 140 तदपि न सम्यक्—स्मर्यमाणानुभूयमानवर्णजनितै
वेयमर्थप्रतीतिरित्यवोचाम, नाभिन्न875पदपरिच्छेदपूर्विकेति कुत इतरेत
राश्रयत्वम् ?
बुद्धेरेकत्वानेकत्वनिदानम्
ब्रूयात्—पदवाक्ययोरेकत्वमन्तरेण कथं पदवाक्यार्थप्रतोतिरेकरूपा
भवेदिति—सोऽयमतीव मुग्धालापः—प्रतीतिभेदाभेदौ हि विषयभेदाभेदा
वनुरुध्येते, नोपायभेदाभेदौ । भिन्नैरपि लोचनालोकान्तःकरणप्रभृति
भिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यत एव876 । तदिह पदार्थबुद्धेरेका
त्वार्त पदार्थ एको भवतु, योऽस्या विषयः । न त्वेकं 877पदं, यत् कारण
मिति । वाक्यार्थबुद्धेरप्येकत्वात् एको वाक्यार्थो भवतु, न त्वेकं वाक्यम् ।
वर्गीकरणकारणं क्रमभाविनां बहूनां वर्णानामेतत् भवति, यत् एकार्थ
प्रतिपादकत्वं, न त्वभेदमेव पदवाक्ययोर्गमयतीति ॥
शब्दार्थयोरभेदासंभवः
विप्रलब्धा एव च वैयाकरणाः पदवाक्ययोरप्यभेदं मन्यन्ते किल
878शब्दादनन्यभूत एव शब्दार्थं इति—स पुनरेषां व्यामोह एव, तद्भेदस्य
दृढप्रमाणसिद्धत्वात् । शब्दाध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यते—इत्यलं
तत्कथया । तस्मात् प्रत्यक्षगम्योऽपि न स्फोट इति सिद्धम् ॥
II.177
बुद्धेरैक्येऽपि पदादेः नैक्यम्
ननु ! अभिन्नत्वाद्वाक्यार्थबुद्धेः विषयभेदाभेदानुवृत्तित्वाच्च बुद्धि
भेदाभेदयोः अभिन्नो वाक्यार्थः स्यात्—बाढम्—अभिन्नः, न त्वनवयवः;
घटादेरभिन्नस्यापि सावयत्वात् ॥
शब्दानां सांशत्वनिरूपणम्
यत्तु निरवयत्वमुच्यते—तदतीव संवित्परामर्शकैशलशून्यं व्याहृतम्—
पदतदर्थभेदस्य प्रतिवाक्यं विस्पष्टमाभासमानत्वात् अनुपगृह्यमाणा
वयवविभागयोश्च वाक्यवाक्यार्थयोरनवभासमानत्वात् ॥
पदवाक्ययोस्सांशत्वं न भ्रमसिद्धम्
अस्त्ववयवप्रतीतिः सा तु भ्रान्तेति चेत्—न—बाधकाभावात् ।
भान्तेश्च बीजं किमपि वक्तव्यम् । सादृश्यमिति चेत्; कस्य केनेति न
विद्मः । यदि हि क्वचिन्मुख्या अवयवाः प्रसिद्धा भवेयुः, तत्सादृश्यात्
इतरत्र तदभावेऽपि भ्रम इति गम्येत—न त्वेवमस्ति—सर्ववाक्यानामप्य
भागत्वात्880 । नरसिंहेऽपि नरावयवाः सिंहावयवाश्च पृथक्पृथक् प्रत्य
भिज्ञायन्ते । तद्वदिहाप्यभ्युपगम्यमाने नूनं क्वचिद्वाक्ये सत्यत्वमवयवा
नामेषितव्यम् ॥
II.178
चित्रादीनामपि सांशत्वम्
चित्रेऽपि हरितालसिन्दूरादिरूपं, पानके 881त्वगेलादिरसः, ग्रामरागेऽपि
षड्जर्षभगान्धारादिस्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः ।
चित्रादिबुद्धयस्तर्हि दृष्टान्ता इति चेत्—बाढम्—वाक्यार्थबुद्धिरपि
निर्भागेष्यत एवास्माभिः, बुद्धीनां निरंशत्वेन सर्वासामनवयवत्वात् ।
बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदार्ष्टान्तिकयोः सावयव एव । तस्मान्न
निर्भागौ वाक्यवाक्यार्थाविति युक्तम् ॥
पदशक्तिगहोऽपि वृद्धव्यवहारादेव
यदप्यभ्यधायि—वृद्धव्यवहारतः संबन्धबुद्धिः वाक्यवाक्यार्थयोरेव,
न पदतदर्थयोः; पदेन व्यवहाराभावादिति—तदप्यसाधु—वाक्यादपि
व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता भवति882 । एवं हि पदतदर्थसंस्कृतमतेर
भिनवविरचितादपि वाक्यात् वाक्यार्थप्रतीतिरुपपत्स्यते । तदावापोद्वाप
चक्रवैचित्र्येण वाक्यानामानन्त्यात् अशक्या प्रतिवाक्यं व्युत्पत्तिः883 ।
सापि नापेक्षिष्यते । इतरथा हि साऽवश्यमपेक्ष्येत ॥
पदानामपि प्रयोगार्हत्वम्
यत्तु—केवलं पदं न प्रयुज्यत इति तदसत्यमिति—तदप्यसत्—महा
वाक्यस्थाने अवान्तरवाक्यं न प्रयुज्यत इति तदप्यसत्यं स्यात् । स्वार्थे
तत्प्रयुज्यत इति चेत्—पदमपि स्वार्थे क्वचित् प्रयुज्यत एव; यत्र पदा
II.179
न्तराणामर्थोऽर्थप्रकरणादिना लभ्यते, तत्र यावदप्राप्तं तावत्पदमेव केवलं
उच्चारयन्ति । ग्रन्थग्रहणावसरेषु च स्वरूपावधारणमपि फलवद्वर्णानाम् ।
मा वा फलवत्त्वं पदवर्णानां भूत्—तथापि रथावयवानामिव रथकार्येष्व
पर्याप्तशक्तीनामपि884 स्वरूपसत्त्वमनिवार्यम् । कार्यान्तराय रथात् रथा
वयवाः प्रभवन्तीति चेत्—पदवर्णा अपि कार्यान्तरे प्रभविष्यन्ति । रथ
कार्यैकदेशमात्रां कामपि रथावयवाः कुर्वन्तीति यद्युच्येत—पदान्यपि—
वाक्यकार्यैकदेशं कमपि कुर्वन्त्येव । वर्णा अपि केचिदर्थवन्तो भवन्त्येव ।
तस्मान्नासन्तः पदवर्णाः ॥
वर्णानां सावयवत्वप्रसङ्गपरिहारः
यत्पुनरवादि—वाक्यस्येव पदानि, पदानामिव वर्णाः, वर्णानामप्य
वयवान्तराणि स्युरिति—तदिदमपूर्वं पाण्डित्यम् । न हि घटाः सावयवा
इति परमाणुभिरपि सावयवैर्भवितव्यम् । परमाणवो वा निरवयवा
इति घटैरपि निरवयवैर्भवितव्यम् । उपलब्ध्यनुपलब्धी हि वस्तूनां
व्यवस्थापिके । यद्यथोपलभ्यते, तत्तथा भवति । यद्य था नोपलभ्यते,
तत्तथा न भवति । वाक्यपदयोश्च भागा उपलभ्यन्ते, न वर्णानाम् ।
तथा ह्युक्तमेतत् श्लो. वा. स्फोट-10—
तस्मात् बालिशचोदितमिदं—वर्णस्याप्यवयवा भवन्तु, पदवाक्ययो
रपि वा मा भूवन्निति ॥
II.180
पदवाक्ययोस्सावयवत्वे युक्त्यन्तरम्
इतश्च सावयवौ वाक्यवाक्यार्थै, 885पदोपजननापायाभ्यां तदर्थोपजन
नापायदर्शनात् । अनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयः
तात्त्विका इत्यवगन्तव्याः, न कल्पनामात्रप्रतिष्ठाः । वृक्षं, वृक्षेणेत्यत्र
प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते । वृक्षं, घटमिति प्रत्ययार्थानुगम
प्रकृत्यर्थो भिद्यते । तत्र योऽर्थो यं शब्दमनुगच्छति, स तस्यार्थ इत्य
वसीयते । तत्कथमसत्या भागाः ?
वर्णानुगममात्रं नार्थानुगमहेतुः
यत्पुनः—कूपसूपयूपादौ सत्यपि वर्णानुगमेऽर्थानुगमो न दृश्यते ।
तेन चाकारणमर्थप्रतीतेर्वर्णानुगम इत्युक्तम्—तदयुक्तम्—यतो
886नान्वयव्यतिरेकाभ्यामनुत्पन्ना प्रतीतिरुत्पाद्यते, येन कूपादौ तदुत्पादन
माशङ्क्येत । प्रसिद्धायां तु प्रतिपत्तौ वाचकभागेयत्तानियमपरिच्छेदेऽ
नयोर्व्यापारः । न चैकत्र वर्णानुगमादर्थानुगमो दृष्ट इत्यन्यत्रादृश्य
मानोऽपि हठादापादयितुं युक्तः ॥
रेणुपटलानुगतपिपीलिकापङ्क्तिद्वारकव्यभिचारोद्भावनमपि न पेश
लम्—पांसुपटलविकलपिपीलिकापङ्क्तिदर्शनेन तस्याः तत्प्रतीतिकारित्वा
भावनिश्चयात्887 । करिकरभतुरगप्रभृतीनां तु प्रत्येकं व्यभिचारेऽपि बहु
प्राणिरूपसामान्यानपायात् तत्कारणमेव धूलीपटलमवगम्यते ॥
II.181
अश्वकर्णादिपदानां गमनिकाप्रदर्शनम्
यदपि—अश्वकर्णादौ अवयवार्थलोपात् अन्यत्राप्येवमिति कथितम्—
तदपि न चतुरश्रम्—अश्वकर्णशब्दो हि 888क्वचिदर्थप्रकरणवशात् न्यग्भव
दवयवशक्तितया तिरस्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मनाऽवयवा
र्थाभावः; व्यस्तत्वेन सामस्त्येन वा पुनः प्रयोगान्तरे तदर्थसंप्रत्यय
दर्शनात् । अश्वमारोह कर्णे कुण्डलं इति व्यस्तयोः प्रयोगः । तुरग
श्रोत्रे तु प्रतिपिपादयिषिते अश्वकर्णः इति समस्तप्रयोगोऽपि तदर्था
परित्यागी दृश्यते इति न सर्वात्मना निरर्थका भागाः ॥
प्रकृतिप्रत्ययादिनिर्णयोपायः
यत्पुनः अन्वाख्यानविसंवादात् प्रकृतिप्रत्ययविभागनियमो नाव
कल्पत इति—एतदपि न युक्तम्—आप्ततरोक्तीनां प्रामाण्यात् । त्रिमुनि
व्याकरणमिति पाणिनिमतमेव हि प्रकृतिप्रत्ययविभागं अवितथं प्रत्ये
ष्यामः । क्रियत्यपि चांशे प्रायेण सर्वेषामन्वाख्यातॄणामविवादः । विक
रणादिविसंवादमात्रं त्वकिंचित्करम् । अतः पारमार्थिकत्वात् प्रकृति
प्रत्ययांशयोः न कल्पनामात्रेण पृथक्करणम् ॥
पदविभागव्यवस्थोपायः
यदप्यवर्णि—वर्णसामान्यात् पदविभागज्ञानं दुर्घटं—कालेनदन्ति
नागाः इति—तदप्यसारम्—स्वरस्मरणादीनां पदभेदावगमोपायानां
संभवात् । 889सरामः इत्याख्यातस्य अन्यत् स्वरादिरूपम्, नाम्नोऽन्यत् ।
II.182
नामत्वेऽपि स इति राम इति च द्वे पदे । तयोरन्यद्रूपम् । सह रामेण
वर्तत इत्येकपदेऽपि अन्यद्रूपमित्यभियोगविशेषवतां सर्वं सुभगमिति
नाशक्यः पदविभागपरिच्छेदः ॥
वर्णविकृतावपि प्रत्यभिज्ञानसंभवः
यदपि—दध्यत्र मध्वत्र इति तथाविधपदरूदादर्शनेऽपि तदर्थसंप्रत्यय
इत्युक्तम्—सोऽपि न दोषः—यतः ते एवैते पदे ईषद्विकृते, तत्प्रत्यभि
ज्ञानाच्चेति केचित् ॥
अथवा 890इगन्तदधिमधुपदवत् यणन्तयोरपि विषयान्तरे साधुत्वात्,
तथैव तद्विधात् व्युत्पत्तेः यणन्ते अपि पदे अर्थप्रतिपादके भविष्यत इत्यल
मेवंप्रायैः कदाशाव्याहृतैः ॥
पदानामसत्यत्वानुपपत्तिः
अपि च पदानामसत्यत्वे किमर्थ एष तद्व्युत्पत्तौ इयान् प्रयत्नो
वृद्धैराधीयते ?
असत्यमपि सत्योपायतां प्रतिपद्यत इति चेत्, न—अदृष्टत्वात्—
अलिकाहिदंशादयः सत्यमूर्छाहेतवो येऽत्रोदाहृताः, ते तथा न भवन्ति,
विषाशङ्काया अपि तत्कार्यहेतुत्वात् । शङ्का हि नाम बुद्धिः । बुद्धिश्च
न न कारणम् । न चासती बुद्धिः ॥
असत्यात्सत्यप्रतिपत्तिनिराकरणम्
यदपि लिप्यक्षराणामसत्यानां सत्यार्थप्रतिपादकत्वमुच्यते—तदप्य
नभिज्ञभाषितम्—रेखास्तावत् स्वरूपतः सत्याः । ताश्च 891खण्डिकोपा
II.183
ध्यायोपदेशसंस्कृतमतेः वर्णानुमापिका भवन्ति । तथा संबन्धग्रहणात् रेखा
नुमितेभ्यश्च वर्णेभ्यः अर्थप्रतिपत्तिरिति नासत्यास्सत्योपायाः ॥
अयं गकारः892 इति तु सामानाधिकरण्यभ्रमः लिङ्गलिङ्गिनोरभे
दोपचारात् । यथा प्रस्थमिताः सक्तवः प्रस्थशब्देनोच्यन्ते, तथा रेखा
तोऽपि गकारानुमानात् रेखैव गकार इत्युच्यते । एवमनिष्यमाणे लिप्य
नभिज्ञस्यापि ततोऽर्थप्रतिपत्तिः स्यात्, रेखानामसत्यवर्णानां विद्यमान
त्वात् । न चेवमस्ति । तस्मात् वर्णानुमानपुरस्सरैव रेखाभ्योऽर्थावगतिः ।
अभ्यस्तत्वाद्विषयस्य, सक्ष्मत्वाच्च कालस्य क्रमो न लक्ष्यते, न त्वन्यथा
ततोऽवगतिः । तस्मात् पारमार्थिकत्वात् पदतदर्थानां न निरवयवौ
वाक्यवाक्यार्थाविति स्थितम् ॥
यत्पुनः वाक्यभागपदवर्णापह्नववर्त्मना शब्दब्रह्यैवाद्वयमुपदर्शयितु
मुपक्रम्यते—तत्र पुरस्तात् सविस्तरं समाधिमभिधास्यामः ॥
वाचस्त्रैविध्यतात्पर्यम्
यत्पुनरवादि वाचस्त्रैविध्यं—तदपि नानमन्यन्ते । एकैव वैखरी
वाग्वागिति प्रसिद्धा हि ॥
II.184
स्फोटवादोपसंहारः
तदास्तामियं शब्दब्रह्मचर्चा । प्रकृतमनुसरामः ॥
—इति स्फोटनिराकरणम्—
II.185
—वाक्यार्थबोधविचारः—
पदार्थनां वाक्यार्थबोधजनकत्वपक्षः
एवं स्फोटे प्रतिहते, वर्णेषु वाचकेषु स्थितेषु कश्चिदाह—वाढं
वर्णेभ्यः पदार्थप्रतीतिरस्तु । वाक्यार्थप्रतीतौ न तेषां सामर्थ्यम् ॥
कुतस्तर्हि वाक्यार्थावगतिः ? पदार्थेभ्य इत्याह ॥
तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वात् न वाक्यार्थे सामर्थ्यम् ।
अपरिम्लानसामर्थ्यास्तु पदार्था आसते । ते वाक्यार्थबुद्धेर्विधातारः ॥
898अर्थापत्त्या हि वर्णानां कार्येषु शक्तयः कल्प्यन्ते । तत्र पदार्थं
बुद्धेरन्यथानुपपन्नत्वात् यथोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरव
गम्यते । वाक्यार्थप्रतीतिः पुनरन्यथाऽप्युपपद्यमाना न तत्र तेषां शक्ति
मुपकल्पयितुमर्हति ॥
वर्णानां वाक्यर्थबोधजनकत्वासंभवः
किंच किमेकमेव संस्कारमादधाना वर्णाः पदार्थं वाक्यार्थं च
बोधयन्ति, भिन्नं वा ? तत्र च—
वाक्यार्थप्रतीतेरन्यथापि भावात् न नानासंस्कारकल्पनाबीजमस्ति ॥
अपि च पदेषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्ध्योपसंहर्तुं शक्येषु घट
मानं अन्त्यवर्णवेलायामनुसंधानं वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपर
II.186
परानुसन्धानमतिक्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् । व्यवहितपदोच्चारणे
तु दृश्यते वा वाक्यार्थप्रतीतिः, यत्र पूर्ववर्णानुसन्धानगन्धोऽपि नास्ति ।
तस्मान्न वर्णा वाक्यार्थबुद्धिहेतवः ॥
वर्णानां वाक्यार्थबोधजनकत्वानुपपत्तिः
अपि च पदार्थं वाक्यार्थं च प्रतिपादयन्तो वर्णाः—युगपत् प्रतिपाद
येयुः, क्रमेण वा ? तत्र सकृदुच्चरितानां युगप899दुभयकरणमनुपपन्नम्,
अशक्यत्वात् ॥
क्रमपक्षेऽपि पूर्वं चेत् वाक्यर्थप्रतिपादनं, तदयुक्तम्—अनवगत
पदार्थस्य वाक्यार्थप्रत्ययादर्शनात् । अथ पूर्वं पदार्थप्रतिपादनं, ततो
वाक्यार्थप्रत्यायनं, हन्त तर्हि पदार्थप्रत्ययादेव वाक्यार्थबुद्धेः सिद्धत्वात्
किमिति पुनः व्यापारान्तरे श्रम आश्रीयते । तस्मात् पदार्थप्रतिपादनपर्य
वसितसामर्थ्यानि पदानि । पदार्थेभ्यस्तु वाक्यार्थप्रत्यय इति सिद्धम् ॥
वर्णानामनुपस्थितावपि वाक्यार्थज्ञानसंभवः
अपि च अन्वयव्यतिरेकाभ्यामेवं अवगम्यते—यत् पदार्थपूर्वको
वाक्यार्थ इति । यो हि मानसादपचारात्900 श्रुतेष्वपि पदेषु पदार्थान्नाव
गच्छति, नावगच्छत्येव वाक्यार्थम् । यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्त
रतः पदार्थान् जानीयात्, जानात्येवासौ वाक्यार्थम् ॥
II.187
इति ॥
तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीतिं न व्यभिचरति । व्यभिचरति
तु पदप्रतीतिमिति न तत्कार्या भवितुमर्हतीति ॥
पदार्थानामेव वाक्यार्थबुद्धिजनकत्वम्
यदप्युच्यते—प्रत्येकं व्यभिचारात्, समुदितानामसाधारण्यात्902 न
पदार्थानां वाक्यार्थावगतिहेतुत्वमिति—तदप्ययुक्तम्—प्रत्येकं तावत् गम
कत्वं नेष्यत एव । समुदितानां त्वसाधारण्यं भवदपि न नः क्षतिकरम् ।
न ह्येते लिङ्गवत् संबन्धग्रहणमपेक्षमाणा अवबोधकाः, यदसाधारण्या
न्नावकल्पेत । किन्तु अगृहीतसंबन्धा अपि आकाङ्क्षायोग्यतासन्निधि
तात्पर्यपर्यालोचनया परस्परं संसृज्यन्ते । स एव वाक्यार्थः, यः 903संसृष्टः
पदार्थसमुदायः, इतरविशिष्टो वेतर इति ॥
नाप्यशाब्दत्वमित्थं वाक्यार्थप्रतीतेराशङ्कनीयम्, शब्दावगतिमूल
त्वेन तस्याः शाब्दत्वात् । शब्दात् पदार्थप्रतिपत्तौ वाक्यार्थप्रतिपत्तिरिति
सर्वमनवद्यम् । तदुक्तं—पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापा
राणि । अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति शा. भा.
1-1-25 इति ॥
II.188
वाक्यैरेव वाक्यार्थबोधपक्षः
अत्राप्यभिधीयते—न पदार्थेभ्यो वाक्यार्थावगतिः, अपि तु वाक्या
देव । तथा चायं वाक्यार्थ इति प्रसिद्धिः, न पदार्थार्थ इति । यथा हि
काल्पनिकवर्णसमूहात्मकं पदं पदार्थप्रतिपत्तिमादधाति, तथा काल्पनिक
पदसमूहात्मकं वाक्यं वाक्यार्थप्रतिपत्तिमाधास्यति ॥
ननु ! पदसमूहात्मकं वाक्यमन्यन्नास्ति, किन्तु पदान्येव वाक्यम् ।
पदानां च स्वार्थे चरितार्थत्वात् न वाक्यार्थसामर्थ्यमित्युक्तम्—नैतद्युक्तम्
—पदार्थानामपि चरितार्थत्वात् । क्व तेषां चरितार्थत्वम्—904स्वप्रति
पतौ ॥
पदार्थानां वाक्यार्थबोधाजनकत्वम्
ननु ! पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति ।
पुनस्तान्येव कथं वाक्यार्थप्रतिपत्तिमाधास्यन्ति ? पदार्थास्तु स्वावगते
रूर्ध्वं न क्वचित्परत्रचरितार्था इति वाक्यार्थबुद्धेर्विधातारो भवन्तु—नैत
देवम्—अन्त्यपदस्यान्यत्र चरितार्थत्वाभावात् ॥
अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते । तदर्थश्च पूर्वपदार्थ
विशिष्टो वाक्यार्थ इत्येके । तस्मात् वाक्यादेव वाक्यार्थप्रत्ययः ॥
पदानां वाक्यार्थबोधजननप्रकारः
किन्तु—किमेकसंस्कारस्मरणेन 905कार्यद्वयं पदानि विदधाति विभिन्न
संस्कारेण वा ? इति—तत्र कार्यभेदात् कारणभेदानुमानमिति प्रसिद्ध
II.189
एष पन्थाः । एकोऽप्यतीन्द्रियः संस्कारः कार्यात् कल्प्यते; बहवोऽपि
तत एव कल्पयिष्यन्ते, कार्यस्य भिन्नत्वात् ॥
यदपि चिरतिरोहितवर्णप्रबन्धानुसन्धानं दुर्घटमिति कथितं—तदपि
न चारु—कयाचित्कल्पनया वर्णानामिव पदबुद्धौ, पदानामपि वाक्यबुद्धा
वुपारोहसंभवात् । एतच्चानन्तरं दर्शयिष्यते ॥
यदपि विकल्पितं—युगपद्वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये
व्याप्रियेरन् ? इति—तत्राप्युच्यते—यौगपद्यं तावदनभ्युपगमादेव प्रत्यु
क्तम् । क्रमोऽप्येषामीदृशः—यत् प्रथमं पदार्थमवगमयन्ति, ततो
वाक्यार्थम् । सोऽयं तर्हि पदार्थपूर्वक एव वाक्यार्थ उक्तो भवतीति
चेत्—मैवम्—पदार्थो हि नाम प्रमेयमेव । न ते प्रमाणवर्गे
निपतन्ति । न च पदार्थवाक्यार्थयोरत्यन्तं भेदः, येन तयोः धूमाग्न्योरिव
संबन्धग्रहणसापेक्षयोः तदनपेक्षयोर्वा रूपदीपयोरिव प्रत्याय्यप्रत्यायक
भावः । न हि स्वशरीर एव गम्यगमकवाचोयुक्तिः प्रवर्तते । कथं
भवान् स्वभावहेतुवादिनो बौद्धस्य शिष्य इव निर्वृत्तः ॥
पदैः व्यक्तिबोधनप्रकारः
ननु ! सामान्ये हि पदं वर्तते, विशेषे च वाक्यम् । अन्यच्च
सामान्यम्, अन्ये च विशेषाः । यदुक्तं—
इति व्यतिरेक एव प्रत्याय्यप्रत्यायकयोः—उच्यते—बाढम् ?
अस्त्ययमियान् व्यतिरेकः । किन्तु विरतव्यापारे चक्षुषीव शब्दे, धूमा
II.190
दिवत् प्रमेयात् पदार्थात् अग्नेरिव वाक्यार्थस्यावगमो नास्ति । न हि
पदार्थाः प्रमेयीभूय धूमवत् पुनः प्रमाणीभवितुमर्हन्ति907 । किन्तु पदान्येव
तत्प्रतिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति । कथमात्मीयमेव ग्रन्थं
नावबुध्यन्ते भवन्तः ! श्लो-वा-वाक्य-340
अवान्तरव्यापारो हि न कारकस्य प्रधाने व्यापारे कारकतां
व्याहन्ति । पदानां हि द्वयी शक्तिः, अभिधात्री तात्पर्यशक्तिश्च । तत्र
अभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता । तात्पर्यशक्तिश्च वाक्यार्थे
पर्यवस्यतीति ॥
तात्पर्यवृत्त्या व्यक्तिबोधः
भाष्यकारोऽपि पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि
इति वदन् अभिधाव्यापार एव शक्तेः विरतिमाह, न तात्पर्यशक्तेः ।
अभिधाय निवृत्तव्यापाराणि पदानि यदर्थपराणि, तत्रानिवृत्तव्यापारा
ण्येव । एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते । सर्वात्मना तु विरत
व्यापारे शब्दे, साऽवश्यं हीयते । शब्दावगतिमूलत्वात्तु शाब्दत्वे श्रौत्र
त्वमपि स्यात्, श्रोत्रस्य पारंपर्येण तन्मूलत्वात् । शब्दे च विरतव्यापारे
कतमत् तत्प्रमाणम्, यस्य वाक्यार्थप्रतीतिः फलमिति न विद्मः ॥
न प्रत्यक्षम्, अतीन्द्रियत्वाद्वाक्यार्थस्य । नानुमानम्, न चानु
मानमेषा धीः श्लो-वा-1-1-1-त्रो-232 इत्यादिना ग्रन्थविस्तरेण स्वयमेव
निरस्तत्वात् । न शब्दः, निवृत्तव्यापारत्वात् ॥
II.191
इति न्यायात् । अर्थापत्तिरिति चेत्, किमिदानीमर्थापत्तिगम्यो
909धर्मः ? न चैतद्युक्तं, इष्टं वा । तदिदं सप्तमं910 प्रमाणमवतरति पारार्थ्यं
नाम । एतच्चापि नेष्टम् । अतो न पदार्थनिमित्तकः वाक्यार्थप्रत्ययः ॥
शाब्दबोधस्य शब्दजन्यत्वोपपत्तिः
यदप्युक्तं—अन्वयव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्याव
गम्यत इति—तत्र पदार्थसंसर्गस्वभावत्वाद्वाक्यार्थस्य सत्यं तत्पूर्वकत्व
मिष्यत एव वाक्यप्रतिपत्तेः, न तु तज्जन्यत्वं, शब्दव्यापारानुपरमात् ।
मानसे चापचारे911 सति पदानामपि ग्रहणं नास्त्येव, यतः क्षणान्तरे
समाहितचेताः स वक्ति नाहमेतदश्रौषम्, अन्यत्र मे मनोऽभूत्, पुनर्ब्रूहि
इति । इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेत्, न पुनः पृच्छेत् ।
तस्मात् पदानां ग्रहणमेव तत्र वाक्यार्थावगमे निमित्तम् ॥
प्रमाणान्तरोपस्थितस्य न शाब्दबोधविषयत्वम्
यदपि—पश्यतः श्वेतमारूपं इति—तदपि न किंचित् । किं
प्रत्यक्षेण शुक्लो गौः गच्छत् दृश्यते । न शुक्लो गौः गच्छतीति वाक्यस्यार्थो
न भवति । प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासौ न वाक्यार्थ इत्युच्यते ।
एवं श्वेतोऽश्वो धावति इत्यानुमानिकोऽयं प्रत्ययः पर्वतेऽग्निरितिवत् ।
वाक्यश्रवणात्तु विना न वाक्यार्थो भवितुमर्हतीत्यलं प्रसङ्गेन ॥
II.192
तस्मात् वर्णेभ्य एव कयाचित्कल्पनया पदवाक्यभावमुपगतेभ्यः
पदार्थवाक्यार्थप्रत्यय इति युक्तम् । तस्मात् पदार्थजन्या न भवति912
वाक्यार्थबुद्धिरिति सिद्धम् । अनुपरतव्यापारात् वाक्यादेवेयमुद्भवति ॥
वर्णानां पदभावोपगमप्रकारनिरूपणम्
आह—कया पुनः कल्पनाया पदवाक्यभावमुपगता वर्णाः पदार्थ
वाक्यार्थप्रतीतिमादध्युरिति ॥
तत्र आचार्यास्तावदिमां कल्पनामदीदृशन् । प्रथमं वर्णज्ञानं, ततः
संस्कारः । ततो द्वितीयवर्णज्ञानं, तेनप्रथमवर्णंज्ञानजनितेन च संस्कारेण
पटुतरसंस्कारः । ततः तृतीयवर्णज्ञानं, तेन प्राक्तनेन संस्कारेण पटुतरः
संस्कारः । एवं यावदन्त्यवर्णज्ञानम् । अन्त्यवर्णज्ञानानन्तरं तु ततः
संस्कारात् सकलपूर्ववर्णविषयमेकस्मरणम् । तेनान्त्यवर्णज्ञानस्य विन
श्यत्ता । विनश्यदवस्थग्रहणस्मरणविषयीकृतो वर्णसमूहः पदमिति
ज्ञायते ॥
वाक्यभावप्रदर्शनम्
ततः पदज्ञानात् संस्कारः । ततः तथैव वर्णक्रमेण द्वितीयपदज्ञानम् ।
तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरसंस्कारो जन्यते । पुनस्ते
नैव क्रमेण तृतीयपदज्ञानम् । तेन प्राक्तनेन च संस्कारेण पीवरतरः
संस्कारः जन्यते । एवं यावदन्त्यपदज्ञानं अन्तरेण स्थवीयसा संस्कारेण
सर्वपदविषयमेकस्मरणमुपजन्यते । संस्कारस्यैवैकत्वात् सोऽयं स्मरणानु
भवविषयीकृतवर्णसमूह एव पदम् । पदसमूहो वाक्यमित्युच्यते । ततो
II.193
वाक्यार्थप्रतिपत्तिः । संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषि
तव्यम् । अन्यथा सर्वत्र क्रियाभ्यासोऽनर्थकः स्यादिति ॥
वर्णानां पदवाक्यरूपतापत्तिनिराकरणपक्षः
अत्र वदन्ति—नेयं प्रक्रिया साध्वी, ज्ञानयौगपद्यप्रसङ्गात् । तथा,
हि—चरमपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं, तथा तदैव संकेतस्मर
णेनापि भवितव्यम् । अनवगतपदार्थसंबन्धस्य हि न वाक्यार्थप्रतीतिः ।
अस्मृतसंकेतस्य च न पदार्थप्रतीतिः । यत्राप्यभ्यस्ते विषये संकेतस्मृतिर्न
संवेद्यते, तत्राप्यविनाभावस्मृतिरेव बलादसौ कल्प्यते, अनवगतपदपदार्थ
संबन्धस्य नारिकेलद्वीपवासिन इवार्थप्रत्ययाभावात् । संबन्धानुभवस्य च
पूर्ववृत्तत्वेनेदानीं स्मरणमुखेनौपकारित्वात् । तस्मादन्त्यपदज्ञानानन्तरं
पूर्वपदसमय913स्मरणयोः युगपदुत्पादात् ज्ञानयौगपद्यम् ॥
पदैः वाक्यज्ञाने ज्ञानयौगपद्यं दुर्वारम्
अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते—तथापि तत्स्मृतिकाले
पदार्थज्ञानोपजननात् पुनरपि ज्ञानयौगपद्यम् । न च तदा पदार्थज्ञानं नोदे
तीति शक्यते वक्तुम्, अविकलतदुपजननकारण914सामग्रीसन्निधानात्,
प्रतिनायकस्य च तदानीमभावात् । पदार्थज्ञानोत्तरकालं तर्हि पूर्वपद
स्मरणमस्त्विति चेत्; एवं तर्हि चरमपदज्ञानप्रत्यस्तमयात् अन्त्यपद
915
II.194
रहितं वाक्यं स्यात् । अन्त्यपदज्ञानस्य हि सङ्केतस्मृतिवेलायां विनश्यत्ता,
पदार्थज्ञानवेलायां विनाश एव यतः ॥
असंवेद्यमानशब्दसत्ताऽसंभवः
ब्रूयात्—असंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति—स्वस्ति तर्हि
न्यायविस्तराय916 ॥
अपिच तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते ?
पुनरवगमोऽस्य भविष्यतीति चेत्; स कुतस्त्यः ? श्रोत्रस्य विरम्यव्या
पारासंवेदनात् । मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासंभवात् ।
सत्यपि पुनस्तदवगमे ज्ञानयौगपद्यानपायात् ॥
अपिच पूर्वपदैः 917अर्थशून्यतया शुष्कनीरसतनुभिः अन्त्यपदानुभव
समनन्तरं स्मृतैरपि को गुणः ? न हि तथाविधपदस्मरणमर्थप्रत्याय
नाङ्गम् ॥
अथ सार्थकानि प्रांचि पदानि स्मर्यन्ते, तर्हि समयस्मरणपदार्थज्ञाना
दिकार्यसाङ्कर्यकृतं अनेकशाखं 918प्रतिपदं ज्ञानयौगपद्यमापद्यत इत्यसतीयं
कल्पना ॥
वर्णानां पदवाक्यभावे पक्षान्तरम्
व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः—वर्णानुगमरूपेण तावत् प्रथम
II.195
पदज्ञानमुत्पद्यते । ततः सङ्केतस्मरणम् । तेन विनश्यदवस्थेन पदज्ञानेन
स्वविषयावच्छेदेन पदार्थज्ञानमाधीयते, यत्र वाचकावच्छिन्नं वाच्यस्वरूप
मवभासते । तथाविधपदार्थज्ञानान् संस्कारः । ततः तथैव क्रमेण
द्वितीयपदज्ञानम् । तदनु समयस्मरणम् । तेन विनश्यदवस्थेन च द्वितीय
पदज्ञानेन तथैव स्वावच्छेदेन स्वार्थज्ञानम् । तेन प्रथमपदार्थज्ञानाहितेन
च संस्कारेण दृढतरः संस्कारः । पुनर्वर्णक्रमेण तृतीयपदक्रमेण तृतीयपद
ज्ञानम् । पुनः सङ्केतस्मरणम् । सङ्केतस्मृतिसहायेन तेन विनश्यदव
स्थेन स्वार्थे तथैव स्वावच्छिन्नं ज्ञानम् । तेन प्राच्येन च संस्कारेण
दृढतरः संस्कारः । एवं तावत् यावदन्त्यपदज्ञानात् स्वावच्छिन्नार्थप्रतीतिः ।
ततः पूर्वोपचितात् महतः संस्कारात् विशिष्टसर्वविषयमेकं स्मरणम्, यस्य
स्वाभिधानावच्छिन्नाः सर्वे पूर्वपदार्था विषयतां प्रतिपद्यन्ते । तस्मिन्
स्मरणे तथान्त्यपदार्थज्ञानेऽवच्छेदकत्वेन प्रस्फुरत्पदसमूहो वाक्यम्, अव
च्छेद्यत्वेन प्रकाशमानोऽर्थसमूहो वाक्यार्थः । एवं स्मर्यमाणानुभूयमानौ
पदपदार्थंसमूहौ वाक्यवाक्यार्थाबुक्तौ भवतः ॥
पक्षान्तरनिराकरणम्
एतदपि न विचारक्षमम्—अन्त्यपदार्थप्रतीतिसमये तदवच्छेदकतया
प्रतिभासमानं पदं तत्प्रतीतौ तावत् कारणमिति नात्र विमतिः । स्वयं च
प्रतिभासमानत्वात् कर्मापि भवत्येव । तस्येदानीं कर्मत्वे करणं चिन्त्यम् ।
न श्रोत्रं तावत् करणम्, अन्त्यपदप्रतीत्यनन्तरमेव तद्व्यापारस्य विरत
त्वात् । विरम्य च पुनर्व्याप्रियमाणत्वानुपपत्तेः । मनस्तु बाह्ये विषये
स्वातन्त्र्येण प्रवर्तितुमसमर्थम् । तत्प्रवृत्तौ सर्वाण्येव प्रथमपदात्प्रभृति
पदानि मानसव्यवसायगोचराणि भवन्तु; किं स्मर्यमाणत्वमन्ये
षामुच्यते ?919
II.196
अथ तदन्त्यपदं अर्थे इव आत्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं
प्रतिपत्स्यत इति मन्यसे—तदयुक्तम्—स्वप्रतीतौ तस्य कर्मत्वात् । न
चैकस्यामेव क्रियायां तदेव कर्म करणं च भवितुमर्हति । विस्तरतश्चायं
वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इति अलं पुनस्त
द्विमर्देन ॥
वाक्यार्थबोधप्रकारे पक्षान्तरम्
अपर आह—प्रथमं पदज्ञानम् । ततः सङ्केतस्मरणम् । ततः
पदार्थज्ञानम् । पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता । विनश्यदवस्थ
पदज्ञानमपेक्षमाणं श्रोत्रं प्रथमपदावच्छेदेन द्वितीयपदे ज्ञानमादधाति ।
द्वितीयपदज्ञानानन्तरं पुनः संबन्धस्मरणम् । ततः पदार्थज्ञानम् । तेन
द्वितीयपदज्ञानस्य विनश्यत्ता । विनश्यदवस्थपदज्ञानसहायात् श्रोत्रात्
तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावत् यावदन्त्यपदज्ञानमिति ॥
तदज्ञानानन्तरं च प्राक्तनप्रक्रियावत् नात्र पूर्वपदस्मरणमुपयुज्यते ।
तत्फलस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्धत्वात् ।
तस्य हि फलमन्त्यपदावगमसमये सकलपूर्वपदोपस्थापनम् । तच्च विनश्य
दवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुराग920बलादेव लब्धमिति किं तत्स्मर
णेन ? तदभावाच्च नात्र ज्ञानयौगपद्यादिचोद्यावसरः समस्ति । यथो
पदर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न तस्य चरितार्थत्वमन्यत्र
इत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति, न पदार्थेभ्य इति ॥
II.197
ज्ञानोपजननानुपपत्तेः । प्रथमपदज्ञानानन्तर हि संबन्धस्मरणम् । तेनैव
तस्य विनश्यत्ता । पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव । विन
श्यदवस्था बुद्धिः बुद्ध्यन्तरविरोधिनीति सामान्येन श्रवणात् ॥
ज्ञानविशेषयोयौगपद्यसंभवपक्षः
ब्रूयात्—कार्यभूतया बुद्ध्या कारणभूतबुद्धिः विरुद्ध्येत, न बुद्धि
मात्रेण921 बुद्धिमात्रमिति—एतदयुक्तम्—विशेषे प्रमाणाभावात ॥
अभ्युपगम्यापि ब्रूमः—विशेषे प्रमाणभूतयोरेव बुद्ध्योर्भवतु वध्य
विघातभावः । तथापि पदज्ञानं संकार इव 922समयस्मृतेः कारणमेव,
संस्कारेणेव तेनापि विना तदनुत्पादात् । संस्कारप्रबोधे तस्य व्यापार
इति चेत्; तेनापि द्वारेण यत् कारणं, तत् कारणमेव । तदिह पदज्ञानं
समयस्मरणं, पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति परः
प्रामदः ॥
एतत्पक्षेऽपि ज्ञानयौगपद्यं दुर्वारम्
अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते, न सहसैव; निरंश
पदवादस्य व्युदस्तत्वात् । तत्र च द्वित्राणि, त्रिचतुराणि, पंचषाणि
वाऽक्षराणि क्रमेण ग्रहीष्यन्ते । तद्विषया हि क्रमभाविन्यः उपजनना
पायधर्मिका बुद्धयः । अत्रान्तरे विनश्यदवस्थमाद्यपदज्ञानमासिष्यते,
तदुपरागेण द्वितीयपदज्ञानमुत्पत्स्यत इति दुराशैवेयम् ॥
II.198
व्यवहितपदोच्चारणेऽपि शाब्दबोधः
अपिच व्यवहितोच्चरितेभ्योऽपि पदेभ्यः वाक्यार्थप्रत्ययः दृश्यते ।
यत्रानेककार्यपर्यालोचनाव्यग्रहृदयः स्वामी रे कन्दलक ! इत्युक्त्वा,
कार्यान्तरं संविधाय, तुरगं इति वदति । पुनः प्रयोजनान्तराय व्यव
हृत्य, कल्पितपर्याणं इत्यादि वक्ति । पुनरन्यत् किमपि कृत्वा ब्रवीति
आनय इति । तत्र रे कन्दलक ! कल्पितपर्याणं तुरगमानय इति
वाक्यार्थावगमो भवति । भवन्मते चासौ दुरुपपादः । पदानुरागस्य
तत्रासंभवात्923 । पूर्वपदस्मरणस्य चानभ्युपगमात् ॥
शङ्करस्वामिपक्षः
किंच न प्रवरमतानुसारिणामिव भवतां विशेष्यबुद्धिषु विशेषण
विशेष्ये द्वे वस्तुनी आलम्बनम्, अपि तु विशेष्यमात्रम्, उपायभेदादेव924
प्रतीत्यतिशय इति । ततश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात्
शुद्धमेव द्वितीयपदज्ञानं संपन्नमिति किं तदनुरागेण ? अतश्चेयमनुपपन्ना
कल्पना, यतो द्वितीयपदस्य स्वार्थे शुद्धस्यैव सङ्केतग्रहणं वृत्तम् । यदा
क्वचित् प्रथमं प्रयुक्तमासीत्, अधुना तु तत्पदं पदान्तरोपरक्तं संजात
मिति तादृशस्यागृहीतसंबन्धत्वादर्थप्रतिपत्तिहेतुत्वं न स्यादित्यास्तामपूर्व
मिदं शङ्करस्वामिनः925 पाण्डित्यम् ॥
स्वमतेन वाक्यार्थबोधोपवर्णनम्
आह—यदीमाः सर्वा एव सदोषाः तान्त्रिकरचिताः कल्पनाः
न साधीयस्यश्चेत्, तदाऽऽत्मीया का चन निर्दोषा साध्वी कल्पना
II.199
निवेद्यताम्—उच्यते—न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं
क्षमाः ॥
स्वमते वर्णेभ्य; वाक्यार्थबोधवर्णनम्
तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति । उच्यते—
चिरातिक्रान्तत्वं अचिरातिक्रान्तत्वं वा न स्मृतिकारणम् । संस्कार
करणकं हि स्मरणं भवति । तच्च सद्यः प्रलीने चिरप्रलीने वा न
विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहितानामपि, व्यवहितोच्चारि
तानामपि संस्कारात् स्मरणं भविष्यति । अन्त्यपदस्य चानुभूयमान
त्वोपगमे ज्ञानयौगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाण
मस्तु । स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति ॥
वाक्यार्थबोधक्रमः
तत्र चेयं कल्पना—वर्णक्रमेण तावत् प्रथमपदज्ञानम् । ततः
सङ्केतस्मरणं, संस्कारश्च युगपद्भवतः । ज्ञानयोर्हि यौगपद्यं शास्त्रे
926
II.200
प्रतिषिद्धं, न संस्कारज्ञानयोः । ततः पदार्थज्ञानम् । तेनापि संस्कारः ।
पुनर्वर्णक्रमेण द्वितीयपदज्ञानम् । ततः सङ्केतस्मरणम् । पूर्वसंस्कार
सहितेन च तेन पटुतरः संस्कारः । पुनः पूर्ववर्णक्रनेण तृतीयपदज्ञानं,
संकेतस्मरणं, पूर्वसंस्कारापेक्षः पदुतरः संस्कार इत्येवं पदज्ञानजनिते
पीवरे संस्कारे, पदार्थज्ञानजर्निते च तादृशि संस्कारे स्थिते अन्त्यपदार्थ
ज्ञानानन्तरं पदसंस्कारात् सर्वपदविषयस्मृतिः, पदार्थसंस्काराच्च
पदार्थविषया स्मृतिरिति संस्कारत्रयात् क्रमेण द्वे स्मृती भवतः । तत्रैकस्यां
स्मृतावुपारूढः पदसमूहो वाक्यं, इतरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः ॥
शाब्दबोधस्य स्मृतिमूलकत्वेऽपि नाप्रामण्यम्
ननु ! स्मृतेरप्रमाणत्वात् अप्रमाणत्वमिदानीं वाक्यार्थप्रतीतेः—
मैवम्—927तथासंबन्धग्रहात् । यत्र ह्यन्यथासंबन्धग्रहणं, अन्यथा च प्रति
पत्तिः, तत्रायं दोषः । यथा धूमे गृहीतसंबन्धे नीहाराद्दहनानुमितौ ।
इह तु क्रमवर्तिनां वर्णानां अन्यथा प्रतिपत्त्यसंभवात्, यथैव व्युत्पत्तिः
तथैव प्रतीतिरिति न किंचिदवद्यम् । अचिरनिर्वृत्तानुभवसमनन्तर
भाविनी च स्मृतिरनुभवायते928 ॥
पदार्थज्ञानं मानसरूपं वा
अथ वा कृतं स्मरणकल्पनया । अन्त्यपदार्थज्ञानानन्तरं सकलपद
पदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति ।
II.201
तदुपारूढानि पदानि वाक्यं, तदुपारूढश्च पदार्थो वाक्यार्थः । तथा
विधश्च मानसोऽनुव्यवसायः सकललोकसाक्षिकत्वादप्रत्याख्येयः ॥
अन्तिमतावत्पदार्थस्मरणस्यावश्यकता
ननु ! अन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेन स्मरणेन,
अनुव्यवसायेन वा । अन्त्यपदार्थश्चेत् ज्ञातः, समाप्तं कर्तव्यं, किमन्य
दवशिष्टं, यत् व्यवसायेन, स्मरणेन, अनुव्यवसायेन वा करिष्यते—कथं
न करिष्यते 929एकाकारो हि वाक्यवाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न
शक्यतेऽपह्नोतुम् । न चासौ स्मरणादनुव्यवसायाद्वा विना संपद्यत इत्यस्ति
तदुपयोगः । इत्थं स्मरणारूढं संकलनाज्ञानविषयीकृतं चेदं पदनिकुरुम्बं
वाक्यं, तथाविधश्चैष वाक्यार्थः ॥
संसर्गभासकसामग्रीप्रदर्शनम्
असंसृष्टा हि गौरश्वः पुरुषो हस्ती इति पदार्थाः न वाक्यार्थ
भावमधिरोहन्ति । अन्त्यपदार्थज्ञानानन्तरभाविनां हि स्मरणेन, अनु
II.202
व्यवसायेन वा विषयीक्रियमाणास्तु यथावगता एव विषयीक्रियन्ते ।
संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्—उच्यते—अस्त्यत्र विवादः ।
केचिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते, अन्यथा पदानां
वाक्यत्वायोगादिति ॥
अन्ये तु मन्यन्ते—शुद्धानामेव पदार्थानां पदैरभिधानम् । ते तु
तथाऽभिहिताः सन्तः परस्परमाकाङ्क्षासन्निधियोग्यत्वपर्यालोचनया संसर्ग
मधिगमयन्तीति ॥
अन्विताभिधानाभिहितान्वयवादौ
तत्रेदं विचार्यम्—व्युत्पत्तिर्बलीयसी, न हि शब्दो व्युत्पत्तिनिरपेक्षो
ऽर्थमवगमयति । व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे, पदस्य वा पदार्थे
इति ॥
931यदि वाक्यस्य वाक्यार्थे व्युत्पत्तिः, तदाऽन्विताभिधानम् । पदस्य
पदार्थे व्युत्पत्तौ अभिहितान्वय इति ॥
अभिहितान्वयवादवर्णनम्
किं तावत्प्राप्तम् ? अभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वा
द्वाक्यार्थप्रतिपत्तेः । न ह्यनवगतपदार्थस्य वाक्यार्थसंप्रत्ययो दृश्यते,
पदार्थविभागश्च गम्यते—अस्य पदस्य जातिरर्थः, अस्य द्रव्यं, अस्य गुणः,
अस्य क्रियेति । स चैवमवकल्पते, यदि तावत् सोऽर्थः पदैरभिधीयते ।
पदान्तौरार्थोपरक्ते तु—तस्मिन्नभिधीयमाने तदर्थेयत्तैव नावधार्यते, कदम्बा
कारार्थप्रतीतेः ॥
II.203
अन्विताभिधाने विभक्तपदार्थज्ञानासंभवः
आवापोद्वापाभ्यां तदवधारणमिति चेत्—मैवम्—आवापोद्वाप
परीक्षावसरेऽपि कदम्बप्रतीत्यनपायात् । न ह्येकमेव किंचिद्वाक्यमन्विता
भिधायिपदग्रथितम्, 932अन्यत्र तु शुद्ध एव पदानामर्थः; किन्तु सर्वत्र
कदम्बकरूपादुपायात् कदम्बकरूपमुपेयं प्रतीयत इति दुरवगमः पदार्थ
विभागः ॥
ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यात् अश्वानयननियोगः
प्रतीयेत, गां बधानेति वाक्यादश्वबन्धननियोगः प्रतियेत933 । अपेक्ष्यते
तु पदानामर्थः । सोऽपेक्ष्यमाणः इयानिति नियतोऽवधारयितव्यः ।
तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते । तस्मात् पदपदार्थयोरौ
त्पत्तिकः934 संबन्ध इष्यते ॥
व्यवहाराच्छक्तिग्रहः पदविषयक एव
वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्ता भवति ।
इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत । सा चानत्त्यात् दुरुपपादेति
शब्दव्यवहारोच्छेदः स्यात् । दृश्यते च पदार्थविदामभिनवकविश्लोका
दपि वाक्यार्थप्रतीतिः । सा पदतदर्थव्युत्पत्त्याऽवकल्पते । वाक्यवाक्यार्थ
योस्तु व्युत्पत्तावपेक्षमाणायां सा न स्यादेव । तस्मान्नान्विता
भिधानम् ॥
II.204
तदुपरंजकद्वितीयपदार्थावगतिः सिद्धैव । तदपि पदमन्यानुरक्तस्वार्थ
वाचीत्यनेनैव न्यायेन एकमेव पदमखिलपदाभिधेयार्थवाचि संपन्नमिति तेनैव
व्यवहारोऽस्तु ॥
न चासौ संपद्यते । गौरित्युक्ते सर्वगुणक्रियाऽवगमात् न ज्ञायते
किमुपादीयतामिति । सर्वावगमो ह्यनवगमनिर्विशेष एव, व्यवहारानु
पपत्तेः । न हि 935रसविदां पूर्णोऽप्यब्धिः मेरोरतिरिच्यते, सलिलकार्या
निर्वृत्तेः । नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्प
श्यामः ॥
पदान्तरसन्निधानमात्रान्नान्वयभानम्
पदान्तरसन्निधानं नियमहेतुरिति चेत्, किं स्वरूपमात्रेण, अर्थ
प्रतिपादनेन वा ?
स्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदपि असन्निधानान्न
विशिष्यते, अनुहीतसंबन्धस्य तत्कृतोपकारादर्शनात् ॥
अर्थप्रतिपादनेन तु पदान्तरं यदि नियमहेतुः, सोऽयमभिहिताना
मर्थानामन्वय उक्तो भवति936 । तस्मात् स एव श्रोयान् पदेभ्यः प्रतिपन्ना
निष्कृष्टास्तावदर्था आकांक्षासन्निधियोग्यत्ववशेन परस्परमभिसंबध्यन्ते ।
II.205
येनाकाङ्क्षितः, यश्च सन्निहितः, यश्च संबद्धुं योग्यः, स तेन
संबध्यते; नातोऽपरः ॥
अन्वयशून्यवाक्यनिदर्शनम्
अत एव अङ्गुल्यग्रे हस्तियूथशतमास्ते इति नास्ति संबन्धः,
योग्यत्वाभावात् । अन्विताभिधानवादिनां तु अनन्वितस्यानभिधानात्
तत्राप्यन्वयः प्राप्नोति । स च नास्ति । तस्मात् अभिहितानामेव
पदार्थानामन्वय इति युक्तम् । तदुक्तं—पदानि हि स्वं स्वमर्थमभिधाय
निवृत्तव्यापाराणि । अथेदानीमर्थाः अवगता वाक्यार्थं संपादयन्ति
इति ॥
अन्विताभिधानवादिभिः अभिहितान्वयदूषणम्
एवं प्राप्ते अभिधीयते—न व्युत्पत्तिनिरपेक्षो दीप इव937 शब्दोऽर्थ
मवगमयति । व्युत्पत्तिश्च वृद्धव्यवहारात् । वृद्धानां च व्यवहारो
वाक्येन, न पदेन; केवलपदस्याप्रयोगात् ॥
सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः ॥
II.206
वाक्यस्वरूपम्
वाक्यं च किमुच्यते ? संहत्यार्थमभिदधन्ति पदानि वाक्यमिति
वाक्यविदः । तत्रायं पदसमूह एवार्थो भवति । एवं न संहत्यार्थमभि
दध्युः पदानि, यद्येकैकस्य पदस्य सर्वत्र व्यापारः । यथा हि बाह्यानि
कारकाणि काष्ठादीनि सर्वाण्येव पाके व्याप्रियन्ते, यथा च शिविकाया
उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति, यथा त्रयोऽपि ग्रावाण 939उखां बिभ्रति
—तथा सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति । तदिदमन्विताभिधा
नम् । अन्यानन्वितनिष्कृष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यर्थे
व्यापारस्स्यात् ॥
अन्विताभिधानवादे पदान्तरं न व्यर्थम्
ननु ! एवमेकैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धेः
पदान्तरोच्चारणं व्यर्थमित्युक्तम्—नैतत्—पदान्तरेण विनैव एकस्मात्
कृत्स्नकार्यसंपत्त्यभावात् । न तर्ह्येकं कृत्स्नकारीति चेत्—मैवम्—
एकैकस्य कृत्स्नफलपर्यन्तव्यापारपतितत्वात् एकैकस्मिन् सति कृत्स्नफल
पर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निर्वर्तत इत्येवमेकैकं कृत्स्न
कारि भवति ॥
ननु ! एवं तर्हि समुदाय एव कर्ता भवतु, किं समुदायिभिः ?
ततश्च तदेवायातं निरवयवौ वाक्यवाक्यार्थाविति—नैतद्युक्तम्—सङ्घात
कार्यवत् स्वकार्यस्यापि दर्शनात् ॥
अर्थ किं सङ्घातकार्यम् ? किंच तत् स्वकार्यम् ?
II.207
वाक्यार्थप्रतिपत्तिः सङ्घातकार्यम् । स्वकार्यं तु पदार्थप्रतिपत्तिः ।
यथा पाकः सङ्घातकार्यम् । स्वकार्यं ज्वलनभरणादि काष्ठस्थाल्या
दीनाम् ॥
अन्विताभिधाने दूषणोद्धारः
ननु ? यदि पदानां पदार्थप्रतिपादनम् स्वकार्यम्, शुद्धस्तर्हि पद
स्यार्थः940—न शुद्धः पदार्थः । सङ्घातकार्यमकुर्वतां शुद्धानां पदानामदृ
ष्टष्वात् । न ह्येषां स्वकार्ये सङ्घातकार्ये च पृथक् प्रयोगोऽस्ति, सर्वथा
सङ्घातकार्य एव प्रयोगात् । 941तत्र प्रयुक्तानामप्येषां स्वकार्यं न नाव
गम्यते । अत एव न निरचयवं वाक्यमिष्यते, स्वकार्यप्रत्यभिज्ञानात् ॥
संहतास्ते संघातकार्यं कुर्वन्तो दृश्यन्ते, न संघात एव संहतेष्वपि
कुर्वत्सु स्वकार्यं पृथक्पृथगुपलभ्यते । यथा शकटांगानां अयमंशोऽनेन
कृतः, अयमनेनेति न पृथक्पृथक् प्रयुज्यमानानि शकटांगानि मनागपि
शकटकार्यं कुवन्तीत्येवं न केवलं पदं प्रयुज्यते, प्रयुक्तमपि वा न तत्कार्या
ङ्गम् । पदान्तरेण तु सह व्यापारात् तदन्वितार्थकार्येव पदमिति—
युक्तम् । तदिदमुक्तं—संहत्यार्थमभिदधन्ति पदानि वाक्यम्, एकार्थः
पदसमूहो वाक्यम् इति ॥
तदेवमवयवकार्योपलम्भात् न वैयाकरणवन्निमित्तान्यपि निह्नुमहे942
कृत्स्नफलसिद्ध्यवधि व्यापारपरिनिश्चयाच्च नान्यमीमांसकवत् शुद्ध
पदार्थाभिधानमुपगच्छामह इति ॥
II.208
अन्विताभिधानवादे दूषणोद्धारः
यत्पुनरभ्यधायि—प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, अन्यथा नवकवि
श्लोकादर्थः पदार्थविदो न प्रतीयेतेति—तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्—
न ह्येवं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितोऽर्थः इति । स हि व्यभिचरति,
कृष्णान्वितस्य दर्शनात् । नापि सर्वान्वितस्तदर्थः, आनन्त्येन दुरवगमात् ।
किन्त्वाकाङ्क्षितयोग्यसन्निहितार्थानुरक्तोऽस्यार्थ इति943 ॥
एतां च व्युत्पत्तिं वाक्यान्यावापोद्वापाभ्यां रचनावैचित्र्यभांजि
संजनयन्ति । पदार्थपर्यन्तापि भवन्ती व्युत्पत्तिः ईदृशी दृश्यते, न शुद्ध
पदार्थविषया, पदेन व्यवहाराभावादित्युक्तम् । तथापि न न ज्ञायते—
इयान् पदस्यार्थ इति शकटाङ्गवदावापोद्वापाभ्यां तत्कार्यभेदस्य
दर्शितत्वात् ॥
तदित्थं न प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते । सन्निहितयोग्याकाङ्क्षि
तार्थोपरक्तस्वार्थाभिधायित्वेन हि क्वचिद्गृहीतसंबन्धः सर्वत्र गृहीतो
भवति । ततश्च नवकविश्लोकादप्यर्थप्रतिपत्तिरुपपत्स्यते । पदपदा
र्थयोस्तु न व्युत्पत्तिः, उपायाभावादित्युक्तम् ॥
अन्विताभिधानेऽपि पदान्तरसार्थक्यम्
यदपि पदान्तरोच्चारणमफलमिति, तदपि परिहृतम्—पदान्त
रसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात् ।
944
II.209
पदान्तरसन्निधानेन क्रियत इति चेत्; सर्वकारकेष्वपि तुल्योऽयमनुयोगः ।
संहत्य तु सर्वाणि कारकाणि कुर्वन्तीत्युच्यन्ते । तथा पदान्यपि अर्थाभि
धानेनापि चोपकुर्वत्सु पदेषु नाभिहितान्वयः, अनन्वितेऽर्थे व्युत्पत्त्यभा
वात् । अनुपगमे वा दुरुपपादः पदार्थानामन्वयः, उपायाभावात् ॥
अन्वयस्य आकांक्षाद्यधीनत्वासंभवः
ननु आकांक्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तम्—न युक्तमुक्तम् ।
कस्येयमाकाङ्क्षा ? शब्दस्य, अर्थस्य, प्रमातुर्वा ? शब्दार्थयोस्तावद
चेतनत्वात् नाकाङ्क्षायोगः । फलत इयं तु तत्र तत्र वाचोयुक्तिः शब्दः
शब्दान्तरमाकांक्षति, अर्थोऽर्थान्तरम् इति । प्रमातुः पुनः स्वतन्त्रस्या
कांक्षा न प्रमाणम्, पुरुषेच्छया वस्तुस्थितेरघटमानत्वात् । शब्दाख्य
प्रमाणपृष्ठभावेन तु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं
शब्दस्यायमियानिषोरिव दीर्घदीर्घो व्यपारः । उपरतव्यापारे तु शब्दे
पुरुषाकाङ्क्षामात्रं न संबन्धकारणम् ॥
तस्मादन्विताभिधायीनि पदानीति स्थितम् ॥
अन्विताभिधानवादसमर्थनम्
एष एव हि संसर्गप्रतीतेः पन्थाः—
II.210
तस्मादन्वितानामेवाभिधानं युक्तम् ॥
अनन्वितवाक्ये गतिप्रदर्शनम्
आह—
उच्यते—
आह—
उच्यते—
आह—अन्विताभिधानवादी हि भवान् । ततश्च—
II.211
अहं त्वभिहितान्वयवादी । तेन—
उच्यते—
तदुक्तं—प्रमाणान्तरदर्शनमत्र बाध्यते इति ॥
अन्वितभानमेवौत्सर्गिकम्
यदि तु शादोऽन्वयो न भवेत्, कचतटपादिवर्णनिर्देशमात्रमिदं स्यात्;
दशदाडिमादिप्रलापतुल्यं वा स्यात् । अनन्विताभिधानात् वाक्यत्वमेव
II.212
न भवेत् । अस्ति तु वाक्यत्वम् । तेन मन्यामहे अस्ति शाब्दोऽन्वय इति
अत्रापि अन्विताभिधानं न विरुद्धम् । बाधकस्त्वन्यविषय951 एव, न
शब्दसंसर्गविषय इत्युक्तम् । अत एव स्वसामर्थ्यसिद्धनिर्निबन्धबोधकत्व
व्यापारे शब्दे स्वतो वेदप्रामाण्यमनाकुलं निर्वक्ष्यति, अपौरुषेयतया विप्ल
वासंभवात् । स्वव्यापारस्य च स्वत एव शुद्धत्वमित्यलमतिप्रसङ्गेन ॥
अन्विताभिधानवादखण्डनम्
तदेतदपि नानुमन्यते—यदुक्तं वृद्धव्यवहारात् व्युत्पत्तिरिति—तत्
सत्यम् । वाक्येन व्यवहार इत्येतदपि सत्यम् । शिबिकोद्यंचन्नृव
सर्वाणि पदानि कार्ये संहत्य व्याप्रियन्त इत्येतदपि सत्यमेव ॥
व्युत्पत्तिश्चिन्त्यताम्—किमेकघटनाकारसङ्घातकार्यनिष्ठैव सा ?
किं वा पदार्थपर्यन्ता ? इति । पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरि
हार्या । सा च बहुप्रमादेत्युक्तम्952 । पदार्थपर्यन्तायां तु व्युत्पत्तौ नूनं
निर्धारणीयं इयान् पदस्यार्थः इति । भवद्भिरपि शकटावयवदृष्टान्त
वर्णनेन पदव्यापारनिर्धारणमङ्गीकृतमेव । इतरथा हि पदार्थनियमान
पेक्षणे गामानयेतिविवक्षावान् अश्वपदमपि नित्तितयोपाददीत । न हि
भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव, वाक्यार्थप्रत्ययः । तदसौ
यावानावापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धार्यते, तावानेव सङ्घात
कार्येऽपि व्याप्रियमाणस्य तस्यार्थः ॥
II.213
अभिधात्रीशक्तिः पदार्थ एव
ननु आकाङ्क्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थ इत्युक्तम्—नैत
द्युक्तम्—सर्वदा संहत्यव्याप्रियमाणमेतत्पदं पश्यतस्तवायं भ्रमः । अर्थः
तावानस्य, यावत्यभिधात्री तस्य शक्तिः ॥
कियति तस्याभिधात्री शक्तिः ? कियति तस्यानभिधात्री शक्तिः ?
यावत्तमर्थं अन्योन्यमाकाङ्क्षितैश्च सन्निहितैश्च संयुज्यमानं न मुंचति ॥
कियन्तं च न मुंचति, गोत्वमात्रं, तद्वन्मात्रं वा ? इत्यतस्तावत्येवाभि
धात्री शक्तिरन्वयव्यतिरेकाभ्यां अस्य निर्धार्यते ॥
अतः परमेकस्य पदस्याप्रयोगात् सर्वदा सङ्घातकार्यरहितकेवल
स्वकार्यचातुर्यानवधारणात् प्रधानकार्ये 953तात्पर्यशक्तिरस्य व्याप्रियते, नाभि
धात्री । तां च पृथगविवेचयता भवता अन्विताभिधानमभ्युपगतम् ।
तच्च न युक्तम्—तर्वत्र अभिधात्र्याः शक्तेरविशेषात् । पदार्थनियमानव
धारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषाणामनपायात् ॥
अन्विताभिधाने विरोधप्रदर्शनम्
येनान्वितमर्थमभिदधाति गोशब्दः, तदनभिधाने, तदन्वितानवग
मात् येन सह संसर्गः, स न गृह्यते, तत्संसृष्टश्च गृह्यते इति विप्रतिषिद्धं
स्यात् । तदभिधाने वा तद्वत्सर्वाभिधानमिति एकमेव गोपदं सर्वार्थं
भवेत् । तस्मान्न 954सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति नान्विता
भिधानम् ॥
II.214
अन्विताभिधाने शब्दानामर्थासंस्पर्शित्वप्रसंगः
अन्विताभिधानपक्षे च कथमङ्गुल्यग्रवाक्येऽपि नान्वयः स्यात् ?
शाब्दोऽस्त्येव समन्वय इति चेत्; अर्थासंस्पर्शी शब्दः प्राप्नोति, बहिर
न्वयाभावात् । प्रकाशकत्वमात्रं व्यापार इति चेत्—बाढम्—तत्त्वन्वि
तानन्वितविषयं वेदितुं युक्तम्, न पुनरन्वितविषयमेवेति शक्यते निय
न्तुम् । दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः ।
न तत् वाक्यमिति चेत्, अङ्गुल्यग्रवाक्यमपि न वाक्यमेव । आधा
राधेयक्रियासंसर्गप्रतीतिस्तु भ्रममात्रम् । तस्मात् अन्वितमर्थमभिदधति
पदानीत्यसमीचीनम् ॥
अभिहितान्वयेऽपि क्लेशः
955तत्किमयश्शलाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्य
न्ताम् ? एतदपि नास्ति । तथाविधव्यवहाराभावात् । पश्चादन्वयस्य च
दुरवगमत्वात्, विरम्यव्यापारस्य चासंवेदनात् । तस्मात् पक्षद्वयमपि
न क्षेमाय । तदुक्तम्—
उक्तोभयवादमध्यस्थो वादः
अन्या तु वाचो युक्तिः कैश्चित्कृता—अन्वीयमानाभिधानं, अभिधी
यमानान्वयश्चेति956 । साऽपि न हृदयङ्गमा ॥
II.215
ते हि क्रमेण वा स्याताम्, युगपद्वा ? क्रमपक्षे पूर्वमन्वयक्रिया चेत्,
तदिदमन्विताभिधानमेव, नान्वीयमानाभिधानम् । पूर्वं चेदभिधानक्रिया,
सोऽयमभिहितान्वय एव, नाभिधीयमानान्वयः । युगपत्तु क्रियाद्वयसंवेदन
नास्ति । अर्थगतायाः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात् ॥
गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण
कुतोऽन्वयमवगच्छामः ॥
अन्विताभिधाने पज्ञान्तरम्
अन्ये मन्यन्ते—957सामान्येनान्विताभिधानम्, विशेषतश्चाभिहितान्वय
इति । गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रिया958सामान्यान्वितमभिधत्ते,
तावत्यन्विताभिधानम् । शुक्लादिगुणविशेषसबन्धस्तु पदान्तरादवगम्यते ।
सोऽयं विशेषोऽभिहितान्वय इति—एतदपि तादृगेव ॥
II.216
न चेदमपूर्ववस्तु वर्णितम् । अभिहितान्वयवादिनः विशेष एवाभि
हितान्वयमिच्छन्ति । सामान्येऽपि हि पदं वर्तते, विशेषे वाक्यम् ।
वाक्यार्थप्रतीतये च अभिहितान्वय आश्रीयते इति प्राक्तन एवेष्टः पन्था
वेदितव्यः ॥
पदानां संहत्य कारित्वम्
कथं तर्ह्याभिधानिकी व्यवहारः ? सङ्कुलमिवैनं पश्यामः,
सर्वत्र दोषसंभवात्—उच्यते—न कदाचिदत्र सङ्कुलता । संहत्य
कारीणि हि पदानीत्युक्तम् । समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते ।
स च गुणगुणिभूतेतरपदार्थसंसृष्टः कश्चित्पदार्थ एवेति किमत्र
सङ्कुलम् ॥
पदानामन्वयज्ञापकत्वम्
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः ? मैवम्—
नेदमन्विताभिधानम् । कथं तर्हि संहत्यकारिता पदानाम् ? उच्यते—
संहत्यकारिताऽप्यस्ति, न चान्विताभिधानम् । 959अन्वितमर्थं पदानि—
संहत्य संपादयन्ति, न त्वन्वितमभिदधति । किमिदानीं कुर्वन्ति
वाक्यार्थं पदानि, घटमिव मृदादीनि—एतदपि नास्ति—ज्ञापकत्वात्तेषाम् ।
का तर्हियं वाचोयुक्तिः, संहत्यकारीणि पदानि, न चान्वितमभिद
धतीति ? इयं वाचोयुक्तिः । पदान्यन्वितं प्रत्याययन्ति, नान्वित
मभिदधति ॥
अन्वये शक्त्यसम्भवः
नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतिरेकानुगतनिष्कृ
ष्टस्वार्थविषयैव । तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह
II.217
व्यापारात्, व्यापारस्यैतदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् ।
तथा हि—
शक्तेरभावेऽपि संसर्गभानसंभवः
ननु अभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्या
यनात्मा व्यापारः ? अस्ति कश्चित्, यः सर्वैरेव संसर्गवादिभिर
प्रत्याख्येयः । न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात् ॥
ननु संसृष्टाभिधाने सति संसर्गः प्रतीयेत, नान्यथा—नैतदेवम्—
संहत्यकारित्वादेव संसर्गावगतिसिद्धेः । न हि संहत्यकरणम्, असंसृष्टं च
कार्यं क्वचित् दृश्यते ॥
अपि च प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते । न च प्रकृत्या
प्रत्ययार्थीऽभिधीयते, नियोगस्याधातुवाच्यत्वात् । न च प्रत्ययेन प्रकृ
त्यर्थोऽभिधीयते, नियोगादेः लिङ्वाच्यत्वानुपपत्तेः । न च तौ पृथक्पृथक्
स्वकार्यं कुरुतः960 । एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं
करिष्यन्ति । न च परस्परमर्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतिता
न्येवमेव । तदुक्तम्—
II.218
अयमेव पक्षः श्रेयान् यत् संहत्यकारित्वं पदानां, असंकीर्णा
र्थत्वं च ॥
संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणम्,
अपितु प्रधानं कार्यमेव कर्तुम् । तदुक्तम्—
वाक्यार्थबोधविचारोपसंहारः
II.219
आह च—
—इति वाक्यार्थविचारः
वेदार्थावधारणप्रकारविचारोपक्षेपः
आह—लोके प्रमाणान्तरपरिच्छेद्यत्वात् वाक्यार्थस्य तदवगमोपायत्वं
शब्दानां योजयितुं शक्यते । वेदार्थस्तु—अतीन्द्रियः । न च रागादि
दोषकलुषमनसामस्मदादीनां अतीन्द्रियपदार्थदर्शनकौशलमस्ति । तददर्शने
च तत्र वृद्धव्यवहारात् व्युत्पत्तिरेव न संभवति । सोऽहमद्य वेदार्थं बुभुत्स
मानो वेदविदं कंचिदाचार्यमभिगच्छेयम् । सोऽप्यतीन्द्रियार्थदर्शी न
भवतीति तस्यापि तथैव व्युत्पत्त्यभाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः ।
सोऽप्यन्यमित्यन्धपरम्परा प्राप्नोति । न च वेद एव, वृद्धिरादैच् इति
962
II.220
पणिनिरिव, मस्त्रिगुरुः इति ब्रुवन् पिङ्गल इव, हस्त करः पाणिः
इति कथयन्नभिधानमालाकार इव स्वयमुपदिशति—एषोऽस्य मामकस्य
शब्दस्यार्थः इति । तस्मात्सर्वथा दुरवगमो वेदार्थः तदाह—
अथ निगमनिरुक्तव्याकरणवशेन पदार्थकल्पना क्रियते; तर्हि नाना
मतित्वात् उपदेष्टॄना963, अनेकार्थत्वाच्च धातूनां नाम्नां, उपसर्गनिपातानां
च न नियतः कंचिदर्थो व्यवस्थापयितुं शक्यते । अन्यथा तत्कल्पनासंभ
वात् । आह च—प्र-वा-1-320
वैदिकशब्पा आपि लौकिका एव
तदेतत् बधिरस्य रामायणं वर्णितमस्माभिः, यू एवमपि श्रुत्वा
वेदार्थपरिगमाभ्युपायं मृगयते । अनेन हि पवक्तिन वाक्यार्थपरिगमोपाय
प्रकटनेन सर्वमपाकृतं भवति । उक्तं हि—नाभिनवाः केचन वैदिकाः
शब्दाः । रचनामात्रं वेदे भिद्यते, न तु पदानि । सर्गात्प्रभृति च
प्रवृत्तोऽयं वेदविदांव्यवहारः । तत एव दीर्घप्रबन्धप्रवृत्तात् अद्यत्वे वयसि
व्युत्पद्यामहे । व्युत्पद्यमानाश्च तं तमर्थं प्रतिपाद्यामहे ॥
वेदार्थावगमसहकारीणि
किंच वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसादिशास्त्राणि
क्व गतानि ? यदेषु जीवन्मु न वेनार्थोऽवधार्यते ॥
II.221
अपि च, रे मूढ ! स्वयं रागादिमान्नार्थं वेत्ति ? वेदस्य कोऽर्थो
रागादिमतः ? प्रत्यक्षमतीन्द्रियेऽर्थे मा प्रवर्तिष्ट, न तु रागादिमान् अग्नि
होत्रं जुहुयात् स्वर्गकामः इतिवाक्यादपि अग्निहोत्राख्यं कर्म स्वर्गसाधन
मिति नावगच्छेत् ॥
अतीन्द्रियेऽर्थे नियता कुतोव्युत्पत्तिरिति चेत्, उक्तमत्र, वेदवत्त
द्व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात् । वेदार्थश्च, तदव
गमश्च, तदुपायश्च, तदनुष्ठ नं च नाद्यत्वे प्रवृत्तानि । त नि केषां
ऽनादीन्येव । अस्मन्मते तु जगत्सर्गात्प्रभृति प्रवृत्तानि । कस्तेष्वद्य पर्यनु
योगावसरः ? सेयमनेन पापकारिणा खादेच्छवमांसं इत्याद्यपभाषणेन
केवलमवीचिकेदारकुटुम्बिनमानं 964कर्तुं वेदनिन्दैव मन्दमतिना कृता, न
दूषणमभिनवं किंचिदुत्प्रेक्षितमिति ॥
वेदार्थव्युत्पत्त्यसंभवः
अथापर आह—किमेष तपस्वी पराणुद्यते ? कियनेनापराद्धम् ?
किमनेन विरुद्धमभिहितम् ? न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते ॥
कोऽयं लोको नाम ? किं यः कश्चित् प्राकृतः, उत वैयाकरणः
संस्कृतमतिः ? इति ॥
तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसो निसर्गत एवाक्षत
कण्ठाः वराकाः संस्कारबाह्यैः गाव्यादिभिरेव शब्दैर्व्यवहरन्ति । तैश्च
व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः ?
यद्यपि चास्ति एषि एमि इति कश्मीरेषु, गच्छ इति दर्वाभि
सारेषु, करोमि इति मद्रेषु कतिपये साधुशब्दा पामरैरपि प्रयुज्यन्ते;
II.222
तथाप्यतीव प्रविरलसंचारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्द
व्युत्पत्तेः ॥
व्याकरणेनापि वेदार्थावधारणासंभवः
अथ व्याकरणस्य वेदाङ्गत्वात् ततः साध्वसाधुशब्दप्रविभागमव
गच्छन्तः साधुभिर्भाषितव्यं, असाधुभिर्न इति विधिनिषेधनियमितमतयः
साधुभिरेव शब्दैर्व्यवहरन्तो विद्वांसः तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु
व्युत्पत्तिमासादयेयुरिति कथ्यते—तदपि न चतुरश्रम्—इतरेतराश्रय
प्रसङ्गात् । वेदे हि सिद्धप्रामाण्ये तदङ्गभूतव्याकरणाभ्याससमासादित
साध्वसाधुशब्दप्रविवेक वृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषुव्युत्पत्तिः,
तद्व्युत्पत्तौ च सत्यां बोधकत्वादप्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो
वेदस्य प्रामाण्यमिति ॥
प्राकृतव्याकरणस्य वेदाङ्गत्वापत्तिः
अथ वेदाङ्गमिदमिति श्रद्धामवधूय यदृच्छाधीतेनैव व्याकरणेन
पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते—किमिदानीं नाटकप्रकरणादि
काव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवद्व्याकरण
मध्येतव्यम् ? तथाऽभ्युपगमेवाऽनङ्गत्वाविशेषात्—प्राकृतलक्षणप्रसिद्ध
शब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुस्स्थत्वं ॥
अपि च सत्यपि व्याकरणाधिगमे, श्रुतेऽपि साधुभिर्भाषितव्यम्
इत्युपदेशे, 965सत्यं वदत ! वेदार्थानुष्ठानपरायणोऽपि कृतबुद्धिरपि
निषिद्धाचरणपराङ्मुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः
II.223
साधुभिरेव शब्दैर्व्यवहरन् दृष्ट एकाकी ? तैश्च नानार्थक्रियासाधनभूत
भूरिव्यवहारं निर्वहन् तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोग
कुशलः कल्पनीयः । कुतश्चासौ लभ्यते ? तस्मान्न वृद्धव्यवहाराद्वेदार्थ
व्युत्पत्तिरुपपद्यते ॥
व्याकरणस्य वेदार्थानिर्णायकत्वम्
अथ व्याकरणमेव वेदार्थव्युत्पत्तौ उपायतां प्रतिपत्स्यते इति
मन्यसे; तदपि कथमिति चिन्त्यम् । न हि 966विवरणकार इव पाणिनिर्वेदं
व्याचष्टे । व्याचक्षाणो वा परिमितदर्शिनि अस्मादृशे, द्वेषादिदोषकलु
षितमनसि तस्मिन् अस्मदादीनां वेदार्थं बुभुत्समानानां किदृशी
विस्रम्भः ? किं यथैव व्याचष्टे, तथैव वेदार्थः, अन्यथा वेति ॥
यदि तु साध्वसाधुशब्दविवेककरणद्वारेण व्याकरणं कारणं वेदार्थ
व्युत्पत्तेरित्युच्यते—तत्रापि—स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्र
त्वानुपपत्तेः । अङ्गत्वप्रसिद्धेश्च वैदिकविध्यपेक्षितार्थसंपर्कित्वमस्य नून
मेषितव्यम् । तत् कस्य विधेः शेषतया व्याकरणमवतिष्ठेतेति वाच्यम् ।
साधुभिर्भाषितव्यं, असाधुभिर्नेत्यनयोरेव विधिनिषेधयोरिति चेत्;
नन्वेतावेव विधिनिषेधौ तावद्विचारयामः । किं क्वचित्प्रकरणे पठितौ ?
किमनारभ्याधीतौ ? कॢप्ताधिकारी, कल्प्याधिकारी वा ? इति ॥
साध्वसाधुशब्दविभागसंभवाक्षेपः
आस्तां चेदम् ! वितता खल्वियं चिन्ता । साध्वसाधुशब्दस्या
प्रसिद्धत्वात् किंविषयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम् ।
II.224
ब्रीहिभिर्यजेत' न कलंजं भक्षयेत् इति ब्रीहिकलंजस्वरूपस्य लोकतो
ऽवगतौ तद्विषयविधिनिषेधावबोधो न दुर्घटः । इह तु ब्रीहय इव कलंज
मिव न साध्वसाधुशब्दस्वरूपं लोके प्रसिद्धम्; प्रत्यक्षादिप्रमाणातीत
वात् । प्रत्यक्षं तावत् साध्वसाधुशब्दप्रविवेकेन लोकतोऽवगम्यते ।
कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विषयता
मुपयाति । न जातु तद्गतं साधुत्वमसाधुत्वं वा । न हि शब्दत्वादि
जातिवत्, उदात्तादिधर्मवच्च साध्वसाधुतायां कस्यचिदपि श्रैत्रः प्रत्ययः
प्रसरति । प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसंबन्धग्रहणासंभवात् अनुमान
मपि निरवकाशमेव । शब्दस्तु द्विविधः पुरुषप्रणीतः, वैदिको वा । तत्र
पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवति इति
तदपाकरणादेव पराकृतः । वैदिकस्तु संप्रति चिन्त्यो वर्तते । स हि
सिद्धे साध्वसाधुत्वे तद्विधिनिषेधे व्याप्रियते । न पुनः तत एव
तत्सिद्धिर्युज्यते । तथाऽभ्युपगमे वा दुरुत्तरमितरेतराश्रयत्वमवतरति—
विधिनिषेधसिद्धौ साध्वसाधुशब्दसिद्धिः, साध्वसाधुशब्दसिद्धौ च विधि
निषेधसिद्धिरिति ॥
साधुत्वमपि दुर्वचम्
किंचेदं साधुत्वं नाम ? यदि वाचकत्वम्, गाव्यादयोऽपि सुतरां
वाचका इति तेऽपि कथं न साधवः ? अर्थावगतिसाधनाद्धि साधुत्वम् ।
तच्च यथा गाव्यादिषु झटित्येव भवति, न तथा गवादिष्विति प्रथमं त
एव साधवः ॥
एवं च यदाहुः—
इति; तदत्यन्तमसांप्रतम्; सोपानान्तरप्रतीतिप्रसक्तेःविपर्ययस्य
च लोके प्रसिद्धत्वात् ॥
II.225
यस्तावदनधिगतव्याकरणसरणिः पामरादिः, सः गाव्यादिशब्दश्रवणे
सति तावत्येव जातसन्तोषः तत एवार्थमवगच्छन् गवादिशब्दानुमानव्यव
धानमनारुह्यैव व्यवहरति । हेमगिरिमुत्तरेण यादृंशि मादृशैरनुभूतानि
तरुकुसुमफलानि, तथाविधास्तस्य साधुशब्दा इति सर्वात्मनाऽनवधारि
तसंबन्धः स कथं तावदनुमातुं प्रभवेत् ?
येऽपि व्याकरणार्णवकर्णधाराः चिराभ्यस्तसूक्तयः सूरयः, तेऽपि
गाव्यादिभिर्व्यवहरन्तोऽनुमानक्रममननुसरन्त एव तेभ्योऽर्थं प्रतिपद्यन्त,
इति प्रत्यात्मवेदनीयमेतत् । तस्मात् वाचकत्वमेव साधुत्वम् । एतच्च
गवादिष्विव गाव्यादिषु दृश्यत इति तेऽपि साधवः स्युः ॥
असाधुत्वमप्यवाचकत्वमुच्यते । तच्च वायसवाशितादिषु व्यवस्थितं
न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न तेऽसाधवः ॥
साध्वसाधुशब्दयोः विलक्षणबोधजनकत्वं नास्ति
ब्रूयात्—नार्थप्रतीतिसाधनत्वमात्रं साधुत्वम्, धूमादिभिरतिव्याप्तेः ।
अपि तु 968विशिष्टक्रियाकरणत्वम् । तच्च गवादिष्वेवास्ति, न गाव्यादि
ष्विति न ते साधव इति—एतदप्यसमीक्षिताभिधानम्—अभिधानक्रिया
कारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम् । तच्च गवा
दिषु गाव्यादिषु च समानमिति सर्व एव साधवः ॥
साध्वसाधुत्वे न शास्त्रगम्ये
अथ 969लक्षणानुगतत्वं, तद्बाह्यत्वं च साधुत्वमसाधुत्वं च वर्ण्यते—
तदयुक्तम्—पारिभाषिकत्वप्रसङ्गात् । न चान्यत्किमपि साध्वसाधु
II.226
लक्षणमतिसूक्ष्मयाऽपि दृष्ट्या शक्यमुत्प्रेक्षितुम् । अतो वाचकावाचकावेव
साध्वसाधू इति स्थितम् ॥
तेन तयोः प्रवर्तमानौ 970विधिनिषेधाविमौ व्यथौ भवेताम् ।
कथम् त-वा-1-3-18—
न हि सलिलं पिबेत् अनलं न पिबेत् इति विधिनिषेधौ संभवतः ।
सलिलपानस्य स्वतः प्राप्तत्वात्, अप्राप्ते च शास्त्रस्यार्थवत्त्वात् ।
ज्वलनपानस्य च कस्यांचिदप्यवस्थायां अप्राप्तेः प्रतिषेधानर्थक्यात् ।
प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति । न हि ग्रीष्मे ज्वालायमानमारव
मार्गभ्रमणोज्झृम्भिततृषातिशयतनूकृततनुरपि तनूनपातं पातुं लवणोप
योगोपनीततृङ्विकारः करभोऽपि यतेतेति ॥
साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि दूर्वचम्
तत्रैतत्स्यात्—गवादेर्गाव्यादेश्च वाचकत्वाविशेषेऽपि साध्वसाधुशब्दो
च्चारणकरणकपुण्यपापप्राप्तिपरिहारप्रयोजननियमविधानाय शास्त्रसा
फल्यं भविष्यति । तदुक्तम् वा-प-3-3-30—
एतदपि दुर्घटम्—प्रतिपदमशक्यत्वात्, वर्गीकरणनिमित्तस्य चासं
भवात् । अवश्यं हि विधिं वा निषेधं वा विधित्सतां प्रविषेध्यांश्च निषे
II.227
ध्यांश्च शब्दानुपदर्श्य, नियमो विधातव्यः एभिर्भाषतव्यं, एभिर्न
इति । तत्र यद्युभये ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगणनपुरस्सर
मुपदर्श्येरन्, तदयमर्थः कल्पशतजीविनः भगवतः परमेष्ठिनोऽपि न विषयः,
प्रविततवदनसहस्रसंकुलमूर्तेरनन्तस्यापि न गोचरः, वाचस्पतेर्न भूमिः,
सरस्वत्या अतिभारः, तेषामानन्त्येन दर्शयितुमशक्यत्वात् ॥
साध्वसाधुशब्दवर्गींकरणासंभवः
अथ किंचिदुपलक्षण972मवलम्य तेषां वर्गीकरणमुपेयते—हन्त तर्हि
दृश्यताम् ! न च तत्संभवति ॥
तदनुपलम्भादसंभवति वर्गीकरणकारणे कथमेष नियमो विधीयेतेति
नावधारयामः ॥
साधुशब्दभाषणनियमासंभवः
किंच नियमार्थेऽपि शास्त्रे वक्तव्यं—कीदृशो नियमार्थ इति—किं
साधुभिरेव भाषितव्यम्, भाषितव्यमेव नाधुभिरिति । उभयथा च
प्रमादः । आह हि त-वा-1-3-18—
II.228
न च वाचकत्वादन्यत् साधुत्वमित्युक्तम्, अवाचकस्य प्रयोगप्रसङ्ग
एव नास्तीति ॥
अपशब्दप्रयोगप्रतिषेधोऽपि न शक्यः
अथ प्रमादाऽशक्तिकृतापशब्दप्रयोगप्रतिषेधाय नियम आश्रीयते—
तत्रापि—
ननु ! अस्ति तावदपशब्दानामशक्यनिह्नवः परिदृश्यमानो लोके
प्रयोग इति तन्निवृत्तिफल एष प्रयोगनियमः कथं न भवेत्—
यद्येवं अक्षिनिकोचहस्तसंज्ञादेरपि प्रचुरः प्रयोगो दृश्यत इति तद्व्यु
दासफलोऽप्येष नियमः स्यात् ॥
अपि च विधिफलः सर्वत्र नियमो भवति, ऋतावुपेयात् इत्यादि975 ।
निषेधफला तु परिसंख्या पंच पंचनखा भक्ष्याः इति । तदयमपशब्दे
प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते ॥
II.229
परिसंख्या तर्हि भविष्यतीति चेत्—न—शब्दापशब्दयोर्युगपत्प्राप्त्य
भावात् । तत्र चान्यत्र च प्राप्तौ परिसंख्याऽभिधीयते इति न्यायात् ॥
साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि न
यदपि पुण्यपापफलत्वं सुशब्दापशब्दयोरिति गीयते—तदपि न
पेशलम्—परिदृश्यमानं अविवादसिद्धं अर्थप्रत्ययोपजननमपहाय परोक्षस्या
दृष्टस्य पुण्यपापात्मनः कल्पनानुपपत्तेः ॥
अर्थवादवाक्यत्वं तद्विधेः
यश्चायं 976स्वर्गे लोके कामधुग्भवति इति साधुशब्दस्तुत्यर्थवादः,
यश्च 977स वाग्वज्रो यजमानं हिनस्ति इत्यपशब्दे निन्दार्थवादः, तत्र
पदार्थस्य विस्पष्टदृष्टत्वात् अर्थवादमात्रपर्यवसितौ च द्रव्यसंस्कारकर्ममु
परार्थत्वात् फलश्रुतिरर्थवादः स्यात् इति न्यायात् न फलार्थतेति ॥
तदेवं साधुभिर्भाषितव्यं, असाधुभिर्न इति विधिनिषेधयोरना
रभ्याधीतयोः श्रूयमाणयोरपि दौस्थित्यात् तन्मूलतया लब्धप्रमाणभावा
व्याकरणस्मृतिः अंगतामेष्यति वेदस्येति दुराशैव । प्रकरणविशेषपाठे
तु तयोस्तदुपयोगादेव न सार्वत्रिको नियमार्थतेति सर्वथा न तन्मूलत्वं
व्याकरणस्य ॥
व्याकरणाध्ययनस्य वैफल्यशङ्का
आह—तर्हि निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति विधेः
शिक्षाकल्पसूत्रनिरुक्तच्छन्दोज्योतिश्शास्त्रवत् व्याकरणमपि वेदाङ्गत्वा
II.230
दध्येयमित्यवगम्यते—नैतदप्यस्ति—शिक्षादीनां इतरेतरसाध्यसंकीर्ण
विविधविध्यपेक्षितवेदोपकारनिर्वर्तकत्वेन तदङ्गता सुसंगता । व्याकर
णस्य तु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव
तदङ्गत्वं संभाव्यते, न मार्गान्तरेण । स च नियमो दुरुपपाद इति
दर्शितम् । अतो नांगान्तराणि स्पर्धितुमर्हति व्याकरणम् ॥
व्याकरणं न षङ्गान्तर्गतम्
निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजन
शैथिल्यं सूचयति, न तथा प्रयोजनवत्ताम् । श्रुतिलिङ्गाद्यङ्गत्वप्रमा
णापेक्षया षडङ्गता वर्णयिष्यते ॥
वाक्यानि च न व्याकरणविषयानि
एतेन तस्माद्ब्राह्मणेन न म्लेच्छित वे नापभाषित वै, म्लेच्छो ह
वा एष यदपशब्दः इति एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोके
कामधुक् भवति इति, आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सार
स्वतीमिष्टिं निर्वपेत् इति तस्मादशेषा व्याकृता वागुच्यते इत्यादिवच
नान्तरमूलताऽपि व्याकरणस्मृतेः प्रत्युक्ता978 ॥
शिष्टत्वमपि दुर्वचम्
शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु, 979वैद्यकस्मृतिरिवान्वयव्य
तिरेकमूलेति चेत्—के शिष्टा इति पृष्टो वक्तुमर्हसि । किं तदभिमतग
वादिसाधुशब्दव्यवहारिणः, गाव्याद्यशिक्षितापशब्दवादिनाः, द्वये वा ?
II.231
आद्ये पक्षे दुरुत्तरमितरेतराश्रयत्वम्—शिष्टप्रयोगमूलं व्याकरणम्,
व्याकरणविदश्च शिष्टा इति । न ह्यशिक्षितव्याकरणाः तत्संस्कृतगवा
दिशब्दप्रयोगकुशला भवन्ति ॥
मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः, तत्प्रयोगमूलं
गवादिशब्दसंकारकारि व्याकरणमिति व्याहतमिव लक्ष्यते ॥
तृतीये तु पक्षे गोगाव्यादिशब्दप्रयोगसांकार्यात् किंफलं व्याकरणं
भवेत् । वैद्यस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं, तथा दर्शनादिति ।
तदनयाऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकरणम् ॥
व्याकरणस्य फलवत्वं सूत्रे नोक्तम्
अतश्च निष्प्रयोजनं व्याकरणम्, तत्सूत्रकृता स्वयं प्रयोजनस्यानु
क्तत्वात् । न हि अथातो धर्मजिज्ञासा प्रमाणादिज्ञानात्, साधर्म्या
दिज्ञानद्वा निःश्रेयसाधिगमः, इतिवत् तत्र सूत्रकारः प्रयोजनं प्रत्यपी
पदत् ॥
सुज्ञानत्वान्न प्रत्यपादयदिति चेत्—किमुच्यते सुज्ञानत्वम् ? यदद्यापि
निपुणमन्वेषमाणा अपि न विद्मः, यत्र चाद्यापि सर्वे विवदन्ते ॥
व्याकरणाध्ययनस्यापुरुषार्थत्वम्
किंच धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः । तेषामन्यतमः किल
व्याकरणस्य प्रयोजनमाशङ्क्येत ॥
तत्र न तावद्धर्मस्तस्य प्रयोजनम् । स हि यागदानहोमादिस्वभावः,
तज्जनित980संस्कारापूर्वरूपो वा वेदादेवावगम्यते । चोदनैव धर्मे प्रमाण
II.232
मिति हि तद्विदः । चोदनामूलमन्वादिस्मृतिसदाचारपुराणेतिहासगमयो वा
स कामं भवतु । व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासंभवात् अङ्ग
समाख्यातत्वाच्च न तत्प्रयोजनता युक्ता ॥
प्रयोगनियमद्वारकस्तु धर्मः तस्याप्रयोजनतया निरस्त एव ॥
अर्थप्रयोजनता तु वार्तादण्डनीत्योः प्रसिद्धा, न व्याकरणस्य ।
अधीतव्याकरणाः अपि दरिद्राः प्रायशो दृश्यन्ते इति न तस्य अर्थः
प्रयोजनम् ॥
कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रयोजनतामुपगतः न व्याकरण
साध्यतां स्पृशति ॥
मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणं चाध्यात्मविदः ।
षत्वणत्वपरिज्ञानं पुनरपवर्गसाधनमिति न साधीयान् वादः । तदेवं
धर्मादिचतुर्वर्गादेकोऽपि न व्याकरणसाध्य इति स्थितम् ॥
व्याकरणं न वेदाङ्गम्
अथोच्यते—सकलपुरुषार्थसार्थसाधनोपदेशविधेः वेदस्य व्याकरण
981मवलग्नकमङ्गम् । अतस्तत्प्रयोजनेनैव प्रयोजनवदिदमिति न पृथक्
प्रयोजनान्तरमाकांक्षतीति—तदपि परिहृतम्—यया हि साधुशब्देतरो
पदेशदिशा तस्य तदङ्गता, सा व्युदस्तैव । न चाङ्गस्यापि सतस्तस्य
तत्सेवा982द्वारमपरमस्तीति नष्प्रयोजन्यमेव । न चेदृशमनुपकारकमप्यङ्गं
भवितुमर्हति । न हि तत् प्रधानेनाङ्गीक्रियते । नियोगगर्भो हि
विनियोग इति न्यायविदः ॥
II.233
रक्षोहादिकमपि न व्याकरणफलम्
यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभि
हितानि, तेषामन्यतोऽपि सिद्धेः न व्याकरणशरणता मुक्ता ॥
रक्षा तावदध्येतृपरम्परात एव सिद्धा । मनागपि स्वरतो वर्णतो
वा प्रमाद्यन्तं कचिदधीयानं अन्येऽध्येतारः मा विनीनशः,983 श्रुतिमित्थ
मुच्चारय इत्याचक्षाणाः शिक्षयन्तीति रक्षितो भवति वेदः ॥
ऊहस्तु त्रिविधः मन्त्रसामसंस्कारविषयः । तत्र सामविषयः
ऊहः कशास्त्रादवगम्यते, याज्ञिकप्रयोगप्रवाहाद्वा । मन्त्रविषयोऽप्येवम् ।
प्रोक्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि किं कुर्यात् ?
आगमस्त्वनन्तरमेव परीक्षितः । आगमगम्यं च प्रयोजनं भवति,
न चागम एव प्रयोजनम् ॥
लाघवं तु किमुच्यते ? वाल्यात्प्रभृति बहुषु बहत्स्वपि वत्सरेषु
यन्नाधिगन्तुं शक्यते व्याकरणम्, स चेल्लधुरुपायः कोऽन्यस्ततो गुरु
भविष्यति ॥
सन्देहोऽपि न कश्चिद्वेदार्थे व्याकरणेन पराणुद्यते । प्रतिवाक्य
मुपप्लवमाननानाविधसन्देहसहस्रविस्रंसनफला मीमांसा हि दृश्यते, न
व्याकरणम् । तेन रक्षोहागमलध्वसन्देहाः प्रयोजनम् इति यदुच्यते तन्न
साधु व्याहृतम् ॥
यान्यपि प्रयोजनान्तराणि भूयांसि—तेऽसुरा हेलयो हेलयः इत्युदा
हरणदिशा दर्शितानि, तान्यपि तुच्छत्वात् आनुषङ्गिकत्वाच्चोपेक्षणी
यानि । तदुक्तम् त-वा-1-3-18—
II.234
व्याकरणेन शब्दसंस्कारः न संभवति
अथ कथ्यते—किं प्रयोजनान्तरपर्येषणया ? शस्दसंस्कार एव
व्याकरणस्य प्रयोजनमिति—तदपि व्याख्येयम्—कः शब्दस्य संस्कारः ?
तेन वा कोऽर्थ इति । न हि ब्रीहीणामिव प्रोक्षणम्, आज्यस्ये
वावेक्षणम्, अग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः
संभवति ॥
नैयायिकादिपक्षे च क्षणिकाः वर्णाः । तेषामुच्चारितनष्टानां कः
संस्कारः ? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव
स्थितस्थापक इति ॥
वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्तिकत्वमपरिहार्यम् । अत
स्तेष्वपि कः संस्कारः ?
व्याकरेण वर्णादिसंस्कारासंभवः
संस्कारश्च वर्णस्य वा, पदस्य वा, वाक्यस्य वेति विकल्प्यमानः न
कस्यचिद्व्यवस्थापयितुं शक्यः । वैयाकरणानां तु निरवयववाक्यवादिनां984
पदवर्णयोः संस्कारः सुतरामनालम्बनः ॥
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिकं अन्यान्येव पदानि संस्क
रिष्यन्त इति चेत्—न—असतां संस्कार्यत्वानुपपत्ते । आह च—
II.235
व्याकरणस्याध्येयत्वं नापि विधिसिद्धम्
न च शब्दसंस्कारकर्तव्यतोपदेशी कश्चिदनारम्याधीतो वा प्रकरण
पठितो वा विधिरुपलभ्यते, यमनुरुध्यमानाः शब्दस्योपयुक्तरय चात्वं ले
कृष्णविषाणं प्रास्यति इतिवत् उपयोक्ष्यमाणस्य वा, ब्रीहीन् प्रोक्षति
इतिवत् कंचनसंस्कारमनुतिष्ठेम । स्वाध्यायोऽध्येतव्यः इति तु
विधिः अभिमुखीकरणेन माणवकस्य वा ग्रन्थस्य वा 985संस्कारमुपदिशतीति
महती चर्चैषा तिष्ठतु । सर्वथा नायं व्याकरणनिवर्त्यप्रत्ययागमवर्ण
लोपादेशादिद्वारकशब्दसंस्कारोपदेशशङ्कामपि जनयतीत्यास्तामेतत् ॥
न च शब्दप्रयोगोपायस्य स्थानकरणादेः कोष्ठस्य मातरिश्वनो वा
श्रोत्रेन्द्रियस्य वा तदुपलब्धिकारणस्य प्रयोक्तुरात्मनो वा बुद्धेर्वा कश्चित्
व्याकरणेन संकारलेशः शक्यक्रिय इति तद्वारकेऽपि संस्कारेऽनुपाय एव
व्याकरणम् ॥
न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजन
तया वक्तव्यम्; तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात् ॥
शब्दतत्त्वज्ञानं न व्याकरणाधीनम्
यश्चाह—तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते त. वा.
1-3-18 इति—तस्य सोपहासमुत्तरं वार्तिककार एव दर्शितवान् ॥
II.236
तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृतेत-वा-1-3-18
इति ॥
सूत्रेऽप्यसंस्कृत शब्दप्रयोगः
अपि च व्याकरणेन कृतेऽपि शब्दसंस्कारे तदुपदिष्ट संस्कारबहिष्कृत
शब्दप्रयोगान् विदधतः तत्रतत्र पूर्वेऽपि दृश्यन्ते । सूत्रकारस्तावत् जनि
कर्तुः प्रकृतिः तत्प्रयोजको हेतुश्च इति तृजकाभ्यां कर्तरि इति प्रतिषिद्धं
षष्ठीसमासं, तथा जनिकर्तुः इति धातुनिर्देशैकर्विषयं जनिशब्दं अर्थनिर्दे
शेऽपि प्रयुक्तवान् ॥
वार्तिकेऽसंस्कृतशब्दप्रयोगः
वार्तिककारोऽपि दम्भेर्हल्गृहणस्य जातिवाचकत्वात् सिद्धम् इति
तथैव प्रयुक्तवान् । अन्यभाव्यं तु कालशब्दव्यवायात् इति च क्लेशेन
समाससंज्ञया गुणवचनसंज्ञाबाधितत्वात् अगुणवचनत्वात् ब्राह्मणादिगण
पठितत्वात् गुणवचनब्राह्मणादिभ्यः इत्यप्राप्तमेव ष्यञं कृतवान् ॥
भाष्येऽसंस्कृतशब्दप्रयोगः
भाष्यकारोपि अविरविकन्यायेन इति द्वन्द्वगर्भे तत्पुरुषे प्रयुयुक्षिते
सुपो धातुप्रातिपदिकयोः इति प्राप्तमपि लोपं न कृतवान् । अन्यथा
कृत्वा चोद्यं, अन्यथा कृत्वा परिहार इति चात्रचान्यथैवं कथं प्राप्तमपि
णमुलमुपेक्ष्य त्त्काप्रत्ययं प्रायुङ्क्त ॥
तदिदं त्रिमुनिव्याकरणस्य त्रयोऽपि च मुनयः स्खलन्तीति986 कमुपाल
भेमहि !
II.237
मन्वादिस्मृतिष्वसंस्कृतशब्दप्रयोगः
मन्वादिग्रन्थेष्यपि क्रियन्तोऽपशब्दा गण्यन्ते ? ज्ञातारस्सन्तिमे इति
मनुना, अक्षिणी आज्य इत्याश्वलायनेन, मूर्धन्याभिजिघ्रणं इति गृह्य
कारेण, तदनन्तरं तुभ्यं च राघवस्य इति वाल्मीकिना, जन्मे जन्मे
यदभ्यस्तम् इति द्वैपायनेन प्रयुच्तम् ।
आह च त-वा-1-3-18—
अथवा किमनेन पुराणपुरुषपरिवादेन । सर्वथाऽयं वस्तुसंक्षेपः—
988क्षामोऽपि कश्चिदुपयोगो न लोके वेदे वा व्याकरणस्य विद्यत इति ॥
व्याकरणस्य विफलत्वं वैयकरनै रप्युक्तम्
किंचान्यत्—अथ शब्दानुशासनम् इत्युपक्रम्य केषां शब्दनाम्
इति पृष्ट्वा, लौकिकानां वेदिकानां च इति प्रतिज्ञाय—न लौकिकास्सर्वे
व्याकर्तुं पारिताः शब्दाः । नापि वैदिकाः । तथाहि—तेषां व्याक्रिया
प्रतिपदं वा विधीयते ? लक्षणतो वा ? प्रतिपदं तावदनुशासनमघटमानं
आनन्त्याच्छब्दानाम् । तथा चाहुः—बृहस्पतिरि द्राय दिव्यं वर्षसहस्रं
प्रतिपदं विहितान् शब्दान् प्रोवाच, न चान्तं जगाम्' इति ॥
नापि लक्षणतः, तदसंभवात् । न हि सकलसाधुशष्दवर्गानुगतं
अपशब्देभ्यश्च व्यावृत्तं गोत्वादिवदिह किंचिल्लक्षणमस्तीत्युक्तम् ॥
II.238
सूत्रानुगुणत्वं साधुत्वमित्यपि न युक्तम्
तत्रैतत्स्यात—न जात्यादिरूपमिह लक्षणमभिधित्सितम् । अपि तु
कथमनुशासनमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया, सामा
न्यविशेषतता लक्षेणेनेति च । तथा हि—कर्मण्यण् इति सामा
न्यलक्षणं—कर्मण्युपपदे धातुमात्रादण्प्रत्ययो भवतीति । आतोऽनुपसर्गे
कः इति विशेषलक्षणम् आकारान्ताद्धातोः उपसर्गरहितात् कर्मण्युपपदे
कप्रत्ययो भवतीति । तेनानेन सामान्यविशेषवता लक्षणेन कुम्भकारः
नगरकारः इत्यादयः, गोदः कम्बलद इत्यादयो भूयांसः शब्दाः अक्लेशेनैव
व्याकरिष्यन्त इत्युच्यते प्रकृत्यादिविभागकल्पनयेत्यत्र यद्वक्तव्यं, तत्प्रागेव
सविस्तरमभिहितम् । सामान्यविशेषवता लक्षणेतेति तु संप्रति
निरूप्यते । तदपि व्यवस्थितं लक्षणं न दृश्यते—तथा हि—धातोः परे
प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यम्—कः पुनरयं धातुर्नामेति ॥
धातुस्वरूपमपि दुर्वचम्
ननु भूवादयो धातवः इत्युक्तमेव तत्स्वरूपं—केचन शब्दाः कया
चित्परिपाट्या पठिताः, ते धातुसंज्ञया लक्ष्यन्ते । तेभ्यः परे तिङः
कृतश्च प्रत्यया भवन्तीति—सत्यमुक्तमेतत्—किन्तु एवं पाठे कृतेऽपि न
धातुस्वरुपनिर्णय उपवर्णितो भवतिं । तथा च गण्डतीत्यपि प्राप्नोति,989
धातोस्तिङ्प्रत्ययविधानात् । घट चेष्टायां इति धातुः अस्ति च घट
इति प्रातिपदिकम् । अमो रोगे इति धातुः अनुबन्धत्यागात्990 अम् इति
भवति; अस्ति च द्वितीयाविभक्तेरेकवचनमिति । भू शब्दो धातुः;
अस्ति च भूप्रातिपदिकम् । यती प्रयत्ने इति लुप्तानुबन्धः यत
II.239
इति धातुः; अस्ति च यत् इति सर्वनाम । तत्र च पाठप्रसिद्धरूपमात्रा
विशेषात् अधातोरपि घट-भू-यच्छब्दरूपात् परे तिङ्प्रत्यया भवेयुः ॥
क्रियावचनत्वमपि न धातुलक्षणम्
क्रियावचनो धातुरिति चेत्—भवति तिष्ठति इत्येवमादीनाम
धातुत्वं प्रप्नोति, गण्डेश्चानर्थकः पाठः ॥
उभयं तर्हि धातुलक्षणं 991पाठः, क्रियावचनता चेति—न भवितुमर्हति ।
तदपि हि व्यस्तं वा लक्षणं, समस्तं वा ? व्यवस्तपक्षे प्रत्येकममिहिते
दोषस्तदवस्थ एव । समस्तपक्षेऽपि भवत्यादौ क्रियावचनत्वस्य द्वितीय
लक्षणस्य चाभावादधातुत्वमेव स्यादिति । एवं धातोः प्रकृतेरनिर्णीत
त्वात् कुतः परे तिङश्च कृतश्च प्रत्यया उत्पद्येरन् ॥
तिङर्थोऽपि दुर्वचः
किंच केचन तिङ्प्रत्ययाः कालाद्युपाधयः न तद्वचनाः । अनुक्तेषु
च कालादिषु तत्पूर्वकं वर्तमाने लट्, भविष्यति ऌट्, भूते लुङ् इति
नियमनिरूपणमशक्यम् ॥
उच्यतां तर्हि तिङ्भिः कालादय इति चेत्—न—भाष्यविरोधात् ।
उक्तं हि भगवता भाष्यकारेण भूते धात्वर्थ इति । न च धात्वर्थेनैव
धात्वर्थो व्यवस्थापयितुं शक्यते । लिङादयश्च सुतरामनधिगम्यमान
विषयाः । ते हि विध्यादावर्थे विधीयन्ते । स च बिधिरूपोऽर्थः स्वरूप
तश्च उपाधितश्च न शक्यो निर्णेतुमिति992 ॥
II.240
कारकप्रकरणस्य दुःस्थत्वम्
तथा कारकानुशासनमपि दुस्स्थम् । ध्रुवमपाये अपादानम् इत्यु
च्यते । तत्र ध्रुवस्य वृक्षादेः—वृक्षात् पतितो देवदत्तः इति पतनक्रियायां
अचलतः कृशमपि न कारकत्वमुत्पश्यामः । क्रियायोगि हि कारकम् ।
सा च वृक्षे नोपलभ्यत इति ॥
सार्थाद्धीनःरथात्पतितः इति सार्थरथयोः क्रियोपलभ्यते, न
वृक्षवन्निश्चलत्वमिति चेत्—सत्यम्—स्वरसप्रवृत्ता तयोरस्ति क्रिया ।
हाने याने च पादपनिर्विशेषावेव सार्थरथौ । न च यदेकस्यां क्रियायां993
कारकं, तत् सर्वासु क्रियासु कारकं भवति, अतिप्रसङ्गात् ॥
द्वितीयानुशासने दोषः
कर्मणा यमभिप्रैति स संप्रदानम् इत्यत्र कर्मशब्दः क्रियावचनो
वा स्यात्, ईप्सिततमकारकवाची वा ? आद्ये पक्षे क्रियया सर्वकारका
ण्यभिप्रेयन्त इति क्रियासु कारकाणि संप्रदानतां प्रतिपद्येरन् । न चोपा
ध्यायस्य किचिदभिप्रीयमाणस्य व्यापारमुत्पश्याम इत्यसावकारकमेव तत्र
स्यात् । प्रतिग्रहस्तु क्रियान्तरमेव । तत्र चोक्तं क्रियया चाभिप्रेयमाणं
फलं भवति, न कारकमिति वक्ष्यामः ॥
द्वितीयस्तु पक्षः—कर्मणा कारकेण गवादिना यमभिप्रैतीति सुतरां
संकटः । क्रियासंबन्धितया हि कारकं कारकं भवति, न कारकसंब
न्धितया, करोतीति कारकमिति व्युत्पत्तेः ॥
II.241
करणलक्षणमपि न युक्तम्
साधकतमं करणम् इति तमबर्थानवधारणात् अनुपपन्नम् । अनेक
कारकसंदर्भसन्निधाने कार्यमात्मानं लभते । तेषामन्यतमव्यपगमेऽपि न
लभ्यत इति ततः किमिव कारकमतिशयखचितवपुरिति, यं तमर्थं मङ्गल
कलशेनाभिर्षिचामः । प्राचुर्येण हि प्रधानसंपत्तिपर्यन्तव्यापारयोगित्व
मित्यादि सर्वसाधारणं न काष्ठैकनिष्ठमिति काष्ठैः पचति इति कथं
तेषामेव करणत्वम् ?
अधिकरणलक्षणे दोषः
आधारोऽधिकरणम् इति यदुच्यते, तत्र वक्तव्यम् । कस्याधार
इति; क्रियायाः, कारकस्य वा ? यदि क्रियाधारत्वं अधिकरणलक्षणम्,
अशेषकारकाणामधिकरणसंज्ञा प्रसज्येत, क्रियायोगाविशेषात् ॥
अथ यत्र स्थाल्यादौ कर्माश्रितं तण्डुलादि तदधिकरणम्; समे देशे
पचति इति न स्यात्, अप्सुपचति इति स्यात् । कटे स्थितो भुङ्क्ते इति
चापभ्रंशो भवेत् । कर्तुर्हि तत् अधिकरणं, न कर्मणः । कर्तृकर्मणोः क्रिया
श्रययोः धारणमधिकरणत्वेन कारकमिति चेत्, उभयधारत्वं न कटस्य,
न स्थाल्या इति द्वयोरप्यधिकरणता हीयेत । एकैकाधारत्वे तु तल्लक्षणे
परस्परापेक्षया पुनस्तत्स्वरूपसांकर्यं भवेत् । यदि तु सकलकारकाधारत्वं
अधिकरणलक्ष्णं, स्थाल्यां ओदनं पचति इति न स्यात्, सकलकारकान
धिकरणत्वात् । स्थाल्या अधिकरणस्य994 चाकारकत्वप्रसक्तिः । न
ह्यधिकरणमधिकरणाश्रितं भवति । 995मध्याह्ने स्नाति, रात्रावश्नाति,
II.242
पूर्वस्यां दिशि विहरति इति कालादीनामव्यापारत्वात् अकारकत्व
मेव भवेत् । तथा च सति एते प्रयोगा असाधवः स्युः ॥
कर्मत्वमपि दुर्वचम्
कर्तुरीप्सिततमं कर्म इति साधकतमवदिहापि न वाचकोऽयमति
शायनः, सर्वकारकाणां क्रियार्थितया कर्तुरीप्सिततमत्वात् ॥
अथ यदर्था क्रिया, तदर्थं कर्तुरीप्सिततमं; तदर्थं त्वन्यत् इति तत्र
तमप्प्रत्य इत्युच्यते—तर्हि तस्य कारकत्वमेव न युक्तम् । क्रिया
संपादकं हि कारकमुच्यते, न क्रियासंपाद्यम् । क्रियासंपाद्यं तु फलं
भवति, न कारकम् । कारकं च, क्रियया चाप्तुमिष्टतमं इति च विप्रति
षिद्धम् ॥
क्रियानिर्वर्तकत्वं न कारकत्वम्
अथाभिधीयते क्रियोपयोगयोग्यतानिबन्धनोऽयं कारकव्यपदेशः ।
स च विचित्रः क्रियोपयोगः । अन्यथा करणस्य, अन्यथाऽधिकरणस्य,
अन्यथा संप्रदानादेः । इह च क्रियासाध्यत्वेऽपि ओदनस्य तत्क्रियोपयोगि
त्वमनिवार्यम्, तमनुद्दिश्य क्रियायाः प्रवृत्त्यभावात्—इतीत्थमनेन रूपेण
तस्य क्रियासाधनत्वात् कारकत्वमिति—नैतदेवम्—कारकत्वव्यपदेशो हि
न पारिभाषिकः, कितु क्रियासंबन्धनिबन्धनः । क्रियासंबन्धश्च ईदृशः—
यदुपेया क्रिया, तदुपायः कारकमिसि । विपर्यये तु कीदृशः कारक
वः ?
996 II.243
कर्मत्वविशेषः
अस्तु तर्हि तण्डुलान् पचति इति, मा च भूत् ओदनं पचति इति,
ओदनस्य फलदशानुप्रवेशादिति—उक्तमत्र—तण्डुलेष्वपि तमबर्थो न
वाचकः, तेषामपि फलसाधनोपयोगाविशेषादिति ॥
कर्तृत्वमपि दुर्वचम्
स्वतन्त्रः कर्ता इति किमिदं स्वातन्त्र्यं क्रियासंपाद्यं ? यदि
च्छातः प्रवर्तनमिति चेत्; कूलं पतति इति चैतन्यशून्यतया कूलस्ये
च्छानुपलम्भात् अकर्तृत्वं भवेत्997 ॥
कारकान्तरप्रेरकत्वादिकमपि न कर्तृत्वम्
अथ यद्व्यापाराधीनः कारकान्तरव्यापारः स कर्तेत्युच्यते, सर्वकार
कनिर्वर्त्यत्वात् क्रियायाः न विद्मः किंव्यापाराधीनः कस्य व्यापार इति,
समग्रकारकग्रामस्य परस्परापेक्षत्वात् ॥
अथ यः कारकान्तराणि प्रयुङ्क्ते, तैश्च न प्रयुज्यते, स कर्तेति—
तर्हि पुनरचेतनानामकर्तृत्वप्रसङ्गदोषस्तदवस्थ एव ॥
अथ धातुनाऽभिधीयमानव्यापारः कर्तेति, तत्रापि न विद्मः कस्य
धातुनाऽभिहितो व्यापारः, सकलकारकवाचित्वात् पचेः998 । अन्यथा हि
सकलव्यापारानभिधायिनि धातौ, तदर्थसाधने सर्वेषां सङ्गतिरेव न
स्यात् । तथा च सति सर्वकारकणि कर्तृत्वमेव स्पृशेयुः ॥
II.244
प्राधान्यमपि न कर्तुः
अथ मतं अगुणतो धातुनाऽभिधीयमानव्यापारः कर्तेति,—तदप्यसत्
सकृदुच्चरितो धातुः अनेकस्मित् कारकचक्रे कस्यचिद्गुणत्वेन कस्य चित्प्रा
धान्येन व्यापारं कथमिव कथयितुं शक्ष्यतीति । तत्प्रयोजको हेतुश्च
इति प्रयोज्येनैव व्याख्यातम् । एवं कारकानुशासनस्याव्यवस्थानात्
तदधीनप्रसक्तविभक्तिविधानमपि प्रत्युक्तम्, अपादाने पंचमी सप्त
म्यधिकरणे च इत्यादिविषयनिरूपणपूर्वकत्वात् तद्विधानस्येति ॥
समासत्वस्य दुर्वचत्वम्
किंच—यदपि कृत्तद्धितसमासानुशासनं, तत् सामर्थ्यनियमपूर्वकम्,
समर्थानां प्रथमाद्वा समर्थः पदविधिः इति परिभाषणात् । तदत्रापि
वक्तव्यम्—सामर्थ्यं नाम किमुच्यत इति । एकार्थान्वयित्वमिति चेत्;
तत् कुतोऽवगम्यते ? तद्धितसमासप्रयोगप्रतिपत्तिभ्यामेवेति चेत्, तर्हि
ताभ्यां सामर्थ्यावगमः, सामर्थ्ये सति तयोः प्रवृतिरितीतरेतराश्रयम् ॥
अपि च सामर्थ्यमन्तरेणापि क्वचित् प्रयुजते समासम्, अश्राद्धभोजी,
दधिघटः, गोरथः,999 इति । तथा, सत्यपि सामर्थ्ये तद्धितप्रयोगं परिहरन्ति
अङ्गुल्या खनति, वृक्षमूलादागत इति, आङ्गुलिकः वार्क्षमूल इति न
वक्तारो भवन्तीति एतदप्यसमंजसमनुशासनम् ॥
प्रातिपदिकत्वमपि दुर्वचम्
तथा अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति संज्ञालक्षणमति
व्यापकम्, वाक्यस्यापि प्रातिपदिकसंज्ञाप्रसंगात् ॥
II.245
अथ कृत्तद्धितसमासाश्च इति सूत्रान्तरे समासग्रहणम् विधिशेष
त्वेन वर्ण्यमानं तदितरप्रतषेधफलं भवतीति ततो वाक्यनिवृत्तिः
सेत्स्यति—यद्येवं अधातुरप्रत्ययः इति न वक्तव्यम्; धातुप्रत्यपयोरपि
तत एव प्रतिषेधसिद्धेः ॥
अथ एकार्थतया समानशीलस्य वाक्यस्यैव प्रतिषेधे प्रभवति
समासग्रहणं, न धातुप्रत्यययोरिति—तदपि दुराशामात्रम्; वाक्य
समासयोरपि वावचनानर्थक्यकथनेन पार्थगर्थ्यव्यवस्थापनादिति ॥
तदेवं प्रातिपादिकसंज्ञाविषयस्यानिश्चयात् तत्प्रकृतिकानां ङ्याप्प्रा
तिपदिकात् इत्यधिकृत्य स्वादिप्रत्ययानां विधानमनुपपन्नमित्यलं
प्रसङ्गेन ॥
व्याकरणे न्यूनताः
यश्च व्याख्यातॄणां उक्तानुक्तदुरुक्तनिरीक्षणप्रयत्नः, यश्च वाचक
मात्रा वार्णाधिक्यमिषपुरस्सरलक्षणपरिचोदनप्रकारः, यच्चेदं व्याख्यातृ
वचनं इह न भवत्यनभिधानात् इति, यच्च पदे पदे बहुलवचनं—तत्
सर्वं सुतरामपरिशुद्धिमनुशासनस्य दर्शयतीति ॥
अपशब्दभूयिष्टत्वं व्याकरणस्य
अन्ये तु, 1000शोभेति, चीर्णमिति, न याति प्रतिभेत्तुमिति, मातुरनुहरतीति
फलिनबर्हिणं 'बलवानो ह्यद्यासेति, कांदिशीक इति, भ्राजिष्णुरिति, गणेय
इति, वरेण्य इति लक्ष्यसंग्रहबहिष्कृतस्मृतिसंदेहविपर्ययप्रतिपादकत्वलक्षण
II.246
स्खलितं विप्लुतं च पाणिनितन्त्रं इति मन्यमानाः तत्र महान्तमाक्षेपमता
निषुः—स तु स्थूलोदरप्राय इति इह ग्रन्थगौरवभयान्न लिख्यते ॥
व्याकरणस्य शोधनमप्यशक्यम्
ननु ! यदि लक्षणस्य प्रणेता पाणिनिः असम्यग्दर्शी, तत्र विवरण
काराश्च नातिपुणदृशः, काममन्यः सूत्रकृत् कृतबुद्धितरो भविष्यति,
वृत्तिकाराश्च प्रौढतरदृष्टयो भविष्यन्ति । तेभ्यश्च शब्दलक्षणमविप्लुत
मवभोत्स्यामह इति—नैतदस्ति—तेषामपि अभियुक्तराः केचिदुत्प्रेक्षन्त एव
दोषं, तेषामपरे, तेषामप्यपरे । तदेवमनवस्थ प्रसङ्गान्नास्ति निर्मल
मनुशासनमिति क्लेशायैव व्याकरणाध्ययनमहाव्रतग्रहणम् । तथा चाह1001
बृहस्पतिः प्रतिपदमशक्यत्वात्, लक्षणस्याप्यव्यवस्थानात्, तत्रापि स्खलित
दर्शनात् अनवस्थाप्रसङ्गाच्च मरणान्तो व्याधिर्व्याकरणमित्यौशनसा
इति । इहाप्युक्तम्—
अन्यैरप्युक्तम्—
II.247
व्याकरणस्यावश्याध्येयत्वम्
अत्राभिधियते—यत्तावदिदमवादि—गवादिशब्दवत् अनादिप्रबन्ध
सिद्धमेव गाव्यादेरपि वाचकत्वमिति—तत्रामुं पक्षं संशयदशामेव ताव
दारोपयापः । पूर्वपाक्षिकोक्तयुक्तिसमुत्थापितस्थिरतरविपर्ययज्ञानसम
नन्तरं सहसैव सम्यग्ज्ञानोत्पादनातिभारात् भारैकदेशावतरणन्यायेन
संशयस्तावदुपपद्यते । ततः तर्कात् परिशोधितेऽध्वनि सुगमे सुखं विह
रिष्यति सम्यङ्निर्णयोपायो न्याय इति तदुच्यते । यदि गाव्यादीनां
गवादीनामिव शब्दानां प्रयोगे गतिरन्या न काचित् संभावनाभूमिमध्येति,
तत् सत्यमादिसत्तायाः कल्पने कोऽवसरः ॥
यथाहि स्वाध्यायाध्ययनसमये यादृशमेव शब्दं यथोदितमात्रानु
स्वारस्वरादिस्वरूपसमुत्थं तमुच्चारयत्याचार्यः, तादृशमेव तं शिष्यः
प्रत्युच्चारयति । प्रमाद्यन्तं वा गुरुरेवैनमनुशास्ति । आ तदुच्चारण
सामर्थ्योपजननं तावत् न मुंचति, शिक्षयति । सोऽपि शिष्टः यदा
गुरुर्भवति, तदा स्वशिष्यं तथैव शिक्षयिष्यति । आचार्योऽपि यदा शैशवे
शिष्य आसीत्, तदाऽन्येन गुरुणा शिक्षितोऽभूत् । सोऽपि तदन्येन ।
सोऽपि तदन्येनेत्येवमनादित्वं 1003जैमिनीयपक्षे, आ जगत्सर्गात्प्रभृति प्रवृत्तत्वं
वा नैयायिकपक्षे वेदस्य व्यवस्थितम् ॥
साधुशब्दव्यवस्थाप्रदर्शनम्
इत्थमेव यदि गाव्यादीनां गवादिवदप्रमादकृतः सुपरिरक्षितः प्रयोगः,
तथैव चैतेभ्योऽर्थप्रतिपत्तिपूर्वको व्यवहारः तदाऽनादिगवादिशब्दसमान
विषया एव गाव्यादय इति तदा कस्य किं ब्रूमः । अस्ति त्वत्रापरः
II.248
प्रकारः । न ह्येकान्तेन यादृगेव वक्त्रा शब्दः प्रयुज्यते तादृगेव 1004श्रोत्रा
प्रत्युच्चार्यते । किन्तु प्रमादालस्यादिविविधापराधविधुरकरणोच्चार्य
माणोऽपभ्रंशतां स्पृशन् दृश्यत इत्यस्ति संशयावसरः ॥
अपभ्रंशोत्पत्तिक्रमः
अपभ्रंशतयाऽपि ये स्थिताः, स्थास्यन्ति वा शाकटिकभाषाशब्दाः,
तानपि गोपालबालाबलादिषु प्रयुंजाना जरठपामराः प्रयत्नेनापि न यथो
च्चारितानेव तान् पाठयिक्तुं शक्नुवन्तीति अशक्तिजशब्दप्रयोगबाहुल्य
दर्शनात् संशयाना कुशाग्रबुद्धेरपि बुद्धिः भवितुमर्हति 'किमेते गवादि
शब्दा एवानादिसिद्धवाचकशक्तिभाजः, तेभ्योऽन्ये विगुणकरणप्रयोज्या
प्रमादप्रभवाः अपभ्रंशाः ? किं वा सर्व एव तुल्यकक्ष्या इति । र्वेषांस
तुल्यकक्ष्यत्वे, य एतेऽद्यत्वेऽपि प्रमादतः प्रमदादासदारकादिवदनेष्वप
भ्रष्टा अभ्यधिकतरामपभ्रंशदशां स्पृशन्तः तेऽपि तामेव गवादिशब्दधुरा
भधिरोहेयुः ॥
अपभ्रंशानां न साधुशब्दतौल्यम्
न चैवमस्त्विति शक्यमभ्यनुज्ञातुम्, इदनीमेव भ्रश्यतां तेषां प्रत्य
क्षत उपलब्धेरिति । तस्मादवश्यं तावत् अद्यत्वे परिदृश्यमानाऽपभ्रंशदृशा
दुर्बलबालाबलादिशब्दाः न गवादिशब्दान् स्पर्धितुर्महन्ति । ते चेन्न
स्पर्धन्ते तदधुना गाव्य दयोऽपि प्रकारान्तरोपपत्तिसंभावनाभङ्गुरप्रभावाः
सन्तः न गवादिशब्दसमानविधित्वमध्यवसातुं शक्नुयुविति तर्कयामः ॥
तदुक्तं भगवता जैमिनिना शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागि
त्वम् जै. सू. 1-3-25 इति । भाष्यकारेणापि तद्व्याख्यातम् महता
II.249
प्रयत्नेन शब्द उच्चारितो वायुः नाभेरुत्थितः उरसि विस्तीर्णः कण्ठे
विवर्तितः मूर्धानमाहत्य परावृत्तः वक्त्रे चरन् विविधान् शब्दानभिव्य
नक्ति । तत्रापराध्येताऽप्युच्चारयिता—यथा शुष्के पतिष्यामीति कर्दमे
पतति, सकृदुपस्पृक्ष्यामीति द्विरुपस्पृशति इत्यादिना ॥
अपभ्रंशशब्दानामनादित्वासंभवः
आह—विशेषे तर्हि प्रमाणं वक्तव्यं—यदेते गाव्यादयः प्रमादाद्य
पराधनिबन्धना एव, न गवादिशब्दसमानविधय इति—उच्यते । भवतु,
सिद्धं नस्समीहितं—संशयदशां तावदानीतोऽयं अनादिगाव्यादिशब्दवाची
महापुरुषः संबोध्यते 'भो महात्मन् ! इत्थं पूर्वोक्तनीत्या संशये सति,
चिन्त्यताम् ! किमेते गाव्यादयो गवादिसमानयोगक्षेमा एव हस्तः करः
पाणिरितिवत् भवन्तु । किंवाऽपराधसंभावनया मार्गान्तरमालाम्बन्ता
मिति ॥
अपभ्रंशपदानां साधुपदपर्यायत्वाभावः
तत्रैकस्मिन् वाच्ये बहवस्तुल्यकक्ष्या वाचका इति नैष न्यायः ।
कथम् ? प्रत्यर्थं शब्दनिवेशात् । तेनैव सम्बन्धकरणसौकर्यात् ।
अन्यथा च संबन्धे यत्नगौरवप्रसङ्गात् । प्रत्यर्थं शब्दनिवेशे हि सति
परस्परमव्यभिचारिणौ शब्दार्थो भवतः, स शब्दः तस्य वाचकः, सोऽर्थः
तस्य वाच्य इति । अनेकशब्दवाच्यस्त्वेकोऽर्थः तं वाचकं शब्दं विजह्या
दपि, 1005तमन्तरेण शब्दाभिधेयतामपि प्रतिपद्यते इतिव्य भिचारः ॥
II.250
गोगाव्यादिपदवैलक्षण्यम्
अनेकार्थवाचिनि चैकस्मिन् वाचके इष्यमाणे शब्दोऽर्थ व्यभिचरेत्,
तस्येवार्थान्तरस्यापि ततः प्रतिपत्तेरिति इत्थमनियमोऽयमुपप्लवेत । हस्तः
करः पाणिरित्यादौ । अक्षाः, पादाः, माषा इत्यादौ तु किं क्रियते ?
गतिरन्या नोपलभ्यते । तेनानेकशब्दत्वं अनेकार्थत्वं दैवबलवत्तयाऽङ्गी
कृतम् ॥
प्रथमः पुनरेष ऋजुः पन्थाः, यदेकस्य वाचकस्यैको वाच्योऽर्थ इति ।
इह च गत्यन्तरमतिस्पष्टमस्ति प्रमादप्रभवत्वं नाम । तस्मिन् सति
किमिति प्रथमप्राप्तोऽयं प्रतिवाच्यं वाचकनियमक्रमो लङ्घ्यते । तेन
प्रमादापराधनिबन्धना गाव्यादयः, न गवादिसमानमहिमान इति युक्तम् ॥
गाव्यादिपदेषु शक्तिग्रहासंभवः
किंच वाचकशक्तिर्नाम सूक्ष्मा परमपरोक्षा अर्थापत्तिमात्रशरणा
वगमा, न तन्मन्दतायां । 1006अन्यतः कुतश्चिदवगन्तुं पार्यते । सा चेयमन्यथा
ऽप्युपपद्यमाना गवादिभ्योऽर्थप्रत्ययादिव्यवहारे मन्दीभवति । तेषु शक्ति
कल्पनायामर्थापत्तिः । एवं च गवादय एव वाचकशक्तेराश्रयाः न—
गाव्यादयः ॥
अपभ्रंशैः व्यवहारनिर्वाहक्रमः
कथं तर्हि बहूनामनधिगतव्याकरणतन्त्राणामेभिरविच्छिन्नो व्यव
हारः ? यथैव म्लेच्छभाषाभिः अक्षिनिकोचहस्तसंज्ञादिव्यवहारिणां वा
स्वैः स्वैरुपायैः ॥
II.251
अपभ्रंशेषु शक्तिभ्रमादेव बोधः
किमक्षिनिकोचादीनां अन्त्यजनपदवाचां नास्ति शक्तिः ? ओमित्यु
च्यते । कथं तर्हि तेभ्योऽर्थप्रतिपत्तिर्नैसर्गिकी ? तेषां शक्तिर्नास्तीति ब्रूमः ।
तत्स्वरूपस्याव्यवस्थितत्वेन सांसिद्धिकशक्तिपात्रतानुपपत्तेः । प्रतिपत्तिस्तु
स्वकृतसमयमात्रनिबन्धना तेभ्यः ॥
साधुशब्देषु शक्तिग्रहमूलम्
ननु ! नैयायिकानां वा न समयः प्रतिपत्त्युपायः ? सत्यम्—स
त्वीश्वरप्रणीतः प्रथमसर्गात् प्रभृति प्रवृत्तः मीमांसकाभ्युपगत 1007नैसर्गिक
शक्तिसोदर्य एव; न मादृशरचितपरिमितविषयसमयसमानः । स च
गवादिशब्देष्वेव प्राप्तप्रतिष्ठः, न गाव्यादिषु । ते तु वर्णसारूप्यच्छायया
गवादिशब्दस्मृतिमादधानाः तदर्थप्रतिपत्तिहेतुतामुपगच्छन्ति ॥
साध्वसाधुशब्दपरिज्ञानोपायः
ननु ! अनवधृतस्वरूपाणां कथं गवादिशब्दानां स्मरणम् ? तदव
धारणे वा कोऽभ्युपायः ? 1008अभियोगविशेष इति ब्रूमः । कः पुनरभि
योगः ? को वा तस्य विशेषः ? व्याकरणाध्ययनं अभियोगः । तदभ्या
सानुसारेण लक्ष्यनिरीक्षणं तस्य विशेषः । व्याकरणेन च प्रतिपदमपर्यव
सितमार्यजनप्रयोज्यसाधुशब्दसार्थसङ्ग्रहतः तद्विसदृशबर्बरपुरन्ध्रिप्राय
प्राकृतगोचरापशब्दपरिहारप्रकारव्युत्पादनमुपक्रम्यते, यदानन्त्यात् किल
कल्पशतैरपि नावकल्पते ॥
II.252
किन्तु व्यपनीतातिव्याप्त्यादिदोषोपनिपातत्रासत्रिमुनिपरीक्षितलक्षण
द्वारकस्तदुपदेशः श्रूयते । तेन च वेदेनव धर्माधर्मयोः, ब्रह्मावतारेणेव
सत्यानृतयोः, नीतिशास्त्रेणेव हिताहितयोः, मन्वादिवचनेनेव भक्ष्या
भक्ष्ययोः, दिव्येनेव शुद्ध्यशद्धयोः सिध्यत्येव साध्वसाधुशब्दयोरधिगम
इति सर्वलोकसाक्षिकमेतत् कथमपनीयते ?
दृश्यते ह्यद्यत्वेऽपि व्याकरणकोविदानामितरेषां च कृषीबलादीनां
अतिमहान् वचसि विशेष इत्येवं प्रमादादिमूलगाव्याद्यपशब्दप्रयोगसंभवात्
अनेकशब्दगतवाचकशक्तिकल्पनागौरवप्रसङ्गात् अभियोगविशेषसाध्यमान
साध्वसाधुशब्दाधिगमसौकर्याच्च गवादीनामेव वाचकत्वं, न गाव्यादीना
मिति स्थिते पूर्वपक्षोपन्यस्तः समस्त एव परीवादः परिहृतो वेदितव्यः ॥
शब्दसाधुत्वस्य प्रमाणगम्यत्वप्रदर्शनम्
तथाहि । यत्तावदभ्यधायि साधुत्वनिश्चये प्रमाणं नास्तीति—
इति—तत्रायं प्रतिश्लोकः—
इति । श्रौत्रे हि प्रत्यये 1009ग्रस्तनिरस्तरोमशाम्बूकृतादिदोषरहितो
दात्तादिधर्मसंबन्धप्रसिद्धानुपूर्वीकवर्णगणात्मकपदप्रतिभासस्तावदस्ति । स
च न संदिग्धः, न बाधकविधूतधैर्यः, नाशुद्धकरणजन्मा, न कल्पनामात्र
II.253
स्वरूप इति तत्र परिस्फुरत्स्फुटक्रमवर्णात्मकपदग्रहणमेव साधुत्वग्रहणम्,
तद्विपरीतयथानिर्दिष्टदोषकलुषितशब्दग्रहणमेव च असाधुत्वग्रहणमिति
प्रत्यक्षम्ये एव साधुत्वासाधुत्वे इति ॥
साधुत्वासाधुत्वयोः ऐन्द्रियकत्वम्
ननु ! यदि श्रोत्रकरणकेनैव प्रत्ययेन साधुत्वासाधुत्वे प्रतिपत्तारः
प्रतिपद्यन्ते, व्याकरणाध्ययनवन्ध्यबुद्धयोऽपि प्रतिपद्येरन् । न च प्रति
पद्यन्ते । तस्मान्न ते इन्द्रियविषये इति—नैष दोषः । वैयाकरणोपदेश
सहायकोपकृतश्रोत्रेन्द्रियगाह्यत्वाभ्युपगमात् । यथा हि ब्राह्मणत्वादि
जातिः उपदेशसव्यपेक्षचक्षुरिन्द्रियग्राह्यापि न प्रत्यक्षगम्यतामपोज्झति ।
यथाऽऽह न हि यत् गिरिशृङ्गमारुह्य1010 गृह्यते तदप्रत्यक्षम् इति ।
यथा वा सविकल्पकप्रत्यक्षप्रामाण्यसिद्धौ शब्दानुविद्धबोधेऽपि प्रामाण्यमुप
पादितमादौ ॥
किल संज्ञोपदेशिना पनसोऽयमिति वृद्धवचसा चक्षुरिन्द्रियेण पन
सज्ञानमुत्पद्यते, सङ्केतकरणकाले तदुभयजमिति अव्यपदेश्यपदेन व्यप
नीतम् । व्यवहारकाले तु पुनः पनसादिज्ञानमुपदेशस्मरणापेक्षचक्षुर्जनित
मपि चाक्षुषमेवेति वर्णितम् । एवमिहापि व्याकरणकोविदोपदेशसचिव
श्रवणेन्द्रियग्राह्ये अपि साधुत्वासाधुत्वे न प्रत्यक्षतामतिवर्तेते ॥
ब्राह्मणत्वादेः आचारगम्यत्वेऽपि प्रत्यक्षत्वम्
यथा च ब्राह्मणत्वादिजातिप्रतीतौ कारणान्तरमुक्तं—क्वचिदाचारत
श्चापि सम्यग्राजानुपालितादिति मन्वादिदर्शितानवद्यवर्त्मानुसरणनिपुण
II.254
तरभूपतिपरिपाल्यमानवर्णाश्रमाणां शङ्कितकृतककपटार्यवेषदुष्टशूद्रता
व्यभिचारे देशे विशिष्टाचारगम्यापि ब्राह्मणत्वादिजातिर्भवति—एवमि
हापि विशिष्टशब्दश्रवणानन्तरकालप्रवृत्तव्यवहारावगमार्थप्रतिपत्तिसहितं
शब्दानुशासनशास्त्रोपदिष्टप्रकृतिप्रत्ययविकरणवर्णलोपागमादेशादिलिङ्ग
मव्यभिचारि तत्स्वरूपावधारणे कारणं भविष्यति । यदेवंलक्षणकमर्थ
प्रत्यायकं च शब्दस्वरूपं, तत साधुतयाऽवधृतमिति व्याप्तिग्रहणोपपत्तेः ॥
शब्दसाध्वसाधुत्वयोः शास्त्रमपि प्रमाणम्
शास्त्रमपि श्रुतिस्मृतिरूपं अदुष्टशब्दप्रयोगोपनतक्रतूपकारकरणक
स्वर्गादिफलसंयोगमुपदिशत् अपशब्दभाषणप्रभवप्रत्यवायप्रतिपादकं च
वाग्योगविद्दुष्यति चापशब्दैः इत्यादि साधुत्वेतरपरिच्छेदे प्रमाणतां
प्रतिपद्यत एव ॥
शास्त्रेण साध्वसाधुशब्दनिर्णयः
ननु ! ब्रीहिकलंजवत् तत्स्वरूपसिद्धौ सत्यां तद्विधिप्रतिषेधयोः
शास्त्रं क्रमते; न तु तत्स्वरूपमेव विधत्ते, स्वरूपस्याभावार्थत्वेन1011
विधिविषयत्वायोगात् इत्युक्तम्—सत्यम्—किन्तु श्रुतिस्मृतिशास्त्रयोः
धर्मोपदेशिनोः यथोपवर्णितेनैव प्रकारेण साध्वसाधुविषयविधिनिषेध
परत्वम् । तत्स्वरूपप्रतिपत्ति1012कर्तव्यतापरं तु विध्यपेक्षितव्याकरणस्मृति
रूपमेव शास्त्रं वेदितव्यम् । मूलविध्यपेक्षितसाधुत्वान्वाख्यानपरत्वाच्च
व्याकरणस्य मूलशास्त्रमपि तत्र सोपानव्यवहितं प्रमाणीभवत्येव ॥
II.255
साधुत्वासाधुत्वयोः शास्त्रगम्यतम्
यदि वा पाणिन्यादिष्टस्मृतिद्रढिम्ना मूलभूतमाचमनादिविधिवद्वै
दिकमपि तथाविधं विधिवाक्यं कल्पयितुं शक्यमिति1013 शास्त्रस्यापि ना
विषयः साधुत्वम् ॥
वैयाकरणानां प्रयोगस्य उपादेयत्वम्
शब्दवित्प्रयोगश्च सङ्कररहित एव । तथा हि—अन्या एव निर
वद्यवर्णक्रमोदीरणोदारगम्भीरगतयः सूक्तयः सूरिजनस्य । अन्या एव
दुःश्रवाः कुस्सितसङ्कीर्णवर्णविभागविनिहितहृदयोद्वेवाः ग्राम्या गिरः
इति प्रत्यक्षमुपलभ्यते ॥
स चायमसङ्करः प्रयोगः व्याकरणसहायकं प्रतिपद्यमानः साधुत्वा
वगमोपायतां भजत एवेति सर्वथा नाप्रामाणकः साध्वसधुशब्दविभाग
इति ॥
एवं च ब्राह्मणेन न म्लेच्छित वै नापभाषित वै म्लेच्छो हवा एष
यदपशब्दः इत्याद्यागमशब्दान्यपि तदुपयोगीनि व्याख्यातानीव भव
न्तीति ॥
विधेः नियमकरणसंभवः
यत्पुनर्नियमशास्त्रे साधुभिर्भाषितव्यम्, असाधुभिर्न इत्यस्मिन्नप
भाषितं, तदपि न पेशलम्—न हि नीरपानोपदेशवत् कृशानुपाननिषेधवद्वा
ऽनवकाशमिदं शास्त्रं; अपशब्दानामनार्यजनवदनप्रतिष्ठानां यथातथाऽ
र्थप्रतीत्युपायत्वदर्शनपूर्वकप्रयोगप्रसङ्गानपायेन प्राप्तौ सत्यां प्रतिषेधस्याव
II.256
काशसंभवात् । साधुभिरेव भाषणस्य 1014भोजनप्राङ्मुखतादिवत् नियमा
दृष्टसाफल्यात् ॥
साध्वसाधुशब्दोपदेशसंभवः
यदपि साध्वसाधुस्वरूपानवधारणात् प्रतिपदोपदेशाद्यशक्यत्वं
आशङ्कितं—तदपि प्रतिविहितम्—यादृगिदं प्रत्यक्षानुमानगम्यं साध्व
साधुशब्दस्वरूपं व्याख्यातं, तदबलम्बनपुरस्सरनियमकरणस्य सुश
कत्वात् ॥
अत एव साधुत्वं नाम किमुच्यते इति यद्विकल्पितं—तत् प्रतिविहित
मेव भवति । यतः व्याकरणलक्षणानुगमविशेषितं वाचकत्वं साधुत्वमि
त्युक्तम् । तच्च सर्वानुगामिगोत्वादिवत्सामान्यं वा भवतु । पाच
कत्वादिवत् असत्यपि सामान्येऽवच्छेदकं भवतु । सर्वथा 1015तत्कृतो
निर्वहति सर्वो व्यवहारः । वर्गीकरणे हि तदेव कारणमिति ॥
अथवा पुनरस्तु वाचकत्वमेव साधुत्वम्; तथापि तत्र नियमशास्त्रं
साधुभिरेव भाषितव्यमिति प्रवर्तितुमर्हत्येव ॥
साधुशब्दभाषणविधेर्नियमविधित्वसंभवः
यद्यप्यसाधोरवाचकत्वात् प्रयोगप्रसङ्गोनास्ति—तथापि साधुस्मरण
सरणिसमुपारूढवाचकत्वशङ्कोपप्लवमानप्रसङ्गनिवृत्तये नियमसाफल्यं
भविष्यति । विधिफलत्वेन नियमस्य फलतः परिसंख्याकार्यं असाधु शब्द
निवृत्तिः स्थास्यतीति सोऽपि न दोषः ॥
II.257
साध्वसाधुशब्दप्रयोगस्य पुण्यपापहेतुत्वम्
यदपि 1016परार्थत्वात् फलश्रुतिमर्थवादीकुर्वता पुण्यपापफलत्वं दूषितम्,
तदपि न सांप्रतम्—अर्थप्रतीतिपारार्थ्ये सत्यपि प्रयोगनियमापूर्वद्वारकपुण्य
पापफलत्वसंभवात् । पर्णमय्यादिष्वपि तथा प्रसंग इति चेत्—भवतु को
दोषः ? नैयायिकैः एकाकार 1017निरबलम्बनार्थवादपदोपदेशानभ्युपगमात्
शब्दशक्तितात्पर्यपर्यालोचनमपि तैरन्यथा क्रियत इति प्राग्विचारित
आह्निक ४ मिति तिष्ठत्वेषा कथा । तेन कामधुग्भवति इत्यादिवच
नान्यपि व्याकरणाध्ययनफलप्रकटनपटूनि तथैव नेतव्यानि ॥
सूत्रे प्रयोजनाकथननिदानम्
यदपि सूत्रकृता स्वयं प्रयोजनं किमिति न व्याहृतमिति व्याहृतं—
तदप्यदूषणमेव—व्याकरणं हि वेदांगमिति प्रसिद्धमेतत् आ हिमवतः, आ च
1018कुमारीभ्यः । वेदश्च यदि निष्प्रयोजनः—स्वस्ति प्रजाभ्यः, समाप्तानि
दृष्टादृष्टफलानि सर्वकर्माणि, जितं चातुर्वर्ण्यबाह्यैः अन्त्यजनपदवासिभिः
म्लेच्छैः ॥
अथ सप्रयोजनो वेदः सोंऽगवत्त्वात् अंगैः सहैव सप्रयोजनतां भजत
इति कोऽर्थः प्रयोजनान्तरचिन्तया । न हि दर्शपूर्णमासप्रयोजनादन्यत् प्रया
जादिप्रयोजनमन्विष्यत इति मन्वानः स्वयं सूत्रकृत् प्रयोजनं नाख्यत् ॥
व्याख्यातारस्तु मुख्यानुषंगिकभेदभिन्नप्रयोजनप्रपंचप्ररोचनातिशय
व्युत्पादनद्वारकश्रोतृजनोत्साहपरिपोषसिद्धये दर्शितवन्त इति न कश्चि
दुपालभ्यः ॥
II.258
व्याकरणस्य वेदाङ्गत्वसमर्थनम्
कथं पुनरंगता व्याकरणस्य ? कमुपकारमावहत इति । कस्यैष
पर्यनुयोगः ? वेदवत् अंगानामनादित्वात् ईश्वरप्रणीतत्वाद्वा पर्यनुयोजना
नुपपत्तेः । संक्षेपविस्तरविवक्षया हि पाणिनिपिंगलपराशरप्रभृतयः तत्र
तत्र कर्तारः प्रसिद्धिं गताः । परमार्थतस्तु वेद इव तदर्थोऽपि, तदर्था
वगमोपायोऽपि हि सर्व एवानादयः, प्रजापतिनिर्मिता वेत्येवमपर्यनुयोज्या
एव । अत एव वेदैस्तदङ्गैश्च सह चतुर्दश विद्यास्थानानि गण्यन्ते—
भाट्टोक्तशब्दसंस्कारादिपक्षः
येऽपि शब्दसंस्कारादिविकल्पाः कृताः—तेऽपि बहुभाषित्वापस्मार
निर्मिता एव, न वस्तुस्पृशः । शिष्टा एवात्र प्रष्टव्याः । त एव च
जानन्ति—के संस्कृताः शब्दाः ? के वा तद्विपरीताः । कश्च तेषां
संस्कार इति । न च तावता शिष्टप्रयोगमूलमेव व्याकरणं ब्रूमः, वेद
वदनादित्वस्य दर्शितत्वात् । अन्धपरम्पराप्रसङ्गदोषपरिजिहीर्षया तु
शिष्टप्रयोगमूलत्वमभिधीयते । वैद्यकस्मृतेरिव अन्वयव्यतिरेकमूलत्वात् ।
ये हि व्याकरणस्मृतौ साधव इत्यनुशास्यन्ते शब्दाः ते शिष्टैस्तथैव प्रयुज्य
माना दृश्यन्ते, हरीतकीभक्षणादिवारोग्यम् । न तु शिष्टेभ्यः शब्द
समाम्नायमधिगम्य पाणिनिः ग्रन्थं प्रणीतवात् । न चान्वयव्यतिरेकाभ्य
द्रव्यशक्तीरवगम्य चरकं 1019प्रणीतवानिति विद्यानामनादित्वाभि
धानात् ॥
II.259
एतेनेतरेतराश्रयमपि प्रत्युक्तम्, न हि शिष्टेभ्यो व्याकरणस्य
प्रभव इति ॥
शिष्टप्रयुक्तापशब्दानां गमनिका
यत्तु शिष्टानामपि प्रमादित्वमुपवर्णितम्—किल पुराणैर्मुनिभिरपि
बहुभिरपशब्दाः प्रयुक्ता इति—तत्राभियुक्तैः तदपनयनमार्गः 1020प्रदर्शित
एव । स तु ग्रन्थविस्तरत्रा सादिह न प्रतन्यते ॥
पाणिन्याद्युक्तिषु दोषशङ्कापरिहारः
यदपि पाणिनितन्त्रे धातुप्रातिपदिककारकाद्यनुशासनविसंष्ठुलत्वमने
कशाखमाख्यापितं—तदपि निपुणमतिभिः1021 प्रतिसमाहितमेव । न च
तेषामपि दोषोत्प्रेक्षणसंभवादनवस्था, निपुणदर्शितमार्गे विप्लवकारवैत
ण्डिकपण्डित तस्करावकाशानुपपत्तेः ॥
शोभादिशब्दानां साधुत्वम्
एतेन शोभा-चीर्ण-वर्ण-वरेण्य-गणेय-भ्राजिष्णु-कान्दिशीकादिशब्दा
संग्रहस्मृतिसंदेहविपर्ययादिदूषणान्यपि कैश्चिदुत्प्रेक्षितानि प्रतिक्षिप्तानि
मन्तव्यानि, तानि च तैरेव समाहितानीति ॥
बृहस्पतिवचनस्य गतिप्रदर्शनम्
बार्हस्पत्यमपि सूत्रं असूत्रमेवेत्यलंस्वमनीषिकाकल्पितानल्पदुर्विकल्प
डंबरोत्तर्भितालीकपाण्डित्यगर्वगलग्रहणगद्गदगिरामुद्वेगकारिणानेन वस्तु
II.260
विचारेण । सर्वथा प्रकृतिनिर्मलमत्युदारं व्याकरणाम्बरमेवंप्रायैः परि
वादपांसुपातैः न मनागपि धूसरीकर्तुं पार्यत1022 इति सिद्धम् ॥
तस्मात् पवित्रात् सर्वस्मात् पवित्रं आर्यजनबहुमतं अधिगतचतुर्वर्ग
अग्राम्यमात्मानं कर्तुं अध्येतव्यं व्याकरणम् ॥
व्याकरणस्यावश्याध्येयत्वोपसंहारः
आह च—
व्याकरणाध्ययनप्रशंसा
इहाप्युक्तम्—
किंच—
II.261
मनुना च 1024पङ्क्तिपावनत्वेनाधिगतव्याकरणः मीमांसकश्च स्वस्मृतौ
पठितौ—
इति । पुष्पदन्तो ऽप्याह—
व्याकरणेन वेदसहकारः
II.262
पाणिनिव्याकरणवैशिष्ट्यम्
शब्दप्रामाण्यनिगमनम्
प्रमाणविचारनिगमनम्
इति जयन्तभट्टकृतौ न्यायमञ्जर्यां षष्ठमाह्निकम्
-
बीजं—कारणम् । पदस्वरूपस्य, वाक्यस्वरूपस्य, तेषां अर्थप्रत्यायन प्रकारस्य च दुर्निरूपत्वात् शब्दप्रामाण्यं दुरवस्थमेवेत्यर्थः ॥
↩ -
शब्दनित्यत्ववत् स्फोटनित्यत्वादिकमपि न वेदप्रामाण्योपपादकम् । इतर व्यावृत्तमीश्वरोपदिष्टत्वमेव तदुपपादकं भवेत् । वेदप्रामाण्यसमर्थनमेव हि न्याय शास्त्रस्य परम उद्देशः ॥
↩ -
वर्णानां नित्यत्वं सर्वगतत्वं चात्र हेतुः ॥
↩ -
कारकत्वं—अज्ञातत्वेऽपि स्वरूपत एव कार्यनिर्वर्तकत्वम् ॥
↩ -
शाब्दबोधस्य ज्ञानरूपस्य आत्ममनस्संयोगादिरेव कारकहेतुः । वर्णस्तु ज्ञातस्सन्नेव हेतुः ॥
↩ -
प्रतीतिः—वर्णनां ग्रहणम् ॥
↩ -
वासना—संस्कारः । कारणानां संत्काराणामनेकत्वे सति तज्जन्यस्मृतेः एकत्वं कथं संभवेदित्याशयः ॥
↩ -
संकलनाज्ञानं—तावद्वर्णविषकमेकं समूहालम्बनात्मकं, समुच्चयात्मकं वा ज्ञानम् । सदसत् इति तत्कालदृष्ट्या ॥
↩ -
विपरीतेत्यादि—विपरीतक्रमेण वर्णानामुच्चारणेऽपि समूहालम्बनात्मकज्ञाने सर्वेषां वर्णानां विषयत्वात् वाचकत्वापत्तिः ॥
↩ -
प्रयोज्यवृद्धस्य प्रवृत्तिं पश्यन् बालः तस्य प्रवृत्तिं प्रयोजकवृद्धवाक्यार्थ ज्ञानमूलिकां जानन् हि व्युत्पद्यते ॥
↩ -
अर्थावगतिरूपात् कार्यात् तत्कारणस्य स्फोटस्यानुमानम् ॥
↩ -
वर्णस्यावगतिहेतुत्वपक्षस्य क्षेपणे—निरसने दक्षाणां दूषणानां पात्रताम् ॥
↩ -
उपपन्नः—स्फोटस्य शब्दत्वात् । संस्कारस्यार्थप्रतिपादकत्वे त्त्विदमनुपपन्नमेव ॥
↩ -
स्मृतिविषयास्सन्तः ते—इत्यर्थः ॥
↩ -
वाक्यस्फोटस्य एकत्वात् ॥
↩ -
शब्दकार्यं—अर्थप्रतीतिः ॥
↩ -
एवं सति—श्रोत्राग्राह्यत्वेऽपि अर्थप्रतीतिजनकत्वमात्रात् शब्दपद वाच्यत्वे ॥
↩ -
अथ गौरित्यत्र कः शब्दः ? गकारोत्तरौकारोत्तरविषर्जनीया इत्युपवर्षः इति शाबरभाष्यम् 1-1-5 ॥
↩ -
इदं—वर्णानां अर्थप्रत्यायकत्वम् ॥
↩ -
पदस्फोटवाक्यस्फोटाद्यभिव्यक्त्यर्थं श्रुतचराणां तेषां संस्कारस्य हेतुत्वं कल्पनीयम् । पुनस्तैः स्फोटः, ततः शब्दबोधः । एवंचेत् संस्कारा एव शब्दबोधजनिका भवन्तु, तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन इतिन्यायात् ॥
↩ -
स्फोटस्य अखण्डत्वात् प्रथममेवाभिव्यज्यते ॥
↩ - चकारात् वर्णपरिग्रहः । परन्तु वर्णाः अपरमार्थाः, स्फोटस्तु परमार्थः । मणिकृपाणाद्यभिव्यङ्ग्ये मुखे सत्यत्वं, श्यामदीर्घतादावसत्यत्वमिति एकाभिव्यञ्जकव्यङ्यत्वेऽपि विशेषः स्पष्टः ॥↩
- दुर्भगाः—दौर्भाग्यवन्तः । सुभागः—सौभाग्यवान् ॥↩
- दुर्भगाः—दौर्भाग्यवन्तः । सुभागः—सौभाग्यवान् ॥↩
-
पूर्वोक्तप्रत्येकसमुदायविकल्पदुष्टत्वात् ॥
↩ -
वाक्यस्फोटः, पदस्फोटः, वर्णस्फोटः इत्यनुक्रमश्चेत् वर्णपक्षेऽपि इदं समानमेव । अतश्च पूर्वोक्तकल्पनाद्वयानतिपातः ॥
↩ -
न सन्ति इत्याकर्षः ॥
↩ -
न हि पदेन व्यवहरन्ति, अपि तु वाक्येन ॥
↩ -
अवयवः—पदादिरूपः ॥
↩ -
तदंशावगमः—तदंशतया प्रतीतिः ॥
↩ -
करितुरगादौ गच्छति रेणुरुत्तिष्ठति । तत्रैव मार्गें अकस्मात् पिपीलिकाऽपि गच्छति । अत्र पिपीलिकापि रेणूद्गमहेतुस्स्यात् ॥
↩ -
अलिदंशभ्रमः खलु सत्य एव । रेखा अपि सत्या एव ॥
↩ -
येन—रेखात्वेन । येन च—वर्णत्वेन ॥ अलिदंशभ्रमेऽपि, भ्रमत्वेनं न तस्य मरणहेतुत्वम् । अपि तु प्रमात्त्वभ्रान्त्यैव ॥
↩ -
भव इव आचरति भवति इति क्विप् ॥
↩ -
भवति इति तिङन्तमपि, भवच्छब्दः सप्तम्यन्तमपि ॥
↩ -
प्रकरणं निर्दिष्टविषयकम् । शास्त्रं तु समग्रम् ॥
↩ -
विविधं प्रतीयते । विविधं परिणमत इति वा । वाक्यपदीये विवर्तपरिणामशब्दौ पर्यायता प्रयुक्तौ ॥
↩ -
विद्योपायः—ज्ञानसाधनम् । असत्यात्सत्यसिद्धेरिदं मूलम् ॥
↩ -
प्रत्यये—प्रतीतौ । न सोऽस्तिप्रत्ययो लोके यश्शब्दानुगमादृते इति हरिः ॥
↩ -
ज्ञानं जातमपि घटोऽयं इत्यादिप्रत्यवमर्शः यावन्न जातः, तावत् अर्थप्रकाशात्मकमपि तत् न तथा ज्ञायेत । व्यवहारानुगुण्यापादनमेव ज्ञानकृत्यम् ॥
↩ -
परासंज्ञकस्तु शब्दः अनिर्वचनीय इत्यदभिप्रायेणात्र नोक्तः ॥
↩ -
शून्यविवर्तवादः, विज्ञानविवर्तवादः, शब्दविवर्तवादः, ब्रह्मविवर्तवादश्चेति चत्वारो विवर्तवादाः प्रायः शब्दभेदमात्रे पर्यवस्यन्ति । निरूपणप्रक्रिया तु समाना ॥
↩ -
वाक्यमेव कल्पितं चेत् किमु वक्तव्यं प्रत्येकपदानां वर्णानां वा !
↩ -
अधस्ताद्दारुणि शिला, नासा दारूपरि स्थितम् इत्यमरः पुट-12 द्वारोपरितनशिला । इतरपार्श्वत्रयस्थितशिलाभिः यते ॥
↩ -
संस्था—धारणा । प्रकृते तदुपायः ॥
↩ -
पक्षद्वये—शुक्लपक्षकृष्णपक्षयोः । दर्शयागे त्रयः, पौर्णमास्यां त्रयश्च विहिताः ॥
↩ -
आग्नेयादिभिरवान्तरापूर्वनिर्वृत्तिर्वक्तव्या चेत्, आग्नेयाङ्गभूतब्रीह्यवहननादिक्रियाभिः प्रथमं किं कार्यं निर्वर्त्यत इति वक्तव्यम् । आहत्यावान्तरापूर्वनिर्वृत्तिश्चेत्प्रकृतेऽपि समानम् ॥
↩ -
स्वर्गसाधनत्वेन ज्ञात्वा तत्र प्रवर्तते, न तु अवान्तरापूर्वसाधनत्वेन ॥
↩ -
स्वर्गमात्रा—स्वर्गलेशः ॥
↩ -
एष दोषः—अबान्तरापूर्वपरमापूर्वयोर्लेशतोऽपि संबन्धानवगमरूपः ॥
↩ -
घण्टाताडनादौ दश, एकादशेत्यादि संख्यागणनायां अयमंशः स्पष्टः । उपरितनग्रन्थे अयमंशः व्यक्तः ॥
↩ -
स्मर्यमाणानुभूयमानवर्णविषयकत्वकल्पनाक्लेशः अस्मिन् कल्पे नास्ति । आहत्य सर्ववर्णविषयकं एकं मानसिकं ज्ञानमेव भवतु बोधजनकम् ॥
↩ -
तावताऽपि तस्य सर्ववर्णविषकत्वात् ॥
↩ -
शाब्दबोधात्पूर्वभाविन्यः ॥
↩ -
अनुभवः—शाब्दबोधात्मकः ॥
↩ -
तादृशः—अनुभवजन्यस्सन् अनुभवहेतुः ॥
↩ -
कार्यविशेषः अनुभवरूपः ॥
↩ -
प्रथमं एकवर्णविषयकः; ततः वर्णद्वयविषयः एवमुपचीयमानः ॥
↩ -
एषः—संस्कारः । एषः—स्फोटः ॥
↩ -
इदं च संस्कारस्यार्थप्रतीतिहेतुत्वकल्पनपक्षाभिप्रायेण ॥
↩ -
पूर्वपूर्वसंस्कारस्येति शेषः ॥
↩ -
सिद्धे वस्तुनि अतिरिक्तधर्ममात्रकल्पनमत्र, भवतस्तु धार्मिणोऽपि कल्पनम् । इदं सर्वं संस्कारस्यार्थप्रत्ययहेतुत्वपक्षे । स्मृतिहेतुत्वपक्षे त्वस्यापि नावकाशः ॥
↩ -
अपूर्वस्य—सूक्ष्मस्य स्फोटाख्यस्य ॥
↩ -
वाक्यस्येत्यध्याहारः ॥
↩ -
अल्पीयसा—एकवर्णोच्चारणानुकूलप्रयत्नेनोच्चारितः यदा एको वर्ण तदैव समग्रमपि वाक्यं मतिः गृह्णीयात्, अथवा कदापि वा न गृह्णीयात्, वाक्यस्फोटस्य निरवयवत्वात् ॥
↩ -
पराणुद्य—परित्यज्य ॥
↩ -
उच्चरितस्य वाक्यस्य श्रवणे इति अर्थसिद्धम् ॥
↩ -
प्रतीपं—यावन्तो यादृशाः इत्यस्य प्रतिकक्ष्यतया ॥
↩ -
क्रमविशिष्टा वर्णा वाचकाः ? अथवा वर्णानां क्रमः वाचकः ? इति पक्षद्वये क्रमस्य वर्णाश्रितत्वेनाप्रधानत्वात् प्रथमपक्ष एव साधीयान् ॥
↩ -
शब्दानां नष्टत्वात्, तत्संस्काराणामेव वाचकत्वं सिद्धं भवति ॥
↩ -
किन्तु प्रमाणाधीनेति शेषः ॥
↩ -
भवत्पक्षे हि संस्कारेणाचष्टे इति स्यात् ॥
↩ -
शब्दहेतुः, तत्कार्याणि वा श्रौत्रबुद्ध्या न विषयीक्रियन्ते ॥
↩ -
सत्ता—शब्दगतसत्तादिः ॥
↩ -
समानजातीयत्वं बहिरिन्द्रियत्वेन ॥
↩ -
मीमांसकैस्तु थ्वनेः वायुधर्मत्वमेव स्वीकृतम् ॥
↩ -
न हि प्रत्येकं वर्णेषु पदत्वस्य वाक्यत्वस्य वा प्रतिसन्धानं कस्यापि भवति ॥
↩ -
शब्दः इति शब्दः शब्दसामान्यमाचष्टे, तदेव किलशब्दत्वम् ॥
↩ -
प्राभाकरैः ॥
↩ -
अभिन्नं—अखण्डम् ॥
↩ -
एवं एकेनैव चक्षुषा घटोऽपि गृह्यते, पटोऽपि गृह्यते ॥
↩ -
एकत्वं अखण्डत्वम् ॥
↩ -
शब्दार्थयोरविनाभावात् ॥
↩ -
सावयवत्वं प्रत्यक्षसिद्धम् । निरंशत्वं तु युक्तिसिद्धम् । तत्र तु विप्रतिपत्तिः स्यात् । अतः निरंशत्वं कथमित्येव विचारणीयम् ॥
↩ -
त्वन्मत इति शेषः ॥
↩ -
त्वक् परिकरसुगन्धद्रव्यम् ॥
↩ -
वाक्यार्थस्याखण्डस्य खण्डिततत्वादिति हेतुः ॥
↩ -
वाक्यार्थस्य पदार्थातिरिक्तत्वे, अखण्डत्वे च वाक्यशक्तिग्रहः अशक्य एव ॥
↩ -
प्रत्येकमिति शेषः ॥
↩ -
पदोपजननापायौ—पदेन साकमन्वयव्यतिरेकौ ॥
↩ -
अन्वयव्यतिरेकौ हि ज्ञापकौ । न तु कारकौ । अन्वयव्यतिवेकाभ्यां नोत्प द्यत इत्यन्वयः ॥
↩ -
अन्यथा करितुरगादीनामपि तद्धेतुत्वे न स्यादित्यर्थः ॥
↩ - ओषधिविशेषेऽपि अश्वकर्णसादृश्यादेव तत्प्रयोग इति न सर्वथाऽर्थशून्यत्वम् ॥↩
- सृगतौ—इतिधातोः उत्तमपुरुषबहुवचने आख्यानस्यान्तोदात्तत्वम् । बहुव्रीहित्वे आद्युदात्तत्वम् । अन्यत्र उदात्तत्वम् ॥↩
-
↩
-
खण्डिका—वेदभागः, अनुवाकवत् ॥
↩ -
रेखायामिति शेषः ॥
↩ -
उल्लिखन्ती बुद्धिः इत्यन्वयः ॥
↩ -
विषयप्रकाशके ज्ञाने जाते, तत्र शब्दस्य परामर्शः स्यात् न वा न तत्र निर्बन्धः । परन्तु शब्दाविषयकत्वमात्रात् विषयाविषयकत्वं न भवेत् । शब्दाननुविद्धा प्रतीतिः स्यादेव ॥
↩ -
जडत्वं—घटादिवन्निर्विषयत्वम् ॥
↩ -
विततया—एवं विस्तरेण प्रतिपादितया रीत्या वर्णाः धिया विषयीकृताः पदतां, वाक्यतां वा दधति । न त्वतिरिक्तं पदं वाक्यं वा । कृताम् इति पाठे तत् पदतामित्यादेर्विशेषणम् ॥
↩ -
विधिहतः—दुर्भगः । असौ—स्फोटः ॥
↩ -
अनन्यथासिद्धौ ह्यन्वयव्यतिरेकौ कार्यकारणभावनिर्णायकौ ॥
↩ -
उभयं—पदार्थप्रतिपादनं, वाक्यार्थप्रतिदादनं च ॥
↩ -
अपचारः—अनवधानादिः ॥
↩ -
आ—इति ईषदर्थे । अस्पष्टरूपभिति यावत् ॥
↩ -
तथाच अनुगतरूपमन्तरा न तत्रान्वयव्यतिरेकाधीनकारणत्वं निश्चेतुं शक्यम् ॥
↩ -
संसृष्टः इति खले कपोतन्यायेन संसर्गस्य वाक्यार्थत्वपक्षे । इतर इत्यादि खण्डवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधपक्षे ॥
↩ -
स्वविषयकज्ञानजनने ॥
↩ -
कार्यद्वयं—पदार्थप्रतिपादनम्, वाक्यार्थप्रतिपादनं च ॥
↩ -
कार्यं प्रति विशेषा एव कारणम्, न सामान्यम् । दण्डत्वादिकं हि घटादीन् प्रत्यन्यथासिद्धम् ॥
↩ -
तदा हि शाब्दबोधस्यानुमितित्वं स्यात् ॥
↩ -
तेषां—पदानाम् ॥
↩ -
धर्मे शब्द एव प्रमाणमिति मीसांसकाः ॥
↩ - प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धय इति प्रमाणषट्कवादिनो हि भाट्टाः ॥↩
- अपचारः—अनवधानादिः ॥↩
-
किन्तु पदजन्यैव ॥
↩ -
समयः—शक्तिः ॥
↩ -
शक्तिज्ञानादिरूपसामग्यां सत्यां, पदे श्रुतेऽपि पदार्थस्मृतिर्न भवतीति कथज्यते ?
↩ -
वेदग्रहणादौ, लङ्घनाभ्यासादौ वा ॥
↩ -
मीमांसकानां, शब्दविवर्तवादिनां च स सिद्धान्तः । तदङ्गीक्रियते चेत् न्यायशास्त्रस्य वैफल्यमिति नर्मोक्तिः ॥
↩ -
पदार्थज्ञानाभावादिति हेतुः । मध्ये पदार्थज्ञानाङ्गीकारे तु ज्ञानयौगपद्यम् ॥
↩ -
प्रतिपदं—एकैकपदश्रवणवेलायाम् । प्रतिक्षणं वा ॥
↩ -
मध्ये पदस्मरणं मा स्तु । मनसैव तावद्विषयकं ज्ञानं भवतु ॥
↩ -
अनुरागः—अनुरंजनम् । तावत्पदार्थविषयकविशष्टशाब्दबोधप्रयोजकसंस्कार विशेषः ॥
↩ -
अदृष्टविशेषोद्भूतसंस्काराधीनस्मरणेन साकम् ॥
↩ -
समयस्मृतेरेव—इत्यन्वयः । समयः—संकेतः ॥
↩ -
अत्यन्तव्यवहितत्वादेव ॥
↩ -
न तु विषयाधिक्यात् ॥
↩ -
अयं न्यायभाष्यटीकाकार इति चक्रधरः ॥
↩ -
कश्मीरे अरण्ये राज्ञा शङ्करवर्मणा चिरमसौ निक्षिप्त इति वार्तेति चक्रधरः ॥
↩ -
स्मृतेः अप्रमात्वं न तदभाववति तत्प्रकारकत्वरूपम् ॥ किन्तु प्रमात्वाभावमात्ररूपम् । तच्च प्रमालक्षणे अनुभवत्वनिवेशप्रयुक्तम् । अतश्च यथा संबन्धः, तथा ग्रहान्न शाब्दबोधस्याप्रामाण्यम् ॥
↩ -
तेन तावद्वर्णश्रवणपूर्वक इव बोधः भवति ॥
↩ -
तावद्वर्णविषयकं श्रौत्रऽत्यक्षभिव, तज्जन्यमिव च ज्ञानम् ॥
↩ -
प्रत्येकं अबोधका अपीत्यर्थः ॥
↩ -
वाक्यघटकसर्वपदानां युगपदन्वितत्वेनैव अभिधाने अन्विताभिधानम् । पदैरर्थाभिधानाननन्तरं अन्वयभाने अन्विताभिधानम् ॥
↩ -
अन्यत्र—वाक्याद्बहिः ॥
↩ -
वाक्यघटकप्रत्येकपदार्थज्ञानानपेक्षणात्, प्रत्येकं पदशक्तिग्रहणा संभवाच्च वाक्ये सर्वस्मात् पदात् सर्वोऽप्यर्थः प्रतीययेत ॥
↩ -
औत्पत्तिकः—सहजः ॥
↩ -
सरसामस्मि सागरःगी. 10. 24 इत्यभिप्रायेणेदम् ॥
↩ -
प्रथममर्थस्याभिधानात् ॥
↩ -
स्यरूपतस्सन् इति शेषः ॥
↩ -
अर्थः—प्रयोजनम् ॥
↩ -
पिठरस्स्थाल्युखा इस्यमरः ॥
↩ -
तथा चामिहितान्वयवाद एवासौ ॥
↩ -
तत्र—सङ्घातकार्ये ॥
↩ -
वाक्यशक्तिवादिनः खलु ते । तेन वाक्यशक्तिनिर्णयहेतुभूतपदशक्तेः शाब्दबोधे निमित्तत्वाभावः सिद्ध्यति ॥
↩ -
अन्वयोपस्थापन इति शेषः ॥
↩ -
कार्यान्विते शक्तिः, इतरान्विते शक्तिः, अन्विते शक्तिः इति अन्विताभिधानवादे कक्ष्यात्रयं वर्तते ॥
↩ -
इत्थं—शाब्दादनुपस्थितस्य शाब्दबोधविषयत्वे ॥
↩ -
पदं प्रयुज्यमानमपि—इत्यन्वयः ॥
↩ -
अनभिधानं—वाक्यघटकपदानां प्रत्येकार्थबोधाभावः ॥
↩ -
मीमांसकः—विचारकुशलः । मानेर्जिज्ञासायाम् इति वार्तिकम् ॥
↩ -
अत्रापि—अंगुल्यग्रवाक्यादौ ॥
↩ -
शब्दादर्थतीतिस्तु उभयोस्तुल्या । अन्यथाऽयोग्यत्वज्ञानं वा कथं भवेत् ॥
↩ -
अन्यविषयः—वस्तुविषयः ॥
↩ -
आवापोद्वापादिमूलकशक्तिग्रहणासंभवादिति हेतुः ॥
↩ -
कार्यं—आनयनादि ॥
↩ -
सर्वत्र—संसर्गाशेऽपि ॥
↩ -
दारुशलाकाः कदाचित् वज्रलेपसंसृष्टा वा भवेयुः ॥
↩ -
अन्वयार्हपदार्थाभिधानम्, पदार्थाभिधानेनान्वयाभिधानं च ॥
↩ -
सामान्येन—सामान्याकायेण—आपाततः ॥
↩ -
सामान्यं—जातिः ॥
↩ -
अन्वितं—वस्तुगत्याऽन्वयविशिष्टम् ॥
↩ -
परस्परापेक्षितार्थप्रतिपादनात् ॥
↩ -
अन्वितेति वस्तुस्थित्यभिधानम् ॥
↩ - सान्द्रे—संसर्गज्ञानवति ॥↩
-
प्रसिद्धं हि नैको ऋषिर्यस्य मतं प्रमाणम् इत्यादि ॥
↩ -
अवीची—नरकविशेषः । नरकक्षेत्रस्वामिन मित्यक्रोशोक्तिः । वेदनिन्दायास्तावदेव फलमित्यर्थः ॥
↩ -
सत्यं वदत—इति शपथवाक्यम् । व्याकरणादिपठनमात्रेण न कश्चित्तादृशो दृश्यत इति भावः ॥
↩ -
विवरणकारः—व्याख्यानकारः ॥
↩ -
अनुमानेन—साधुशदानुमानद्वारा ॥
↩ -
विशिष्टेति । विलक्षणेत्यर्थः ॥
↩ -
लक्षणं—पाणिन्यादिसूत्रम् । तच्चाग्रेस्पष्टीभविष्यति ॥
↩ -
विधिनिषेधौ—साधुभिर्भाषितव्यम्, असाधुभिर्नेति ॥
↩ -
अवाचकत्वरूपत्वात् असाधुत्वस्य ॥
↩ -
उपलक्षणं—परिचायकम् ॥
↩ -
न हि इत्यनुवर्तते ॥
↩ -
मौनं खलु शास्त्रविहितम् ॥
↩ -
ऋतावेव, उपेयादेवेति नियमस्यं सम्मतत्वात् ॥
↩ -
एकश्शब्दः सम्यग्ज्ञातः सुप्रयुक्तः इत्यादिः ॥
↩ -
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।……यथेन्द्रशत्र स्वरतोऽपराधात् इत्याद्यन्तौ ॥
↩ -
तद्वाक्यानामर्थवादरूपत्वादिति हेतुः ॥
↩ -
अन्वयव्यतिरेकमूला वैद्यकस्मृतिरिवेत्यन्वयः ॥
↩ -
संस्कारः—पुरुषगतातिशयः । मतभेदेन विकल्पः ॥
↩ -
मध्यमं चाबलग्नं च इत्यमरः ।
↩ -
सेवा—सहकराः ॥
↩ -
अपस्वराध्ययने हि महाननर्थ उक्तः ॥
↩ -
वाक्यं अखण्डमिति ते वदन्ति ॥
↩ -
प्राभाकरभट्टमतभेदेन विकल्पः ॥
↩ -
यद्यपीदं सर्वं सुपरिहरम् । अथापि व्याकरणप्रणेतार एव एवं क्लिश्यन्ति चेत्, अन्येषां तेन को लाभः ?
↩ - इदं सर्वं छान्दसमिति यद्यपि परिहरन्ति । परन्तु अपशब्दत्वं समान मेवेति भावः ॥↩
- इदं सर्वं छान्दसमिति यद्यपि परिहरन्ति । परन्तु अपशब्दत्वं समान मेवेति भावः ॥↩
-
न चेष्टापत्तिः, नामपदानामपि धातुत्वप्रसङ्गात् ॥
↩ -
अनुबन्धः—इत् ॥
↩ -
पाठः—तथा परिगणनम् ॥
↩ -
विधिनिमन्त्रणादीनां भेदस्यात्यल्पत्वादिति हेतुः ॥
↩ -
सार्थ-रथयोः चलनवत्त्वेन गमनक्रियायां कारकत्वेऽपि पतनक्रियायां कथं कारकत्वम् ॥
↩ -
अधिकरणस्य—अधिकरणभूतायाः स्थाल्याः ॥
↩ -
यद्यपि सर्वाधारः काल उच्यते । परन्तु तदेवाक्षिप्यते ॥
↩ -
अतिशायने खलु तमप् ॥
↩ -
तथा च तत्र प्रथमा न स्यात् ॥
↩ -
विकॢप्त्यनुकूलव्यापारः खलु धात्वर्थः । स व्यापारः सकलकारकसाधारण एव ॥
↩ -
प्रथमे नञा सामर्थ्याभावः । समनन्तरयोः अपूर्णार्थत्वात् सामर्थ्याभावः ॥
↩ -
एते शब्दाः मूलधातुरूपापेक्षयाऽपशब्दा इव । तेषां साधुत्वं महता क्लेशेन संपाद्यते ॥
↩ -
बृहस्पतिरध्यापयिता । इन्द्रोऽध्येता । दिव्ये वर्षसहस्रमायुः । तथापि नान्तं जगामेति ॥
↩ -
कटन्दीति वैशेषिकभाष्यविशेष इति चक्रधरः ॥
↩ -
ते हि शब्दनित्यत्ववादिनः ॥
↩ -
उच्चारणानूच्चारणवेलायामिदम् ॥
↩ -
हस्तः, करः इत्यादिशब्दात्तु सूक्ष्मार्थभेदेन भिन्नधातुनिष्पन्नाः ।— गौः, गावि इत्यनयोस्तु न तथात्वमिति ॥
↩ -
तन्मन्दतायां—अर्थापेतः दुर्बलत्वे । अन्यथापि कार्यसिद्धौ ॥
↩ -
मीमांसकाः किलातिरिक्तशक्तिवादिनः ॥
↩ -
अभियौगः—अनुग्रहः । सहायता ॥
↩ -
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं सनिष्ठेवम् इत्यमरः । रोमशः कर्कशः ॥
↩ -
उन्नतस्थानस्थितिर्हि क्वचित् प्रत्यक्षकारणं भवति ॥
↩ -
अभावार्थत्वेन—धात्वर्थत्वाभावेन ॥
↩ -
तथा च अधात्वर्थत्वेऽपि प्रतिपत्तिनियमविधिः संभवति ॥
↩ -
स्मृत्या श्रत्यनुमानस्य संप्रतिपन्नत्वात् ॥
↩ -
भोजनस्य रागप्राप्तावपि स्नानादिनियमार्थं विधानवत् नियमविधिरयम् ॥
↩ -
तत्कृतः—अवच्छेदकत्वकृतः ॥
↩ -
परार्थत्वत्—विधिप्रतिषेधार्थत्वात् ॥
↩ -
निरबलम्बनेति । निर्विषयेत्यर्थः ॥
↩ -
कुमारी—कन्याकुमारीप्रदेशाः ॥
↩ -
किन्तु अनादिकालप्रवृत्तगुरपरम्परोपदेशलब्धज्ञानेन । आदिम उपदेष्टा तु ईश्वर एव ॥
↩ -
छाब्दसत्वादिरूपः ॥
↩ -
पतञ्जलिभर्तृहरिप्रभृतिभिः ॥
↩ -
प्रत्युत प्रक्षेप्तुः शिरस्येव ते पतेरन् ॥
↩ -
तिमयः—जलचरप्राणिविशेषाः ॥
↩ -
एते पंक्तावुपविश्य भुञ्जानाः तत्रत्यान् सर्वान् पावयन्ति ॥
↩ -
व्याकरणाध्ययनवेलायां तस्य वेदाङ्गत्वज्ञानस्यानपेक्षितत्वान्नान्योन्याश्रयः ॥
↩ -
प्रत्ययः—विश्वासः ॥
↩ -
भोगी—शेषः—तदंशभूतः पतञ्जलिः ॥
↩ -
सर्वमप्येतद्धि वेदप्रमाण्मयसंरक्षणाय ॥
↩