१. स्वदृष्टग्रहणफलम्

स्वार्थनुमानानन्तरं परार्थानुमानमुच्यते । स्वार्थानुमानपूर्व्वकत्वात्परार्थानुमानस्य ।
तत्र परार्थानुमानन्तु स्वद्ष्टार्थप्रकाशनम् । स्वेन दृष्टं स्वदृष्टम्वादिप्रतिवादिभ्यां प्रतिपाद्य
प्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः । यदि प्राश्निकास्तेषामपि तेषामधिकारात् । विप्रतिपत्ति
निरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोर्थः परं प्रति । तच्च कायवाग्वि
ज्ञप्तिरूपं । तत्र स्वदृष्टोऽर्थस्त्ररूपं लिङ्गम् ।

ननु त्रिरूपं लिङ्गमिति च कुतः । स्वदृष्टार्थग्रहणस्य सर्व्वार्थप्रतिपादनसम्भवात् ।
ततोनुमेयस्य परोक्षरूपस्य सकलस्य प्रकाशनं परं प्रत्यनुमानं परार्थमिति प्राप्तम् ।

अत्रोच्यते ।

त्रिरूपं लिङ्गमुत्सृज्य नान्यस्यास्ति प्रकाशनं । न शक्यं प्रतिपत्तुं तदन्येनेत्पप्रकाशनम् ।। १ ।।

प्रकाशितो ह्यसावुच्यते यत्र परस्य संप्रतिपत्तिः । अत एव प्रकर्षाभिधायी प्रशब्दः ।
प्रमाणप्रतिपन्ने च परस्य संप्रतिपत्तिः । यदि चानुमेयमपि प्रमाणप्रतिपन्नं तदाऽविवाद1108 एव
त्रिरूपलिङ्गं प्रकाशनद्वारेण तु विवादास्पदीभूतानुमेयप्रतिपत्तिरिति न वचनस्य व्यर्थता ।
ततोनुमानमुदेतीति तदप्यनुमानमुपचारात् । यद्यनुमानोत्पादनाद्वचनमनुमानं प्रत्यक्षोत्पादना
त्प्रत्यक्षमपि परार्थं1109 भवेत् । नेदं चतुरस्त्रं ।

यथा गृहीतसम्बन्धस्मरणे वचनात्सति । अनुमानोदयस्तद्वन्न प्रत्यक्षोदयः क्वचित् ।। २ ।।
त्रिरूपलिङ्गस्मरणे नियमेनानुमोदयः । स्वप्रतीतार्थमात्रस्य वचनेध्यक्षविन्न तु ।। ३ ।।

न वचनमात्रादध्यक्षं परस्योदेति ।

ननु पश्य मृगो धावतीति दृश्यते दर्शनोदयः । न । तत्राप्यनुमानस्यानन्तरत्वात् ।
तथा हि(।)

तदर्थोन्मुखतायां स पश्येत्येवं नियुज्यते । मया प्रतीति (?त) मेतच्च सामर्थ्यात्प्रतिपादितं ।। ४ ।।

अभिमुखीभव मृगदर्शन इति नियोगवचनमेतत् । अभिमुखीभावश्च यथा मम तथा
तवापि । तत एवमभिमुखीभवने हेतूनां व्यापार इति स्मरन् प्रवर्तत इत्यनुमानमेव । ततो
नुमानात्प्रत्यक्षसम्भवमालोच्य प्रवर्त्तते । एवन्तर्हि प्रत्यक्षविषये प्रवर्तते सम्भवानुमानं स्वभाव
हेतुः । कार्यहेतुर्न वचनात्प्रकाशते साक्षात् (।) तथाहि ।

धूमादत्राग्निरस्तीति वचनेन प्रकाश्यते । प्रतिबन्धमात्रं धूमस्तु प्रत्यक्षेण प्रकाशितः ।। ५ ।।
1110 468

ततः त्रिरुपलिङ्गाख्यानं परार्थानुमानमिति प्रमाणसमुच्चयवृत्तिर्व्विरुध्यते ।
नेदमुपपन्नं । यतः(।)

स्मरणार्थं वचः सर्व्वं ततः तत्र प्रमाभिधा । प्रत्यक्षेण प्रतीते तु व्यर्थता वचसः सदा ।। ६ ।।

उक्तमेतद् (।)

विदुषां वाच्यो हेतुरेव हि केवलः ।

तथा प्रतिबन्धोपि केवल इत्यपि द्रष्टव्यम् । अथवा तत्रापि भ्रान्तिव्युदासार्थं धूमो
यमिति परवचनमपेक्ष्यत एव । तथाहि (।)

ममायं निश्चयाद्ध्ूमः प्रतिपत्तिमिहागतः । कस्माद् भ्रान्तिस्तवात्रापि परेणैवं प्रबोध्यते ।। ७ ।।

अयमर्थो वचसः । न तत्र प्रत्यक्ष दृष्टोर्थोऽन्यस्मै वचनेन ख्याप्यतेऽपि1111 त्वनुमानमेव
तत्परार्थ तत्कारणत्वात्1112 । धूम एवायन्नान्यथा द्रष्टव्यं यः प्राग् धूम उपलब्धस्ततोन्यथा
न भवत्ययं । सामर्थ्यादिदमुक्तम्भवति तल्लक्षणत्वात् । तस्मादनुमानवृत्तमेवे शब्देन
ख्याप्यते । न कदाचित् प्रत्यक्षे शब्दस्य व्यापारः । अत्यन्ताभ्यासात्तु नानुमानप्रपञ्चन
मिति लोकस्यान्यथा प्रतिभाति । तस्माद्वचनमनुमानकारणतामेव स्वीकर्त्तुमलं । स्वभावानु
मानमेव तर्हि वचनं । तत्कारणत्वान्न कारणानुमानमत्र धूम इति । स्वभावानुमा
नत्वाद्वचनस्य ।

तदसत् । स्वार्थानुमानेपि हि धूमरूपे स्वभावहेतुः प्रती1113 तोऽन्तराले । तत्रापि
न भ्रान्तिनिवृत्तिरस्ति स्वभावहेतोर्व्विरहाद्विवेक्तुः । अत्राह ।

विरोधः क इवात्रास्ति कार्यहेतुर्न हीयते । व्यवधानेपि नैवासौ विजह्यात्कार्यहेतुताम्1114 ।। ८ ।।

स्वार्थानुमाने कार्यहेतुरस्त्येवेति एतावति विवक्षिते व्यवधानोपदर्शनं क्वोपयोगि ।
परार्थानुमाने तु कार्यहेतुरेव न सम्भवति । साक्षात्स्वभावहेतौ धूमादिवचनस्य व्यापारात् ।
ततोस्त्यनुमानेन परार्थमनुमानं ।

नैतदस्ति ।

यथासम्भवमाश्रित्य परार्थस्यानुमानता । उक्ता शास्त्रकृता सा तु मा भूदन्यत्र का क्षतिः ।। ९ ।।

अथवा यत्र भ्रान्तिर्न्नास्ति तत्र स्वार्थानुमानेऽव्यवहित एव कार्यहेतुः । परार्थानुमा
नेपि सैव गतिरिति साक्षादेवास्त्यनुमानस्य शब्दादुदयः । भ्रान्त्या विना किं वचनेनेप्ति
चेति । प्रतिबन्धप्रदर्शनायेति न दोषः । त्रिरूपलिङ्गाख्यानन्तु यथासम्भवमिति संप्रत्ये
वोक्तं । किञ्च ।

वचसो न प्रमाणत्वमनुमा त्वविनाकृतं । एतावदेवाभिप्रेतं न तु सर्व्वं वचस्तथा ।। १० ।।

य आह । कथं प्रत्यक्षानुमानयोरेव प्रामाण्यम्वचनस्यापि व्यवहारहेतुत्वान्न वचन
मन्तरेण परिपूर्ण्णो लोकव्यवहारः ।

1115 469

अत्रोच्यते ।

प्रत्यक्षमनुमानञ्च वचनञ्च विना न किं । व्यवहारोस्ति लोकस्य किन्तस्यास्ति प्रमाणता ।। ११ ।।

परिदृष्टपूर्व्वमर्थ स्मृत्वापि प्रत्यक्षादिकमन्तरेण किन्न प्रवर्तते । किमिदानीं स्मरणमपि
प्रमाणं । अथ तदप्रमाणमेव । वचनमपि तथार्थं न प्रमाणमिति समानं । यत्र तु प्रमाण
न्तत्रानुमानकारणत्वेनैव नान्यथा । एतावन्मात्रमत्र विवक्षितं न तु सर्व्व वचनं सर्व्वानुमान
कारणं वचनस्यानुमानत्वमेव न स्वातन्त्र्येण प्रमाणत्वं । सर्व्वानुमानत्वप्रदिपादनन्तु नोप
योगि । तस्मात् त्रिरूपलिङ्गाख्यानमेव वचनं ।

वेदवचनस्य तर्हि कथं प्रमाणता । तत्रापि प्रत्यक्षानुमानार्थकथनादेव प्रमाणता ।
द्वादश मासा इत्यादौ । अन्यत्राप्रमाणतैव यथा पुरुषवचसि । अपौरुषेयत्वादेव प्रमाणतेति
चेत् । न(।) अप्रत्ययत्वात् । न हि वचनमात्रात्कस्यचित् संप्रत्ययः । यदि प्रत्यक्षवद्वेदः
किं न सर्व्वः प्रत्येति । क्षणिकत्वाद्यनुमानादपि न सर्व्वः प्रत्येति । भ्रान्त्या चेत् । अत्रापि
भ्रान्तिः । तज्जातीयानुमानेन सप्रत्ययस्थानेन निवर्त्त्यतेऽनुमाने । वेदे तु न तज्जातीयवचन
त्वेनेत्यसमानमेतत्

अन्वयप्रतिबद्धत्वेऽनुमानस्य प्रमाणता । वेदे तु नान्वयो दृष्ट इति पूर्व्वं विचारितं ।। १२ ।।

अथवा । अयमर्थः । वचनं त्रिरूपलिङ्गाख्यानरूपमेव परार्थानुमानं । न वेदवचनं ।
तस्य त्रैरूप्याभावात् । तस्य हि सत्त्यत्वान्वयो न दृष्टो न पक्षधर्मत्वं । तथा हि ।
अपौरुषेयत्वेनासत्त्यत्वाद् व्याख्या (?) तं1116 सत्तयन्वेन तु नास्त्यन्वयः । अथ द्वादश मासा इत्य
न्वयः । अत्रोच्यते ।

अग्निहोत्रादिवाक्यस्य न वेदत्वं विनिश्चितं । पौरुषेयत्वमप्यस्य सम्भवेत्केनचित् कृतेः ।। १३ ।।

कदाचिदपौरुषेयमध्ये केनचिदेतत् पातितं भवेत् । श्रूयते च क्वचिच्छाखान्तरे
कृतत्वं । स्मरणे सति तथा व्यवहार इति चेत् । न(।) अप्रत्ययत्वात् । अन्यत्रापि
प्रसङ्गात् । एतच्च सकलं प्रतिपादितमेव प्रागिति न प्रपञ्चितमिहेत्यास्तां ।

यदि त्रिरूपं लिङ्गमेव स्वदृष्टशब्देनोच्यते । त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति
वक्तव्यं । किं स्वदृष्टार्थग्रहणेन । नान्यार्थत्वात् । तथा हि ।

परस्य प्रतिपाद्यत्वाददृष्टोपि स्वयं परैः ।
दृष्टः साधनमित्येके तत् क्षेपायात्मदृग्वचः ।। १ ।।

नहि परार्थानुमाने स्वप्रतिपत्यधिकारः (।) परस्यैव प्रतिपाद्यत्वात् । परस्य चेत्तत्प्रसिद्धं
लिङ्गं परः प्रतिपद्यत एव । वादिप्रतिपत्त्या विना कथं परः प्रतिपत्तिमानिति न वाच्यं ।

न वादिप्रतिपत्तावप्यपरः प्रतिपद्यते । स्वप्रतीतिम्विना सा चेत् सैवास्त्वत्रपरेण किं ।। १४ ।।

न तावदसौ वादिनोऽत्र प्रतिपत्तिरिति संप्रत्येति । अपि तु मया एवमेव प्रतिपन्नमिति
स्वप्रत्ययात् । अनेन तु ज्ञात्वा प्रकाशितमन्यथा वेति किमनेन विचारेणातिरिच्यमानप्रपञ्चेन ।
अतोभिप्रायात् स्वयमप्रतीतमपि परैः प्रतीतमिष्यते लिङगम् । तस्याभिप्रायस्य प्रतिक्षेपार्थ

470

स्वदृष्टवचनं । यद्येवं स्वेनैव दृष्टमिति परदृष्टव्यच्छेदादनर्थान्तरमापतितं । न(।) उभयदृष्ट
प्रतिपादनार्थत्वात् । यथावस्थितलक्षणमेतत् । तेन च विप्रतिपत्तिरपि निराकृता ।
अत1117 दर्थमेवेति स्यात् न(।) यदर्थश्चायमारम्भः स च शब्दसमुच्िचत इति युक्तं । न हि
स्वयमप्रतीतं परस्य प्रतीतमिति शक्यं वक्तुं ।

  1. १ B. तदविवाद ।

  2. २ B. वचनमपि परार्थम्प्रत्यक्ष॰।

  3. ३ B. प्रकाश्यते

  4. २ B. स्वभावानुमानकारणत्वात्—बहिः

  5. ३ B. द्रष्टव्यः ।

  6. ४ B. पतितो

  7. ५ B. बहिः—बौद्धशंकिते प्रथमपादद्वयेन द्वितीयाभ्यां सिद्धान्तयति । एतेन स्वर्थानुमानं समर्थितं ।

  8. १ B. पेक्षत ।

  9. १ B. व्यावृत्तं

  10. १ B अथ त॰ ।