२. प्रमाणसिद्धि-परिच्छेदः
p3१. परिच्छेदः
. विधिभावनादि वार्त्तिकं प्रथमम्
१. प्रमाण-लक्षणम्
(१) अविसंवादि ज्ञानं प्रमाणं
नमोबुद्धाय ।
व्वक्तारः परमार्थसंग्रहधिया व्याधूतफल्गुक्रमाः ।
धन्यानां विदधातुमुद्धतधियां धीः सम्विदे धीयते ।। २ ।।
अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् ।
भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते ।
तत्र हेतुराशयप्रयोगसम्पत् सांव्यवहारिकप्रमाणापेक्षया । आशयो जगद्धितैषिता (।)
प्रयोगो जगच्छासनात् शास्तृत्वं (।) फलं स्वपरार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविध
मर्थमुपादाय । प्रशस्तत्वं स्वरूपवत् । अपुनरावृत्त्यर्थं सुनष्टज्वरवत् । निःशेषार्थं सुपूर्ण
घटवत् (।) परार्थसम्पत् जगत्तारणात् तायित्वं । सन्तानार्थञ्चापरिनिर्व्वाणधर्म्मत्वात् ।
एवम्भूतं भगवन्तं प्रणम्य प्रमाणसिद्धिर्विधीयते । प्रमाणाधीनो हि प्रमेयाधिगमो
भगवानेव च प्रमाणं । प्रमाणलक्षणसद्भावात् । प्रमीयतेऽनेनेति प्रमाणम् ।
तत्र सामान्येन प्रमाणलक्षणं निर्दिशति ।
ज्ञानं प्रमाणन्तत्र सति प्रमितिसिद्धेः । अविसम्वादि2 (।) विसम्वादे सति विपर्ययात्
इन्द्रियार्थसंयोगादयो हि विसम्वादविविक्तज्ञानोपलक्षिता एव तत्त्वं प्रतिलभन्ते । अविसम्वा
दार्थी हि सर्व्वः प्रमाणान्वेषणप्रयुक्तः ।
ननु (अ) विसम्वादित्वं 3 तस्य साधनज्ञानस्य स्वरूपमेव । तस्मिँश्च स्वरूपेण
ज्ञायमाने ज्ञातमेव तदिति किं परीक्ष्यते । अथ न स्वरूपसम्वेदनं (।) तदा प्रमाणमेव
नास्तीत्यापतितं । न चायं पक्षः क्षमो भवतामिति ।
तदसत् । न स्वरूपमेव ज्ञानस्य प्रामाण्यं सम्वादित्वम्वा (।) अपि तु (।)
p4
न खलु ज्ञानस्वरूपमात्रावगताविदं प्रमाणमिति भवति । किन्तर्हि (।) अर्थस्य
दाहपाकादेः क्रियानिष्पत्तिस्तस्याः स्थितिरविचलनविसम्वादनं व्यवस्था वा । सा चार्थ
क्रिया भाविनी न तत्काले (।) ततस्तत्सम्बन्धो न स्वरूपसम्वेदनमात्रावधृतः ।
ननु तत्सम्बन्धिता स्वरूपमेव (नास्ति ।) तत् कथं न स्वरूपसम्वेदनमात्रावधारणं ।
नैतदस्ति (।)
कथं तर्हि प्रवर्त्तनाकाले तज्ज्ञानं । एतदुत्तरत्र वक्ष्यामः । यद्यर्थक्रियाधिगमे पूर्वकं
प्रमाणं (।) सोप्यर्थक्रियाधिगमः प्रमाणमप्रमाणम्वा । अप्रमाणेनार्थक्रियाधिगमाभावात्
प्रमाणन्तत् । ततस्ततोप्यर्थक्रियाधिगमः परान्वेषणीय इत्यनवस्था ।
नेदं साधीयः ।
यत्रार्थक्रियास्थितिरपरोपकल्पिता तद् यावत् प्रमाणं (।) यत्र तु स्वतस्तदैवार्थ
क्रियानुभवः (।) तत् सुतरामेव प्रमाणं (।) अर्थक्रियास्थितिरविसम्वादनमिति सामान्ये
नाभिधानात् ।
ननु दाहपाकाद्यर्थक्रियेयं स्वप्नेप्पि सम्भवति पीतस(? श)ङ्खादिज्ञाने च (।) शब्द
विषये तु ज्ञाने न दाहपाकाद्यर्थक्रिया स्वतः परतश्चार्थक्रियाभावात् । तस्मादबाधितो बोधः
प्रमाणमिति युक्तं ।
तदप्ययुक्तं यतः ।
शब्दविषयं ज्ञानं शाब्दं । अपिशब्दादन्यत्रापि । अयमर्थः (।)
स्वरूपबोधमात्रेण4 सर्वं ज्ञानं भवेत् प्रमा । अथावाधितबोधत्वात् स्वप्नादावपि किन्न तत् ।। ५ ।।
बोधमात्रसंगमो हि स्वप्नेतरप्रत्ययसम्भवी समान एव सर्व्वत्र । (स हि) 5 न
पुरुषार्थस्य साधकः । अथाबाधितबोधत्वं तदपि समानमेव । जाग्रत्प्रत्ययेन बाधमानता चेत् ।
कोयं बाधो नाम ।
न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते । तत्काले तस्य
स्वयमेव नाशात् । न चाक्षिनिमीलनान्नष्टे ज्ञाने बाध्यता प्रतीयते । अन्येन नहि ज्ञानेन
तस्य विषयापहारोऽसत्ताज्ञापनलक्षणो बाधः । न च स्वविषये प्रवृत्तमन्यविषयपहारं रच
यितुमलं । स्वविषय (ज्ञान) 6 स्वविषयस्य रूपसाधनं हि ज्ञानानां धर्म्मः । परविषयापहरणन्तु
नराधिपधर्म्मः ।
कथन्तर्हि बाध्यबाधकभावः । न कथञ्चित् । अत एवाबाधितत्वं प्रमाणत्वं ।
तस्माद् यत्रार्थक्रिया नास्ति तदप्रमाणं ।
व्यवहारमात्रमेवेदं स्वप्नास्वप्नभेदो नाम । तथा प्रमाणाप्रमाणभेद इति हि वक्ष्यते ।
न चासावर्थक्रियास्थितिरविचलितत्वाभावात् । भावनामात्रावसायतार्थक्रिया स्वप्ने । न
तत्र परितोषः । अबाधितत्वे त्वनवस्थैव । प्रथममबाधनं सर्वत्रैव । तदुत्तरकालमबाधने (।)
तत्राप्युत्तरकालमबाधनमिति कुतः ।
पीतसं (? शं)खादिविज्ञानन्तु 7 न प्रमाणमेव । तथार्थक्रियावाप्तेरभावात् ।
संस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञानं प्रमाणमनुमानं (।) तथा हि (।)
प्रतिभास8 एवम्भूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ।।
येन न कदाचिद् व्यभिचार उपलब्धः स यथाभिप्रेते विसम्वादाद् विसम्वाद्यत एव ।
यस्तु व्यभिचारसम्वेदी स विचार्य प्रवर्त्तते (।) संस्थानमात्रन्तावत् प्राप्यते । परत्र सन्देहो
विपर्ययो वा (।) ततोऽनुमानं संस्थाने । संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च ।
अनेन मणिप्रभायां मणिज्ञानं व्याख्यातं । तथा च वक्ष्यामः ।
अथ केन द्वयमेतदिति प्रतीयते । एतदपि वक्ष्यामः । शब्दविषयन्तु ज्ञानमभिप्राय
निवेदनात् प्रमाणं । अभिप्रेतार्थक्रियास्वरूपनिवेदनमेव सम्वादनं ।
न खलु स्वरूपसम्वेदनादपरमत्रार्थक्रियाज्ञानं 9 क्वचिदुपलभ्यते । रूपादयो हि
स्वस्वरूपसम्वेदनपरा एव (।) न तद्विषयः प्रत्ययः परत्र प्रमाणं । तत्स्वरूपः सम्वेदनमात्र
कञ्च सर्व्वत्र ज्ञाने समानमिति न सांव्यवहारिकप्रमाणावतारः ।
भाव्यर्थविषयान्तरप्राप्त्यर्था हि प्रमाणाप्रमाणान्वेषणापरः10 । यथा च भिन्नो विषय
स्पर्शादिकः11 न रूपादिस्वरूपग्रहणेऽन्तर्याति तथा भाविस्वरूपमपि परमार्थंतः । अध्यारोपेण
तु तदेकता विषयान्तरस्यापि । ततस्तद्द्वारेण सम्वादनमुक्तं ज्ञाने12 । यत्र तु तदेवार्थक्रिया
तत्राविवाद एव । तत्र भाविस्वरूपे तत्कारणत्वेनैकतारोपः । परत्र तु स्पर्शादौ तदेकसाम
p6
ग्र्यधीनत्वेनेति न विशेषः । यत्र तु अभिमतार्थक्रिया 13
यथा14
जलग्राहिविज्ञानात् मरीचि
कार्थक्रियावाप्तिस्तदप्रमाणमेव । अत एवाह । शाब्देप्यभिप्रायनिवेदनाद् (।)
अन्यत्रापि चित्रादौ (।) तथा च घटज्ञाने पटप्राप्तौ शुक्तिकायाञ्च रजतज्ञानपरम्प
रायामपि न प्रमाणता (। अ) भिप्रायाविसम्वादाभावात् ।
नेति प्रत्ययबुद्ध्या चेत् बाधकं किंचिदिष्यते । स एव प्रत्ययोनेति प्रमाणाद भेद 16 आगतः ।। १४ ।।
अभा(वो) हि स्वरूपेण प्रतीयते । स्वरूपञ्चाभावस्य न घटादिसम्बन्धितया
प्रतीयते । प्रतीयमाने हि घटे न तत्सम्बन्धिता (ऽ) भावस्य । तदाऽभावाभावात् ।
नहि जीवत एव देवदत्तस्य मरणं । अप्रतीयमानें (न)तु घटेन सम्बिन्धिता (ऽ) भावस्य न
शक्या ग्रहीतुं ।
अथ कार्यकारणभाववत् प्रतीतिः । कारणे सति पश्चात् कार्यं भवति (।) तदनन्तरं
तस्योपलब्धिक्रमेण स्वरूप-प्रतिपत्तौ कार्यकारणसम्बन्धपरिग्रहः एवं भावे सत्यभावो(ऽ)भावे
च सति भाव इति भवति सम्बन्धप्रतिपत्तिः ।
तदप्यसत् । यतः ।
किञ्च (।)
देशस्य शून्यता या तु तस्याः सर्वत्र तुल्यता । प्रागभावादिभेदस्य17 तत्रात्यन्तमसम्भवः ।। १९ ।।
7
केवलग्रहणेध्यक्षे 19 विसम्वादस्य सम्भवः । ततः प्रत्यक्षमेवेदमन्यथानुपलम्भनं ।। ३० ।।
अभावप्रतीतिं विना न केवलप्रतीतिरित चेत् । केवलप्रतीतिम्विना नाभावप्रतीति
रिति समानं । अभावो वा केवलः कथमभावान्तरम्विना20
(।) तत्राप्यभावकल्पनेऽनवस्था ।
स एव स्मर्यमाणपदार्थापेक्षोऽनुपलम्भोऽभावसाधनः प्रत्यक्षः प्रत्ययः । अभावव्यहारस्तु
वासनानुरोधात् क्वचिदेव भवति नान्यत्रेति विभागः ।
तस्माद् यथा जाग्रत्प्रत्ययः स्वप्नप्रत्यस्य बाधकस्तथा विपर्ययोऽपि केवलग्रहणादिति
न्याय एषः । तस्माच्छाब्देऽप्यभिप्रायनिवेदनात् प्रामाण्यमिति निराकृतमेतत् (।)
श्रोत्रधीश्चाप्रमाणं स्यादितरा(न)भिसङ्गतेः ।
ननु प्रमाणभूतेन भगवता कोऽर्थः (व्यावहारिक)प्रमाणादेव सर्व्वपुरुषार्थसिद्धेः ।
नैतदस्ति (।)
न तावत् प्रत्यक्षं परलोकादौ प्रवर्त्तते । तस्य स्वरूपमात्रग्रहणादिति प्रतिपादयिष्यते ।
अनुमानन्तु सम्बन्धग्रहणमन्तरेण नास्ति । न च सम्बन्धो व्याप्यसर्वविदा ग्रहीतुं शक्यः ।
स्वरूपसम्वेदननिष्ठेन हि प्रत्यक्षात्मना न सम्बन्धग्रहणम् (।) अनुमानेनैव सम्बन्धग्रहणे
इतरेतराश्रयणदोषः । संव्यवहारमात्रेण तु21 प्रत्यक्षानुमाने प्रमाणं सर्व्वज्ञसाधनानुगुणत्वेनैव
नान्यथेति । पश्चादेतत् प्रतिपादयिष्यते । (१)
ननु यदि नाम प्रमाणं परलोकादौ प्रत्यक्षानुमानलक्षणं न प्रवर्त्तते । तस्य स्वरूप
विषयत्वादन्मानस्य च सम्बन्धग्रहणसापेक्षत्वात् । शास्त्रन्तु नैवमिति तत एव समीहितसद्धिः ।
किम्भगवान् प्रमाणभूतः प्रसाध्यते ।
अत्रोच्यते ।
शब्दस्य हि नापौरुषेयतेति पश्चात् प्रतिपादयिष्यते । पौरुषेयता तु स्यात् । तत्र च
वक्तुर्व्यापारो विवक्षा (।) वक्ता विवक्षिता । विवक्षाया विषयो योर्थः श्रोतृबुद्धौ
प्रकशते (।) प्रमाण्यन्तत्रैव शब्दस्य तत्रैव च व्यापारः शब्दस्य (।) अन्यथान्यथा विवक्षित
मन्यथा प्रतिपादयतीत्यप्रेक्षापूर्वकारी स्यात् । तथा च सुतरामेवाप्रामाण्यं (।) स च
विवक्षिता न सर्व्वः सर्ववेदी । अन्यथा परस्परविरुद्धता शास्त्राणां न स्यात् । न च
परस्परविरुद्धोर्थोनुष्ठातुं शक्यः । यथानुष्ठानमात्रार्थसिद्धौ व्यर्थतया प्रमाणमलं शास्त्रस्य ।
स्वमनीषिकानुष्ठानेपि फलसिद्धिप्रसङ्गात् ।
p8
तस्माद् वक्तृव्यापारविषये22
शब्दस्य प्रामाण्यं नार्थतत्त्वनिबन्धनं । यदि वक्ता न
सर्वज्ञः । अपौरुषेयेपि योर्थो बुद्धौ प्रकाशते यदा स्वयमेवार्थं प्रतिपद्यते । यदा तु व्याख्यातु
स्तदा वक्तृव्यापारविषयो व्याख्यातैव वक्ता । यश्च बुद्धावर्थः प्रतिभाति न स एवार्थः23 ।
अन्यथा सकलसमीहितार्थसिद्धेर्न्न 24
कश्चिदनुष्ठानार्थी भवेत् । अनुष्ठेयतयैव तस्यार्थस्य
प्रतिपादनान्नैवमिति चेत् । स तर्हि तदा स्वरूपेण नास्ति (इति) न तस्य प्रतिपत्तिः ।
अन्यप्रतिपत्तौ सम्बन्धाभावात् सन्देह एव । ततश्च योर्थः प्रतीयते स सिद्ध एव न तदर्थी
प्रवर्त्तते । यदर्थी च न स प्रतिपन्न इति नार्थतत्त्वनिबन्धनं प्रामाण्यं ।
(२) नियोगप्रत्याख्यानम्—
ननु नियोगो (न) वाक्यार्थः । नियुक्तोहमिति प्रतीतेः । ततो नियोगादेव
नासितुं समर्थः ।
कोयन्नियोगो नाम । निशब्दो निःशेषार्थो योगार्थो युक्तिः । निरवशेषो योगो
नियोगः । निरवशेषत्वं अयोगस्य मनागप्यभावात् । अवश्यकर्त्तव्यता हि नियोगः । नियोगप्रा
माणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्त्तन्ते ।
अत्राह । वक्तृव्यापार25 इत्यादि । अयमर्थः ।
तस्माद् यो यस्य प्रतिभासते यथाप्रतिभं स वाक्यस्यार्थो न चेदमर्थतत्त्वं26 । यश्च
यथा व्याचष्टे तथा स शब्दो विगुणो न भवति न च तथार्थतत्त्वस्थितिः ।
किञ्च ।
नियुक्तेन निवृत्तिश्चेत्27 सर्व्वस्यातःप्रसज्यते । तत्स्वभावतयाकाशमनाकाशं न कस्यचित् ।। ३६ ।।
यदि विपर्यासान्नियोगपरादपि वचनान्न प्रवर्त्तते । तथा सति विपर्य्यासकल्पना
प्रवर्त्तमानेपि न व्याहन्यते । यथैव हि द्वेषादयं न प्रवर्त्तते विपर्यस्तस्तथा तत्पक्षपातादप
रोपि प्रवर्त्तत इति समानमेतत् ।
न च नियुक्तोहमित्येतत् प्रवर्त्तते । निष्फलनियोगे प्रवृत्तेरभावात् । प्रचण्डप्रभुनियोगे
निष्फलेप्यपायभयात् प्रवर्त्तते । प्रमाणान्तराच्च प्रतिपन्नोऽपायः । अत्र तु न प्रमा
णान्तरं । व्यर्थको नियोगस्तथा चेत् (।) भवतु28 को दोषः । न हि दृष्टेऽनुपपन्नं
नाम । प्रेक्षापूर्वकारी निष्फलनियोगे हि प्रेक्षावत्ता न स्यादित्युपालभ्यते (।) अपौरुषेये तु
कस्योपालम्भः । अपौरुषेये व्यर्थतेयैव न युक्तेति चेत् । नात्र किञ्चित् प्रमाण
मन्यत्रापौरुषेये तथाऽदृष्टेः ।।
यदि च नियोगमात्रात् प्रवर्त्ततेऽपौरुषेयात् स्वर्गकाम इति निष्फलं । जुह्यादिति
009
नियोगमात्रादेव नियोगप्रतिपत्तेः । अथ फलाभिलाषिणः फलोपदर्शनं । फलमेव तर्हि
तस्योपदर्शनीयं किन्नियोगेन (।) स्वयमेव फलाभिलाषात् प्रवर्तिष्यते ।
अपौरुषेयत्वादसम्बद्धतायामपि न चोद्यमेतदिति चेत् । निष्फलचोदनायामपि न
चोद्यमिति व्यर्थको वेदो नायुक्त: । किञ्च (।)
नियोगो नामायं हि कस्य धर्म इति चिन्त्यतां । न खलु नियोगः पटादिपदार्थवद
परतन्त्रतया प्रतीयते । तत्रानेन नियमे नियोज्यादीनामन्यतमस्य धर्म्मेण भवितव्यमपरप्रकारा
सम्वेदनात् ।
न खलु परिनिष्पन्नमनुष्ठातुं शक्यम् (।) अनुष्ठानं हि तत्र क्रियाविशेषः । स्वरूप
जननम्वा । क्रियाविशेषस्तावदनर्थक एव । परिनिष्पन्नस्य क्रिया किमर्थकारिणी ।
स्वरूपनिष्पादनन्तु परिनिष्पन्नस्येति व्याहतं । न च परिनिष्पन्नस्यापरमपरिनिष्पन्नमास्ते ।
अपरिनिष्पन्नस्य परिनिष्पन्नपदार्थस्वभावत्वायोगात् ।29
यो हि यद्रूपतयोपलभ्यते स
तत्स्वभावः (।) न चानिष्पन्नमुपलब्धुं शक्यं । पश्चादुपलभ्यत इति चेत् । तदयुक्तं यतः ।
न खलु वर्त्तमानरूपोपग्रहप्रवृत्तमध्यक्षं पूर्वापररूपमीक्षितुं क्षमते । तस्मात्—
तस्मान्नियोज्यपुरुषधर्मे नियोगे न शब्दार्थता ।
विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथं शब्दादसौ प्रत्येतुं
शक्यः । न ह्यविद्यमानं शशविषाणादिकं तथा दृश्यतेऽनुष्ठानविषयत्वेन । केनचिद् रूपेण
विद्यमानं केनचिद् रूपेण नेति चेत् । तदसत् ।
ननु यागादिविषये नियुक्तोहमिति प्रतीयते । इयमेव च नियोगस्य प्रतीतिः शाब्दाद्
या नियुक्तोहमत्रानेनेति प्रतीतिः । तत्र नियोक्ता शब्दे पुरुषः वेदे प्रमाणाभावात् ।
नियोज्यः पुरुषो यागो विषयः सकलमिदं प्रतीयते । तत्र प्रतीतिर्भाव एव कथं प्रतीयत इति
कोयं पर्य्यनुयोगः ।
तदसत् ।
न च प्रतीतिमात्रेण31 वस्त्वस्तीति प्रतीयते । परस्परविरुद्धार्था नागमेषु32 भवेदसौ ।। ४९ ।।
लोकेक्षाशयदोषेण 33 वस्तुसम्बन्धहानितः । न प्रमाणत्वमेषा च न न वेदेपि किं प्रमा ।। ५५ ।।
ननु यदि वेदः सत्त्यार्थो न भवति स्वतस्तदा लोके यागादिपदार्थस्य स्वयमप्रवृत्तेः ।
कथं यागादिक्रिया वृत्त्यनुपलम्भः34 । न हि स्वयं व्युत्पादयितुमिदं शक्यं । ततोऽविसम्वा
दभाग्यर्थप्रतिपादनात् प्रमाणं वेदः । एतत् सर्व्वागमेषु समानं । न हि प्रतिनियतागमा
र्थावान्तरविभागाः सर्व्वागमेष्वपि समुपलब्धाः स्वयमुत्प्रेपेक्ष्य विधातुं शक्याः पुरुषमात्रेण ।
अथवा सा किमशब्दलिङ्गं स्वयं कथञ्चिदनुस्मरतो न भवति बुद्धिर्यथा तथा क्रिया
परिकल्प्यते ।।
किञ्च ।
न खलु द्विजादिभावः प्रमाणगोचरचारी । स हि जातियोगलक्षणो गोत्रलक्षणः
क्रियासामर्थ्यातिशययोगो वा भवेत् । न तावद् गोत्वादिजातिमिव तज्जातिमाकार
विशेषादेव केचिदवधारयितुमीशते । आकृतिसङ्करस्य दर्शनात् । शूद्राद्यभिमतानामपि
सैवाकृतिरुपलभ्यते । न खलु वाहुलेयाद्याकृतय इव कौण्डिन्यादीनामपि विजातीयाभि
मतव्यक्तिविलक्षणा व्यक्तय उपलभ्यन्ते । अतएव व्यक्तिसङ्करेण सन्देहविषयत्वादुपदेश
सहितं प्रत्यक्षं प्रमाणं ।
यदि खलु बाह्मणत्वादिजातिः प्रत्यक्षेणेक्ष्यते । परोपदेशस्य व्यर्थता । नहि प्रत्यक्षार्थे
परोपदेशो गरीयान् । तथा चेन्न परोपदेशतः सन्देहः स्यात् । अतएव प्रत्यक्षं सहायमपेक्षते ।
यदा तु पुनः (प्रत्यक्षं) केवलमसमर्थमुपदेशश्च तदा द्वयमसमर्थं पुथक् सहितमपि
तादृशमेवेति । न जातिग्रहणे सामर्थ्यंमासादयेत् । सामग्र्याः सामर्थ्यमिति चेत् । नास्त्येतत् ।
011
न हि घटपटसामग्री शाल्यङ्करेऽन्यत्र वा भवति । अन्वयव्यतिरेकाभ्यां हि जलादीना
मेव तत्त्वोपलब्धेः । न चात्र तथा कार्यं जातिनिश्चयलक्षणमुपलभ्यते । काञ्चनाद्युपदेशस्य
हि यदा सत्त्यताशङ्का तदा प्रत्यक्षदर्शनादसौ निवर्त्तते । नैवं जात्युपदेशस्यासत्त्यता
शङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते । नैवं जात्युपदेशस्यासत्त्यता शङ्कायां प्रत्यक्षात्
सत्त्यता जातिस्वरूपग्रहणाकारात् । सुवर्ण्णादौ हि रूपविशेषसद्भावादेवं भूतमेव सुवर्ण्ण
भवतीति व्यवहारस्य परिसमाप्तेर्दृष्टस्य न काचित् क्षतिः । अत्र तु पुनरेवंविध
मेव ब्राह्मण्यमिति न पादप्रसारणमात्रं त्राणं । पारमार्थिकपरलोकव्यवहारस्य वाञ्छितत्वात् ।
एक वाक्यतया हि सुवर्ण्णं सत्त्यं भवति न तु ब्राह्मण्यं । किञ्च । तच्छङ्कायां गोत्रो
पदेशान्तरादिनिरूपणमेव क्रियते । नान्य उपायः ।
अथाध्ययनादिना क्रियाविशेषणं ज्ञायते नोपदेशमात्रात् । तदप्यसत् ।
द्विजातित्वे क्रिया साध्या न क्रियातो द्विजातिता ।
जातिवर्जितस्य हि न स्वाध्यायाध्ययनसंस्कारादयो द्विजातित्वादिकमादधति ।
सर्व्वस्य तथा द्विजत्वप्रसङ्गात् । अपि च ।
प्रथमं हि प्रवर्त्तमानमध्यक्षं न तावद् द्विजत्वादिविवेकमुपकल्पयितुमलं ततः परमु
पदेशोऽपेक्ष्यते । यदि प्रत्यक्षतो न प्रतीयाद् वचनादपि नैव प्रत्येष्यति । तदपि हि वचनमु
पलम्भमेव ख्यापयति । न खलु पुरुषवचनपरिज्ञानप्रवर्त्तितं निश्चयमुपजनयति । पुरुषो
पर्यनुयुक्तः कथम्भवतेदमज्ञायीति गोत्रसंस्कारादिकमेव परिज्ञानविषयतयोपदिशति । न
जात्युपलम्भं कथयति । सैव जातिरिति चेदुक्तमत्रोत्तरं (।) द्विजातित्वे क्रिया न तु तदेव
द्विजातित्वं ।
अथ गोत्रलक्षणा जातिः । तथा च (।) ब्रह्मणोऽपत्त्यं ब्राह्मण इति हि व्यपदिशन्ति ।
तस्मान्न शक्तिविशेषयोगो द्विजातित्वं युक्तं ।
न च वेदवचः किञ्चिद् द्विजातित्वादि प्र36 (?)साधकं ।
नहि वेदो देवदत्तादीनां ब्राह्मणत्वमुपदिशति । सर्व्वदाऽविद्यमानत्वात् । वेदस्य च
सर्वदा भावात् । अर्थस्याभावकाले वेदोपदेशः कथं सार्थकः । यदा भविष्यति तदा तथैति चेत् ।
अनर्थकः कथं वेदः पश्चादर्थेन सङ्गतः । उदासीनस्वरूपस्य37 तत्र व्यापृतता कथं ।। ७८ ।।
न खलु स्वभावाभावयो38
र्व्वेदस्य विशेष उपलभ्यते । तत्स्वभावत्वे च सर्व्वदा कथ
मयं विभागं प्रतीयात् ।
तस्मान्नेदं ब्राह्मणत्वादिकं प्रत्यक्षादुपदेशादुभयाद् वेदाद वा प्रतीयते । तदप्रतीयमानं
कथमुपयोगीति किन्तेन कर्त्तव्यं । ततः संव्यवहारमात्रप्रसिद्धं ब्राह्मण्यं । ततो ब्राह्मणा अपि
बेदान्नार्थक्रियाक्रमकृत इति कथं व्यवहारसंवादो वेदात् । कस्यचित्तु व्यवहारो वेदविपर्य्यया
दपीति न वेदावेदयोर्विशेषः । तस्मान्नापरीक्षिताद् वेदन्नियोगमात्रादेव प्रवर्त्तनं युक्तं । ततोऽ
प्रवर्त्तकत्वादप्रामाण्यं ।
अथ नियोक्तृधर्मता नियोगस्य । तदयुक्तं ।
न खलु सिद्धमपरनिरपेक्षं कथञ्चित् सम्पादयितुं शक्यं । तथा चेदनुपरतिरेव सम्प
(।) दनाया इति व्यर्थता प्रमाणस्य ।
अथ नियोजकधर्मत्वेपि नियोज्यविषयापेक्षया नियोगस्तथात्वं प्रतिलभते । नियोज्य
रहितः कश्िचन्न नियोगः प्रतीयते । तथा नियोगविषयम्विना नास्ति नियोगता । तथाहि (।)
नियुक्तोहमनेनात्र विषय (ये नियोग) इति प्रतीतिः ।
>यतः (।)
नियोगः प्रेरणारूपो विना न विषयं क्वचित् ।
स च तथाभूतो नियोगः साध्य एव । न खलु स्वाव्यापारसाधनं विना नियोगः
साधित इति भवति । एवन्तर्हि धात्वर्थ नियोगभावनानां परस्परसम्बन्धो नियोगः । स च
प्रतीतिकाले नास्ति । तत् कथं नियोगे वाक्यार्थे निरालम्बनता न भवेत् । न च नियोगः
परस्परसापेक्षधात्वर्थादिव्यतिरेकेणापर उपलभ्यते । सम्बन्धश्च हेतुफलभावेन व्यवस्थितानां
क्रमभाविनां न प्रतिभासगोचरः स्वरूपप्रतिभासस्य विद्यमानविषयत्वात् । पररूपप्रतिभासस्य
चातत्प्रतिभासत्वात् । न खल्वन्यदन्यरूपेण प्रतिभासते । तथा च निरालम्बने कान्यापोह
विषया श्रुतिः । तथा हि । कुरु यागादिकमिति । यागकर्तृकत्वमात्मनः प्रतीतिविषयप्राप्तं
मन्यमा च प्रतीतिकाले तदस्ति । न च
013
शब्दात् प्रागप्रतिपन्नं प्रत्येतुं शक्यं । येन हि प्राग् यागादिक्रियाविष्टो परः प्रतिपन्नः स
एवात्मनः परस्य वा तथाभावमवगच्छति नान्यः । पूर्व्वानुसारेण चेयं प्रतीतिरन्यापोह
विषयतामात्मनो नातिक्रामति । न च प्रत्यक्षतः कर्तृत्वमपि पूर्व प्रतिपन्नं । पौर्व्वा
पर्य्ये प्रत्यक्षस्यावृत्तेः । सांव्यवहारिकप्रत्यक्षापेक्षया तु प्रतीतिरित्युच्यते । सर्व्वथा पूर्व्व
प्रतीत्यनुसरणादात्मनः कर्त्तृत्वप्रतीतिः ।
अथापि न कर्त्तृत्वेनासौ प्रेर्यते किन्त्वधिकारित्वेनैव (।) न ह्यकुर्व्वन् कर्त्ता भवति ।
अधिकारित्वन्तु योग्यतया । तदप्यसत् ।
न खलु योग्यताविषयं स्वव्यापारमजानानस्तद्विषयविशिष्टां योग्यतां स्वरूपतोऽवगच्छति ।
ततः कर्त्तृत्ववदत्रापि दोष एव ।
न खलु विचार्यमाणो नियोगः कश्चिदस्ति । यथा कल्पनमयोगात् ।
(१) शुद्धकार्यनियोगवादिनां मतं ।41
(२) शुद्धप्रेरणानियोगवादः ।42
(३) प्रेरणासङ्गतकार्यनियोगपक्षः ।
(४) कार्यसङ्गतप्रेरणावादिनः प्राहुः ।
(५) कार्यस्यैवोपचारतः प्रवर्तकत्ववादिनः प्राहुः ।
(६) सम्बन्ध एवोभयोर्नियोग इत्यपरे ।
(७) समुदायवादेप्ययमभिप्रायः ।
014(८) अपरे पुनराहुः । उभयस्वभावनिर्मुक्तो वाक्यार्थः ।
(९) यन्त्रारूढनियोगवादिनां43 मतं ।
(१०) भोग्यरूपनियोगवादिनां प्रवादः ।
सिद्धरूपं44 हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ।। १०१ ।।
(११) पुरुषनियोगवादिनिः ।45
सर्व्वत्र च वाक्यार्थेऽष्ट प्रकारो भेदः ।
अत्रोच्यते । सर्व्वमेतदसङ्गतं (।) यतः ।
प्रेरणारहितं कार्यं नियोज्येंन विवर्जितं । नियोगो नैव कस्यापि46 नियोग इति कीर्त्यते ।। १०६ ।।
47तथा (।)
015
एवं यन्त्रारुढादयोपि वाक्यार्था वाच्यदोषाः । यतः ।
यन्त्रारूढतया भोग्यभोक्त्रो (:) सम्बन्ध उच्यते ।
एवं नियोगः प्रत्याख्यातः ।
(३) भावना-प्रत्यख्यानम्—
भावनेदानीं विचार्यते । भावना हि द्विधा । शब्दभावना अर्थभावना च । यदाह48 (।)
शब्दात्मभावना49 माहुरन्यामेव लिङादयः । इत्यन्त्वन्यैव सर्व्वार्था सर्व्वाख्या तेषु विद्यते ।। १२१ ।।
शब्दभावना शब्दव्यापारः । शब्देन हि पुरुषव्यापारो भाव्यते । पुरुषव्यापारेण
धात्वर्थो धात्वर्थेन च फलं ।
इदं चायुक्तं (।) शब्दव्यापारो हि (न) २ शब्दवाच्यः । तं प्रति कारकः50 शब्दो न
वाचकः । अप्रतिपादकः (।) तथा हि (।)
शब्दभावनैव खलु नियोग इति शब्दान्तरेणोच्यते ।१
तदसत् । यदि शब्दव्यापारः कथमगृहीतसङ्केतो नावगच्छति । स्वभावतो हि
नियोजकत्वे न श(? सं) ङ्केतग्रहणमुपयोगि । सैव सामग्री चेत् । ननु सामग्री यदि
प्रेरणे भावनायां वा व्याप्रियते (। अ) युक्तमेतत् ।२ यावता (।)
इदं कुर्व्विति प्रेरणाध्येषणयोरेव प्रतीतिः । तदप्रतिपत्तौ न नियुक्तत्वप्रतिपत्तिः ।
नियुक्तत्वञ्च नाम कार्ये व्यापारितत्वं । कार्यव्यापृतामवस्थां प्रतिपद्य नियोजको निर्युक्ते ।
सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या । स्वरूपसाक्षात्करणे हि सर्व्वं
तदैव सिद्धमिति न नियोगः स्यात् सफलः ।
यथैव हि प्रयोजकस्य प्रयोज्येन स्वव्यापारशून्यमात्मानं प्रतियता प्रयोजकप्रतीतिर्बा
ध्यमाना निरालम्बना तथा प्रयोज्यप्रतीतिरपि तेनैव स्वव्यापाराविष्ट३मात्मानप्रतियता
बाध्यते । शब्दात् तस्य सा प्रतीतिरिति चेत् । नास्त्येतत् । सोऽपि शब्दो बुद्ध्यर्थमेव
ख्यापयति । एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरप्यध्यवसायात् । अथवा
(एवं) तावत् प्रतिपन्नं मयास्य त्वभिप्रायो भवतु मा वा भूत् । तथा भवत्वेवमर्थो मा वा
भूत् मया तावदेवं प्रतिपन्नं । अत एवाह ।
016
वक्तृव्यापारविषय इति यत्र वक्तास्ति । बुद्धौ प्रकाशते इति यत्र स नास्ति ।
अथवा तदुक्तेरेव तत्र वक्तास्तीति गम्यतां । (य)ज्जातीयो यत इति न्यायात् । अथवा
तदविशेषात् सर्व्वमेवापौरुषेयं । पुरुषकृतेर्व्वाधनान्नैवं चेद् (।) अत्राप्यतीन्द्रियत्वात्
पुरुषकृतेः सा न बाधिकेति कुत एतत् ।
अथवा अपौरुषेयमेव तद्वचनं पुरुषस्य तु मया कृतमेतदिति भ्रान्तिः । तथाहि ।
कवयोपि जन्मान्तरानुभूतमेव ग्रन्थं कवित्वेनोत्प्रेक्ष्यन्त इति । कुत एतत् । तथा च
सर्व्वमपौरुषेयं । व्यर्थकत्वमपि तथा भवतीति व्यर्थमपौरुषेयत्वं तत्र ।
वेदावेदयोर्व्यर्थता(ऽ)पौरुषेयताकल्पना च समानैव । अन्यार्थकल्पनायां न व्यर्थतेति
चेत् ।
अत आह । वक्तृव्यापार (विषय) इत्यादि । वेदार्थं प्राथमिकं परित्यज्य योर्थो
बुद्धिव्यापारविषयस्तत्र प्रामाण्यं पुरुषबुद्धेरेव नार्थतत्त्वनिबन्धनं न शब्दस्येति व्यस्तपदसम्बन्धः ।
तथा हि तं परित्यज्य वेदार्थं प्रथमं नरः । प्रमाणशुद्धमन्यार्थं52 कल्पयेत् तन्मतिः प्रमा ।। १२८ ।।
वेदेर्थतत्त्वस्य प्राथमिकस्याभावात् चित्रया यजेत पशुकाम इति व्यर्थकत्वात् । कर्मवै
गुण्यवत् तत्रेति चेत् । न (।) प्रमाणाभावात् । अन्यार्थकल्पना तु पुरुषप्रयत्नाद् भवन्ती
पुरुषकृतैव । तथा चोक्तं । सा किमशब्दलिङ्गा स्वयं कथञ्चिदनुस्मरतो न भवति ।
सर्व एव च वेदादात्मानं नियुक्तं मन्यते पूर्व्वानुसारेण । नियोगश्च शब्दभावनारूपः (।)
यदि स वाक्यार्थः । तथा सति देवदत्तः पचेदिति कर्त्तुरनभिधानात् कर्त्तृकरणयोस्तृतीये53
ति तृतीया प्राप्नोति । कर्त्रभिधाने तु अनभिहिताधिकारात्54
तिङ्गैवोक्तत्वान्न भवति ।
किंच । पचतीति कर्त्तापि प्रतीयते । व्यापारसामर्थ्यात् कर्त्तृराक्षेपादेवं प्रतीतिरिति
चेत् (।) न (।)
क्रमप्रतीतिरेवं स्यात् प्रथमं भावनागतिः ।
न च क्रमप्रतीतिरुपलभ्यते । द्विवचनबहुवचने च न प्राप्नुतः एकत्वाद् व्यापारस्य ।
अथ कारकभेदाद् व्यापरभेदो भविष्यतीति चेत् । क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति
महदसमंजसत्वं स्यात्55 (।) तथा हि ।
017
ननु धात्वर्थस्याभेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः ।
नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः । कर्त्तृसाध्यस्तस्य कर्त्तृभेदाद् भेद इति
ततः कटं कुरुत इति भवति । धात्वर्थस्तु शुद्धो न कारकभेदाद् भेदी । तदसत् ।
सम्बन्धाद् यदि तद्भेदो धात्वर्थस्याप्यसौ भवेत् ।
अस्माकन्तु ।
क्रिया हि कर्त्तुः कर्मणश्च भेदेन विवक्ष्यते । सा यदि लकारेणाभिधीयते न कर्त्रा
तदा कर्त्तरि तृतीया भवति । यदाभिधीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रियते
महात्मना करोति महात्मे ति ।
यदा तु कर्त्तृव्यापारस्तिपा प्रतिपाद्यते (तदा) स एव च भावना । तथा चाह ।
भावार्था कर्म्मशब्दाः । भावनं भावो ण्यन्तस्य प्रत्ययः ।56
तथा च सति भावनैवासौ ।
भावना च कर्त्तृव्यापारः (।) स चोदितः कर्त्रा स्वव्यापारे प्रवर्त्तते । नियोगस्य च तच्छेषत्वाद
प्रधानत्वादवाक्यार्थत्वं । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते ।
कथञ्चासौ स्वव्यापारं प्रतिपन्ने (? न्नोत्र) न प्रवर्त्तते । अन्यथा स्वव्यापार एव तस्य57
न
चोदितो भवेत् । तदेतद सत् ।
व्यापार एष मम किमवश्यामिति मन्यते । फलम्विनैव नैदं चेत् साफल्ये धिगमः58 कुतः ।। १३७ ।।
यद्यवश्यमेष मम व्यापार इति मतिस्तदयुक्तं । न हि फलमपश्यन्ममेदं कर्त्तव्यमिति
कश्चित् प्रत्येति । सफलत्वे प्रवर्त्तते । सफलत्वं नावगम्यत इति प्रतिपादितं । किंच ।
करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्व्वर्त्तयति । व्यपदेशा एते
यथाकथंचिद् भेदपुरस्सरा (: ।) नैतेभ्योस्ति पदार्थतत्त्वव्यवस्था । शिलापुत्रकस्य शरीरमिति
न भेदव्यवहारा भेदमन्तरेणापि दृश्यन्ते ।59
ननु च किं करोति देवदत्तः पचति यजतीति प्रश्नोत्तरदर्शनात् । करोतीति निश्चिते
सति यज्यादिषु सन्देहादन्यत्त्वं प्रसिद्धमेव । तथा चाह । न च शरीरमेव बुद्धिस्तत्सिद्धावपि
बुद्धिविकल्पे संशयात् । तदेतदयुक्तं ।
018
यदि हि करोति क्रिया अन्या यज्यादिकायाः । तदा करोतीति निश्चिते कथमन्यत्र
संदेहे प्रश्नः । अनिश्चित एव प्रश्नस्य युक्तत्वात् । सामान्यरूपोथ करोत्यर्थो विशेषरूपो
यज्यादिरिति चेत् ।
केवलसामान्यप्रतीतौ हि विशेषांशे संदेह इत्युक्तं ।
अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एव कथं संशयः । नहि
प्रतीतत्वादपर आक्षेपः ।
अथ प्रतीत एवासौ तथापि प्रतीतता विशेषरूपेण नास्ति सामान्येनाक्षेपात् ।
ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् । न च सामान्यादपरं सामान्य
ताक्षेप्यं । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था ।
ननु सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयो युक्त एव । न (।)
अनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अन्यथोपलब्धिलक्षणप्राप्तानुप
लम्भादभावो नानुपलब्भिमात्रात् । तथाप्यनुपलब्धेरेव संशयो व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।
यदि सामान्यप्रत्यक्षतायामपि उपलब्भिलक्षणप्राप्तानुपलब्धिर्न सामान्यसंशयः ।
आत्मोपलम्भलक्षणप्राप्तानुपलब्धिरेव न सम्भ(व)ति सामान्यप्रत्यक्षतायाम् (।) एवन्तर्हि
सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं । विशेषस्मृतिरिति च व्यर्थं ।
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः । उभयांशावलम्वि (स्मृति) रूपत्वादस्य । दृश्यते
(कान्य) कुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः (।) तदेव
यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टादनुमानात् सामान्यं । आह चात्र60 ।
भेदानवधारणमात्रमेव सामान्यपरिच्छेदः । क्वचिद् बुद्धिरेव तदाकारविविक्ता भावा
भावसाधारणत्वात् संशयहेतुः । तथा61
तथाभूतानुपलब्धिरेव संशयहेतुः । बुद्धिरूपा उप
लभ्यमानपदार्थरूपा वा ।
ननु समानाकारानुभवाभावे दृश्यते संशयः स्थाणुर्वा पुरुषो वेति । ऊर्ध्वतासामा
न्यमुपलभ्यते ।62
यद्यस्ति तदा द्वयाकारा बुद्धि63
रुपलभ्यते ।
अथोपलभ्यत एव पुरुषस्थाणुस्वरूपपरिहारेण दूरदेशमूर्ध्वतामात्रमन्यथा स्थाणु
पुरुषाकारान्तर्ग्गतानुभवे न तत्र64 सन्देह उत्पद्येत । तस्मात् तत्परिहारेणावभासनमेव
तद्व्यतिरेक एतावन्मात्रलक्षणत्वाद् व्यतिरेकस्य । (।)
019
तन्न युक्तं ।
यत् खलु दूरदेशनिवेशिदशायामवभासते । तत्सन्निधानविधानाधीनं सुतरामव
भासवत्66 । पदार्थान्तरत्वे च सामान्यस्य तदेव प्रतिभासने । कथम(न्यत्र) त्रास्पष्ट
प्रतिभासव्यवहारः । न खलु नीलपदार्थप्रतिभासनेऽस्पष्टशुक्लप्रतिभासव्यवहारः ।
ननु भवत्पक्षेपि केयमस्पष्टता नाम । अस्पष्टप्रतिभासता नाम 67
(।) अस्पष्टप्रति
भासता हि कदाचिदप्रतिभासता कदाचिदन्यप्रतिभासता (।) कदाचित्तु तत्प्रतिभासतेति68 ।
अन्यस्य प्रतिभासोपि तस्यैवास्पष्टता कुतः ।
तदेतदसत् ।
अथ तदेव सामान्यन्तथा सति वर्ण्णसंस्थानप्रतिभासनं न स्यात् (।) न खलु सामान्यं
वर्ण्णसंस्थानवद् द्रव्याश्रितत्वात् तयोः । अथ द्रव्यगतं वर्ण्णसंस्थानं तथा सति ततोत्पन्न
सामान्यमनवभासनात् । वर्ण्णसंस्थानयोरेव प्रतिभासनं, तयोश्च साधारणत्वात् स्थाणुपुरुषयोः
सन्देह इति युक्तं ।
तदप्यसत् । यतः ।
यदि वर्ण्णसंस्थानमन्यथा प्रतिभाति भ्रान्तिरेव सा (।) कथं सामान्यप्रत्यक्षता ।
अथावयवी तत्र प्रतिभाति न सामान्यं नापि वर्ण्णसंस्थानमिति चेत् ।
श्यामतादि रूपं हि वर्ण्णादिकमवभासते । न च तत्रान्यदेव द्रव्यमवभासते । तद्व्य
तिरेकेणापरस्य द्रव्यस्याप्रतिभासनात् । तदेव द्रव्यमिति चेत् (।) न (।) गुणत्वात्
संस्थानवर्ण्णयोः ।
अथ वर्ण्णसंस्थानवद् द्रव्यम् (।) न (।) तद्व्यतिरकेणान्यथा प्रतिभासनाभावात् ।
न खलु स्पष्टास्पष्टवण्णसंस्थानव्यतिरेकेणापरं द्रव्यमुपलभ्यते । अस्पष्टवर्णसंस्थानस्य च
तदपरसामग्रीप्रभवज्ञानेन बाध्यमानत्वात् । नेदमेवम्भूतमिति स्पष्टाकारप्रत्ययोदये सति
भवतीति । तदनुपलब्धिरेव च तद्विपर्ययोपलब्धिरूपा69 बाधकं । नेदमिति (कल्पना)
प्रत्ययस्यानुत्पत्तेर्न्नैवमिति चेत् । न (।) उत्पद्यत एव सोपि नेदमिति प्रत्ययः । तथा हि ।
तद्वर्ण्णंमेतत्संस्थानं न भवतीति तद्व्यतिरिक्तसंस्थानबाधकमुपज्ञायत एव ज्ञानं । व्यतिरिक्तस्य
020
न बाधकमिति चेत् । यत एवाव्यतिरिक्तसंस्थानबाधकमत एव व्यतिरेकि संस्थानं
भविष्यति ।
तदसत् ।
यादृशस्य प्रतीतिः प्राग् बाधनं तादृशस्य चेत् । अन्यथा न प्रतीतिश्च70 किमन्यदवशिष्यते ।। १५३ ।।
यादृशं संस्थानं द्रव्यं वा वर्ण्णाव्यतिरिक्तं प्रतिपन्नं (।) यदि तादृशस्य बाधा किमपर
मवशिष्यते । न खलु योगविभागो विद्यते । येन तत्रैकस्य बाधनमपरस्य नेति व्यवस्था
विभागः ।
अथापि स्यात् ।
तस्य वर्ण्णस्य न प्राप्तिः संस्थानद्रव्ययोस्तदा ।
यच्च पूर्वोत्तरभावेन वेद्यते यच्च न तथा (।) तयोर्विरुद्धधर्म्माध्यासयोगो न71
युक्तः ।
प्रभेदो हि सकल एवमेव साधनीयो परस्य भेदसाधनस्याभावात् ।
तदसत् ।
यदि तत् परमार्थतो भिन्नं वर्ण्णसंस्थानं द्रव्यात् संस्थानं वा वर्ण्णात् कथं पूर्व्वत्र परत्र
वा प्रत्यक्षे न प्रतिभाति । प्रत्येकमप्रतिभासने समुदायस्य तद्व्यतिरिक्तस्याभावात् तत्र
प्रतिभासनमिति महन्मोहसामर्थ्यं । न च द्वयोः समवधानमिति कुतः समुदायः । अनु
सन्धानश्च न प्रत्यक्षादिति । तदभावादनुमानमपि नास्तीति कुतो व्यतिरेकप्रतीतिः ।
तस्मान्न साधारणं नाम किञ्चित् । सर्वस्य स्वात्मनि व्यवस्थितत्वात् विशेषतैव ।
तस्मान्न क्रिया करोतीति साधारणरूपा यजनादिक्रिया विशेषाणां (सामान्यम् ।) (।)
ततो न भावना कत्तव्यापाररूपा तद्व्यतिरेकेणाविभावनात् । न च धात्वर्थो पि द्रव्यव्यति
रेकेणास्ति । द्रव्यमेव पूर्वापरीभूतमन्वयव्यतिरेकेण कल्पितव्यतिरेकिस्वभावमभेदेपि भेद
वदुपचर्य क्रियातो भिन्नं क्रिया च ततो भिन्नेति व्यवहारमात्रमेतत् । नेयं वस्तुतत्त्वव्यवस्थितिः ।
स्वव्यापारधात्वर्थौ च नियोगकाले भाविनौ प्रतीयेते । ततः कथन्तदालम्बना प्रतीतिः
पूर्व्ववासनाबलादुपजायमाना न निरालम्बनेत्युक्तं ।
अ8b थापि स्यात् (।) प्रत्यक्षस्य हि वर्त्तमानविष(य)त्वाद् भाविभूतविषये नालम्बनत्वं
शब्दस्य तु तद्विषयत्वेपि न तत्त्वं । तदाह चोदने72त्यादि ।
तदसत् ।
सर्व्वा हि परोक्षविषया प्रतीतिरर्थसम्बन्धादेवाविसम्वादिनी यथा अनुमानप्रतीतिः ।
न हि यो येनासम्बद्धस्तद््भावे तस्य भावनियमः । निरालम्बना तु त
त्स्वरूपाभावादेव । न
ह्यविद्यमानस्य स्वरूपग्रहणमित्युक्तं । न च भाविना सह सम्बन्धनियमः । अनुमाने तु
021
कारणात् कार्य/?/ प्रतीयते । तथा परम दर्शनात् । न च फलकारणताग्निहोत्रादेरुपलब्धा ।
नापि तदकरणे प्रत्यवा यनिश्चयः73 ।
अथात्मनः सामर्थ्यमवगच्छन् यागकरणतामात्मनः74 प्रतिपद्यमानो यागे75 प्रवर्त्तिष्यते ।
अत एव भावनानियोगधात्वर्थानां परस्परसम्बन्धः फलाभिसम्बन्धो वा विधिर्वाक्यार्थ76
इति न युक्तं । सर्व्वस्य भावित्वेन ज्ञानेनाग्रहणान्निरालम्बनतैव बुद्धेः । अतो दृश्यविक
ल्प्यार्थैकीकरणात् प्रवर्त्तते । स एव चान्यापोह इति । न कश्चित् प्रेक्षापूर्वक री वेदात्
प्रवर्त्तत इत्यलमति
प्रसङ्गेन ।
तस्माद् (।) वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशतेऽध्यारोपितः । प्रामाण्यन्तत्र
शब्दस्य नार्थतत्त्वनिबन्धनं । (२।२)
न खल्वध्यारोपेण सत्त्यार्थविषयेण भवितव्यं प्रतिबन्धमन्तरेणे५ति व्यवस्थितमेतत् ।
प्रथम77वार्त्तिकालङ्कारे विधिभावनादि वार्त्तिकं प्रथमं ।। २ ।।
२. प्रमाणसिद्धिवार्त्तिकं द्वितीयम्
१. व्यवहारिकत्वेन प्रमाणता—
यदि तर्हि अर्थक्रियास्थितिरविसम्बादनं (। अथ)78 प्रत्यभिज्ञादिप्रत्ययादपि स
एवायमित्यादि ज्ञात्वा प्रवर्त्तमानोऽविसम्वादभागिति प्रमाणं स्यात् ।
अवयव्यादिविषयत्वं सम्वादकत्वात् प्रमाणमिति । अथालोचनाज्ञानसामर्थ्यादसौ
विकल्प उत्पद्यमानो न79 प्रमाणँ । अवयविनि चावयवविज्ञानसामर्थ्यात् (।) तथा सति
तदप्यालोचनाज्ञानं चक्षुःसन्निकर्षादि(सामर्थ्यादि)80ति न स्यात् प्रमाणं । तत्र यदि कारण
परम्परान्विष्यते चक्षुरादीनां प्रसङ्गः । अथानन्तरं विकल्पस्यैव प्रामाण्यप्रसङ्गः ।।
अत्रोच्यते ।
स एवायमिति प्रत्यय उत्पद्यमानो नैकत्वे प्रमाणं । (अपूर्वस्य)81 एकत्वस्याग्रहणात् ।
दृष्टस्यैव तस्य प्रतिपत्तेः । एकत्वं हि पूर्वेण सह गृह्यमाणमेकतां विवादविषयतां स्वीकरोति ।
वर्त्तमानता११मात्रस्यैकत्वे सिद्धसाधनमेव । तच्च पूर्व्वं पूर्व्वप्रत्येन गृहीतत्वान्नापरं (।)
पूर्वप्रत्ययेन चासौ त्रुट्यदवस्थ एवापूर्व्वतया च गृह्यते । ततः पुनरनुसन्धीयमानं यथाभूतं
022
गृहीतं तथा भतमेव वानुसन्धातव्यं (।) गृहीतत्वेन च ग्रहणे स्मरणमेतदिति गृहीतग्राहि
त्वादप्रमाणमपरस्मरणवत् । संवादस्त्वर्थक्रियाकरणात् । न चैकत्वसाध्यार्थक्रिया । वस्तु
सामर्थ्यमात्रादुत्पत्तेः ।
तस्मात् स एवायमिति प्रत्यद्वयमेवैतत् । अथैकता प्रतीयते पूर्व्वेण सह (अपरस्य)
तदयुक्तं ।
कथन्तर्हि धियः प्रामाण्यं यदि पूर्व्वापरादिकस्य (नैका)83 प्रतिपत्तिः ।
अत्रोच्यते । हेयोपादेयविषये प्रवर्त्तकं हि प्रमाणमुच्यते । तत्र च प्रवर्त्तने धीरेव
प्रधानं (।) यद्यपि नाम भाव्यर्थो न प्रतिपन्नस्तथापि तत्र प्रवर्त्तनात् प्रमाणं । यथानुमानस्या
ग्रहणेपि (प्रामाण्यम्१) । न ह्यनुमानेन वस्तुस्वरूपस्वीकार इति प्रतिपादयिष्यते । न च चक्षु
रादिकात् प्रवर्त्तते ज्ञानमन्तरेण विकल्पमन्तरेणापि बुद्ध्याभ्यासात्84 प्रवर्त्तते । ततो हेयोपा
देयविषये धीरेव पूर्व्विका प्रवर्त्तनात् प्रमाणं न विकल्पादयः । यत्र तु नाभ्यासस्तत्रानुमानमेव
प्रत्यभिज्ञानादयोऽतो नातिप्रसङ्गः ।
एवान्तावत् फलार्थितां व्यवहारिकत्वेन प्रमाणत्वं प्रतिपादितं ।
२—अधिगमफलविषयविभागकारितया प्रमाणता—
इदानीमधिगमफलविषयविभागकारितया प्रतिपाद्यते ।
विषयाकारभेदाच्च धियोधिगम भेदतः ।
अपि च । धिय एव प्रामाण्यं नान्यस्य (।) यतः । विषयाकारभेदादधिगमस्य
प्रमाणफलस्य भेदः ।85
न प्रवर्त्तनात् प्रमाणं अपि तु प्रतिपत्तिकरणात् । प्रतिपत्तौ हि ज्ञातायाँ
प्रवर्त्ततां वा न वा (।) तथाप्यर्थतथाभावव्यस्थानात् प्रमाणं (।) व्यवस्थापितेर्थे यदि
न प्रवर्त्तते । नायं प्रमाणस्य दोषः । प्रापकत्वात् प्रमाणमिति चेत् । न (।) प्रापणयोग्यत्वात्
प्रमाणस्य । तदेव प्राप्तावसत्यां कथं ज्ञायते । रूपविशेषदर्शनात् । अव्यभिचारिणो रूपस्य
कथं परिच्छित्तिः ।
समाप्तस्तर्हि वाह्यार्थव्यवहारः । अव्यभिचारित्वाज्ज्ञाने86
हि स्वरूपसम्वेदनमात्रमेव
परिस्फुटं । तथा च कुतो वाह्यार्थपरसन्तानादिप्रतीतिः । एतच्चोत्तरत्र वक्ष्यमः । विषयाकार
इवाकारोऽस्य विषयाकारं ज्ञानं (।) तस्य भेदो विषयाकारभेदः । विषये वा87 आकारभेदो
बिषयाकारभेदः । आकरणमाकारः । उल्लेख इत्यर्थः । विषयसदृशता विषयोन्मुखता
च (।) तद्भेदाद् धियोऽधिगमभेदः नीलस्य संवित्तिस्तदाकारस्य चेति । अर्थाधिगमश्च
023
प्रमाणफलं स्वरूपाधिगमो वा । तथा चाह । प्रमाणाधीनो हि प्रमेयाधिगमः । स च
विषयाकार आत्मभूतो ज्ञानस्य (।) ततो ज्ञानमेव प्रमाणं ।
ननु यथाकारो ज्ञानात्मभूतस्तथाधिगमोपि । ततो ज्ञानमेव फलमिति प्राप्तं ।
सत्त्यमेतत् ।
एतच्चोत्तरत्र प्रतिपादयष्यते ।
यथा चक्षुरादयो न भवन्ति प्रमाणन्तथाऽऽकारोपि मा भूत् । यथा कारका अपि
संवेदनस्य चक्षुरादयो न प्रमाणन्तथाकारोपीति88
(।) आह ।
भावादेवास्य तद्भावे,
तद्भावे आकारभावे । अस्याधिगमस्य फलस्य भावादेव (।) न खलु चक्षुरादिभावेस्य
फलस्य भाव एव । आकारस्य तु भावे भाव एवाव्यतिरेकादिति साधकतमत्वं ।
साधकतमञ्च करणं89 । अव्यवधाने च साधकतमत्वमिति प्रतिपादयिष्यते ।
कथन्तर्हि चक्षुषा पश्यति रूपमिति । कारणे कार्य्योपचारादेवमुच्यते । चौरैग्रामो
दग्ध इति यथा । तस्मात् ज्ञानमेव प्रमाणं ।
ननु प्रापकमेतज्ज्ञानमिति कथं ज्ञातव्यं । न तावत् प्रत्यक्षतः । न खलु स्वसंवेदन
प्रत्यक्षं प्रमाणाप्रमाणविभागमुपदर्शयति । सर्व्वज्ञानेषु स्वसंवेदनस्य भावात् । न च
तदुत्पत्तिकाल एव संवादीतरज्ञानविभागसंवेदने प्रवर्त्तमानः कश्चिद् विप्रलभ्यते । नापि
सन्देहवान् स्यात् ।
अथाबाधितत्वलक्षणं प्रामाण्यं स्वत एव प्रसिध्यति (।) तदर्थापत्त्या प्रसाध्यमानं परो
क्षज्ञानवादिनां कथं स्वतः सिद्ध्यति । यथार्थापत्त्या ज्ञानसत्त्ता सिद्ध्यति । तस्यार्थापत्त्या
ज्ञानस्य नापरेण प्रामाण्यं ज्ञायते । स्वत एव तु प्रमाणता । अप्रामाण्यन्तु बाधकज्ञानात्(।)
बाधकज्ञानस्य च स्वत एव प्रामाण्यं ।
किञ्च । कारणादुत्पद्यते (वि) ज्ञानं, प्रामाण्यन्तु तस्य स्वत एव । तदप्यपवादेन
बाधकज्ञानेनाबाधितत्वलक्षणमपोद्यते३ ।
अत्रोच्यते ।
91 024
पश्चाद् बाधस्तु93 सन्दिग्धो निश्चयस्तस्य सोन्यतः । प्रत्यक्षतोऽनुमानाद्वा प्रमाणमपरं न हि ।। १७३ ।।
साधनप्रत्ययस्यापि सन्देहविषयत्वतः । साधनत्वं कथन्तस्य प्रमाणत्वाप्रती(ति)94 तः ।। १७५ ।।
यदि प्रमाणं प्राक्सिद्धं क्रिया (स्यात्)३ तस्य योगवित् ।
स्वभावालम्बनाकारपरिच्छेदि हि प्रत्यक्षं तृणस्यापि न कुव्जीकरणे समर्थं ।95
अत्रोच्यते ।
प्रमाणाज्ज्ञायतां प्राप्तेः प्राप्ता सा(ऽ)३र्थक्रियास्थितिः ।
025
अत्रोच्यते ।
स्वतो हि स्वरूपस्यैव गतिर्न्न पररूपस्य ( । ) साक्षाद् गतिर्हि प्रत्यक्षं साक्षात्करणं च
स्वरूपस्य न पररूपस्य प्राप्तिकालविशेषणस्य । प्रमाणता च प्राप्यपदार्थाव्यभिचारिता ।
न च प्राप्यपदार्थाग्रहणे तत्सम्बन्धग्रहणं । न च तथानवसीयमानं प्रमाणमित्यवसितं भवति ।
पुरोवर्त्तिरूपासङ्गिता नु सर्व्वज्ञानानामविशिष्टा । न च यो भाविरूपसम्बन्धपरिग्रहः । नापि
भाविनार्थक्रियाज्ञानेन पूर्व्वरूपसम्बन्धपरिग्रहः । (ततः स्वरूपसंवेदनात्मत्वान्न प्रत्येकं सम्बन्ध
परिग्रहः) नापि समुदायसम्भवः । क्रमेण साधनार्थक्रियाग्रहणयोर्भावात् । तदुत्तरकाल
भावि तु स्मरणं यथानुभवं प्रवर्त्तमानमसंबद्धमेव द्वयं विकल्पयति । यथानुभवपरित्यागात्तु
तदुपप्लुतमेवेति न ततः सम्बन्धप्रतिपत्तिः । ततस्तत्सम्बन्धाग्रहणात् पश्चादपि दृष्ट
साधर्म्यात् कथं प्रतिपत्तिरनुमानादिति न प्रामाण्यप्रतिपत्त्युपाय इति स्वरूपस्यैव स्वतो
गतिर्न प्रामाण्यस्य ।
अथ प्रमाण्यं स्वरूपमेव भावप्रत्ययवाच्यस्य ततोऽव्यतिरेकात्98 । तदयुक्तं ।
नहि ज्ञानस्वरूपमेव प्रामाण्यं प्राप्यरूपसम्बन्धेन तत्त्वव्यवस्थापनात् । तस्य चाग्रहण
मिति प्रतिपादितमेव । ततोऽप्रवृत्तिनिवृत्तिकं स्वस्वरूपसंवेदनमात्रमेव न भदेवादावतारः ।
तस्मान्न प्रेक्षावद्भिः क्वचित् प्रवर्त्तितव्यं नं निवर्त्तितव्यं वा कुतश्चित् ।
कथन्तर्हि प्रामाण्यमप्रमाणतो निवृत्तं व्यवस्थाप्यते । प्रामाण्यं व्यवहारेण । सांव्यव
हारिकमेतदिति प्रतिपादितं । संव्यवहारश्च विचार्यंमाणो विशीर्यत एव ।99
तत्र यद्येतावता
परितोषः तदा न किंचित् कर्त्तव्यमिति मुक्तिरेव संसारात् तस्यात्यन्तमभावात् । अथ
व्यवहारप्रसिद्धः संसारः । तथा सति प्रमाणेतरविभागोप्यस्त्येवेति न प्रमाणत्वप्रतिपादनाय
यत्न आस्थेयः ।
किञ्च । सांव्यवहारिकं प्रामाण्यं प्रतिपादयता परमार्थत एकमेव स्वसंवेदनं प्रत्यक्ष
मित्युक्तं भवति 100 ।
यदि प्रत्क्षतोऽनुमानतो वा परिस्फुटा प्रमाणत्वसिद्धिः किमर्थमुच्यते व्यवहारेणेति ।
तस्माद् व्यवहारमात्रप्रसिद्धानुमानाश्रयेण प्रसिद्धं सम्बन्धमाश्रित्य तदेतदर्थक्रियासाधनमिति
दर्शनेन स्पृश्यादिसाधनस्य प्रतिपत्तौ प्रवर्त्तते । पश्चादभ्यासानुमानमन्तरेणापि प्रतिभास
मात्रादेव वृत्तिरिति प्रत्यक्षमपि प्रवर्त्तकत्वात् प्रमाणम् (।) अत उच्यते प्रामाण्यं व्य
वहारेणेति ।
026
ननु दर्शनेन रूपमेवोपलभ्यते न स्पृश्यं । तथा वर्त्तमानमेव न भावि प्राप्यं ।
तथा स्वदृश्यत्यमेव न परदृश्यत्वमपि (तत्)१ कथमन्यदर्शनेन्यप्राप्त्या प्रमाणं । उक्तमत्र
स्वरूपस्य स्वतो गतिरिति ।
किञ्च ।
उक्तमेतत् (।) प्रामाण्यं व्यवहारेणेति । ततो व्यवहारप्रसिद्धमवयविन एकत्वं२
समाश्रित्य यदेव दृष्टं तदेव प्राप्तमिति व्यवसायात् प्रमाणताव्यवहारः । स चैकत्वाध्यव
सायो देशकालाद्यभेदात् । तदभेदोपि तत्सामर्थ्यस्य सामग्रीजननात्३ । एवं भाविभूतयोरपि
तदेकसन्तानपतितत्वेन४ समानार्थक्रियातश्चैकत्वाभिमानः ।
नन्वर्थक्रियाप्रापकत्वात् प्रमाणं । प्रामाण्यञ्च किमर्थक्रियाज्ञापकमथ कारकं (।)
न तावत् कारकात् प्रमाणं करणं हि तदा स्यात् ।
अथ ज्ञापकत्वात् प्रमाणमुच्यते५ । तदप्ययुक्तं ।
साधनज्ञानमन्तरेणापि अर्थक्रियोपलब्धा (।) तत् कथं तत्कारणमर्थक्रियायाः ।
तदन्तरेणापि भाविना तत्कारणं स्यात् कार्यस्य । नापि ज्ञापकं दृष्टेप्यर्थो कदाचिदर्थंक्रिया
ऽभावात् । न च तज्ज्ञानमप्रमाणमर्थाशून्यत्वात् । अतः कारकत्वज्ञापकत्वाभावे कथं
प्रमाणं प्रापकमर्थक्रियायाः ।
६अत्रोच्यते ।
न खलूपेयसन्देहपरिजिहीर्षा । सर्व्वत्रोपायनिश्चयमात्रेण वृत्तेः । तत उपायनिश्चये
सति कृषीवलादिवत् प्रामाणिकाः प्रवर्त्तन्तां ।
तदसत् । यतः८ (।)
यदर्थमिष्यते प्रमाणन्तत्रोपेये सन्देहात् प्रमाणमिति कैषा वाचोयुक्तिः ।
ननु प्रमाणेनार्थो ज्ञापयितव्यो नत्वर्थक्रिया कर्त्तव्या । अर्थक्रिया हि कुतश्चित् सामग्री
विशेषात् पश्चाद् भवन्ती कथं ज्ञापयितुं शक्या ।
तदप्यसत् ।
अमुतः110 प्रमाणादभिमतार्थसिद्धिमासादयेयमिति प्रमाणतान्वेषणपरः प्रेक्षावान् नान्यथा ।
व्यसनमेव त्वन्यथा भवेत् । अर्थश्च प्रकाशितो यदि नार्थक्रियाकारी कुतस्तस्यानर्थात्
तैमिरिकोपलब्धकेशादेर्विशेषः ।
अथ कदाचित् तत्रार्थक्रिया भवति न तैमिरिकादौ111 । एवन्तर्हि तदर्थी कथं प्रवर्त्तते ।
न खलु सन्देहात् प्रवर्त्तमानः प्रमाणात् प्रवृत्तो भवति । प्रमाणं हि निश्चायकं न सन्देहकृत् ।
अर्थक्रियाकारिणि निश्चयश्चेत् । अर्थक्रियानिश्चये कथं तथा112
निश्चयः । अथ तेन
प्रमाणेनार्थसाधनवस्तु दर्शितं । अर्थक्रिया तु यदि कुतश्चित वैकल्यान्न भवति । न
प्रमाणस्यासौ दोषः ।
तदप्ययुक्तं ।
प्रमीयते येन परिच्छिद्यते समीहितोर्थस्तत् प्रमाणं । न चाज्ञापकस्य परिच्छेदशक्ति
रित्यप्रमाणं । तस्मादन्यथा प्रतिपद्यते ।
यत् खल्वर्थक्रियाज्ञानं तदर्थक्रियात्मत्वादर्थक्रियाङ्गमयति । तदर्थक्रियायान्तदेव साधन
ज्ञानं । पूर्व्वकन्तु साधनज्ञानं यदि स्थिरतयाऽसाववधृतोर्थस्तदा । पूर्व्वको हि स्वभावो
भाविनं प्राप्तिकालेऽवश्यं भावयतीति113
तत्प्राप्तिः । तत उत्तरः स्वभावः पूर्व्वकस्य स्वभाव
एव वस्तुतः । ततस्तत्रापि तादात्म्यमेव ।
अथवा तदवश्यम्भावि कार्य कारणमेव तेन व्याप्तत्वात् कारणस्य । यच्च व्यति
रिक्तं व्यापकं तत् कारणमेव तेन विना तदभावात् । अनुत्पन्नं कथं कारणं । उत्पन्नमपि
कथमिति समानो दोषः ।
नन्वस्मिन् सतीदं भवति । अस्योत्पादादिदमुत्पद्यते । एतदत्र व्याप्रियते । एतदनेन
क्रियत इति कार्यकारणभावमवगच्छन्ति लौकिकाः । न च भाविनः सत्ता नाप्युत्पादो न च
व्यापारो नापि कारणं114
तेनाविद्यमानत्वात् तदानीं ।
अत्रोच्यते ।
सत्तोत्पादादयो भावस्वभावत्वान्न परात्मकाः115 ।
उत्पादो हि न सत्तास्वभावादपरः । कारणान्तरभाविनी चेत् सत्तोत्पादः किमन
न्तरभाविन्येव सत्तोत्पादः । एवं चेत् सुप्तस्य चिरमुत्थितस्य ये विकल्पास्तेषां पूर्व्वाभ्यासा
दुत्पादो न स्यात् । अनन्तरभावित्वाभावात् । शरीरादि च कारणं नेति प्रतिपादयिष्यामः ।
न च व्यापारः परः स्वभावात् स्वरूपमिति प्राप्तं । न च कार्यकाले स्वरूपं कालस्य116
117
028
पूर्व्वकस्याविनाभावितामात्रन्तु भाविन्यपि विद्यतेऽवश्यम्भाविकार्यंस्य । कारणस्यापि (।)
ततो भाव्यपि कारणं ।
अथ दृष्टं यत् तत्र व्यापकं सत्कारणन्तथा पूर्व्वभावि तदेव कारणं न भावीति
चेत । (न ।)118
दृश्यमानं हि न तावता व्यापकं व्याप्यस्य तदानीमप्रतीतेः । यदा च व्याप्यप्रतीति
स्तदा तद्भाविभूतरूपेण व्यापकमन्यथा भाविरूपाग्रहणे व्यापिता न स्यात् ।
अथ येन रूपेण पूर्वभावित्वेन तद् दृष्टं तेनैव तस्य रूपेण व्यापकता प्रतीयते न
भाविरूपेण ।
तदसत् ।
भाविरूपाप्रतीतौ न व्यापकत्वं प्रतीयते ।
प्रादेशिकी नहि व्याप्तिः119 (स्यात्) व्याप्तिः सा तथा भवेत् ।। २०८ ।।
तथा व्यापिताभावात् ।120
भूतभविष्यत्कालव्यापित्वेन हि प्रतीयमानं कारणं
नान्यथा । सा च व्याप्तिः पूर्वं दृष्टस्य द्रक्ष्यमाणस्यापि समाना । द्रक्ष्यमाणस्य कथं
कारणत्वं दृष्टस्यापि तदानीमसत्त्वात् कथमिति न प्रश्नावतारः । सत्त्वाच्चेत्
द्रक्ष्यमाणस्यापि सा । तदा नेत्येतत् समानमुभयत्रापि । पूर्व्वता चेत्(।)कः पूर्व्वापरयोः
स्वभावे विशेषः । द्वयमप्यारोपिताकारेण गृह्यते नापरेणेति न भेदः ।
अथैकं पूर्व्वरूपतया दृष्टमारोप्यते । अपरन्तु द्रक्ष्यमाणतया पररूपतया च (।)
तेन नास्ति द्वयोरपि कारणतेति ।
अन्योन्यमविनाभावो द्वयोरपि तयोः समः । अवान्तरविशेषस्तु121 तत्र न क्वोपयोगवान् ।। २०९ ।।
येन विना यन्न भवति तत् तस्य कारणं व्यतिरिक्तत्वे सति । यथा122
च कारणस्य पूर्व्वं
भावं विना न भवति कार्यन्तथावश्यंभावि कार्यं123
कारणं कार्यस्य परभावं विना नेति समानं
कार्यकारणभावनिबन्धनमिति124 द्वयोरपि परस्परं कार्यकारणभावः ।
न खलु व्यापितां व्यतिरेकस्य व्युदस्यापरमत्र जगति निबन्धमुपलमामहे । तेन द्वयोरपि
कार्यावश्यम्भाविकार्यकारणयोः परस्परं कार्यकारणभाव इति युक्तं पश्यामः (।) तस्मात् ।
यदि साधनज्ञानमर्थक्रियायाः कारणं यदि स्वभावो यदि कार्यं सर्व्वथा तेन सम्बन्ध
सम्भवाज् ज्ञाप्यते । एतच्च व्यापितादात्म्यं कार्यकारणभावश्च व्यवहारप्रसिद्ध इति व्यवहारेण
प्रामाण्यं ज्ञायत इति ।
ननु यावत् प्रत्यक्षं न भवति सम्बन्धसाधकं न तावदनुमानं । प्रत्यक्षेण हि सम्बन्ध-
029
ग्रहणेऽनुमानं प्रामाण्यं साधयति । प्रमाणं सत् प्रत्यक्षं सम्बन्धग्रहणे समर्थमिती तरेत
राश्रयदोषः (न) ।125
अथ नानुमानेन प्रामाण्यं साध्यतेऽपि त्वर्थक्रियानुभवेन । स च स्वसंवेदनप्रत्यक्ष
प्रसिद्धः । तत्र नार्थक्रियाज्ञानं प्रत्यक्षं सत् प्रमाणतां पूर्व्वस्य गृह्णाति । नापि लिङ्गभूतं
सदनुमापयति । प्रत्यक्षेण प्रामाण्यस्य ग्रहणाभावाद् अतीतत्वाच्च तद्व्यक्तेः । नहि व्यक्तिं
विना सामान्यं मानत्वं प्रत्येतुं शक्यमभावात् सामान्यस्य । तस्मात् प्रमाणतायां संदेहमात्रं
स चार्थक्रियासम्बन्धः सन्दिग्धः । अर्थक्रियानिर्भासात् तत्र संदेहो व्यावर्त्तत एव ।
तदप्यसत् यतः ।126
यदि तर्हि व्यवहारेण128
प्रामाण्यं प्रमाणलक्षणशास्त्रं तर्हि किमर्थं । शास्त्रं हि निदृ
(? र्दृ)129
ष्टमपि न वचनमात्रात् तथा भवति (।) अपि तु व्यवहाराविसंवादेन । स चेदस्ति
व्यर्थकं शास्त्रमित्याह ।
यदि व्यवहारतः प्रमाणस्वरूपमवगम्यते । कस्मात् परस्परविरोधीनि लक्षण
शास्त्राणि (।) ततो व्यवहारेपि विमतिरेव व्यवहारिणां । तथाहि ।
तस्माद् (।)
अतएव शास्त्रेणैव सर्व्वज्ञोक्तेन मोहो निवर्त्तते नान्येनेत्यनेन प्रकारेण सर्व्वज्ञवचनमेव
प्रमाणमिति परमार्थतः130
सर्व्वज्ञज्ञानमेव प्रमाणं131
नापरमिति परमार्थः ।
कार्यकारणभावो ह्यतीतानागतवर्त्तमानकालदेशव्यापिसाहचर्यरूपो न खलु सर्व्वज्ञ
ज्ञानस्य132
विषयः । वर्तमानसन्निहितदेशमात्रग्रहणात्133 प्रत्यक्षस्यानुमानस्य (तत्र) चानव
तारात् । सर्व्वंज्ञत्वं कथं ज्ञायते शास्त्रकारस्य चैतदुत्तरत्र वक्षयामः ।
(२) अज्ञातार्थप्रकाशकं प्रमाणं—
अथवेदं प्रमाणलक्षणं (।) प्रकाश्यतेऽनेनेति प्रकाशः । अज्ञातस्यार्थस्य प्रकाशकं ज्ञानं
प्रमाणं । सांवृतन्तु ज्ञानमज्ञातस्यार्थस्य (न)प्रकाशकः । नहि (तेन)134
कश्चिदज्ञातोर्थः
प्रकाश्यते । ग्रहीतानामेव रूपादीनामनेन पृथग्विकल्पनात् । प्रतीत्य परामर्शात् तु तदैक
मिति व्यवह्रियते ।
ननु यद्यविसंवादनमन्तरेणाज्ञातप्रकाशनं प्रमाणं (।) द्विचन्द्राद्याकारस्यपि प्रमाणता
प्रसङगः । न (।) अर्थग्रहणादसौ हि नार्थः । नन्वर्थत्वमविसंवादे (न)१ च ज्ञायते ।
ततश्चाविसंवादि ज्ञानमिति तदेव लक्षणमिति कथं लक्षणान्तरं । न (।) सामर्थ्याक्षिप्तस्या
लक्षणत्वात्135 ।
उक्तसामर्थ्यतो यस्य प्रतीतिस्तन्न लक्षणं । तथान्यस्यापि वस्तुत्वप्रभृते136 र्लक्षणार्थता ।। २२३ ।।
लक्षणं हि यदुपात्तं साक्षात् तदेव । येन तु तल्लक्षणं साध्यते । तदपि सम्भवित्व
मात्रेण न लक्षणम् (।) अन्यथा वस्तुत्वादिकमपि भवेत् ।
अथापि स्यात् (।) न वस्तुत्वं तत्रोपयोगि साक्षादन्यथा वा । अविसंवादस्तूपयोग्य
र्थत्वज्ञापने ।
सत्त्यमेतत् । तथापि अज्ञानार्थग्रहणेन गृहीतग्राहि प्रत्ययः शक्यः परिहर्त्तुं नाविसंवादि
ग्रहणेन । तत्राप्यविसंवादग्रहणात् । न चाविसंवादेनार्थत्वगतिः137 (।) अविसंवादेपि
संवृतिसतामर्थत्वस्यासिद्धेः । कथन्तर्ह्यर्थत्वगतिः । परामर्शादिति मन्तव्यं ।
अथवार्थशब्देनात्र परमार्थ उच्यते । अज्ञातार्थप्रकाश इति परमार्थप्रकाश इत्यर्थः ।
परमार्थश्चाद्वैतरूपता (।) तत्प्रकाशनमेव प्रमाणं । तथा च प्रत्ययादिस्वरूपस्य स्वतो
गतिरिति । उक्तञ्च (।) प्रामाण्यं व्यवहारेणे ति ।
तत्र पारमार्थिकप्रमाणलक्षणमेतत् (।) पूर्वं तु सांव्यवहारिकस्य । यद्यज्ञातार्थप्रकाशकं
प्रमाणं सामान्यार्थोप्यज्ञात एव प्रथमभाविना स्वलक्षणज्ञानेन तदुत्तरालभाविना प्रकाश्यते ।
तथा सम्बन्धादिरपीति तस्यापि प्रामाण्यं प्रसज्यते । न च गृहीतग्राहित्वात् स्मृतिरेवैषा ।
अगृहीते स्मरणाभावात् ।
तदेवाह ।
प्रमाणमिति सम्बन्धार्थः । स्वसंवेदनेन च सामान्यं ज्ञानात्मभूतं प्रतीयत इत्यत्रा-
031
विवाद एव । ततो यदि परभूतं ज्ञानात् सामान्यमर्थाभूतं138
(।) सर्व्वथा तज्ज्ञानं प्राप्तं ।
(न ।)139 अत्रोच्यते (।)
सत्यप्यगृहीतग्रहणे सामा/?/न्यज्ञानस्य न प्रमाणता । किङ कारणम् (।) अविज्ञाते
स्वलक्षणे (।) यज्ज्ञानं तदेव प्रमाणमभिप्रेतं न सामान्येपि । अज्ञातसामान्यज्ञानं न
प्रमाणम् (।) अपि त्वज्ञातस्वलक्षणज्ञानं । कुत एतत् (।) स्वलक्षणविचारतः । अस्ति
नास्तीति वा व्यवस्थापनार्थं प्रमाणं प्रेक्षावतापेक्ष्यते । स चास्तिनास्तीति वा विचारः
स्वलक्षणस्यैव न सामान्यस्य तत्र पुरुषाणामनादरात् । यत्र च विचारणा तत्र तदुत्तरकालं
तत्स्वभावं वा प्रपद्यते प्रमाणमिति न सामान्ये वृत्तिः प्रमाणस्येति न तत्र प्रमाणं ।
अथ सामान्यानवबोधे कथं तदेवेदमिति ज्ञात्वा प्रवर्तते (।) न (।) सामान्यानवबोधेप्य
त्यन्ताभ्यासात् प्रवर्त्तनात् । अथ तत्रापि सामान्यमेव प्रवर्त्तकं (।)अज्ञातस्य प्रवर्त्तकत्वाज्ञानात् ।
ज्ञानेपि तस्य यदि स्वलक्षणं न ज्ञायते न प्रवर्त्तते । स्वलक्षणज्ञाने तु सामान्यापरिच्छेदेप्य
भ्यासात् । ततस्तत्राप्रवर्त्तकत्वात् दुन्मुखत्वाभावाच्च न सामान्ये ज्ञानं३ प्रमाणं ।
भवतु वा प्रवर्त्तकत्वं । तथापि तदुन्मुखत्वाभावान्न तत्र प्रमाणं । स्वसंवेदनेन तु
ग्रहणे स्वलक्षणमेव तदिति स्वलक्षणविषयमेव प्रमाणं । यदा तु पुनरद्वैतं तदा न सामान्यं (।)
तत्र च स्वलक्षप्रतिपत्तेरूर्ध्वं अन्यद्वेति व्यपदेशः ।४
140 अवित् । न विद्यते विदस्येति अवित् । क्व(।) ज्ञाते स्वलक्षणे तज्ज्ञानमिति । न खलु पूर्वोत्तरभावे प्रमाणं येन स्वलक्षणज्ञानादुत्तरकालमेतदिति विलक्षणता 141 वा प्रतीयते ।
स्वलक्षणमेवात्र सर्व्वत्र ज्ञाने प्रतीयते । न च भेद इति ।
किमर्थन्तर्हि प्रत्यक्षानुमानभेदो बाह्यविज्ञानभेदश्च भगवता निर्द्दिष्टः । संक्लेशव्य
वदाने चेत्याह । अभिप्रायात् अविसंवादाच्च । विनेयज्ञानाभिप्रायात् तमपेक्ष्य142
स्वसंवेद
नमेवैकं प्रत्यक्षं प्रमाणं नापरं । प्रपञ्चविनेयानुरोधात् । यथा यथा विनेयानां तत्त्वमार्गा
नुप्रवेशः सम्भवी तथा तथा भगवतो देशनेति न विरोधः । कुत एतत् स्वलक्षणविचारतः ।
विचार्यमाणं हि सकलमेव विशीर्यते । नाद्वैतादपरन्तत्त्वमस्ति । तदेव क्रमेण भगवता
विचार्यते । अक्रमेण विचारयितुमशक्यत्वात् ।
(३) भगवतः प्रमाण्यम्
अथ बहिर्विपरिवर्तमानस्य कथं स्वसंवेदनता143 नैतदस्ति ।
एतच्च पश्चाद् दर्शयिष्यते ।
144032
भगवतस्तर्हि कथं प्रामाण्यं (।) प्रत्यक्षानुमयोर्हि व्यवहारमात्रेण प्रामाण्यं । न
भगवतः (।) तद्धि परं प्रमाणं ।
अत्रोच्यते ।
तद्वत् प्रमाणं भगवान्;
तथागतो हि भगवान् । तद्वानिति कृत्वा प्रत्यक्षरूप एव भगवान् प्रमाणं पश्चात्
प्रतिपादयिष्यते ।
कुत एतत् प्रतीयते । तदाह ।
भ्रान्तिनिवृत्त्यर्थं । यतस्तस्य भगवतो भूतोक्तिस्ततः स एव सर्व्वज्ञो नापरस्तथा च
प्रमाणं । आह च । साधनापेक्षा ततो युक्ता प्रमाणता । भगवत एव न वेदस्य ।
वेदस्य हि न किञ्चिदर्थसम्बन्धे प्रमाणं । अस्य तु भूतोक्तिरेव प्रमाणं प्रमाणविषये ।
अन्यत्र तु वक्ष्यामः ।
अथवा परमार्थतस्तद्वदद्वैतावबोधादेव प्रमाणं भगवानपि न सर्व्वार्थपरिज्ञानतः ।
सर्व्वार्थपरिज्ञानन्तु लोकव्यवहारेण सांवृतमेव । तथा चोक्तं अद्वयं यानमुत्तमं ।145
३. ईश्वरनिषेध-वार्त्तिकं तृतीयम्
१ ईश्वरादेरप्रमाण्यम्
(१) नित्यानित्ययोरप्रमाणता
ननु यदि प्रत्यक्षानुमानयोरप्रमाणत्वात् सर्व्वज्ञ एव प्रमाणं तदा नित्य एवेश्वरादिको
ज्ञाता प्रमाणं । वेदो वा नित्यः प्रमाणं (।) ततः किमन्यान्वेषणेनेत्याह ।
नित्त्यादुत्पत्तिविश्लेषादपेक्षाया अयोगः । न खलु सदा स्थायि नित्यं प्रमाणमस्ति
प्रमाणाभावात् । किञ्च (।) वस्तुसतो गतिः प्रमाणं न यस्य कस्य चित् । न च वस्तु
सर्व्वदा विद्यते । येन गतेः सर्व्वदा भावः । ततो ज्ञेयानित्यतया तस्या अपि अध्रौव्यं ।
ननु ज्ञेयानित्त्यतया ज्ञानमनित्त्यमिति कुतः । ज्ञेयरूपे व्यापारो वा प्रमाणत्वं ज्ञेय
रूपादुत्पत्तिस्तत्स्वभावता वेति न पक्षान्तरसम्भवः । अत्र व्यापृतस्याव्यापृतस्य वा यदि न
विशेषः कथं व्यापारेतरविवेकः ।
अथ दर्प्पणस्थानीयं तद् यो य एवार्थः सन्निहितः स एव प्रतिभाती (ति) चेत् ।
अर्थं एव तर्हि स्वसामग्रीतस्तथा भवति न ज्ञातुर्व्यापारः ।
अथ निश्चलोन्मिषितलोचनोपि समापततोर्थान् क्रमेण पश्यति (।) न कदाचिदपरापर
विलक्षणव्यापाररूपता परोपलक्ष्यते, तथा तस्यापि ।
अत्रोच्यते ।
तस्मादर्थ एवायम्भूतो नास्य ग्रहणे व्यापारः कस्यचिदिति कथं प्रमाणं ।
अथ सोऽर्थो भवतु प्रमाणं146 स तु तत्सम्बन्धीति तेन ज्ञात उच्यते । नैतदुपपन्नं यतः ।
न खलु नित्त्यमव्यतिरेकं क्वचिदुपयोगीति शक्यं विज्ञातुं ।
अथ तेन दर्शनादुपयोगः । नतु तदेवेदं परिचोदितं कथन्तेनेति147 । तस्मिन् सति
तथाभूतमिति तेनेत्युच्यते आकाशादिष्वपि तदिति कथं स एव द्रष्टा । आकाशस्य तदर्थ
निर्देशाभावात् स एव द्रष्टा नाकाशादिः ।
अथापि स्याद् (।) यद्यपि ज्ञानं ज्ञेयानित्त्यतया व नित्त्यं यस्तु ज्ञाता स नित्त्यः ।
न चान्यस्यानित्त्यत्वेन्यस्यापि तदिति युक्तमुच्यते । क्रमजन्मनो ज्ञानस्य ज्ञेयानित्यत्वेन (।)
नित्यादुत्पत्तिविश्लेषात्;
नित्त्यादुत्पत्तेरयोगात् । नित्त्यं व्यापि चाकाशकल्पं न कस्यचित् कारणमिति प्रति
पादितं । तेनैव च स्वरूपेण यदि जनयति सर्व्वदा जनयेद् विशेषाभावात् (।) विशेषे
चानित्त्यत्वं ।
150 034
अथाविशेषेपि सहकारिभावाभ्यां कार्यस्य क्रम इति चेत् । (न ।) 151 अपेक्षाया उपयोगात् ।
यदि सहकारिणामेवान्वयव्यतिरेकित्वं तेषामेव कारणत्वन्न तु तस्य । तस्यापि तदपेक्षया
कारणत्वमिति न युक्तं । अपेक्षमाणस्य तदितरावस्थयोर्व्विशेषाभावात् । अपेक्षकत्वं न
प्रतीयते स्वयमपरेण वेति वचनमात्राद् यदि परमेतत् प्रत्येयं । अत एवाह ।
अपेक्षाया अयोगतः ।
नित्त्यं हि सदैकरूपमपेक्ष्यमाणेनोपकर्त्तुं न शक्यं । न हि तत्रानुपकारिणस्तेनापेक्ष्यतां ।
एवन्तर्हि अनित्त्यं भविष्यति प्रमाणं न तु दानादिसाधनापेक्षं (।) वैराग्यैश्व (र्य) १ योगस्य
पूर्व्वपूर्व्वसजातिकारणादुत्पत्तेर्न तत् कदाचिदन्यथाभूतं सदन्यथोत्पत्तिमत् ।
अत्रोच्यते ।
अनित्त्येपीश्वरे नास्ति प्रमाणता (।) न तत् प्रमाणं । कुत एतत् । कथञ्चिन्नो
पकार्यत्वात् । यो हि कथञ्चित् केनचिदुपक्रियते उपहन्यते वा (।) तस्य रागाद्यनुभवे
रागादिप्रतिपक्षावबोधादिसम्भवे तद्देशना (।) सत्त्वस्नेहेन करुणया च देशनासम्भवात्
प्रमाणन्तद् भवति लोकस्य । न स्वरूपसत्तामात्रात् । न च तस्येयं व्युत्पत्तिः । न ह्यखण्डितः 152
पण्डितो भवति ।
अथ स्वभावासिद्धिन्तस्य सकलपरिज्ञानं । अयुक्तमेतत् । रागादीनाम(न)नुभवे कथं
संसारप्रपंच153स्वलक्षणावबोधः । अनुभवे संसार्येवासाविति कथं प्रमाणता । न रागाद्यव
बोधादेव रागादिप्रपंचप्रतिपक्षदेशना रागादियोग एव सर्व्वज्ञता अविनाशिताऽतुलशक्तियो
गश्चेति स एव प्रमाणं ।
तदप्ययुक्तं ।
अथ वस्तुवृत्तमेतन्न रागादियोगितामैश्वर्यसम्भवस्ततस्तत्प्रतिपक्षदेशनेति ।
न हि यद्वैराग्यादिप्रतिपक्षभावनातो भवतीति ज्ञायते तदन्यथापि भवतीति ज्ञायते ।
किंच ।
अयमप्यर्थः (।) अनित्येप्यप्रमाणता न विद्यते प्रमाणमस्मिन्नित्यप्रमाणन्तस्य भावोऽ
प्रमाणता । न तत्र प्रमाणमस्तीति यावत् ।
अथाराधनक्रमेण रागाद्युपशमप्रकारेणानुग्रहकार्यसौ धर्म्मोपदेशेनानुग्रहस्यान्यथा
कर्त्तुमशक्यत्वात् (।)
तदसत् यतः ।
किंच ।
ईदृशी (तस्य)154 सा शक्तिः कारणात् कुत आगता ।
नन्वीदृशी तस्य (शक्तिः)#pva_35-1 सर्वदर्शनानुग्राहकरूपा कुतः कारणादागता । अत्र
वस्तुस्वभावैरुत्तरं वाच्यं यत एवं भवन्तीति चेत् । तथा हि ।
तदेतदसदत्यन्तं ।
न त्वदृश्ये (।) तथा हि । अत्र वस्तु स्वभावैरुत्तरं वाच्यमिति कोऽर्थः प्रत्यक्षादि
प्रमाणसिद्धमेतत् । कथमेतदिति न पर्यनुयोगस्य विषयः । यथा प्रत्यक्षेणोपलब्धो वह्निर्दाह्यं
दहन न पर्यनुयोज्यते कथन्दहतीति । यदि भूतत्वेन व्योमापि दहेत् । अथ स्वभावात्
प्रतिनियतात् तदेश्वरोपि सकलगुणहेतुविकलो गुणवानिति समानं । न समानं (।) दृष्टत्वा
दग्नेरपरस्य च विपर्ययादिति नेदमुत्तरं । अन्यथा यत्किकिंचदात्माभिमतविधाव (न्य)#pva_35-1
निरुत्तरस्तत्र कृतं (? तः तदुत्तरं वस्तुस्वभा)#pva_35-1 वैरिह वाच्यम् (।) इत्थं तथोत्तरं स्याद्
विजयी समस्तः । तस्मादनित्त्येपि(।) अपिशब्दान्नित्त्येप्यप्रमाणतेति सूक्तं ।
(२) ईश्वरदूषणम्
नन्वस्ति155 प्रमाणं ।
अन्यथान्यस्यापि करणस्यानुमानं न स्यात । तथा हि । यद् वस्तु स्थित्वा स्थित्वा
प्रवर्त्ततेऽभिमतसाधनाय तद् बुद्धिमत्कारणाधिष्ठानाद् (।) यथा वास्यादि द्वैधीकरणादौ (।)
न खलु वास्यादयः स्वयमेव प्रवर्त्तन्ते । प्रवर्त्तने वा सदा प्रवर्त्तनं भवेत् । स्थित्वा च
प्रवर्त्तनम (भिमतं) प्रेक्षावता केनचित् प्रवर्त्तकेन भवितव्यं । यथायत्नं (सं) स्थानविशेष
पारिमाण्डत्यादियोगि तच्चेतनावदुत्पादितं तद् यथा घटादिकं । तथा यदर्थक्रियाकारि
तच्चेतनावत्पदार्थप्रेरितं, तद् यथा घटादयः । अत्राह ।
य एते कार्यहेतुत्वेनाभिमताः स्थित्वा प्रवृत्त्यादयो नैते सम्यग्घेतवः । यत एषु सत्स्व
पीष्टस्यैव सिद्धिः सिद्धसाधनं । न च सिद्धः पक्षो भवतीति ।156 असिद्धस्य पक्षत्वात्
यत्र हि विवादस्तत्साधनाय साधनोपन्यासो युक्तः । कर्म्मलक्षणचेतनाधिष्ठितं च सकलमिष्यते ।
यतः (।)
036
कर्म्मजं लोकवैचित्र्यं चेतना मानसं च तत् ।157
ननु कर्म्मजमेवेति न साध्यते (।) कर्म्मव्यतिरिक्तेश्वरचेतनाधिष्ठितत्वस्य158
साधनात् ।
तथा चाह । तच्चेश्वरचोदनाभिव्यक्ताद् धर्म्मादेव ।159
न चेश्वरचोदनाधिष्ठित160
कर्म्मपूर्व
कत्वसाधने सिद्धसाधनं ।
नैतदस्ति । कर्म्मं चेच्चेतनारूपमस्ति161
तदा परचेतनासाधनं व्यर्थं । तत् किलाचेतनं
तत् प्रवर्त्तितुमशक्तं । इदन्तदिति निरूप्य प्रवृत्तिदर्शनात् । ततः स्वयं वा निरूप्य प्रवर्ति
तव्यं निरूपकप्रेरणया गत्यन्तराभावात् । तत्राचेतनानां स्वयं निरूपणाभावात् । परनि
रूपणमपि यदि न स्यादप्रवर्त्तनमेव प्रसक्तं । तस्मात्१ प्रेरकेन चेतनावतान्येन भवितव्य
मित्यभिप्रायः । तत्र (।)
तथा चासिद्धो दृष्टान्तः ।
स्वस्यामर्थंक्रियायामित्यनवस्था (प्रवर्त्तते)162
अज्ञो हि चेतनावानपि निरूपणासमर्थं: । स घटादिवदपरेण निरूपणासमर्थत्वादपरेण
प्रेर्यते नेश्वरस्तस्य निरूपणासमर्थत्वादिति नानवस्था ।
तदप्यसत् ।
कर्त्तृत्वसिद्धौ सर्व्वज्ञत्वसिद्धिः पुनस्ततः163 (।) कर्त्तृत्वमित्यवस्थायामत्रान्योन्याश्रयो महान् ।। २५५ ।।
यदि हि सर्व्वस्य कर्त्तासाविति प्रसिध्यति परमेश्वरस्तदास्य स्यात् सर्व्वज्ञता नान्यथा ।
सर्व्वज्ञतायाञ्च प्रेरकत्वमन्यथा तस्याप्यपरः प्रेरक इति सैवानवस्था ।
किञ्च । यद्यसौ सर्व्वज्ञः किमज्ञं जनमसद्व्यवहारे164
प्रवर्त्तयति । विवेकवन्तो हि
सदुपदेशदायिनो दृष्टाः । स तु विपर्ययप्रवृत्तमपि जनं जनयति । तत् कथं प्रमाणं ।
अथोपदेशमसौ सन्तमेव करोति तेन प्रमाणम् (।) अधर्म्मकारिणन्तु फलमसदनु
भावयति । तत उचितफलदायी165 विवेकवानेव ।
तदप्यसत् । यस्मात् ।
प्रथमन्तावत् पाप एव प्रवर्त्तयति (।) ततस्तद्व्यावर्त्तनाय धर्म्म इति केयं प्रेक्षापूर्वं
कारितेश्वरस्य । तदिदमायातं प्रक्षाल्यपरित्यक्ष्यामीति ।
037
अथ पापे प्रवर्त्तयति तत्कर्म्माधिष्ठित एवासौ तथा सति प्रेक्षाक्रियाहानिः । तदपि
कर्म्म कस्मात् कारयतीति समानः प्रसंगः ।
अथाधर्म्ममसौ न कारयति । अधर्म्मकारिणन्तु तत्फलमनुभावयति । तदम्येश्वरवत् ।
तदप्यसारं ।
अथाशक्त एवासौ तथा सति (।)
किञ्च ।
अधर्म्मस्य फलं भुंक्ते लोकः किं नेश्वराद् विना ।
किञ्च ।
सकलशास्त्रलक्षणपरस्परविरोधबाधितसत्त्यासत्त्योपदाना(? देशा)166 दसौ प्रमाणमिति
महदद्भूतं प्रामाणिकत्वञ्च ।
अथ न सकलशास्त्रार्थक्रिया तदा शास्त्रान्तरवदेव नेश्वरेण सर्व्वं व्यधायि ।
अथ धर्माधर्म्मप्रेरितोसौ सकलमेव करोति नान्यथा पदार्थसम्भवः । तथा सति
सर्व्व एवात्मा प्राकृतजनानां धर्म्माधर्म्मादि167
प्रेरणादेव करिष्यतीति व्यर्थमीश्वरकल्पनं ।
सर्व्वस्य168 कर्त्ता नात्मा चेत् सर्व्वस्येति यदीष्यते ।
प्रधानभूतः कर्त्तासौवरप्राप्तिः ततोर्थिनां । न हि सर्व्वज्ञतामात्रादस(?श)169 क्तः सेव्यते परैः ।। २६६ ।।
तदप्यसत् ।
न चाज्ञता171 कुलालादेः स्वकार्य्येस्ति वृथेश्वरः । कर्म्मंसामर्थ्यसिद्धौ च नोपयोगः कथं क्रिया ।। २७० ।।
038
किञ्च ।
तस्मात् स्थित्वा174 प्रवृत्तानामीश्वरप्रेरणं कुतः । प्रधानपुरुषादीनान्नातः कर्त्तृत्वनिश्चयः ।। २७५ ।।
संस्थानसङ्गतत्वादिति175
चायमप्यहेतुः । न हि संस्थानं सकलमेव पुरुषपूर्व्वकं
दृष्टं (।) बीजादिकारणविशेषमात्रेणापि तस्य दृष्टेः । वृक्षादिसंस्थानवत् । तत्र यथा (।)
न कुलालादिस्तस्य संस्थानादेर्जनकः । न खलु बीजविजातीयं संस्थानमुत्पादयितुं
वृक्षस्य सुशिक्षितोपि चेतनावान् समर्थः ।
ननु(न) 176
मृत्पिण्डस्य संस्थानं कुलाल उत्पादयन्नुपलभ्यते । न (।) मृत्पिण्डस्यापि
तादृशत्वात् । तादृग्वर्ण्णसंस्थान (रूप)४ एव मृत्पिण्डः । यथा वटबीजं वटवृक्षवर्ण्ण
संस्थानवत् । तदपि कथमिति चेत् । अत्रोच्यते ।
बीजकारणं हि वृक्षस्तदानीं बीजकालकार्ये177
नास्ति । ततो न तस्य संस्थाकारणत्वं ।
नापीश्वरस्य । विजातीयवृक्षकारणवीजादसंभावादीश्वरस्य तत्कारणत्वे किमिति न विजातीय
बीजादपि तद् वृक्षसंस्थानं । तस्माच्छक्तिरूपेण विद्यमानमेव वृक्षबीजे वृक्षसंस्थानमाविर्भवति ।
यथान्धकारव्यवस्थितो बालदारकः178
प्रदीपात् । तथा मृत्पिण्डादपि संस्थानमाविर्भंवति
कुलालात् । कुलालस्यापि घटादिविधाने संस्थानं शक्तिरूपेण संस्थितं संस्थानादेव । ततः
कुलालादिः पुरुषः साक्षिभूत एवोपभोक्ता । न तस्य व्यापारः कश्चित् । तदपुभोगेच्छया
तथा तथा शक्तिरूपस्य प्रधानस्य प्रवृत्तेः । तथा चाह ।
ततश्च बुद्धिमत्कारणविपर्ययस्य प्रसिद्धिः । अथ प्रतिपुरुषमात्मनां भेदादपरेण
रागादिरहितेनात्मना सर्व्वेषामीश्वरेण भवितव्यं । अन्यथा प्रतिनियतवर्ण्णंसंस्थानादयः संसारि
पुरुषाणां केनोपदर्शिताः । यत्रोपभोगेच्छ्या प्रधानस्य प्रवृत्तिः । उक्तमत्र ।
यथा सामाजिकानामनाद्युपदेशदर्शनाद् दिदृक्षा विनिवृत्यर्थं नटस्य नाटकप्रयोगः तथा
संसारिपुरुषाणमपि ।
039
तस्मात् पर्यंवसाने सुखाद्यर्थितरूपतादर्शनात् सुखादिरूपेण सकलस्य कारणेन
भवितव्यं । तावता परिसमाप्तमिति नेश्वरसिद्धिः । (अ) 180
युक्तञ्चैंतत् ।
२—प्रधानकारणतानिरासः—
प्रधानमेव तर्हि कारणं भविष्यतीति सांख्याः :
अत्रेदमुच्यते ।
नतु वर्ण्णादि संस्थानं प्रधानस्यास्ति भाविकं । वर्ण्णादि182 कार्यकरणं प्रधानस्य मतं कथं ।। २८६ ।।
न खलु कारणमकारणमुपलभ्यते । तत उपलब्धरूपानुसरणेनैव कारणकल्पना ।
अथ भेदानामन्वयादन्वयिना केनचित् तद्रूपेण कारणेन भवितव्यं । कारणस्य तु न
केनचिदन्वय इति कथमन्वयस्यापरं कारणं । घटशरावादीनां हि भेदे मृद्रूपान्वयादेक
मृत्पिण्डपूर्व्वंकता । न तु मृत्पिण्डस्यापरमृत्पिण्डपूर्व्वकतैकत्वान्मृत्पिण्डस्य । मृत्पिण्डदण्डा
दीनामप्यपरमेकं यावदेकमेवान्ते(न्वयि)184 ।
तदप्यसत् । उक्तं185
सत्त्वादीनां पुरुषाणाञ्चापरं कारणं प्राप्तं (।) भवतु तर्ह्येकमेव
किमपि कारणं (।)
तदप्यसत् ।
वस्तु वस्त्वित्यन्वयात् कार्याणां वस्तुरूपता कारणस्य । न च मृदादिरूपादपरा
वस्तुरूपता । ततोमृदादिरूपतैव कारणस्य प्राप्ता । तथा सति सर्व्वात्मकं प्रधानमिति प्राप्तं ।
नैतदस्ति ।
कारणं हि तत् तस्य यद्यदन्वयव्यतिरेकावनुवर्त्तते न तु तद्रूपं । तथा च वह्नेर्धूमो
मेघादिभ्यो जलमिति186 । तत्र नास्ति सरूपतेति न कार्यकारणभावः स्यात् ।
अथ तत्राप्यस्ति सरूपं किमपि कारणं तथाभूतकार्यत्वादेवानुमीयतां । अनुमीयतां
यदि सारूप्येण कार्यकारणभावस्य प्रतिबन्धोस्ति । न चास्ति व्याप्तेरभावात् । येन
व्यभिचारस्तस्यापि पक्षीकरणमिति चेत् (।) एवन्तर्हि न किञ्िचदनैकान्तिकं नाम स्यात् ।
येन येन व्यभिचारस्तमेव पक्षीकुर्यादिति । तस्मादनवस्थाप्रसङ्गादसदेतत् ।
187 188
040
३. न कर्मकारणता
अथाप्युच्यते189 (।)
न खलु कर्म्मापि शुभाशुभादिकमस्य जगतो वैचित्र्यस्य कारणमिति ज्ञायते । आस्ता
न्तावदेतदित्यन्यदुच्यते । यदुक्तं रागादिमानपि सकलशक्तियुक्तो भविष्यति । ततः क्रीडाद्यर्थं
जगद्वैचित्र्यकरणं ।
तत्रोच्यते ।
भावनातः समुद्भूता वासीचन्दनकल्पना । नरकादिभयं दुःखन्न191 बाधत इति स्थितिः ।। २९५ ।।
तस्यैवैकस्य तदिदं व्यक्तमीश्वर192 चेष्टितं ।
किंच ।
यो हि ग्राममेव मुष्णाति साधुजनसमवाये तस्यारण्ये त्राणासम्भविनि का क्षमा ।
तथा यस्तारतम्यसम्भविन्यामवस्थायां तदनुगमने प्रकर्षसम्भवं प्रत्याचक्षीत । तस्य निरनुगमे
वस्तुनि न प्रतिक्षेप इति क एवं प्रत्येति । तस्मात् ।
४. न परमाण्वादिकारणता
गुणतारतम्यदर्शंनाद (भि) 193
योगविशेषात् सामर्थ्यसम्भवः प्रागसमर्थानामपि पक्षादिति194
युक्तमेतत् । अत्यन्तविलक्षणस्य तु स्वभावसिद्धसामर्थ्यात्मनोनुगमरहितस्य साधनासम्भव एव ।
किंच ।
न खलु परमाणुभ्यो व्यतिरिच्यमानशरीरं195 द्रव्याश्रितमस्ति । परमाणव एव
केवलास्ततो वैधर्म्येण परमाणव इति कथमुच्यते ।
041
अथ लोकप्रतीतिमात्रव्यवस्थापितं तदुपादीयते । तदप्ययुक्तं । कल्पनारचितमात्रस्या
साधनत्वात् । अथ परमाणव एव तेन रूपेणोच्यन्ते(।) तथा सति परमाणवोपि कार्या एव(।)
ततः कार्यंत्वादेवेत्ययमेव हेतुरुपन्यासार्हः । अथ तत्राभूत196 भ्रान्तिजनकाः परमाणव एव
तथोच्यन्ते । एवन्तर्हि (।)
अथवा दृष्टान्ते संशयः । तेनैवेश्वरेण संशयोऽनैकान्तिकता संस्थानस्य(ा/?/) 197
सिद्ध
त्वात् । स्वरूपमेवार्थक्रियाकारिहेतुत्वेनोपादीयते । तच्च तथा स्वरूपमीश्वरस्यापीति
तेनैव(ा) २नैकान्तः । न हि स ईश्वरः स्थित्वा स्थित्वा प्रवर्त्तते अर्थक्रियाकारी वान्येन
प्रेर्यमाणः । अथासौ स्वयमेव शक्तस्ततः परेण न प्रेर्यते । कुलालादयोपि यत्र शक्ताः
परेण प्रेर्यन्त इत्ययुक्तमेव । तेऽसमर्था एवेति चेत् । दृष्टस्य समर्थत्वेन कथमसामर्थ्यं (।)
तस्यापि तर्हि दृष्टस्यानुमानेन समर्थतास्ति । अनुमानेनापरानुमाने न कुलालस्य सामर्थ्यं
केवलस्येति चेदीश्वरस्य अपरेश्वरानुमानमित्यनवस्था ।
किंच ।
नहि परमाणूनां परमाणुत्वमेवंविधमवगतं येन संस्थानाभावः ।
अथैवमुच्यते । यत् स्थूलं तदवयवोपचयपूर्व्वकं यथानेकविन्दुसमाहाररूपो जल
संघातः198 ।द्व्यणुकपर्यन्तं च स्थूलन्ततोनेकसंघातरूपमिति परमाणुसिद्धिः ।
तदप्यसत् ।
अष्टाणुकात् परं रूपमस्तीति कुतो गतिः ।199 एतदष्टाणुकं रूपमन्यथा वेति का प्रमा ।। ३०७ ।।
द्व्यणुकादि यदा(ऽ)200 दृष्टं किमपेक्ष्यास्य पीनता । अनुमीयमानापेक्षा चेदनवस्था प्रसज्यते ।। ३०९ ।।
अथापि स्यात् (।) द्वयोःपरमाण्वोः संयोग उपजायते पदार्थान्तरं न तु संस्पर्शः सर्व्वा
त्मनैकदेशेन वा ।
तदप्यसत् ।
042
अथान्योवयवी202 तत्र तत्रैकाकारता धियां । नित्त्यत्वात् परमाणूनां सान्तराणां दृशिर्भवेत् ।। ३१५ ।।
अवयवसंयोगपूर्व्वकञ्च स्थूलमिति कुत एतत् । यदि नाम मृत्पिण्डादावुपलब्ध
मङकुरादौ तु नोपलभ्यत एव । तथा हि203 ।
विद्यमानानामेवावयवानां संयोग इति समयः । न च स्थूलरूपकाण्डादेः प्राक्
तदवयवानामुपलम्भस्ततः कथं संयोगः । कुतश्चावयवीति सकलमन्धकारनर्त्तनं ।
अथाकाशदेशव्यापितः परमाणवो दृष्टसहायाः सञ्चीयन्ते ।
तदयुक्तं ।
तवाप्रमा सा दृष्टिश्चेदीश्वरो नेति गम्यतां ।
अपि च(।) न कार्यमित्येव संस्थानमित्येव वस्त्वित्येवाभिमतकारणमनुमापयति । न
खलु पुरुषेच्छया हेतवः साध्यसाधनाय प्रवर्त्तन्ते । अन्यथेश्वरविपर्ययोपि स्यात् तस्यापि
सिद्धिप्रसङगात् । ततः204
न किञ्चित् कस्यचिन्न सिध्येत । अपि तु यादृशाद् यथा यदुपलभ्यते
तादृशमेवानुमापयतीत्याह ।
यादृगधिष्ठातुर्भावाभावादनुवृत्तिकारि दृष्टं । यादृशो वाधिष्ठातुर्भावाभावानु
वर्त्तमानं यदुपलब्धं तादृशात्तु तदेवानुमीयत इति युक्तं । सन्निवेशादि205 (।) सन्निवेशो वस्तुत्वं
स्थित्वा प्रवृत्तिर्व्वा (।) यादृशी यादृशादुपलब्धा तादृश्यास्तादृगधिष्ठात्रनुमानमुपपन्नं
नान्यथेत्याह ।
यदि हि संस्थानभेदं परित्यज्य संस्थानशब्दमात्रवाच्यं कर्त्तृविशेषानुगमं निरस्य
हेतुरुपादीयते वस्तुत्वमात्रं वा तदा युक्तानुमितिः । स्यात्पाण्डुद्रव्यादिव वह्नौ । तत्र हि
043
पाण्डुविशेषोवधारणीयो यो धूमगतः । धूमादेव तदनुमानं तर्हि किं पाण्डुतया ।
अत्रोच्यते ।
धूमगतपाण्डुत्वादिति कोथं/?/ । अग्न्यन्वयव्यतिरेकानु206
विधानमेव कथमवगन्तव्यम्
(।) अत्रापि धूमत्वमग्न्यविनाभावीति कार्यकारणभावस्य ग्रहणेनानुमा भवेत्(।) तथा च
सुतरामीशो न सिद्धिमधिगच्छतीति लाभमिच्छतो मूलस्यापि नाशः । तस्माद् वस्तुभेदे दृष्टान्ते
यो दृष्टो वस्तुभेदः संस्थानविशेषे घटादौ पुरुषाधिष्ठानविशेषस्तस्य शब्दसाम्यादभेदवतो207 न
युक्तानुमितिः । तथेश्वरस्यापीत्येकान्त एषः ।
अथापि स्याद्(।) यदि पाण्डुत्वाद् विशेषरहितादनुमानं प्रवर्त्तयेमहि ततः प्रत्यक्षबाधा
स्यात् न सर्व्वस्य तु पाण्डुतायामग्निसंसर्ग्गः प्रत्यक्षतो विपर्ययस्य दर्शनात् । ईश्वरानुमाने तु
बाधेत तदनुमानं ।
नैतदस्ति ।
न खलु वल्मीकस्य कुम्भकारकरणेनुमाने बाधकमस्ति । न न दर्शनमेव बाधकं (।)
यदि कुम्भकारः कर्त्ता भवेदुपलभ्येत । ईश्वरेपि किमनुपलम्भः(।) नन्वेवमदृष्टं कर्म्मापि न
कल्पनीयं । तत्किमिदानीं शुषिरमित्येव जानुप्रवेशः । अथ कर्म्मापि परिकल्प्यापर ईशः
परिकल्प्यते । ततस्ततोऽन्योपीत्येवमनवस्था । किञ्च
अथ दण्डमृत्पिण्डचक्रकरप्रक्रमानुगमो न वल्मीक उपलभ्यते । यदि तर्हि महतीयं
भवतः सूक्ष्मेक्षिका । तदा पर्व्वतादिष्वप्यनियतसंस्थानेषु (न)208
प्रेक्षावद्वृत्तिरुपलभ्यते
इत्येषामपि क्रिया न किमर्द्धजरतीयमालम्बते ।
अथ पृथिवीधारणमात्रकरणे पर्व्वतादेरुपयोगः । किन्तत्र पर्व्वतादिषु घटितसंस्थाने
नेति । एबं तद्धि ।
किमुपयोगाभावात् पुरुषकर्त्तृत्वेपि संस्थानमतिशोभनं न जायते पुरुषो वा न कर्त्तेति
संदेह एव ।
नन्वेष दोषः कार्यसमः । तथा हि । प्रयत्नकार्यानेकत्वात् कार्यसमः ।209 प्रयत्ना
नान्तरीयकत्वात् कार्यः शब्द इति(।) प्रयत्नान्तरं व्यक्तिरपि दृष्टा इति न कार्यः शब्द इति ।
तथात्रापि संस्थानमत्यकार्यमपि दृष्टमिति ।
044
तदप्यसत् ।210
साध्येन हि कार्यत्वादिना सामान्येनापि साधने साधनविषये (उक्तो) 211
यो दोषः स
कार्यसमो मतः । कार्यसमजातिरूपः । कीदृशो दोषः (।) भेदोक्तिदोषः । भेदस्योक्ति
रुपक्षेपः । कार्यत्वन्नाम किमभिव्यक्तिगतमुपादीयते किं वोत्पत्तिगतमिति । सम्बन्धि
भेदाद् यो भेदोक्तिदोषः स कार्यसमः (।) तत्रापि यद्यनैकान्तिकमुद्भावयति । प्रयत्नादावरण
विगमादित्येवमपि न विरोधीति । न जात्युत्तरं । किन्तु सामान्येनापि212
साधनं भवति ।
यतोभिव्यक्तिरपि नित्त्यस्य विरुद्धैव । ततो जात्युत्तरमन्यथा नैकान्तिकोद्भावनं सत्त्यमेव भवेत् ।
अथात्रोत्तरं । कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ।213
प्रयत्नकार्यान्य
त्वोपपत्तेः स्यादेत (त्) सत्त्वं४शब्दे स्यात् । अनुपलब्धिकारणस्य व्यवधानादेरुपपत्ते (:)
न च शब्दस्य व्यवधानादिकारणोपपत्तिः (।) तेन नास्य प्रयत्नानन्तरमभिव्यक्तिः । यत्र
प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिकारणमुपयुज्यते व्यवधानं (।) व्यवधानापोहाच्चार्थस्योप
लब्धिरूपतद्विलक्षणाभि214
व्यक्तिर्भवति ।
अत्रोच्यते ।
शब्दस्यापि न सेत्ये(त)त् कथं कस्मात् प्रतीयते ।
अथापि स्यात् ।
तदप्यसत् ।
घटादयोपि प्रागुपलब्धा व्यवधानावस्थायां न विनष्टा इति व्यवधानापगमे प्रत्यभिज्ञा
नादेव प्रतीयंते । शब्दोपि प्रत्यभिज्ञानात् तथैव युक्तः । अथान्येनोपलम्भादेवं प्रतीतिर्न
प्रत्यभिज्ञानात् स्वयं साक्षादिति महती तत्त्वदृष्टिः ।
किंच ।
तस्मादत्र प्रागुक्त एव परिहारः । सामान्येनापि साधने सम्बन्धीत्यादि ।215
अथवा ।
तत् कार्यसममेतत् तु त्रिधा वक्त्रभिसन्धितः(।)
045
इति आचार्यप्रणीतं कार्यसमलक्षणमाश्रित्येदमुक्तं । अक्षपादलक्षणन्त्वयुक्त
मेघेति प्रतिपादितं217
विकल्पसमं तु साधर्म्येपि विशेषोक्तिर्व्विकल्पसमं218 । तद्यथा पूर्व्ववद्
घटसाधर्म्येणानित्यत्वे कृते सत्याह । सत्येतस्मिन् साधर्म्ये कार्यत्वचाक्षुषत्वादिना घट
एवानित्यो नान्यः ।
ननु (अत्रापि)219
कार्यत्वसंस्थानत्वादिसामान्येन साधनं भवति । विशेष१
सम्बन्धिद्वारपरिकल्पने कार्यसमप्रथ(? वचन)220
तैव घटपर्व्वतादिसंस्थानपरिकल्पनात् ।
तदसत्त्यं ।
अत्राह परः । यदि नाम बुद्धिपूर्व्वक्रियान्वयो न दृष्टः (।)स एव साधनं संस्थाना
विर्माभूत् । शब्दवाच्यतान्वयस्तु संस्थानं संस्थानमित्यादिर्भविष्यति । ततस्तदभिन्नलक्षण
त्वादेककार्यत्वसिद्धिः ।
असदेतद् (।) यतः ।
शशादिविलक्षणो हि जात्यन्तरे प्रसिद्धो विषाणसम्बन्धः (।) स किं गौरिति वजना
भेदमात्रादनुमीयते ।
अर्थस्य तावत् सम्भवति समीहितसाध्यप्रतिबद्धता । तस्यापि सूक्ष्मेक्षिकावद्भिरसा
धकतोच्यते । किं पुनः शब्दसमानताया यस्याः साध्यसम्बन्धगन्धोपि विदूरीकृतः (।) यतः ।
कुत्र चैते शब्दा न सन्ति विवक्षायाः सर्व्वत्राप्रतिघातात् । ततश्चेदर्थः साध्यः
सिध्यति । न कश्चिदर्थसिद्धिवैधुर्यमासादयेत् । तस्मादसत्परोगतं221 ।
046
कापिलादीनामप्यचैतन्यमितरद् वा यतः सिद्धिसौधशेखरीभवति । तदर्थत्वाभावा
च्छव्दमात्रसाम्यरचितमेव । तथा हि ।
न खलु सत222
एवानभिव्यक्तिरनित्यता बौद्धस्य प्रसिद्धा । का तर्हि(।) निरन्वय
नाशिता ।
ननु (न)223
तिरोभावो विनष्टानभिव्यक्योस्तुल्य एव । कोयं तिरोभावः (।)
अदृश्यात्मता ।224
ननु शशविषाणादीनाञ्च प्रधानानामनित्यप्राप्तिः । विद्यमानस्याप्य
नित्त्यतेति चेत् । दृश्यात्मनायां प्रधानादीनामपि स्यात् । दृश्यस्यादृश्यात्मताप्राप्तावनित्यतेति
चेत् । केयं दृश्यता नाम । यद्यर्थस्वरूपं कथं दृश्यस्यादृश्यता(।) तत्परित्यागे वस्तुरूपमेव
नास्ति । अथ वस्तुनोन्यद् दृश्यात्मत्वं तथा तर्हि तस्याभावः कथं न निरन्वयविनाशः । न
चान्यस्याभावेऽन्यस्य तिरोधानं । तस्य वा सर्व्वदा प्रधानतुल्यत्वान्नानित्यत्वं । तस्माच्छब्द
परिकल्पनामात्रमेव साधनात्केनोपादीयते । तथा मरणत्वात् त्वगपोहतः(।) सर्व्वत्वगपहरणे
मरणादिति मरणशब्दप्रवृत्तिमात्रकमेव ।
यस्य बौद्धस्य तरुषु विजानसन्देहस्तदादिनिरोधरूपमरणमसंदिग्धमिति कः प्रत्येति ।
विज्ञानस्य निरोधो विज्ञानाभावे नास्ति तथायुषः ।
आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि यः 225
इति वचनात् । कथं हि मरणमम्युपपन्न
चैतन्यमभ्युपेयात् । तस्माच्छोषमयं226
मरणमाह । तच्च नैकान्तसाधनं विज्ञानस्य कर्द्दमा
दिष्वपि दर्शनात् । मरणशब्दवृत्तेस्तदपि सिद्धमेवेति चेत् । उक्तमत्र(।) विवक्षापरतन्त्र
त्वादिति । अथार्थदर्शनायातात्र विवक्षा ततोयमदोषः ।
शब्दाद् विज्ञानादिनिरोधलक्षणमरणसिद्धिः तथाभूतमरणदर्शनायातत्वे । तया भूतमरण
दर्शनायातत्वञ्च मरणसिद्धावितीतरेतराश्रयदोषः
अथ नित्त्यः शब्दार्थसम्बन्धः । तथा सति वागादीनामपि विषाणिता । अथान्य एव
वागादिषु गोशब्दः स न प्रतिबद्ध एव विषाणविषाणित्वे227
मरणशब्दो हि तर्हि नापर इति
किमत्र भवतः प्रमाणं । तन्नानित्यत्वादिसाधनस्य साधनं(।) तथा स्थित्वा प्रवृत्तादेरिति न
साध्यसिद्धिः ।228
यदि तर्हि विशेषपरिकल्पनेन साधनस्यासाधनता (।) संस्थानादेर (नित्यादेश्च । अ)६ न्यस्यापि कृतकत्वादेरसाधनमेव परवाद्यपेक्षया सर्व्वमेवाप्रसिद्धं विकल्पनेन च ।229 तथाहि ।
047
तदप्यसत् ।
तस्माद्(।)
आगमप्रसिद्धो हि शब्दस्याकाशगुणत्वेऽसिद्धोपि शब्दः स्वरूपेण धर्म्मितया प्रसिद्ध एव
(इति)230 धर्म्मासिद्धेः । तथा विशेषपरिकल्पनायामपि न हेतुरसिद्धधर्म्मिसम्बन्धो नैकान्ति
कोवाऽसाधारणतया । धर्म्मी हि प्रमाणसिद्ध इति न विशेषणाप्रसिद्धावसिद्धः । नापि
विशेषपरिकल्पना क्वाप्युपयोगिनीति । न हि तत्रावश्यं विशेषपरिग्रहः । तथा हि ।
न खलु पूर्व्वापरस्वरूपविविक्तायाः क्वाप्यस्ति विशेषः । न चैव देशस्तं231 विशेषी
करोति । तदेकपरामर्शविषयत्वात् । तदसत् विकल्पनं । संस्थानादि तु तत्प्रतिबद्धम
सिद्धमेव । शेषः प्रागेवोक्तः । संस्थानशब्दमात्रकन्त्वसाधकमेव । यतः ।
मूर्त्तत्वादनित्याः परमाणव इति वैशेषिकं प्रति बौद्धेन साधनमुक्तं । न चात्र शब्दः
परस्पराभिमते विषये प्रसिद्धः । असर्व्वगतद्रव्यपरिमाणस्य मूर्त्तिशब्दवाच्यत्चात् । स्पर्श
योगश्च मूर्त्तिरिति सौगताः । तदयमेव शब्दः परस्पराभिमते विषये यदि नाम न सिद्धस्त
अापि/?/ तदभिमतस्यार्थस्योभयोरपि सिद्धत्वादसिद्धावपि शब्दस्य सिद्धे वस्तुनि बौद्धस्याभिमते
द्वयोरपि सिध्यत्यभिमतः साध्योर्थः ।
ननु यथा वस्तुनो(ऽ)व्यभिचारित्वे सिद्धत्वे वा सिध्यति साध्यं(।) तथा शब्देप्येवमेव
कोनयोर्व्विशेषः । न(।)
न हि यथा शब्दासिद्धावपि वस्तुबलात् साध्यसिद्धिः(।) तथा वस्त्वसिद्धावपि शब्द
बलात् साध्यसिद्धिः(।) अपि तु तस्यैव वस्तुनो व्यभिचारोऽसिद्धौ विरोधे च दोषवत् साधनं
ज्ञेयमव्यभिचारिण्यपि शब्दे । न तावद् वस्तुनो व्यभिचारादौ शब्दस्याव्यभिचारिता सम्भवति ।
अभ्युपगम्यापि तूच्यते । भवत्वव्याभिचारी शब्दस्तथापि दोषवत् साधनं । कुतो वस्तुनो
वस्तु सिध्यति न शब्दात् ।
ननु यदि(न)232 साध्याव्यभिचारी शब्दस्तथा सति शब्दात् साध्यसिद्धिः । अथ ततः
048
साध्यसिद्धिः कथमव्यभिचारी शब्दः । एतदनेन दर्शयति । वस्तुप्रतिपादनद्वारेण शब्दः
साध्यसिद्धावुपयोगी233
न तु साक्षात्(।) ततः शब्दस्याव्यभिचारवाञ्छायामपि नार्थपरित्यागात्
साध्यसाधने सामर्थ्यं(।) तस्मादर्थगतैव चिन्तोपयोगवती । वस्तुव्यभिचारेतरनिरूपणन्तु
पश्चाद् भविष्यति ।234
तस्मान्नार्थरूपो हेतुरस्ति यत ईश्वरसिद्धिरतोऽनित्यत्वेप्यप्रमाणतेतिसिद्धं ।
तथा नित्त्येपि ।
न चाकाशादीनामीश्वरस्य च नित्यतया (कारणत्वा) कारणत्वविभागः । तथा हि ।
व्यापि त्वैकत्वादयो235
धर्म्मा यथेश्वरस्य तथाकाशादीनामपि (।) ततः समानत्वेपीश्वरः
कारणमकारणमाकाशादिकमिति कुतो विभागः । अथ तस्य ज्ञानेन चिकीर्षालक्षणेन सम्बन्धा
देवमुच्यते । तदप्यसत् । तत्रापि समानत्वात् । किंच ।
यदि कर्म्मादिनि...करणं236 कारणम्भवेत् । अन्यथा कारणं सर्व्वं सर्व्वस्य न किमिष्तते ।। ३४७ ।।
अथवा यदा सर्गात् प्राक् तदकारणं । तथा सर्ग्गावस्थायामविशेषाभावादकारणमेव
(।) सकलरागादि (निर्) ४ मुक्तस्यौदासीन्यमेव युक्तं । लोककर्म्माधिपत्यादौदासीन्यं न
लभत एवेति चेत् । (न ।)
अन्यकर्म्मपरतन्त्रतयाऽसावीश्वरः कथमीश्वर एव ।
कर्म्मैव लोकस्य तथेति तत्कृद् अशक्तिरस्मिन्निति नार्यतास्य ।
अथैवम्भूत एवायं क्रमस्तमेवासौ प्रकाशयति चेष्टते च तत्करणाय । एवम्भूत एव
मम स्वभावः । न निवारयितुं मया शक्यः । तत्र लोकैर्यथायोगं विहर्त्तव्यं ।
आत्मन्यपि वशी नासाविति स स्फुटमीश्वरः ।
ईश्वरस्य यदि नास्ति न शक्तिः साधु कर्म्मविधिरेव जनः स्यात् ।
अथापि स्याद्(।) ईश्वरस्यापि कदाचिद् कारणत्वम्भविष्यति यद्यपि नामास्मदादि
भिरत्त्वदर्शिभिर्न ज्ञायते । एवन्तर्हि ।
अस्मदादिभिस्तु (।)
049
अथ स्थाणोर्नास्ति व्यापार इत्यकारणत्वमसम्बन्धात् । स्थाणोरपि कदाचिदस्ति
व्यापारः । स त्वस्माभिर्नोपलक्ष्यतेऽतत्वदर्शनैः ।
अनुपलक्षणादेव तर्हि नास्ति स्थाणोर्व्यापारः । एवन्तर्हि (।)
नित्यस्य प्रबन्धनित्यतवान्यथा वा स्वभावभेदेन विना कार्यस्येश्वरस्य व्यापारोप्युपल
क्षितः कथं युक्तः । ईश्वरस्यापीत्यपि शब्दो भिन्नक्रमः । यथा कुलालादिकृतो विशेषः(।)
सदा स्थानव्यापकत्वेन व्यतिरेकाभावतः ।
दृष्टकुलालादिषु कर्म्मणि च सति भवत्येव समीहितं । तथाप्यन्यस्य तत्र कल्पन
सर्व्वेषामेककार्याणां हेतूनामनवस्थितिः पर्यवसानं न स्यात् ।
न खलु निरनुगमकल्पनावतारानुगतौ तदपरो व्याघातः । अथवा अनवस्थितस्य
चिरन्तनस्य239 तस्यैव स्थितिर्हेतूनामेवमपि स एव हेतुरिति व्यर्थकमपरं कर्मेति स्यात् ।
यथा तर्हि पृथिवी कारणमङकुरादेः सदा स्थायिनी तथेश्वरोपीति । न च पृथिव्या
दीनामादिरुपलभ्यते ।
अत्र परिहारः ।
सीरव्यापारादिविशेषविकृतिसमन्वयानुगमो हि दृश्यते यवादिप्रसवानामिति पृथिव्यादि
कारणत्वपरिकल्पना ।
पुनरपि चोद्यपरिहारौ ।
चक्षुरादौ हि कारणत्वं कार्यरूपविशेषादवसीयते । कार्यं हि विज्ञानं रूपग्रहणप्रतिनियतं
रूपाकारं बोधरूपन्तदेषां परस्परपरिहारेणोपयोगाद् भेदस्य सम्भवात् कार्यस्य विज्ञानस्य कारणं
240 050
चक्षुरादयः । यत एते पृथक् पृथगशक्ता विज्ञानाकारसमुदाये न चक्षुषो बोधरूपता । न
रूपाद् रूपग्रहणप्रतिनियमो न मनस्कारदितरत् । एकैकस्मादेवमदर्शनात् ।241
अथ स्याद्(।) यथा चक्षुषि उन्मिषिते परापररूप(ोप)ढौकने परापररूपदर्शनं न च
तदा चक्षुषो विशेषः । तथा रूपे स्थित एवापरापरचक्षुर्विज्ञानभाव(:) तथेश्वरेपि सदा
समानतया व्यवस्थिते परापरभावोत्पत्तिरिति नाकारणभावः । उक्तमत्र(।)आकाशादीनामपि
कारणभाव इत्यतिप्रसङ्गः ।242
५. हेतुसंहतौ कारणता
तथा चक्षुषोर्ध्वनिमीलनादिविशेषादस्पष्टतादिविशेषः । स तत्प्रतिबद्धस्तस्य कार्यतां
कारणस्योपकल्पयति । नैवमीश्वरकारणत्वकल्पने हेतुरिति (।) ततः (।) पृथक्पृथगशक्तानां
सन्तानातिशयेऽसति सन्तानातिशयाभावे (।) संहतावप्यसामर्थ्य स एव स्वभावः कारण
विपरीतः कारणं भवेत् कथमिति किमत्रोत्तरं । रूपादीनान्तु कारणत्वोपकल्पने निमित्त
मुक्तमिति न दोषः ।२
४. भगवत्प्रामाण्यवार्त्तिकं चतुर्थम्
१. ज्ञानवत्त्वात् भगवान् प्रमाणम्
यदि तर्हीश्वरस्य परिज्ञानादिहेतुर्नास्ति ज्ञापक(:) कारको वा नापरत्रापि स
स्यात् । यतः ।
यस्तावदसर्व्वज्ञ एव सर्व्वज्ञो भवति (।)तस्य परोक्षार्थपरिज्ञाने को हेतुः । न खल्वीदृशं
किमपि कारणमुपलक्षितं 243 यतोनुष्ठानात् सर्व्ववेदनं भवति । मन्त्रतन्त्रादयस्तु प्रायशः
सकलसमयसम्भविनः । नापि तन्निश्चये हेतुरस्ति । एकदेशसंवादः सकलवचनानामेव ।
न च परोक्षाणां साक्षात्करणसम्भवः सकलार्थानामिन्द्रियज्ञानस्य सन्निहिताविषयस्य दर्शनात् ।
051
अभ्यासात् स्पष्टता तस्य न सर्व्वविषया भवेत् ।
यश्चातिशयवान् दृष्टः स तावन्मात्रसंस्थितेः ।
अत्रोच्यते । न परःप्रमाणं सर्व्वं वेत्तीतीष्यते । अपि तु विप्रलम्भनकारी न
भवति अस्तु समीहितसम्पादनसमर्थः(।) किङ्कारणं ।
न खल्वन्यदनुष्ठातुमीहितमन्यत्र ज्ञानमुपदेष्टुरन्विष्यते । तद्विनिश्चयेपि समीहित
विप्रलम्भनसम्भवात् । अथ तत्रापि तस्य ज्ञानमस्त्येवेति निश्चयः । न सर्व्वत्र ज्ञानं ज्ञाना
सम्भवात् । तस्मात् तदेव तेन ज्ञातव्यन्तच्चेज्ज्ञातमिति ज्ञायते । अतोऽज्ञैरज्ञोपदेशकारणे
विप्रलम्भनशङ्किभिस्तद्विषयज्ञानज्ञाने प्रमाणमेवासौ । अन्यत्रापि तस्य ज्ञानं सम्भावनोयं(।)
यो हि प्रधानपुरुषार्थज्ञः प्रमाणपरिशुद्धसकलतत्त्वज्ञश्च स एव प्रमाणं । तावतैवासावुपास्य (:) ।
परिशिष्टन्तु सकलमेव समानं सर्व्वोपास्यानां (।) तच्च कस्य सम्भाव्यते । येनोपदिष्टं ।
ये तु प्रमाणदृष्टं प्रधानपुरुषार्थञ्च न वदविदन्ति245 । अयमेव विदन्ति२न ते प्रमाणं । तत्राप्य
परिज्ञानसम्भवात् । कथमुपदेश इति चेत् । अनादिपरम्परातो नास्तिक्योपपदेशवत् ।
२. हेयोपादेयवेदकत्वात् भगवान् प्रमाणम्
अथ सर्व्वापरिज्ञाने सर्व्वत्र शङ्कोत्पत्तेरपरिज्ञानमपरस्यापीति सम्भाव्यते । ततश्च
सर्व्वज्ञानमसम्भावयन् कथमत्रापि सम्भावयेत् परिज्ञानं । उपदेशस्तु पारंपर्योपदेशादिति ।
तदसत् ।
नित्यत्वादौ हि प्रमाणासम्भविनि नोपदेशपरम्परातोन्या गतिः । प्रमाणेन चेद् वस्तु
परिच्छिन्नं कथ तत्राज्ञानाशङ्का (।) भवतु वा तथापि तत्र प्रवर्त्तनमवश्यम्भावि प्रमाणेन
निश्चयात् । अथ प्रमाणदृष्टेप्यनिश्चयः साक्षात्करणे ।
तदेतदायातं ।
प्रमाणदृष्टस्य कथनमस्ति तथागतस्य भगवतः । तत्रापि यस्य शङ्का तस्य तीर्थेषु
का गणना येषु परिज्ञानाननुगम एव । तस्मात् प्रामाणिकार्थकथनात्246
प्रमाणमेव भगवान् ।
यतः ।
ननु यद्येकदेशपरिज्ञानसंवादात्247 तथागतः सर्व्ववेदीति सम्भाव्यते । आग्निर्हिमस्ये त्यादि संवादादपरोपीत्यनवस्थैव स्यात् । न चैवम् (।)अनुष्ठानस्य परस्परविरोधेनासम्भवात् ।
तदप्यसत्त्यं ।
यस्मान्न सर्व्वस्यैव देशस्यापुरुषार्थलक्षणस्य वेदक इति तावता (सर्वः)248
सर्व्ववेद्यसौ भवति
पुरुषार्थलववेदनं हि न कस्यचिदसम्भवि । तत्र हेयोपादेयतत्वं दुःखनिरोधसत्ये । अभ्यु
पायतत्त्वं तयोरेव दुःखनिरोधसत्त्ययोः कारणं समुदयमार्गसत्त्ये । ततश्चतुरार्यसत्त्यलक्षणस्य
हेयोपादेय249तत्त्वस्य वेदको यः प्रमाणसिद्धस्य वेदयिता स प्रमाणमिति यावत् । स्वर्ग्ग
मार्ग्गस्य च प्रमाणपरिच्छेदसम्भविनः । अन्यत् तु स्त्रीशूद्रविस्मापनं सुगतवचसि नासम्भवि ।
तस्मात् प्रधानपुरुषार्थवेदक एव प्रमाणमन्यस्यायोगात् ।
तस्माद् ।
न हि दूरदर्शनमस्तीत्येव सर्व्ववेदनं सम्भाव्यते । यदि त्वेवं भवेद् गृध्रादीनामपि तदित्येत
गृध्रान् दूरश्रुतींश्च वराहादीनुपासनया स्वीकुर्म्म इति सकलन्यायमार्ग्गपरित्याग एव जातः ।
३. कारुणिकत्वाद् भगवान् प्रमाणम्
(१) जन्मान्तरसिद्धिः—
अथ किं सकलार्थज्ञानमसम्भवि निरर्थकंश्चैकान्तेन येन प्रधानपुरुषार्थज्ञानेमवास्य मृग्यते ।
नैतदस्ति (।)
053
न खलु सर्व्वज्ञः सर्व्वज्ञं जानात्युपायाभावात् । तथा हि ।
वृक्षादयोपि स्त्रीशूद्रज्ञानसाधारणाः परेण ज्ञायन्ते न वेति तज्ज्ञानादेव मतिः ।
स्वयम/?/विज्ञाते तु ज्ञातमनेनेति नोपायः समस्ति । ये तु महान्तो दूरदर्शनगतयस्तेषामेकदेश
परिज्ञानपूर्व्विका सकलज्ञतासम्भावना तेषामपि तदपरेण तत्त्वसम्भावना ।।
ननूभयलक्षणस्यापि प्रमाणस्य कुतः साधनं को वा हेतुरित्याह ।
साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात्
तस्य प्रामाण्यस्य साधनं कुतो भवति । करुणाभ्यासात् । सा च करुणा बुर्द्धे
र्देहसंश्रयात् । बुद्धेर्यो देहस्तदाश्रयात् सा करुणा(ऽ)भ्यासपरिकरा परां प्रकर्षगतिमासादयति ।
यदि नाम करुणा तथापि ततः प्रामाण्यमिति कुतोस्य सम्भवः । अस्ति सम्भवो यतः ।
अवश्यं हि परदुःखवियोगेच्छावतस्तदुपायपर्येषणमिति पश्चात् प्रतिपादयिष्यते ।
अथवा साधनं करुणा (।) करुणावान् हि परोपकारविरहितो न भवति । ततः परार्थ
देशनया प्रमाणं (।) करुणावानुपाये प्रवर्त्तते । तदुपायश्च स्वप्रामाण्यसाधनं (।)
सैव करुणा सर्व्वत्राणेच्छालक्षणा कुतो भवतीत्याह । करुणाऽभ्यासात् । करुणा हि
दुःखाभ्यासादुदासीनशत्रुपक्षयोरपि प्रवर्त्तते । ततः सकलत्राणमसर्व्वज्ञत्वे न सम्भवतीति
तदुपायाभ्यासः समासाद्यते ।
ननु स्वबुद्धिर्देहाश्रिता बुद्धिमतां करुणापि बुद्धिरेव । ततः सापि शरीराश्रितैव (।)
ततः शरीरस्य भस्मीभावादावसिद्धोभ्यासः । यदि हि जन्मान्तरसम्भवस्तदानेकजन्माभ्या
सोपचयात् समीहितसमापत्तिः । तथा हि ।
तदाह । बुद्धेर्देहसंश्रयाद् (।)
पूर्व्वान्वयबुद्धिरहितस्य केवलस्य देहस्याश्रयणस्य प्रतिषेधात् । न खलु कार्यत्वे गुणत्वेऽ
न्यथा वा भवत्याश्रयभावो देहस्य केवलस्य ।
(न देहाद्याश्रिता बुद्धिः)
ननु देहाश्रिता बुद्धिरुपलभ्यते देहकार्या मातापितृदेहाश्रयणदर्शनात् । तथा हि ।
तद्रूपाचारचेतःपाटवादयो मातापित्रन्वयिनो जन्यशरीरमहाभूताश्रया तच्चित्रादय इव (।)
चित्रकररूपविज्ञानाद्यन्वयिनः250 कुडयाश्रिताश्चित्रकरकार्यरूपाः(।) ततो न चित्रं कुडयविरहित
मवतिष्ठते कुड्यान्तरं वा संक्रामत्यागतं वा कुंड्यान्तरात् । आम्रफलादिपाकजरूपवद्
वा । कार्यं वा धूमो न धूमध्वजान्तरादागच्छति (।) नापि धूमध्वजान्तरं251 प्रयाति । मदशक्तिस्तु
054
मद्याश्रिता कषायादिरससंपर्कादपूर्व्वा प्रादुर्भवति । विलीयमाना न मद्यान्तरमवलम्बते ।
तथेन्द्रियचेतनाविशेषाः । तथा चाह । पृथिव्यापस्तेजोवायुरिति तत्त्वानि । पृथिव्यादीन्येव
तत्त्वानि तत्त्वान्येव पृथिव्यादीनि । नाकाशादीनि न क्षणिकत्वादीनि । तथा तत्त्वान्येव न
विज्ञानमात्रं नापि सकलमेव शून्यं । सर्व्वत्र प्रमाणाभावात् । तत्समुदाये विषयेन्द्रिय
(शरीर) संज्ञा । महाभूतानामेवापरिमितः परिणतिविशेष (संभूत) समुदायः शरादिव्यपदे
शविषयः252
(।) तेभ्यः शरीरेन्द्रियविषयेभ्यश्चैतन्यं253 । यथा किण्वादिभ्यो मदशक्तिः (।) तस्मान्मदशक्तिवद् विज्ञानं । न परलोकादागच्छत् प्रतिसन्धिमत् । मदशक्तिवदिति चोपलक्षणं
चित्रवद् धूमवदिति च । न खल्वेते सञ्चारिणो दृष्टाः ।
तदसत् ।
रूपशब्दगन्धरसस्पर्शाः पञ्चमहाभूतानि । तत्समुदाये पृथिव्यादिसंज्ञा । पृथिव्यादी
नामन्यथोपलम्भनाभावात् ।
अथ रसस्य स्पृश्यतैवेति चतुःपरिमाणता254 । तथापि पृथिव्यादीनीति न युक्तं
रूपादीन्यभिधेयं स्यात् । क्षणिकत्वादयः पश्चाद् भविष्यन्ति साध्या इति न तत्प्रतिक्षेपः ।
किञ्च ।
(क) भूतचैतन्यमतनिरासः
ननु255
मातापितृशरीराद्यन्वय व्यतिरेकानुविधायीनीन्द्रियादीनि शरीरमहाभूतस्वभावत्वात्
तदाश्रितान्येव नान्यथोपलभ्यन्ते परलोकादागतत्वेन (।) तत् कथं परलोकास्तित्ववादः
साधीयान् ।
तदप्यसत्त्यं । यतः256 (।)
अतिप्रसङ्गात्;
प्राणादयो हि स्वभावविशेषाच्चपलतादिकृतात् स्वजातिनिरपेक्षा न युक्ताः । चपलता
दयश्चात्माभ्यासान्वयिनो न मातापित्रभ्यासान्वयिनः । अन्यथा मातापितृस्वभावो न
स्यादसत्संपर्क्कादिना । तस्मात् स्वजातिनिरपेक्षान्मातापितृदेहमात्रादेव न भावः । यदि तु
मातापितृस्वभावेऽभिलाषादयः प्रागासन् । तदा मातापित्रादिशरीरमपि कारणमिति युक्तं ।257
258 055
अथाभ्युपगम्यते जन्मपरिग्रहः परलोकनिरपेक्ष एव (।) तदा जन्मपरिग्रहेऽभ्युपगम्यमानेऽ
तिप्रसङ्गः । सर्व्व एव कार्यकारणभावो विशीर्येत । स चानुमानपरिच्छेदादवधार्यः ।
एष हि कार्यस्य धर्म्मो यत् कारणमपहायान्यथा न भवनं । अन्यथा स तस्य न जन्यः ।
अन्वयव्यतिरेकाभ्यां जन्यजनकभावः । तस्मात् समानजातीयाभ्यासम्भविचक्षुरादिपूर्व्वका
एव चक्षुरादयः ।
ननु (।)
तथा (।)
चित्रं चित्रकराज्जातं पतत्रिष्वपि किन्तथा ।
तदप्यसत् ।
धूमो धूमाद् यथाभूतः सोन्यतोपि न ज्ञायते ।
य एव विशेषः श्रुताभ्यासादिजन्मकः स एव तथाभूत इह जन्माभ्यासव्यतिरेकेपि दृश्यते
(।) न च तस्याभ्याससङ्गमो बाध्यते । अतीताभ्यसस्यान्यत्रापि तदानीमुपलब्धुमशक्यत्वात् ।
ग्रामान्तरादागताभ्यासवत् । तत एव नापारलौकिकाभ्यासपूर्व्वकत्वमपि साधयतीति कारणेन
सह कार्यस्य प्रतिबन्धात् । अदृष्टकारणस्यापि तत्कार्यत्वात् । देशान्तराभ्यासपूर्व्वकत्वमपि
साधयतीति । कारणेन सह कार्यस्य प्रतिबन्धात् । अदृष्टकारणस्यापि तत्कार्यत्वात् । देशान्त
राभ्यासपूर्व्वकपरिज्ञानवत् । तदत्र तौतोपाख्यानमायातं ।
कश्चित् तौतः किलान्येन पृष्टः कथय सम्भवं ।
तथाभूतमेवेदं लोकायतमतं ।
अथवा (।) अतिप्रसङ्गादिति यदि जन्मान्तरादागतिमन्तरेण तेभ्य एव महाभूतेभ्यश्चैतन्यं
कार्यमुद्भवति (किन्न सकलप्राणिमयम्भवति । परिणतिविशेषसद्भावादिति) चेत् । स एव
परिणतिविशेषः कस्मान्नेति समानः पर्यनुयोगः ।
अथानादिः परिणतिः परम्पराविशेषो वानुपलक्ष्यमाणः260 कश्चिदस्ति यतः केचित्
प्राणिनो नान्ये । तदप्ययुक्तं ।
यदि परिणतेर्विशेषस्स दृश्यते नेति कल्पना कैषा ।
यदि स परिणतिविशेषो भवेदुपलभ्येत । अथ कार्यदर्शनादेव कल्प्यते तथा सति
056
दृष्ट एवाभ्यासः कल्पनीयः अदृष्टकल्पनागौरवात् । ततः साधूक्तं (।) समानजातीयभाव
पूर्व्वकाः261
प्राणादयः ।
भवतु कार्यात् कारणानां सिद्धिः पूर्व्वजन्मभाविनां परजन्मिनान्तु कथमनुमानं (।) तदाह ।
पूर्घ्वंपूर्व्वस्य हि प्रतिसन्धानं निश्चितं अनुऽमानानुमितानुमादिभिः ।
ननु चापलादिकमचापलत्वात् तदभ्यासतो भवति अस्पन्दमन्दतादिलक्षणात् । सा तु
महाभूममात्रकादेव । ततस्ततोपि भावे धूममद्धूमान्तरभावेपि न सर्व्वदा प्रबन्ध एव262 । तत
उच्छेदोपि धूमवदेवेति नानन्ततापि प्राणिनां अपूर्व्वसत्त्वप्रादुर्भावश्च दोषाः । (तदपि नास्ति ।)263
न खलु प्राणिनां स्वभावत एव मन्दतादयः प्रकाराः (:।) अपि तु समानजातीयाभ्या
सात् । यथैव चपलादयस्तदभ्यासतस्तथा मन्दता(द्य)पि३ कौसीद्याभ्यासादिति सिद्धमना
दित्वं संसारस्य । स्वापाद्यभ्यासतो हि मन्थरता चक्षुरादीनां ततश्चपलचक्षुरादिकः सुप्त
प्रवुद्धश्चपलचक्षुरादिना युज्यतेऽन्योन्येनेति । ततो जन्मादावपि264
सुप्तप्रबोधवदेवाभिमुखी
भूतवासनाप्रबोधस्य चक्षुरादियोगः । कथमन्यशरीरगतं चक्षुरन्यशरीरे प्रतिसन्धीयते । कथं
द्रव्यान्तरगता शक्तिरन्यत्र सञ्चारिणी ।
तस्माद् यत् प्रतिसन्घानशक्तिमत् पूर्व्वंपूर्व्वमुपलब्धं तस्य किमासीदधिकं यत् पश्चा
न्नास्ति तदभावात् पश्चादसन्धिमत् । कारणवैकल्ये हि कार्यस्याभावः सकले तु कलावति
कारणे कार्यमनुत्पत्तिमदिति व्याहतं ।
ननु क इवात्र व्याघातः । नन्वयमेव266 यः कार्यकारणभावाभावः ।
कारणपरतन्त्रं हि कार्यं तत्समर्थं कारणं हठादेव जनयति । तथाप्यभावे न कार्यम्भवेत् ।
अथ तदभावे न भवतीति कार्यं तदभावे न भवतीति कुतः । ननु तद्भावेऽवश्यं भवती
त्येतदपि कुतः । त(था) 267त्त्वेन परिच्छेदात् तदभावे न भवतीत्येतदपि परिच्छिद्यत एव ।
सर्व्वदेति कुत इति समानमुभयत्र । तस्माद् यथा दृश्यते तथाभ्युपगन्तव्यं । उभयञ्च दृश्यते
057
तद्भावेवश्यं भवत्यसाकल्येन भवत्येवेति तदुभयमङ्गीकर्त्तव्यं । एवमदृष्टो268
न कार्यंकारणभाव
इति चेत् ।
यदि व्याप्त्या न दर्शनमिति न कार्यंकारणभावसिद्धिः । एवन्तर्हि न कस्यचिदन्वय
व्यतिरिक्तस्य 269
दर्शनमित्युक्तमेतत् (।) स्वरूपस्य स्वतो गतिरिति ।
न परलोको नेहलोको न परलोकबाधनं न270 संदेहो न महाभूतपरिणतिरित्यादि विज्ञाप्तिमात्रकमेव । अथापि व्यवहारादेतत् । एवं परलोकोपीति ।
सत्युपल्पवे वरमेवमुपल्पवः प्रशमस्य स्वर्गाद्यनुकूलत्वात् । रागाद्युपल्पवो हि सकल
समीहित271 सज्जनत्वादिभावहानिमेव विधत्ते । तथा हि । चक्षुरादिरागादिभेदाः सकला
एवानादिवासनाबलावलम्बिनो विज्ञप्तिमात्रतो न भिद्यन्ते । ततश्चक्षुरादिविकलस्यापि
जन्मान्तरे पुनरविकलचक्षुरादिता । ततो जन्मपरम्परास्वयमेव प्रकारो नादिता च संसारस्य ।
यावच्च नोपल्पवप्रशमस्तावती तस्यानन्ततापि (।) सत्यतायामपि चक्षुरादीनां बाह्यर्थंत्वेवा
नादिरसौ स्वभाव इति संसारानाद्यनन्त (त) ।।
(न महाभूतोद्भवा बुद्धिः)
ननु महाभूतविशेषः कठिनत्वादय उपलभ्यन्त एव । ततस्तद्विशेषान्महाभूतोद्भवत्वेपि
नातिप्रसङ्ग इति । ततः कठिनत्वादिविशेष एव बीजात्मकस्तत एव प्राणिसम्भव इति ।
उक्तमत्र कार्यकारणभाव एव न स्यादि ति ।
अपि च ।
न खलु कठिनत्वादिविशेषविभागेन प्राणिविभागोत्पत्तिः सर्व्व (त्र) 272
प्राणिदर्शनात् ।
संस्वेदजादयोपि हि प्राणिनो न खलु विभागेन न दृश्यन्ते । ततः कठिनत्वादिकृतो न
विभागः । कर्मैव चेतनालक्षणं यदि परमवशिष्यते । अथकाष्ठा273
द्यन्वयिनी प्राणिजाति
रुपलभ्यत इति वदेत् । तदा समानजातीयं सर्व्वं तद्रूपप्राणिमयं भवेद् (।) यत्परिम्ना274
व्यवस्थापितामम्भो भवति । तत् सकलं तद्रूपप्राणिमयं भवेत् (।) कुतो वर्ण्णसंस्थान
वैलक्ष्यण्यं प्राणिनां ।
तथा हि रक्तशिरसः पीतकायादयः परे ।
तद्रूप बीजात् कमलादिभेदः किंदृष्ट दृष्टो (ऽ) ५नियतः कदाचित् ।
058
275
अपि च (।) मनोविज्ञानाश्रितानीन्द्रियाणि स्वकार्यकारीणि न तु मनोविज्ञानमेव
तदाश्रितं । ततो मनोविज्ञानादेवेन्द्रियाणां सम्भवो न भूजलादिभ्य इति दर्शयति ।
प्रत्येकमित्यादि276 ।
अथवा मनोविज्ञानं न तावन्न तत्समुदायरूपशरीरादुत्पत्तिमत् । प्राणापानादयस्तु
महाभूतपरिणतिस्वभावा एव मातापितृबीजमात्रकात् । मनोविज्ञानञ्च संसारि नेन्द्रियादयः ।
यतः (।)
(इत्युक्तम् ।)277 ततो मनसः संसारित्वं न भूताश्रितत्वं । यतः ।
मनोमतेर्हि भङ्गे भयशोकहर्षक्रोधादिना चक्षुरादिविकारदर्शनाच्चक्षुरादीनि मनोविज्ञा
नाश्रितानि (।) ततो जन्मादावपि तदाश्रितान्येवेति भवान्तरप्रसिद्धिः । न चैवं मनो
विज्ञानं शरीराश्रितं । मनोविज्ञानविकार्यपंचेन्द्रियसमुदायकार्याश्रितत्वात् ।
ननु यदि नाम चक्षुरादीनि मनोविज्ञानविकार्याणि । तत एव तूत्पत्तिरिति कुतः(।)
न ह्यग्नेर्विकारमासादयद् घटादि वस्तु वह्नेरेवोत्पद्यते ।
अत्रोच्यते ।
प्रासादादिलक्षणलक्षितं हि सकलमेवेन्द्रियमुपलभ्यते । न तु घटादिकमग्निकृत
विकारमेव । ततो न घटादिर्दृष्टान्तः ।
अथ यद्यपि नामेदानीं मनोविज्ञानमाश्रयो दृष्टोन्यदापि तथैवेति कुतः । तदेतदसत् ।
तस्माद् (।)
जन्मादौ चक्षुरादीनि चापलादियोगिमनोनुरूपविकार्यतया प्रत्यभिज्ञायमानानि तथैव
तानीत्यवगमो युक्तः । यथा सकृदग्निपूर्व्वकः क्वापि तत्प्रसवो दृष्टः प्रदेशान्तरे तत्पूर्व्वक
तयैव प्रत्यभिज्ञायमानोस्ति278 ।
यदि सर्व्वत्र पुत्रादिचक्षुरादिविकारे न विक्रियेति नियमाभावात् पुत्रादिचक्षुरादीनीति
नाश्रयः । स एव नियमाभावो दृष्ट उभयोरपि । नात्मचक्षुरादिविकारेपि विकारो मनसः
059
कस्यचिदिति न तान्यपि नाश्रय इतीन्द्रियाणां नाश्रयत्वं । एवन्तर्हि मनोविज्ञानमिन्द्रिया
णामाश्रय इन्द्रियाणि तु न मनस इत्यनाश्रितं मनः प्रसक्तं । षण्णामपि चक्षुरादिविज्ञानाना
माश्रयेण केनचिद् भवितव्यं ।
इन्द्रियं मनसोज्ञानात् तस्माच्चस्ति मनोमतिः ।
यदि मनोमतिरपीन्द्रियविकारतो न विकार्या एवम् ।
नैतदस्ति । नावश्यमाश्रयः सर्व्वस्य कश्चिदिति नियमोस्ति ।
अथ निर्बन्धस्तदप्युच्यते ।
तस्माद् बुद्धेः स्थित्याश्रयो यः स निमित्तमक्षाणां चेतनालक्षणकर्म्मसञ्ज्ञितः । स
एव तर्हि चक्षुरादीन्द्रियं समाश्रित इति तदाह । स च बुद्धिमेव समाश्रितो नेन्द्रियाणि ।
न हीन्द्रियाणि तस्याश्रयः । चेतना कर्म चेतयित्वा वाक्कर्म्मेति वचनात् । चेतना चेदं
चेदं चेत्येवमात्मिका । सा च पूर्व्वानुसन्धानरूपा279 बुद्धिमेवाश्रित्य भवति न कायाश्रिता ।
सा च काचिदेवेन्द्रियाणां स्वाश्रयो280
न सर्व्वा आरूप्यधाताविन्द्रियाणामभावात् । शरीर
सतृष्णेन हि कर्म्मणा शरीरेन्द्रियाणां जननं । तत्राभिरतियोगात् । तुष्णाविषये हि
लब्धेभिरतिरुत्पद्यत इति (।) तस्मादक्षाणि बुद्धितो न त्वक्षेभ्यो बुद्धिरित्युपसंहारः ।
तस्मान्मनस एव कारणत्वमिति मनसा पूर्व्वपूर्व्वजन्माक्षेपः ।
यदि तर्हि मनोमतेरहमित्येवमात्मकल्पनारूपाया इदानीन्तनं जन्म परत्र तर्हि जन्मनि
कः संप्रत्ययहेतुः कथं वा कायाश्रितं मन उक्तमित्याह ।
यादृश्यात्मग्रहस्तासां मनोबुद्धिरनादिजन्मप्रबन्धस्याक्षेपिका संसारिणा281 मासीत् (।)
तादृशी पश्चादप्याक्षेपिका भवतु । नान्यथा तया भाव्यमिति । स एव पश्चादपि जन्मपरिग्रहः ।
यो हि यत्करणस्वभावाविशिष्टस्वभावः स करोत्येव तत् (।) तद् यथा धूमजननस्वभावा
विशिष्ट एवापरः सार्न्द्रेन्धनादिसङ्गतः कृशानुः । अन्यथा न कार्यकारणभावो न व्यवहार
इत्यनीहं जगत् स्यात् ।
(ख) विज्ञानसिद्धिः
अथ मनसोपि कायाश्रितत्वं282 प्रतिपादितं भगवता अन्योन्यानुविधायित्वं कायचित्त
060
योरपि वदता । अत्र परिहारः । कायविज्ञानैरुपक्रियमाणत्वादुक्तं कायाश्रितत्वं मनसो
भगवता । न तु साक्षात् कायस्तस्याश्रयः चक्षुरादिविज्ञानानामिव चक्षुरादीनि । तस्मादह
ङकारलक्षणं283
मनो न चक्षुरादीन्द्रियाश्रितं न देहाश्रितं (।) समानजातीयमनःसमाश्रितत्वमेवास्य
युक्तं । आरूप्यधातावपि तस्य भावात् तस्य च सम्भवप्रतिपादनात् ।
मा भूद् वाक्षैर्व्विना बुद्धिस्तथापि न परलोकाभावः अन्योन्याश्रयस्य भावात् (।) तदाह ।
यथैव हि भवतोभ्युपगमः शरीरमन्तरेण न बुद्धिरिन्द्रियात्मकं तथा दर्शनादिति । तथा
तान्यपीन्द्रियाणि न मनोबुद्धिं विना इत्यभ्युपगम्यताम् (।) अभ्युपगमनिबन्धनस्य तथा दर्शनस्य
समानत्वात् । तथा सत्यन्योन्यहेतुकत्वं प्रसक्तमुभयसन्तानस्य परस्परमुपकारात् ।
अन्योन्यहेतुकयोश्च सामग्री सामग्र्यन्तरादुत्पत्तिमती । ततोपि सामग्रीतः पूर्व्वके परे च
कायमनसी अन्योन्यहेतुके मध्यावस्थावदिति ज्ञातव्यं ।
यदि च काय एवाश्रयो मनोबुद्धिर्नं 284
सा कायस्य । ततः कायाद् बुद्धिर्भंवन्ती
क्रमवतोऽक्रमाद् वा भवेत् प्रकारान्तराभावात् ।
तत्र न तावदक्रमाद् यतः ।
इयं हि मनोबुद्धिः क्रमवती । अन्यथाहमिति स्वाकारस्य ग्रहणेतीतवर्त्तमानानागत
सकलस्वस्वभावग्रहणमिति सकलजन्मग्रहणप्रसङ्गः ।
अथावस्थानामग्रहणे न पूर्वापरव्याप्तिप्रतीतिः ।
अवस्था (ऽ) 285 ग्रहणेऽवस्थातृप्रतीतिः कथं भवेत् ।
यदि हि व्यापिन्यवस्था286 न प्रतीयते । व्याप्याप्रतीतेः कथमसौ व्यापकस्तथा प्रतिपन्नो
भवति । न हि तेन रूपेणाप्रतीयमानोपि तथा भवति । प्रतीतिरेव हि तत्त्वमन्यत्त्वं वा
व्यवस्थापयति । व्यापकत्वञ्चेदस्य न प्रतीयते । तदा तदन्येन रूपेण प्रतीयत इत्यापन्नं (।)
ततः कालान्तरस्थायितास्य नास्तीति (न) ४कालान्तरता प्रतीत्यन्तरस्य (।) ततः क्रमवती
प्रतीतिः । ततो नाक्रमात् क्रमिणो भावः ।
ननु यदि नामाक्रमं कारणं तथा भूतेनैव कार्येणापि भवितव्यमिति कुतः । न हि
कारणादभिन्नमेव कार्यं । विलक्षणस्यापि दर्शनात् ।
अत्रोच्यते ।
अक्रमाद् यदि कार्यं स्यात् तदैव सकलं भवेत् ।
061
एवं हि तत्कार्यंकारि यदि287
कार्यकाले गृह्येत । न ह्यप्रतीयमानं तदा तस्य कारणं ।
प्रतीतिश्चेत् तदा एकत्वाद् विनाशावधि प्रतीतिरिति तदैव विनष्टः स्यात् । एवं हि तस्या
कमता । ततो विनष्टादपरं कार्यंन्न भवेदेव । भवद् वा न तत् कार्यं । अथ क्रमेण
प्रतीयमानं क्रमवतः कारणं । तथा सति नाक्रमं । न हि नीलतया प्रतीयमानमनीलं । अथवा(।)
नोच्यते कारणात् कार्यन्तद्रूप288 मुपजायते । अन्वयव्यतिरेकाभ्यां कार्यकारणतेति तु ।। ४१० ।।
कारणविलक्षणमपि कार्यं कार्यमेव । अन्वयव्यतिरेकानुविधानलक्षणत्वात् कार्यकारण
लक्षणतायाः289 । यत्र त्वन्वयव्यतिरेकौ न भवतः तन्न कार्यं कारणञ्च । यच्च तथाभूत
एव कारणे न भवति न290
तस्य कारणानुविधायिता ।
ननु नतु तद्भावेनोत्पद्यते इत्येव तद्भावे तु भवत्यवश्यमिति291 क्वोपयोगोस्य ।
तद्भावेपि न भावश्चेदभावे (ऽ)292 भाविता कुतः ।
यद्यसौ समर्थोपि कारणे न भवति (।) कारणमेव तस्य तन्न स्यात् । कुतो वैत
दवगम्यते तदभावप्रयुक्तोऽस्याभाव इति । यथैव तदवस्थ एव कारणे (सति)६ स्वयमेव
न भवति । तथा तदभावेपि स्वयमेव न भविष्यति स्वातन्त्र्यात् (।) तस्यापरतन्त्रत्वे
कारणस्य (सति)६ सामर्थ्येऽवश्यमेव भवेदिति ।
अभावो हि निर्हेतुकत्वात् स्वयमेव भवतीति युक्तं । भावस्तु हेतुपरतन्त्र/?/त्वात् समर्थ
हेतौ न भवतीति न युक्तमेतत् ।
ननु कार्याभावः स्वतन्त्रत्वात् कारणे सत्यंपि च (? न)293
भवतीति युक्तमेवैतत् ।
एवं तर्हि तदभावेऽभाव इति न कारणाभावप्रयुक्तोऽभाव इति कथं भवेत् कार्यमस्य । ततः
स्वयमेव न भवेत् । यश्च स्वयमेव294 न भवति नास/?/ नियम्यते तेन (।) ततो/?/ यथा स्वयं
न भवति तथा भवदपि (।) तता न काय । यदा तु कारणे सति भवे/?/दे/?/व तदा स्वरस
निरोधेपि अपरापरक्षगा/?/त्पत्तस्तदभाव एव सन्तानाच्छद इति कारणप्रतिबद्धत्व । तस्मान्ना
क्रमात् क्रमिणा भावः ।
अथाक्रमादपि सहकारिणं क्रमिणमपेक्षमाणात् क्रमवत् कार्यमिति । तदपि नास्ति ।
नास्त्यपेक्षा(ऽ) विशेषिणो/?/ऽनाधेयविशेषस्य क्वचिद् दिशेषलाभाय नापेक्षा । न तस्य
विशेषोस्तीति । विशेषे वा (ऽ)७ नित्यताव्यतिरिक्तविशेषाभ्युपगमे च तद्विशेषापेक्षं कार्यन्तत
एव भवन्न ततो नित्यात् । तस्यासौ विशेष इति चेत् । न (।) विशेष इति विशेषकरत्वं
062
विशेषप्रत्ययकरत्वं वा । न विशेषकरत्वं तस्याविशेषात् । विशेषाद् विशेष इति तदेवा
नित्यत्वं व्यतिरेके पूर्व्वकः प्रसङ्ग इति
अथ विशेषप्रत्ययहेतुत्वं । तदप्ययुक्तं ।
अविशेषप्रतीतौ हि स नित्य इति गम्यते ।
विशेषे (ऽ)295 /?/ भ्रान्ततायाञ्च नित्यतायां प्रमा कुतः ।। ४१४ ।।
अविशेषप्रतीतिश्चेदपेक्ष्यत्वे296 कथं भवेत् । औदासीन्यं यतस्तस्य विशेषोपि न विद्यते ।। ४१५ ।।
तस्मान्नास्त्यपेक्षा (ऽ)१ विशेषिण इति युक्तं ।
कायात् क्रमाद् भवन्ती धीः क्रमं कायस्य बोधयेत् ।
पूर्व्वपूर्व्वानुभवतः सा मनोधीः प्रवर्त्तते ।
सोपि पूर्व्वत एवेति सो पीत्य297 स्यानवस्थितिः ।। ४१८ ।।
अथ पूर्व्वपूर्व्वबुद्धिसापेक्षः कायः क्रमेण बुद्धिं जनयति । तथा सति कायस्य विशेषेण
भवितव्यं । ततः कायस्य बुद्धिसहितस्य पूर्व्वः पूर्व्वस्तथाभूत एव कायो हेतुरिति प्राप्तः ।
तथा सति (।)
य एव खलु बुद्धिसहकारी देहः परस्य पूर्व्वः पूर्व्व उपलब्धो हेतुः स एव सर्व्वदा
मध्यावस्थावज्जन्ममरणयोरपि हेतुरिति सिद्धं । अन्यथा व्याप्तेरप्रतिपत्तेर्हेतुरेव कश्चित्
कस्यचिन्न भवेदुपायान्तराभावात् ।
न च कार्यकारणभावो298
नाभ्युपगम्यते व्यवहारिभिरिति प्रतिपादितमेतत् पुरस्तादिति
विरम्यते ।
ननु यथा मध्यावस्थायां सविज्ञानककायपूर्व्वकत्वेन कायस्योपलव्धेः पूर्व्वंकोपि जन्मा
दिकायो विज्ञानसहितकायपूर्व्वक इति जन्मान्तरविज्ञानादेव299
विज्ञानमैहिकादपि300 भावि
जन्मविज्ञानमिति परलोकप्रसिद्धिः । तथा हेत्वन्तराद् विपर्ययोपीति परपक्षप्रसिद्धिः ।
तथा हि ।
063
यन्मरणविज्ञानं तच्चित्तान्तरं न प्रतिसन्धत्ते यथा वीतरागमरणचित्तं । मरणचित्तं च
जमान्तरप्रतिसन्धानकारितयेष्टं पृथग्जनचित्तमिति न प्रतिसन्धिरस्ति ।
अथायं हेतुरेव न भवति विपर्ययेण प्रतिबन्धात् । विपर्ययोपि तर्हि न हेतुरनेन
प्रतिबन्धादिति समानं । न समानं । यतो यो येन विरुद्धः स तदभावं साधयेत् । यो येन
सम्बद्धः स तद्भावं (।) न च मरणचित्तस्य प्रतिसन्धानविरोधः ।
यतः ।
अन्त्यचेतसो हि चित्तान्तरप्रतिसन्धानेऽसत्त्वेन साध्ये को विरोधः तेन सह तद्विषये
(न)302
वा येन तस्याभावः साध्यते303 । को विरोधः (।) न कश्चित्(।)304
न सहानवस्थान
लक्षणः परस्परपरिहारलक्षणो वा । मरणचित्तत्वागमे प्रतिसन्धानविपर्ययस्याद्ृष्टेः । अत
एव तत्परिहारेणावस्थानस्यादृष्टिः । अदृश्यत्वाज्जन्मान्तरप्रतिसन्धानस्य । ततो मरणचित्तत्वं
न प्रतिसन्धानविरुद्धमुभयरूपस्यापि विरोधस्यादृष्टेः । ततः प्रतिसन्धानाभावं न साधयति ।305
कार्यत्वन्तु प्रतिसन्धानाभावविरुद्धं (।) ततस्तदभावसाधनाय समर्थमिति विपर्ययात् प्रतिसन्धान
प्रसिद्धिः (।) न च परस्परविरुद्धार्थाव्यभिचारिणावैकत्र स्त इति प्रतिपादयिष्यते ।
नन्वत्र परस्परपरिहारस्थितिलक्षणो विरोधोस्त्येव कथं विरोधाभावः । यतः ।
प्रदीपस्येव हि निर्व्वाणमर्हत्सम्मतपुरुषमरणचित्तस्य (।) ततस्तत्परिहारेण व्यवस्थितं
मरणचित्तमिति प्रतीतेर्विरोधप्रसिद्धिरिति विरोधाभावो न प्रसिद्धः ।306
तदप्यसम्बद्धं । तदपि नामार्हतश्चित्तं कुतः प्रमाणादसन्धानं मतं भवतां (।)नात्र
भवतां प्रमाणमस्ति तद्वाधनायैव भवतामुद्यमात् । यद्यर्हन्नह्यभ्युपगम्यते । ततस्तस्य क्लेशवि
संयोगकृतमसन्धानं नान्यथा । स च क्लेशविसंयोगः पृथग्जनानां नास्तीति कुतो(ऽ)307
प्रतिसन्धानमरणचित्तत्वेपि308 । न हि मरणचित्तत्वं प्रतिसन्धानविरोधि क्लेशविसंयोगस्य
प्रतिसन्धानेन विरोधाभ्युपगमात् ।६ स च नाभ्युपगतः ।
ननु च सिद्धान्तादेव गम्यते विरोधः । न (।) सिद्धान्तस्यार्हन्मरणचित्त एव विरोध
प्रतिपादनाय वृत्तेः ।
सिद्धान्तो हि न सर्व्वस्य विरोधस्य विधायकः ।
309 064
तद्रप्यसत् । यदि सिद्धान्तः प्रमाणबाधितस्तदाऽप्रमाणमेव । कुतस्ततः समीहितसिद्धिः ।
यदि न प्रमाणमेव सिद्धान्तस्तदा ततो न विरोधसिद्धिः प्रतिसन्धानेन मरणचित्तस्य (।)
किमसावनुगम्यतेनुवर्त्यते (वा)310 । न खलु (अ)१ प्रमाणमनुवर्त्त्यमानमपि प्रमाणं भवति ।
प्रमाणं चेत् सर्व्वत्र311
प्रमाणमिति विपर्य्ययासिद्धिः । क्वचित् प्रमाणं क्वचिदप्रमाणमिति
चेत् । न (।) इच्छाया उभयोरपि वादिप्रतिवादिनोः समानत्वात् । अथाहेतुर्वैकल्यादिति312
हेतुर्व्विरोधस्य साधको न सिद्धान्तः । हेतोर्वैकल्यतस्तदसन्धानं यदि । तदेव (हेतु)313
वैकल्यं
कस्मान्नोदितं नोक्तं हेतुत्वेन (।) किं मरणचित्तत्वादनैकान्तिको हेतुरुयन्यस्तः । अथवा हेतो
र्वैकल्यतस्तच्चेत् । हेतोः शरीरादिलक्षणस्य मरणावस्थायां वैकल्यं यदि हेतुत्वे तु किमत्राधि
कमुक्तं । अयमपि हेत्वाभास एव(।) पूर्व्वकोऽनैकान्तिकः । अयं पुनरसिद्धः । यतस्तदेवात्र
हेतुवैकल्यं न र्विद्यते । अथवा किं तदेवात्र नोदितं । नो इति प्र/?/बोधे । अमानोनाः
प्रतिषेधवाचका इति । किं नोदितं न दितं (।) दितं खण्डितं खण्डितमेवेत्यर्थः । वैकल्यमेवासि
द्धमविकलस्य पूर्व्वकस्य मनसो हेतुत्वात् । यथा चैतत् तथा प्रतिपादितं ।
अथापि स्यात् (।) नायमसिद्धो हेतुर्हेतुल्यवैकल्यलक्षणः । तथा हि (।) सेन्द्रियः
कायोऽनिन्द्रियो वा केशनखाग्रादिलक्षणो मनोविज्ञानस्याश्रयः । तथा हि कायादेवोत्पद्यते४
हृदयलक्षणात् अन्यतो वा ।
तदयुक्तं । कायस्य द्वयी गतिः सेन्द्रियोऽनिन्द्रियो वा प्रत्येकं हेतुरन्यथा वा । न
तावत्सेन्द्रियः ।
न तावत् प्रत्येकं सेन्द्रियः काय आश्रयः316 । सहेन्द्रियशक्तिभिर्व्वर्त्तत इति सेन्द्रियः ।
इन्द्रियरूप एव शक्तिशक्तिमतोरभेदात् (।) ततश्च प्रत्येकमिन्द्रियेभ्य एव, मनोविज्ञान
मुत्पद्यत इति पक्षः (।) तदाह । मनोज्ञानं न सेन्द्रियान्नेन्द्रियेभ्यः प्रत्येकं भवति (।)
तद्धीवदिन्द्रियबुद्धिवत् प्रतिविषयं ग्रहणस्य प्राप्तेः । चक्षुरिन्द्रियानुसारि हि मनो नियमे
नापरेन्द्रियानुसारि मनः स्वभावमन्यथा तद्धेतोरतत्स्वभावत्वे स कुतः स्वभावस्तस्येत्यहेतुकः
स्यात् ।
065
नन्वेकमपि कारणं तदतत्स्वभावकार्यजननस्वभावमुपलभ्यते । यथा वन्हिर्धूमजनन
स्वभावः । सामग्रीभेदश्च विद्यते रूपसामग्रीसमवधाने चक्षुश्च चक्षुर्विज्ञानं जनयति ।
रूपविरहे मनोविज्ञानमिति । एवं श्रोत्रादिषु वाच्यं ।
तदसत् ।
तद्धीवद् ग्रहणप्राप्तेरिति । अस्यायमर्थः । अक्षबुद्धिर्हि तद्वयापारमनुसरन्ती
प्राहिकाऽथस्येति तथा व्यपदिश्यते । यदि मनोबुद्धेरपि तत्त्वं । सापि तद्धीवद् ग्राहिणी
स्यात् तद्वयापारानुसरणेन । अन्यथा कथं तथा व्यपदिश्यते । तद्व्यापारानुसारणञ्च
नोपलभ्यते तज्जत्वेन च प्रतिपत्तिरिति व्याहतं । इन्द्रियाच्चासन्निहितेप्यर्थे पुरो व्यवस्थि
तार्थनिरूपणाकारचक्षुर्विज्ञानविज्ञानं तिमिरोपहतकेशकलापालोचनाकारवत् । मनोविज्ञा
नन्तु निमीलितलोचनस्याप्युपजायते कथं तत्रेन्द्रियव्यापारः । यद्विकारे च न विकारः कथन्त
दिन्द्रियजं । तत्र तद्धीवद्ग्रहणप्राप्तेरिति तद्विकारेण विकारिविज्ञानप्राप्तेरित्यर्थः । ग्रहणं
विज्ञानमेव । अथ तद्विकारेण न विकारः तदा न तज्जता । समुदायादपि नोत्पद्यत
इत्ययमेव परिहारः ।
परिहारान्तरमाह । ज्ञानोत्पादनसामर्थ्यभेदात् । ज्ञानोत्पादनं प्रति भिन्नमेव सामर्थ्यं
पृथग्भूतमन्यानपेक्ष्यमेव दृश्यते । न (।) परस्परापेक्ष्यम् (।) अन्यथा समुदायस्यका
भावेप्यभावादङ्कुर इव क्षित्यादिवैकल्ये न स्यात् । भवति च चक्षुरादिविकलानामपि मनो
विज्ञानन्तन्न समुदायप्रतिबद्धं मनः । अपिशब्देन पूर्व्वको हेतुः समुच्चितः ।
अचेतनत्वादन्यस्मादपि नोत्पद्यतेऽनिन्द्रियात् । नन्वचेतनत्वादिति कोऽर्थः । यदी
न्द्रियविज्ञानविरहादिति (।) तदिष्यत एव (।) कथमयं हेतुर्यदि नामेन्द्रियज्ञानं ततो न
भवति । मनोविज्ञानन्तु कस्मान्न भवति । अथ मनोविज्ञानाभावादचेतनत्वं तदेव विचार्य
माणमिति प्रतिज्ञार्थैकदेशो हेतुः ।
अत्रोच्यते ।
यथा हि चेतनतः स्पर्शादय उपलभ्यन्ते तद्विज्ञानैर्न तथा मनोविज्ञानेन केशनखादयः ।
तत्परिबद्धत्वे तदभावे मनोविज्ञा/?/नं न यस्यात् तदुपघाते चोपहतं भवेत् । यदि न काय
आश्रयस्तदा सहस्थितिः कथं । तदाह । हेतोः कर्म्मसंज्ञितस्य सहस्थितिनियमका
रिणोऽभेदात् सामर्थ्यस्य तथा व्यवस्थितत्वात् । अक्षवद्रूपरसवत् । यक्षाक्षाणां रूपरस
योश्च परस्परमनाश्रित्वेपि कञ्चित् कालं सहस्थितिनियमः । न हि सहस्थितावाश्रया
श्रयिभाव एव कारणं ।
ननु तद्विकारविकारित्वादाश्रयाश्चक्षुरादय श्चक्षुर्विज्ञानादीनां । तथा शरीरविका
रात् विश्लेषादि नाम न स्तिमितादिलक्षणो विकार इत्याश्रयाश्रयिभावः ।
तदप्यसद् (।) अर्थस्य ग्राह्यस्य द्वारेण विक्रिया । पीडामसहमानस्य तद्भावनया
तन्मनसिकारेण विक्रिया । आलम्बमाना हि शस्त्रप्रहारादयो मनसा मनसः पीडाकारिणो
066
नाश्रयभूताः । आलम्बनञ्च बाह्यमपि विकारकारि । न च तस्याश्रयभावः । तदभावेप्या
रोपमात्रात् पीडोत्पत्तेः ।
न चाश्रयालम्बनयोरेकता । ततस्तदाश्रयो न काय इति । न क्लिष्टं मनः कायाश्रितं
ततः । यश्च तस्याश्रयः स पश्चादावेदयिष्यते । पूर्व्वापरसमारोपमात्रमालम्बनं परं मनसो
नान्यदस्तीति निरालम्बनाश्रयः ।
अपि च ।
कोऽसौ विशिष्टो हेतुर्यस्य निवर्त्तकत्वं । तदाह ।
स हि हेतुर्निर्वर्त्तको यस्य सत्तोपकारिणी (।) नित्त्यं तदनुबन्धतः । तदनुबन्धेनेति ।
अनुबन्धोनुवर्त्तनं । सदानुवर्त्तनादुपकारिणी यस्य सत्ता । यस्य तु कदाचिदुपकारसामर्थ्यन्तद
भावेपि कदाचिदुपकारोऽन्यतोपि भवति विशेषलक्षणः(।)स नित्यमनुवर्त्तको न भवतीति न तन्नि
वृत्यापि तन्निवृत्तिः । देहस्य च सत्ता न सर्व्वदोपकारिणी पूर्व्वचित्तमात्रविकारेपि कदाचिद्
विकारदृष्टेः । ततो देहाभावेपि कदाचिच्चित्तविकारविहितविकारत्वात् तदुपस्तम्भादास्त एव
चित्तसन्ततिरिति संभाव्यते । न च देहः सदोपकारितया कारणमिति प्रसिद्धः । तथा हि ।
न तावदनुत्पन्नं वेदनं जानात्यहमतो भविष्यामि भवामि (अ) भूवं वेति । उत्पन्नस्य तु
वेदनस्याहमिति । स्वरूपमालम्बमानस्यान्यद् वा तदधिगतिरेव । कुतः पुनरन्यस्यावगतिरिद
ममुत उत्पन्नमिति । न खल्वन्यदालम्बमानमन्यदवगच्छति । चक्षुरादिविज्ञानानामपि तर्हि
सैव कल्पनेति कुतश्चक्षुरादिकारणत्वमतिः । न । तेषामन्वयव्यतिरेकगतिसम्भवात् ।
तथा हि ।
अथास्य स्यात् स्वसंविर्त्तिर्यदि प्राग् विद्यते मतिः (।)
प्रसुप्तावस्थायां नास्त्येव स्मृतेरभावात् ।
प्रबुद्धस्य यतो दृष्टा स्वप्नसंवेदने स्मृतिः ।
तदसत् ।
न खलु स्वप्नसंवेदनं जाग्रद्विज्ञानान्तरमिति केनचित् प्रतीयते । तथापि तत् तत एव ।
067अथ प्रबोधे सति तस्य प्रतीतिः । तस्यापि प्रबोधे न प्रतीयते इति कुत एतत् ।
तस्मादप्रतीतिरेव देहस्य सदोपकारित्वेन ततोस्य निवर्त्तने विज्ञानं निवर्त्तत इति न गतिः ।
अथ गोमयादुत्पद्यते शालूकः । न च तस्य सत्तोपकारिणी नित्यं तदनुबन्धेन ।
तथापि गोमयाभावे प्रथमभाव एव शालूकस्य ।
तदपि यत्किञ्चित् । यतः (।)
यादृशो हि गोमयादुत्पद्यमानो दृष्टः शालूकः स किं तादृश एवान्यदाप्युपलभ्यते ।
मनोविज्ञानन्तु तथा भूतमेवादौ पश्चाच्चेति न तेनैकान्तिकता ।
ननु अस्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते इत्येतदेव हेतुलक्षणं भगवतोक्तं ।
न तु सदानुवर्त्तकमपरं विचारितं । भगवानेव च परमार्थतः कार्यकारणभावे पारमार्थिकं
प्रमाणं व्याप्यन्वयव्यतिरेकग्रहणादिति प्रतिपादितं । न च सम्भव्युपकारवानर्थो नोच्यते
भगवता । तत् कथमेतत् ।
नैष दोषः । तस्मादेवास्माभिरुक्तात् सदोपकारित्वेन सप्तमी(।) तस्मादेव पञ्चमी
उत्पादादिति चोच्यते । अस्मिन् सतीदं भवति इति सदानुवर्त्तनमाह । सतीति निमित्त
सप्तमी(।) अन्यथा तदभावेपि भवने न तन्निमित्तकोस्य भावः । पञ्चम्यपादानेऽपादानता च
जनिकर्त्तुः प्रभव317 इति । प्रभवश्च निमित्तमेव ।
अथवान्यथा व्याख्यायतेस्माभिः । यदि विज्ञानपूर्व्वकं विज्ञानन्तथापि जन्मादिविज्ञानात्
पूर्व्वकजन्मविज्ञानमिति प्रतीयतां । तस्य तत्कार्यत्वात् । भाविजन्मविज्ञानन्तु कुतोनुमीयते ।
अथ समर्थकारणदर्शनात् कार्यानुमानं । तत् तर्हि हेत्वन्तरं प्रसक्तं कारणलक्षणं । अथ
कार्ये सन्देहात् योग्यतानुमा नं न भाविपरलोकानिश्चये व्यर्थता योग्यतानुमानस्य । भाविपर
लोकानुमाने हि धर्म्मादिषु प्रवर्त्तनप्रयासः सफलः ।
अत्रोच्यते । कारणमेव भाविजन्मविज्ञानं कार्यमपि तत् । यतः (।)
सत्तोपकारिणी यस्य नित्यन्तदनुबन्धतः (।)
स हेतुः । यस्य हि सत्तोपकारिणी नित्त्यं तदनुबन्धतः । व्यापित्वेन व्यापकं व्यतिरेके
सति कारणं । अर्थान्तरे गम्ये कार्यमेव हेतुर्यदर्थान्तरस्य गमकं तद् व्यापकस्यैव । अन्यथा
व्यभिचारित्वा(द)गमकता स्यात् । यच्च यमन्तरेण न भवति तत् तस्य कारणं । कारणं
कथं कार्यमिति चेत् । न (।) तस्य कार्यत्वात् । तथा हि ।
अयं विकार एव न स्यात् । यद्यभ्युदयेन न भवितव्यं तत्कृतोयं विकार इति
सकललोकव्यवहारः । एतावतैवान्यत्रापि कार्यत्वं भावि कथं कारणं । तदव्यभिचारादेव ।
ननु य उपकारी स कारणं कथं च भाव्यविद्यमानमुपकारि । अतीतं तर्हि कारणन्न
प्राप्नोति ।
तदप्यसत् (।) नोपकारीति न । तदुत्पत्तिकाले विद्यमानत्वात् । कोयमुत्पत्तिकालः ।
यदि कार्यात् प्राक् कथमविद्यमानस्योपकारकः । अत एव कारणमविद्यमानकरणात् ।
अविद्यमानस्यं करणमिति कोर्थः । तदनन्तरभाविनी तस्य सत्ता । तदेतदानन्तर्यमुभया
पेक्षयापि समानं । यथैव भूतापेक्षया तथा भाव्यपेक्षयापि । न चानन्तर्यमेव तत्त्वे निबंधनं ।
व्यवहितस्यापि कारणत्वात् ।
तथाहि ।
न खलु तत्र शरीरं कारणं पूर्व्वसंस्कारानुवर्त्तने न तस्य दृष्टेः । तादृश एव हि शरीरे
न्यथा चान्यथा पूर्व्वविज्ञानानुरूप्येणोत्पत्तेः ।
यदेव यदन्वयव्यतिरेकानुविधायि तदेव तस्य कारणमपरस्तु विशेषो व्यर्थः ।
अथापि स्यात । अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यत इति कार्यकारण
भावलक्षणं । न चात्रान्वयव्यतिरेकमात्रमनेन कथ्यते । यतः ।
नहि तदन्वयव्यतिरेकानुविधानमात्रमत्रोपदर्शितं । पूर्व्वापरभावोपदर्शनस्य परि
स्फुटत्वात् ।
तदप्यसत्त्यं । सप्तमी तस्मादादुत्पादादिति चोच्यते । न खलु सप्तम्या पूर्व्वभावस्यो
पदर्शनं पञ्चम्या वा । निमित्तत्वमात्रत्वस्योपदर्शनात् । एतन्निमित्तकोयमित्यर्थः । यदभावे
च न भवति यः स एव भवंस्तन्निमित्तकोयमित्यर्थः ।
ननु सतीति कथं भावी व्यपदिश्यते । तस्याविद्यमानत्वादेवं व्यपदेशानुपपत्तेः । तथा
नोत्पादोनुत्पन्नस्य ।
नन्वतीतस्यापि कथं सत्ता येनासौ सतीति व्यपदिश्यते । विनष्टस्य च कथमुत्पादः ।
आसीदिति चेत् । अन्यस्यापि भविष्यति । कः प्रागभावप्रध्वंसाभावयोर्विशषः । अथवा
अस्मिन् सतीदं भवतीति यस्य च भावेन भावलक्षणमित्यनेन सप्तमी । ततः सतीत्यनेन
निमित्तभावमात्रं लक्ष्यते । न तु तदा सत्त्वं तदभावेन च भावलक्षणं (।) भावेन च भावो भाविनापि
लक्ष्यत एव मृत्युप्रयुक्तमरिष्टमिति । लोके व्यवहारः । यदि मृत्युर्ना भविष्यन्न भवेदेवं भूतम
रिष्टमिति । न चोत्पादादिति कालविभागः । न खलु विभक्तयः कालविशेषविधायिन्यः
कारकत्वमात्रप्रतिपादने सामर्थ्यात् । कारकत्वमेवासतः कथमिति चेत् । कथमंकुरो जायते ।
घटं करोतीति कर्तृकर्म्मभावः । बुद्धिस्थतया कारकत्वे नात्र तस्य काकैर्भक्षणं ।
अथ यस्योपलम्भपूर्व्विका यस्योपलब्धिस्तत् कारणं ।
तदप्यसत् ।
अथ तज्जातीयस्य प्रथममुपलब्धिरिति तथोच्यते । कथमनुपलब्धस्य कारणत्वं (।) न
ह्यन्यस्योपलब्धावन्यस्योपलभ्यमानता । उपचरमात्रन्तु स्यात् । तस्मादुपलब्ध्या सत्तोप
लक्ष्यते । तथा च स एवार्थः । अस्मिन् सतीति निमित्तभावः सत्तायाः । स चाव्य
भिचारविषयत्वमेव । यस्य तु प्रागुपलब्धिरिति तु सर्व्वस्य तु पूर्व्वभाविनः कारणत्वप्रसङ्गः ।
अव्यभिचारविषयत्वे तदेव कारणत्वं ।
अथाव्यभिचारविषयत्वे सति पूर्व्वाभावस्तदपि यत् किञ्चित् ।
पूर्वपरभावस्य हि क्वोपयोगो न चानुपयोगवदपेक्ष्यते ।
अथापि स्यात् ।
पूर्व्वं हि कारणं कार्यार्थिनोप्यादातुं शक्यं । ततः कारणस्य पूर्व्वभाव इष्यते । तद्यथा
भाविपरलोकसाधनाय तत्प्राग्भाविवर्त्तमानेह लोकोपादानं (।)
तदपि न युक्तं कारणत्वमपि तस्यास्त्येव न हि प्राग्भाविनः कारणत्वं न विद्यते ।
कार्यत्वमपि तु तस्य भाव्यव्यभिचारापेक्षया भवतीति भण्यते । यच्च कारणत्वे सत्युपादानं
तत् कार्यत्वे भविष्यति । को हि विशेष उपादानेऽव्यभिचारमात्रेणोपादानमियता किन्न पर्याप्तं ।
यच्चोक्तं (।) समर्थकारणादेवानुमानं किन्तत्र कार्यत्वेन ।
तदसत् ।
को हि हस्तगतं पादगतं कुर्य्यात् । नखच्छेद्ये वा कुठारच्छेद्यतां प्रतीक्षेत ।
तस्मादनागतस्यापि कारणत्वमव्यभिचारादिति युक्तमेतत् ।
उक्तन्तावदर्थद्वारेण विक्रिया देहान्न चक्षुरादिवदाश्रयत्वद्वारिका । अभ्युपगम्येदानी
मुच्यते (।)
कदाचिदाश्रयत्वेनोपकारकत्वेपि देहस्य तावता न देहनिवृत्तौ विनिवृत्तिश्चित्तसन्ततेः ।
नोपकारक इत्येव निवर्त्तको भवत्युपकार्यस्य न वह्न्यादेरासादितोपकारकविशेषस्य घटादेर्व-070
ह्न्याद़िनिवृत्तौ नियमेन निवृत्तिः सुवर्ण्णादेर्वा द्रवता लक्षणविशेषासादनेपि चित्रभानोर्न
तन्निवृत्तौ निवृत्तिः ।
यदि नाम स एव विशेषो द्रवतादिलक्षणो निवर्त्तंते सुवर्ण्णं तु तदवस्थमेव । यस्य
चित्तं कारणं चेतसस्तस्य देहस्य तदवस्थस्य भावेपि तद्वैगुण्यान्निवृत्तिः
केवलदेहकारणत्वे बाधकमुक्तं । अपरमप्युच्यते ।
देहाभावे भस्मावस्थायां भवतु निवृत्तिः कारणाभावात् । देहेतु तथा भूत एव
तिष्ठति न निवृत्तियोगः । अन्यथापि च (।) सर्व्वावस्थानुयायित्वाच्च ।
अथ प्राणापानकार्यतापि तस्य ततस्तद्वैकल्यात् निवृत्तिरिति (।)
तदप्ययुक्तं । प्राणापानौ चित्तादेव न ततश्चित्तमिति न परिहारः । कुत एत
दिति चेत् (।) तदत्र भावभावात् । चित्ते सति तयोर्भाव इति न विपर्ययः । वश्यत्वाच्च
प्राणापानाभ्यां न तत् । यदि चित्तकारणं प्राणपानौ तदा तद्वशौ न स्यातामुपलभ्यते च
चित्तवश्यता तयोः । यदि चान्यत उत्पन्नो तदा तत एव तदुत्पत्तिरिति चित्तमकिञ्चित्कर
मेव स्यात् । न खल्वन्याधीनमन्येन वशयितुं शक्यं । तयोः स्वकारणाधीनयोश्चित्तं परि
च्छेदकमेव केवलं भवेत् । अथ चित्तसहकारि तयोः कारणं तौ जनयेत् । चित्तमपि
तर्हि तयोः कारणमिति न ताभ्यामुत्पद्यते । अथान्यतोपि मूलत उत्पन्नौ प्राणापानौ चित्तेन
नियम्येते यथा स्वामिना भृत्यः । तदसत् ।
न हि प्राणापानौ चित्तमन्तरेण दृश्येते भृत्यवद् (।) अतो नान्यतः कारणादिति चित्त
मेव कारणमिति न ताभ्यान्तत् ।
अथापि स्यात् । स्वापावस्थायां प्राणापानयोर्भावात् न चित्तकारणत्वमनयोः (।)
न हि तत्र तथाभाव एव हि । अनन्यहेतुतामेव दर्शयति ।
यदि प्राणापानकार्यं चैतन्यं तदा प्रेरणाकर्षणे वायोः प्रयत्नेन विना स्यातां । न चैवं
प्रेरणाकर्षणरूपत्वात् तयोः । अथ प्रेरणाकर्षणमेव तयोश्चित्ताधीनं न स्वरूपं न स्वरूपमन्यतः
कारणादिति ततश्चित्तं ततः प्रेरणाकर्षणे ।
तदप्यसत् ।
यदि स्थिरो वायुर्न कारणं चेतनायाः । अनिवृत्तिरेव प्रसक्ता चेतसः । अथापि
कारणं तथापि मृतस्यापि स्थिरता वायोरस्तीति । प्राणापानौ च कार्यरूपाविति न तदभावा
न्निवृ(त्ति) श्चेतस इति अनिवृत्तिप्रसङ्गः । प्राणापाननिर्ह्रासातिशयाभ्याञ्च चेतसो निर्ह्रा-
सातिशयौ प्राप्नुतः । तत्कार्यत्वादवश्यं कारणे परिहीयमाणेऽतिबर्द्धमाने वा कार्यस्य हानिरुपचयश्च
भवत्यन्यथा कारणन्तदिति न स्यात् ।
भवेतां वा प्राणापानौ चेतसः कारणन्तथापि देहे तिष्ठति चेतसोऽनिवृत्तिप्रसङ्गः ।
तयोरपि प्राणपानयोरनिवृत्तेः । तयोरपि देहकार्यत्वादनिवृत्तिरेव । तदनिवृत्तेश्चेतसोप्य
निवृत्तिरिति ।
स्यादेतत्(।) चेतः कारणेपि चेतस्ययमेव प्रसङ्गः ।
अत्रोच्यते(।) न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते । अन्यदपि तद्देहसतृष्णकर्म्मसंज्ञितं कारणमिष्यते ।
नहि पूर्व्वचित्तसत्तामात्रकादेव चित्तमुत्पद्यते । तदपरस्यापि संस्कारबीजसंज्ञितस्या
विद्यादिरूपस्य कारणत्वात् तस्य पूर्व्वचित्तप्रबोधने तत्र चित्तोत्पत्तिरन्यत्र वा चित्रत्वाद्
वासनाभेदानां प्रबोधकानाञ्च । तद्यथा । न सिद्धसम्बन्धमात्रादेव नानाप्रकारस्वप्नदर्शनं ।
समानेपि हि सिद्धसमागमे कदाचिदेव किंचित् स्वप्नदर्शनं भवति वासनाप्रबोधचित्रत्वात ।
वोसनाप्रबोधचित्रत्वाद्धि निवृत्तिर्त तु देहमात्रकारणत्वेप्येवमवे दृष्टत्वादिति कुत एतत् ।
यदि देहसिद्धमात्रमेव कारणं सर्व्वेषां सर्व्वदा समानं स्वप्नदर्शनं प्रसक्तं । कस्यचित्तु
किंचिदुपलभ्यत इति वासनासङ्गमकृतमेव तदिति युक्तं । वासनानामनेकाकारत्वात् । ततः
सकलमेव चित्तं तत्र देहेऽन्यत्र च वासनाप्रबोधविहितव्यतिकरं नान्यथा संभावनीयं ।
अथ वासनाबलादुत्पत्तिमासादयदसत्यमेव स्वप्नवत् । तदप्यसत्त्यं ।
वासनाबलमवलम्व्यमाना हि सुरतादिव्यवहाराः समीहितार्थक्रियाकरणप्रवणप्रवर्त्तनाः
किमसत्यताव्यतिकरव्यस्तात्मानः ।
अथ वासनान्वयिनोपि सुरतादिव्यवहाराः सत्यस्त्र्यादिसमन्वयिन इति नासत्त्याः
जन्मादिव्यवहारा अपि तथेति समानं । तेषामपि तत्र सत्त्यशरीरान्तरोत्सङ्गोपादानतेति
नासत्त्यता(।)तथा हि(।)शुकशोणितोपजनितं शरीरान्तरमुपादाय जन्म प्रवर्त्तते वासनाबलभावेपि ।
कथं शरीरान्तरसंचरणमुपलभ्यतामन्तरेण । वृद्धादिशरीरावस्थासंचरणवत् ।
एकशुक्रशोणितोपादानमेव शरीरं तदिति न शरीरान्तरसंचारः । पश्वादिशरीरन्तु
शुक्रशोणितान्तरादुत्पन्नं शरीरान्तरं । तथाभूते च न संचारो दृष्टस्तत् कथं सम्भाव्यते ।
बालादिभावेन हि कुमारादिशरीरं न तदेकमिति शक्यं वक्तुं । तत्र संचारो दृष्ट
एव । तत्सहचारितयोत्पत्तिरेव तत्र संचारः । वासनावलाच्च तथोत्पत्तिरित्यविरोधः ।
अथ विलक्षणशरीरान्तरसंचारो न दृष्टः । तदपि स्वप्नान्तिकशरीरसंचारदर्शनादनै
कान्तिकं । तस्यालीकत्वादसंचार एवासाविति चेत्(।)न(।) दृश्यमानस्यालीकत्वायोगात् ।
यथैव हि तस्यासत्त्यत्वं तथा तत्र सञ्चारोपि । किमिदमसत्त्यत्वं नाम(।)बाध्यमानत्वं
जाग्रत्प्रत्ययेनेति चेत् । यदा स प्रत्ययस्तदा स न बाध्यते । अन्यदातु वाध्यत इत्ययुक्तं ।
तदैव जाग्रतानोपलभ्यत इति चेत् । तेनापि जाग्रत्प्रत्ययोपलब्धो नोपलभ्य इति समानो
बाध्यबाधकभावः । अथ प्रबोधे नोपलभ्यते । प्रबोधाप्रबोधयोः कथं विवेकः । प्रबुद्धोहमिति
प्रत्ययोत्पत्तेः प्रबुद्धोहमिति प्रत्ययः स्वप्नेपि भवतीति कथन्ततो विवेकः । तस्मात् समाने
उपलम्भे नाभावोऽसत्त्यता वा युक्ता ।
अथ वासनादौर्वल्यादचिरस्थायिताऽसाधारणोपलम्भो दौर्बल्यलक्षपोऽसत्त्यत्वं ।
यत्र तर्हि वासानादाढ्र्यं तत्र विपर्यंय इति सत्त्यता संचारस्य । साधारणोपलम्भे च ।
यत्र वासनादाढर्यं स जाग्रत्प्रत्ययः । सत्यश्च साधारणोपलम्भश्च । स्वरूपेण तु
तदस्त्येव ततः सिद्धः सञ्चारः । दार्ढ्याभावात्तु झटिति विघटनं । यत्र च देवतादेशो
द्वयोरपि स्वप्नदर्शिनोः प्रतिभासते तत्र कथमसत्त्यता ।
अथ तदा सत्यतैव तथा सति न स्वप्नार्थस्य सकलस्यासत्यता । तथा सति(।)
अथवा जन्मादौ चित्तसंस्कारफलस्य पाटवस्योपलम्भान्मरणान्तरं संचार इति प्रतीतं ।
अयन्तावज्जन्मादावन्यदा च शरीराग्रहादिरूपञ्चेतसः स्वभावस्तारतम्ययोगी सकल
जन्मिनां पूर्व्वाभ्यासतारतम्यफलतयोपलभ्यमानो न पूर्व्वकशरीराग्रहाभ्याससंस्कृतचित्तमन्तरेण
भवतीति(।) तत्सामर्थ्यादेव शरीरान्तरादिह शरीरे संचरणमिति प्रतीयतां । नान्यथानुमावृत्तिः ।
अथ प्रत्यक्षं संचारे नास्ति तत्कथमनुमात् प्रतीतिः । अयमप्यदोषो यतः(।)
परस्परविषयपरिहारेण हि प्रवर्त्तनमध्यक्षानुमानयोरिष्यत एव । कथं स एव दोषः ।
अथ तज्जातीये वृत्तिमन्तरेणाध्यक्षस्य कथमनुमानं । स चापि न दोषः ।
आग्रहरतावदभ्यासात् प्रवृत्त उपलभ्यते । शरीरेन्यत्र वाध्यक्षात् तत एवानुमा न किं ।। ४५५ ।
तदेतदुच्यते(।) कथन्तज्जातीये प्रत्यक्षमन्तरेणानुमानमध्यक्षपूर्व्वकत्वादनुमानस्य । तत्रायं
परिहारः । यदि नाम न दृष्टोध्यक्षतः संचारः संचारानुरूपन्तु फलमुपलभ्यत एव ।
ग्रामान्तसंचारवत् । तद्यथा ग्रामन्तराद् देशान्तराद् वागतः पूर्व्वाभिरतिविषयसजातीय
एवोपकरणादौ रममाण उपलब्धः । यदि नामापरस्तथाभूतो ग्रामान्तरादागच्छन्नोपलब्ध
स्तथापि तथाभूतदेशादागतिरस्योपलभ्यत एवानुमानात् । एवमुपकरणादिविशेषाभिरसादेव
लोकादागतिरप्यनुमीयतां ग्रामान्तरादागतौ प्रत्यक्षवृत्तिमात्रेणानुमानवृत्तेः । न हि धूमादनु
मीयमानेग्नौ विशेषयोगिनि प्रत्यक्षवृत्तिः । अग्निमात्रप्रवृत्तिरिति चेत् । इहापि देशादि
संचारे वृत्तिरिति समानमेतत् ।
अथापि स्याद्(।) देशान्तरादिसंचारस्तेनैव शरीरेण दृष्टः शरीरमत्यजतः । यथा
च स्वप्नशरीरसंचारोऽसत्त्यस्तथेहापि जन्मादौ शरीरापरित्यागासत्त्यते स्यातामित्यसमंजसं ।
तथा हि ।
यथा चात्यन्तविच्छेदः स्वप्ने स्वप्नोपलम्भने ।
यथैव खलु देशान्तरसंचारः शरीरमन्तरेण तथा जन्मान्तरसंचारोपि यदि भवेद् विपरीत
साधनमायातं । तथा स्वप्नसंचारो सत्त्यशरीरान्वयी दृष्ट इति परलोकसंचारोपि तथा भवेदसत्त्य
एव परः पूर्व्वश्च लोक इतीष्टमेव नास्तिकानां ।
किंच(।) यथा स्वापावस्थायामस्वप्नदर्शिनो विच्छेद एव विज्ञानस्याव्यक्तविज्ञानता वा
(।) तथा यदि परलोकोपि किं तादृशेनेति न विनष्टा दृष्टिर्नास्तिकानां किं कृतं परलोक
वादिनां स्यात् । अत्रैतदुच्यते ।
उक्तमेतद्(।) विज्ञानं शरीरेस्मिन् पूर्व्वशरीरसङगतविज्ञानाभ्यासफलत्वेनोपलभ्यमानं
नियमेन शरीरपरित्यागमन्तरेण न भवतीति कथं शरीरपरित्यागः । दृष्ट एव पूर्व्वशरीर
परित्यागः । एतच्छरीरोपलम्भ एव पूर्व्वशरीरपरित्यागोपलम्भ इति पूर्व्वशरीरस्याप्रसिद्धौ कथं
पूर्व्वशरीरपरित्यागप्रसिद्धिरिति चेत् ।
विशिष्टपूर्व्वाभिरतिसाधनादेव पूर्व्वशरीरप्रसिद्धिः । न च तदेवेदानीं शरीरमुप
लभ्यते । न चातीतमनुपलभ्यमानं तदापि न भवति । ततः पूर्व्वशरीरापरित्याग
इत्यध्यक्षबाधितमेतत् ।
यदपि चोक्तं । यथा स्वप्नादिहागमनमसत्त्यात् तथा परलोकादप्यसत्त्यादेव । तथा
चातो गमनं स्वप्नशरीरेऽसत्त्ये तथा परलोकेपीत्यसत्त्यता परलोकस्य ।
एतदप्यसत्त्यं । स्वप्नासत्त्यता हि सत्त्यतान्वयिनी । सत्त्यप्रत्ययस्य च निमित्तमिति स
तथाभूतोऽन्तराभव इति वक्ष्यामः । अथवा(।)
सकलः प्रत्ययः स्वप्नान्न विशेषतया स्थितः ।
नहि स्वप्नप्रत्ययस्यापरस्य च कश्चिद् विशेष इति वक्ष्यते । ततः स्वप्नशरीरवदेव
परलोकशरीरेपि सञ्चार इति सिद्धमतोन्यत आगतस्य यदि नाम वासनाबलविशेषतः सप्रति-074
घेतरत्वादिविशेषः । सन्तानहानिस्तु न दृष्टैव ततोनुपरतसन्तानतैव प्राणिनामिति सिद्धः
परलोकः(।) मरणादयस्तु स्थित्यावेधकस्य वासनालक्षणस्य चित्रत्वान्नानिवृत्तिप्रसङ्गश्िचत्ते
तिष्ठति चेतसस्तादृशस्य चित्तस्यैवाभावात्
चार्व्वाकस्यापि तर्हि परिहारोस्त्येव तादृशस्य देहस्याभावात् । अत आह ।
दोषैर्हि वातपित्तादिभिर्व्विगुणो देहस्तादृशो त भवत्येव यादृशादुत्पत्तिमच्चित्तं ।
ततस्तादृशस्य देहस्याभावादनिवृत्तिप्रसङगः ।
नैतदस्ति । यद्येवं स्यात् । मृतस्य सतः समीभवन्ति दोषास्तत आरोग्यलाभाद्
देहस्य पुनरुज्जीवनं भवेत् । तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय इति वचनात् ।
अथ समीकरणं दोषाणां कुतो ज्ञायते । ज्वरादिविकारदर्शनात्(।) अविकारकारिणो
हि दोषा न मरणमादधति । सर्व्वदा मरणप्रसङ्गात् । अन्यथा न देहः कारणं भवेत् तस्य
चेतसस्तद्विकारभावाभावाननुविधानात् । एवं हि देहकारणता विज्ञायते यदि पुनरुज्जी
वनं भवेत् ।
देहस्य हि कारणत्वे देह एव तथाभूतो भवति कारणमन्यदा नेति न युक्तं तादृश
एव वैगुण्ये म्रियते कश्चिदपरो नेति कथमयं विभागः (।) चित्तकारणत्वे पुनश्चित्तवैगु
ण्यावैगुण्ये मरणेतरत्वकारणमिति विभागो नानुपपन्नः ।
न खल्वसमञ्चसवृत्ति कार्यम्भवति । तेन न देहकार्यं विज्ञानं देहकार्यत्वे पुनरुज्जी
वनप्रसङ्गात् ।
ननु वैगुण्यकारिणि निवृत्तेपि न तत्कृतस्य वैगुण्यस्यावश्यं निवृत्तिः । न खल्वग्नि
निवृत्तावपि काष्ठेग्निकृतो विकारः क्वचिन्निवृत्तो दृष्टः । अतः (।)
यथा दहननिवृत्तावपि न काष्ठविकारनिवृत्तिस्तथा दोषकृतोपि मरणविकारो न
निवर्त्तिष्यते । ततो न पुनरुज्जीवनप्रसङ्गः । तदाह । चिकित्साप्रवर्तनात् । निवर्त्य
विकारत्वे हि दोषाणां तन्निवर्तनाय चिकित्सा साफल्यमासादयेत् ।
ननु दोषकृतो विकारः । स्वल्पोपि निवर्त्यते एव मरणविकारात् प्राक् मरणविकारन्तु
न निवर्त्तिष्यते । ततो दोषानिवर्त्यानिवर्त्यविकारा इति नायं दोषः ।
नेदमुत्तरं यतः ।
अस्यायमर्थः । क्वचित्किञ्चिदपुनर्भावविकारारम्भकमेव यथा वह्निः काष्ठे ।
किञ्चिद्विपर्ययादेव यथा स एव सुवर्ण्णो न पुनरेकमेकत्रैव तथा चाविकारकारि । अत्रा
न्यस्य विकारकारिणो विकार्यस्य वायोर्विकारः । सोन्योप्यसंहार्यः । श्यामतामात्रमपि
काष्ठेऽग्निकृतमसंहार्यमभिद्रवतापि तु सुवर्ण्णेग्निनिवृत्तौ पुनरन्यथा भवति । ततोल्प
विकारस्य दोषकृतस्य निवृर्त्यत्वान्महतोपि मरणलक्षणस्य निवृत्तिरिति प्राप्तं । ततः पुनरु
ज्जीवनप्रसङ्गः । तथा हि निद्राकृतोपि चेतनाविरतिलक्षणो विकारो निद्राभावे निवर्तते ।
अथ तत्र नास्त्येव निवृत्तिरित्युच्यते । तत्प्रत्युच्यते ।
सम्वेदनाभाव एव सुप्तमृतयोर्नापरो विशेषः । ततः सुप्तस्य प्रबोध इव मृतस्यापि
प्रहारौषधप्रयोगादिनोज्जीवनं प्रसक्तं ।
अथ प्रसुप्तस्य सम्वेदनाभाव एव नास्ति मृतस्य तु स इति विशेषः । न (।) असम्वेदन
स्योभयत्र समानत्वाद् (।) अथासम्वेदनेपि शक्तिरूपेण तदास्त इत्युच्यते । केयं शक्तिरिति
निर्दिश्यतां । यदि सम्वेदनमेव शक्तिस्तथा सम्वेदनमेवास्ति कथमसम्वेदनं । तच्चास्ति
तच्च नास्तीति विरुद्धं । अथ सम्वेदनादन्या शक्तिः सा तर्हि शरीरमेव ततः शरीरे तिष्ठति
चैतन्यजनके शक्तिसद्भावादनिवृत्तिरेव तस्य । अथ जनकस्य शरीरस्य विनाशः परस्य
चाजनकस्योत्पत्तिरिति न चैतन्यं । किमिदमजनकत्वं । (।) सम्वेदनरहित्वमिति चेत् ।
सुप्तस्यापि तदस्तीति । सुप्तस्यापि सम्वेदनं न भवेत् प्रबोधावस्थायां । अथ तत्राश्वासा
दयः सन्ति ततो नाजनकत्वं देहस्य (।) तदैव तर्हि सुप्तावस्थायामुत्पत्तिरित्यसुप्त एव
भवेत् ।
अथ निद्रापरिणतिसहायादाश्वासादेश्चैतन्यमुत्पद्यते । केयं निद्रा नाम (।) सम्वेद
नाभाव इति चेत् । मृतस्यापि सोस्तीति पुनः सम्वेदनं स्यात्तत्परिणामे । अथाश्वासाभा
वात्सहकारिवैकल्यात्केवलाद्देहादनुत्पत्तिरिति वदेत् । मूर्च्छादिविकारेपि नाश्वासादय इति
न संवेदनं भवेत् । तस्मादाश्वासादेर्न सम्वेदनकारणत्वं न चाश्वासादीनां कारणत्वमिति
निवेदितं प्राक् । किञ्च ।
समाने हि शरीरसम्भवे पूर्व्वसंस्कारानुरूपा एव बुद्धयो दृश्यन्ते । ततो न देहः
कारणमाश्वासादयो वा ।
अथ संस्कारसहायाद्देहादुत्पत्तिरित्युच्यते तदसत्
न ह्यविद्यमानो विद्यमानस्य सहकारी । न च प्रबोधावस्थायां देहस्येव चेतसोपि
पूर्व्वकस्य विद्यमानता । न चाविद्यमानः सहकारी सहकरणाभावात् । नहि
076
विद्यमानेतरयोः सहभावः । तस्मात्पूर्व्वकमेव चेतस्तत्र कारणं न देहः । कथन्तर्हि प्रहारादयः
प्रबोधकाः (।) नेदमुत्तरं319
(।)
नहि प्रहारादेरेव बोधः स्वयमपि प्रबोधात् । ननु प्रबोधानन्तरं दृष्टपदार्थसम्बन्धेन
विकल्प उत्पद्यते । ततो दर्शनपूर्व्वविज्ञानयोः कथं सहकारित्वं । नैतदपि साधु । यतः(।)
यदेव तात्पर्येणाक्षिप्य प्रसुप्तस्तदनुरूप एव वासनाप्रबोधोस्य भवति । न तु प्रबोधे
सति यदुपलभ्यते तत्सम्बन्धेन प्रत्यासन्न एव प्रबोधो दृश्यते । यश्च यथाभ्यासवाँस्तस्य
तथाभूत एव प्रबोधो नान्यत्र । प्रबोधश्चान्तरस्पर्शविज्ञानादिकमेव । यथा च यस्याभ्यासस्त
दनुरूपमेव कार्य320
सुखसंवेदनं । तथाहि ।
भयभावनाभवननिवेशिनां पलायनसुखादिसम्वेदनरूप एव प्रबोधोन्यथा तु दुःखा
सिका । रौद्रात्मनान्तु परोपद्रवाभिरतीनां परापकरणकारिणां (श) स्त्रादि321
ग्रहणरूपसुखादि
सम्वेदनरूपः । ततो न देह आश्वा(सा)दयो वा विज्ञानकारणं । पूर्व्वकमेव विज्ञानं
कारणन्तच्च यदि देहादुत्पन्नं तदा अनिवृत्तिप्रसङ्गात्तु स एव दोषः । तथा पूर्व्वविज्ञानान्व
यिता न स्यादेव । अथ दोषविगुणत्वादकारणं । वैगुण्याभावे पुनः कारणम्भवेत् ।
अपुनर्भाविविकारारम्भकत्वे स्वल्पोपि तत्कृतो विकारो न निवृर्त्यः/?/ स्याद्दौर्व्बल्यादिकः ।
मन्दविज्ञान322प्रवर्त्तनलक्षणश्च मूर्च्छादिविच्छेदलक्षणो वा । अपुनर्भाविविकारारम्भकस्य
स्वल्पोप्यनिवर्त्यः । प्रत्यानेयस्तु यत्कृतेः (।) विकारः स पुनर्भावस्तस्य हेम्नि खरत्ववत् ।
हेम्नो हि खरत्वं गतमपि विकारहेत्वपगमे पुनः प्रत्यागच्छति । तथा महानपि विज्ञानविच्छेद
विकारो मरणलक्षणो निवर्त्यंत इति पुनरुज्जीवेत ।
ननु चिकित्साप्रयोगात् प्रत्यानेयत्वविकारमसाध्यव्याधिमावाच्चाप्रत्यानेयविकारत्वं
चेत्युभयथाभावाददोषः (।) परिहारमाह ।
सुसाध्यता हि दोषकृतविकारनिवर्तनं समर्थस्यौषधस्य वैद्यस्य चाऽभावादसाध्यं कथितं
किञ्चिन्न तु महाभूतोद्भवचैतन्यवादिमतेस्तीति दुर्लभत्वादेव समाधातुरपुनरुज्जीवनं ।
तस्माद्विकारविनिवृत्तौ भवेदेव पुनरुज्जीवनप्रसङ्गः ।
ननु परस्याप्यसाध्यत्वमस्त्येव । अत्रोत्तरं । मम त्वसाध्यं युक्तं तदाह । आयुः
क्षयादसाध्यता ब्याधेस्तथाहि । तथाभूतेनैव व्याधिना कश्चिन्िम्रयतेऽपरो नेति दृश्यते ।
077
उपलक्षणमायुः । कर्म्मक्षयाद्वा । कर्म्मजो हि व्याधिः श्वित्रादिरसाध्यो भवति । कर्म्मण
स्तादृशस्य भावात् । तस्मात् कर्म्माधिपत्यमेव परिहारहेतुरित्याह । केवले तु दोषविकार
कारिणि नास्ति व्याधेरसाध्यता । तस्मात् (।)
मृतस्य हि यदा विषादिसंहारो मन्त्रादिना । स्वयमेव च दंशदेशोपसंहारात्तदङ्ग
च्छेदतः । विकारहेतोश्च विगमो ज्वरादेर्यंदा भवति तदोज्जीवनप्रसङ्ग इति स्थितमेतत् ।
अपि च । नानुपादानकारणनिवृत्तौ निवृत्तिः । न च देह उपादानकारणं (।) यदि
च स्यात् तदविकारेण न विक्रियेत । यतः (।)
उपादानस्य हि देहस्याविकारेणोपादेयस्य विज्ञानस्य विक्रिया न शक्या स्यात् ।
मृदो विकारमन्तरेण न कुण्डादेर्विकार उपलब्धः । एष एवोपादानस्य धर्मो यस्तद्विकारेणैव
विकारः । बहुष्वपि कारणेषु किञ्चिदेव कस्यचिदुपादानं न कारणमात्रकं । देहस्य च
कारणत्वेपि न तद्विकारेणैव विकारस्तदविकारेपि भयशोकादिना चित्तस्य पूर्व्वकस्य विकार
मात्रेण विकारस्तद्विकारे चावश्यं विकारात् ।
ननूदकविकारेपि भवति विकारोऽङ्कुरस्य न च तदुपादानं । न सन्तानकारणस्यो
पादानकारणत्वात् । वीजञ्च सन्तानकारणं नोदकमुदकस्यावस्थाविशेषकारणत्वात् ।
नोदकात्सन्तानसम्भवः । उदकस्य यवादिसाधारणत्वात् । न चोदकनिवृत्तौ शालि 323
सन्ताननिवृत्तिः । उदकाभावेपि शालिसन्तानस्याव्यावृत्तेः । अङ्कुराद्यवस्था तु तस्योदका
त्तस्याश्च तन्निवृत्तौ निवृत्तिरतोऽस्या उपादानकारणमेव उदकं उदकादेश्च शालिबीजविकार
द्वारेणैवोत्तरोत्तराङ्कुरादिविकारः । तस्माद् देहाविकारेपि विक्रियमाणत्वाद्विज्ञानस्य
नोपादानकारणमस्य देहः । तदेवाह ।
अविकृत्य च देहम्विक्रियते विज्ञानमिति न देह उपादानमस्य ततो न देहनिवृत्तावस्य
निवृत्तिः । गोगवयादिवदेव तद्विकारेण विकारात् । भवतु गोर्गवयः कथञ्चिदवस्था
विशेषस्य कारणन्तन्निवृत्तौ च स एवावस्थाविशेषो मा भूत्पुनः सन्तानस्य निवृत्तिः । भवतु
गोगवयोरनुपादानोपादेयभावेनानिवर्त्यनिवर्तकत्वं कायचेतसोः किमायातं । न ह्यन्यस्य
गुणदोषेणान्यगुणदोषोऽनुपादानत्वे सहावस्थानं च न स्यान्नियमेन शाल्यादिसन्तानोदकवत् ।
अत्रोच्यते ।
न ह्यन्यतात्र प्रसिद्धा यतश्चेतःशरीरयोरप्येवमनुपादानोपादेप्यभावो गोगवययोरिव
कथञ्चिदुपकारित्वमात्रं । नावश्यं शरीरविकारेणैव विकारश्चेतसः । ततोनुपादानकारणत्वा
त्कार्यस्य324
न निवृत्तावपि चेतसो निवृत्तिः ।
यथैवाग्निसहकारिणः सुवर्ण्णंस्य325
द्रवतोपादानत्वन्ततोग्निताम्रद्रत्वयोः सहावस्थानं
तथा चित्तमपि शरीरनियतं शरीरसहकारिचित्तादुपजायते । शरीरहेतोरपि कललादेः शरीरं
चित्तसहकारिण एव भवति । ततः सहस्थानं कर्यजन्मनः । एतदुक्तं भवति ।
शरीरहेतोः कललादिसंज्ञितस्य चित्तसहकारित्वाच्चित्तस्यापि देहसहकारित्वेन सह
स्थानं कार्यजन्मनः कायचेतोलक्षणस्य वह्निताम्रद्रवत्ववत् । निवृत्ते तु शरीरे शरीरान्तर
विशिष्टमशरीरम्वा चित्तमिति न तस्य निवृत्तिः । सुवर्ण्णसन्तानवत् ।
अथापि स्यात् । यथोदकादेर्व्रीहिसन्तानस्य विशेषः स नोद327कनिवृत्तौ निवर्त्तते ।
अग्न्यादेरुपहतोपादानस्य सन्तानस्यैव निवृत्तिः । तथा चेतस उपादानस्य केनचिदुपहतस्य न
सन्तानकारणत्वमिति न सन्तानस्य निवृत्तिः स्यादिति । यथा च शालूकस्य विजातीयाद्
गोमयादुत्पत्तिस्तथा शरीरादेव प्रथममुत्पत्तिः । अत्रोच्यते ।।
नाग्न्यादेरिव ब्रीहिसन्तानोपादानस्योपघतो विज्ञानोपादानस्य । विज्ञानमेव विज्ञा
स्योपादानं । न च तस्य दाहादयः सम्भवन्ति ।। मिद्धादेरुपघात इति चेत् । न(।) मिद्धा
देस्तावत्कालिकोपघातहेतुत्वात् ।।
न खलु मिद्धमुपादानं विज्ञानस्योपहन्तुं समर्थं (।)
अथ कदाचिद्विच्छेद एव भवेत्तदसत् ।।
079
न तावत्स्वयमुपलभ्यते विच्छेदो ज्ञानस्यानस्य हि विच्छेदो ज्ञानेनोपलभ्यते । ज्ञानस्य तु
विच्छेदो न केनचित् । ज्ञानाभावेनेति चेत । ज्ञनाभावोऽसिद्धः कथमभावं साधयेत् ।
सिद्धश्चेत्सैव सिद्धिर्ज्ञानमिति कथं ज्ञानस्य विच्छेदः ।।
तदप्यसत् ।
जन्मादौ प्रबोधे च विज्ञानं पूर्व्वंसंस्कारानुगतमेवोपलब्धमिति न पूर्व्वापरयोः
कोट्योर्विच्छेदोपलब्धिः । परेण तु परस्य विज्ञानविच्छेदो नोपलभ्यत एव । उपलब्धिलक्षण
प्राप्त्यभावात् । न च वीतरागतया शैथिल्यसम्भवे विच्छेदः ।
न खलु परार्थनिस्पृहतया निर्दोषता लभ्यते । स एव हि तस्य दोषो यदकृपत्वं
नाम । अथवा वीतरागतायाँ328 विच्छेद इष्यते एव कैश्चिदिति न दोषः । तस्मान्न दानोपघा
तेन विज्ञानस्य निवृत्तिः । शरीरस्यानुपादानात् । चित्तस्योपहन्तुमशक्यत्वात् ।
स्यादेतद् (।) यदि नामोपादाननिवृत्त्या न निवृत्तिर्विज्ञानस्याश्रयनिवृत्या
निवृत्तिरनिवारितैव । देहस्य चाश्रयत्वं प्रतीयते ततः कुड्यादिनिवृत्ताविव चित्तस्य निवृत्ति
रिति न परलोकसिद्धिः ।
चित्रादयोहि पटादिषु329 नाधारान्तरादागता इति प्रतीयन्ते । विज्ञानन्तु जन्मादौ प्रबो
धावस्थायां च जन्मान्तरशरीरसहचारिसंस्कारानुगतं स्वप्नान्तिकशरीरसञ्चारा330 नुगतञ्चेति
न चित्रवत् प्रतिनियताधारं । प्रतिनियताधारत्वे हि तदाधारविनाशे विनाशः । अपि
चाश्रयत्वमपि नास्त्येव देहस्यान्यस्य वा क्वचिदिति कथं तद्विनाशे विनाशः (।)
चित्रादयस्तु कुड्याद्यव्यतिरिक्ता एव । ततः स्वविनाशेनैव विनश्यन्ति नाधार
विनाशात् ।
मा भूदव्यतिरेके आश्रयाश्रयिभावो व्यतिरेके कायचेतसोर्भविष्यतीति चेत् ।
नैतदस्ति ।
असतस्तावदाश्रयो नास्ति (।) नहि खरविषाणस्य कश्चिदाश्रयः केवलमसत्कारणादुत्पत्ति
मीहते । ततोऽसतः कारणमेव सम्भवति नाश्रयः । ततोपि नाश्रयः सतः सर्व्वनिराशं
सत्त्वात् । सतोपि स्थितिकारणादाश्रय इत्यपि न सङगतं । स्थितेः स्थातुरव्यतिरेकात् ।
स्थितिकरणे स एव कृतः स्यात् । न च सत उत्पादनं । उत्पन्नस्य पुनरुत्पादायोगात् ।
080
अथोत्पन्नस्यापि किञ्चिदनुत्पन्नमस्ति तत्करणादाश्रयः । सर्व्वात्मनोत्पादे कारणमुच्यते ।
कस्यचिद्धर्म्मस्योत्पादे आधारादिः । न च स्थितिरव्यतिरिक्ता स्वरूपात्पततोपि स्थित्यभावे
स्वरूपसद्भावात् । यदि तु पुनरव्यतिरिक्ता स्थितिः स्यात् । स्थितेरव्यतिरिक्तः स स्यात् ।
सर्व्वदा स्थितिर्भवेत् । स्वरूपे सति निवर्तमानविरुद्धधर्म्माध्यासाद् व्यतिरिक्ता भवेदिति युक्तं ।
तदसत् । व्यतिरेके सति तद्धेतुरेवासौ स्थितिहेतुरेवासौ नाधारः । भावस्याधार
इति चेन् न भावेऽकिञ्चित्करत्वात् । भावस्य स्थितिकरणादाधार इति चेत् । किमसौ
स्थितिरुत्पन्ना सती स्थाप्यस्य भवत्यथान्यथा । उत्पत्तेः प्राग्न भावस्याभावादेव । तत उत्पन्ना
न्यस्माद् व्यतिरिक्ता कथं भावस्य तादात्म्यतदुत्पत्तिसम्बन्धाभावात् तत्समवेतोत्पद्यत
इति चेत् । तत्समवेतेति कोर्थः । तत्र स्थितेरिति स्थितेरप्यपरास्थितिरित्यनवस्था ।
व्यतिरिक्ता सती व्यतिरिक्तत्वेन कस्मान्न प्रतीयते । समवायसम्बन्धादिति चेत् । भवतु
समवायस्तथापि यस्य यद्रूपन्तेनैव तत्प्रतीयतां । कथमन्यथा प्रतीतिः । संसर्ग्गाच्चेत् ।
कोयं संसर्ग्गो नाम । यदि सर्व्वात्मना संसर्ग्गो न व्यतिरेकः । अथैकदेशेन संसर्ग्गः संयोग
समवाययोः को विशेषः । युतायुतसिद्धित्वमिति चेत् । वृक्षाद्यवयवानामपि समवायप्रसङ्गः ।
इह बुद्धिनिबन्धनत्वे सतीति चेत् । न (।) संयोग एव प्रसङ्गात् । मस्तके शृङ्गमिति
प्रतीतेः । अथ स्वसमवाय्यवयवसमवेतत्वमयुतसिद्धिर्विपर्ययाद्युतसिद्धिः । तथापि भेद
प्रतीत्या न समवायः । न च निरवयवस्य वस्तुनोऽवयवेन संसर्ग्गः । अवयवेन संसर्ग्गे भेद
प्रतीतिप्रसङ्गः । अन्वितानन्वितत्त्वेन भेद इति न साम्प्रतं । प्रत्यक्षेणान्वयस्याप्रतीतेः ।
प्रत्क्षाभावे च नानुमानमिति नान्वयप्रतीतिः । तस्मात्सहकारिकारणविशेषाद्विशिष्टं एव
पदार्थ उत्पद्यते । न स्थितिर्नामेति स्थितं । तथा च कार्यकारणभावविशेष एवाश्रयाश्रयि
भावः । न चोपादानकारणं देह इति तन्निवृत्तौ न निवृत्तिः । यदि चाश्रयो देहः स्थिति
करणात्तदाश्रयस्य स्थितिरस्ति न तस्य विनाश इति (।)
नहि स्थापके सति विनाशसम्भवः ।
(अहेतुकोविनाशः)—अथापि स्यान्न स्थापके सति नाशो यदि नाशहेतुर्न स्यान्नाशहेतुभा
वाद्विनाश इति न विनाशप्रसङ्ग इत्याह । नाशहेतोः स नाश इति चेत् । न (।) तुल्यस्तत्रापि
प्रसङ्गः । तत्रापि नाशे तुल्य एव प्रसङ्गो न नाशो नामान्य एव कश्चिद्भावात् ।
नहि व्यतिरिक्तनाशकरणे स नष्टो नाम । ततश्च न नाशहेतुः किञ्चित्करोति ।
ततोऽनाशात् स्वयमेवास्त इति किं स्थितिहेतुना । नाकिञ्चित्करः स्थितिहेतुः । अथवा
यदि नाशहेतोर्नाशः । यावन्नास्ति नाशहेतुस्तावत्स्वयमेवास्त इति किं स्थितिहेतुना ।
स्थापकमन्तरेण नाशो नाशकमन्तरेणापि स्यात् । स्थापके तु नाशके सति नश्यति ।
न नाशहेतुम्विना । ततः स्थितिकरणान् नाशकात्प्राक् स्थापक इति न व्यर्थता । नन्वेव-
महेतुको विंनाशः प्रसक्त इति स्वहेतोरेव तथाभूतो भाव इति वस्तुधर्म्मता नाशस्य । सति
विद्यमाने पदार्थेऽबाधोऽसौ । न केनचिद्वस्तुस्वभावोन्यथा कर्त्तव्य इति किं स्थितिहेतुना ।
अथ स्थितिहेतुमन्तरेण विनश्यति । स्थितिहेतौ च सति विनाशप्रतिबन्धः । ननु
सोपि विनाशप्रतिबन्धोन्य एव विनाशात् । ततश्च न विनाशस्य किञ्चिदिति विनश्येदेव
कथं स्थितिः । अथ प्रतिक्षणं विनश्वरः स्थापकादन्यथा भवति । तस्यापि विनाशोऽहेतुक
इति स एव प्रतिक्षणविनाशः । स चान्यथा स्थापकादुत्पन्न इति कारणमेवासाविति न
स्थापकः । अथवा यदि स्थापकात्स्थानमानाशकागमादनाशः । एवं सत्यनाश उत्पन्न इति ।
अबाधोसाविति किं पुन(:)स्थितिहेतुना । अथ स्थापकसत्ताकाल एवानाशस्तथा सति
प्रतिक्षणमपरापरो नाशः स्थापकात् । स्थापकस्य च किंकृतं स्थानं । स्वहेतुकृतं चेत्
स्थाप्यस्यापि तथा भविष्यतीति किं स्थापकेन । अथ कस्यचित्स्थापकात्स्थानं कस्यचित्स्वय
मेवेति विभागः । एवन्तर्हि विज्ञानस्यापि स्वयमेव स्थितिरिति किन्नेष्यते ।
अथापि स्याद् (।) दृश्यते जलाधारो331 भूप्रदेशः । न च दृष्टं विकल्पनं तेनापि२ बाध्यते । तेनानाश्रयात्सदसतोरिति व्यर्था वाचोयुक्तिर्दृष्टबाधनात् । अत्राप्याह ।
जलादेरप्याधाराभावो भूतलादीनां सदसत्त्वपक्षयोर्युक्त एवेत्यदृष्टो दृष्टान्तः । ननु
दृष्टत्वादाधारभावस्य कथमदृष्टः । अदृष्ट एव दृष्टाभिमानो भवतः(।) क्रियां प्रति य
आधारो धारणात्कर्त्तृकर्म्मणोरिति न्यायः । धारणादाधारः । धारणञ्च पततः ।
यश्च पतति न तस्य धारणं । यस्य च धारणं न तस्य पतनोपलम्भः । पतनापतनयोः
परस्परविरोधात् । पूर्व्वं पतनं पश्चादपतनमिति चेत् । न तर्हि यस्य पतनं तस्य धारणं
प्रत्यक्षेणैकत्वाप्रतिपत्तेः । नैकोवस्थाता पतनेतरव्याप्युपलब्धः । अव्यापी च कथमवस्थाताऽ
द्याप्यवतिष्ठत इति हि ग्रहणेऽवस्थाता तथा गृहीतो भवति । क्रमेण व्यापी गृह्यत इति
चेत् । कः क्रमार्थ इति चिन्त्यं । भावाभावयोरेव क्रमव्यपदेशः । स च भिन्नकालयो
र्भावाभावौ च ग्राह्यस्य ग्राहकस्य वा ग्राह्यस्य भावाभावसङ्गमेनैकत्वं । ग्राहकस्य क्रमवत्त्वे ग्राह्य
स्यापि तदिति न ग्राह्यावस्थातुरेकता । ततः किञ्चिद् गृहीतातींतं किञ्चिद् गृह्यते किञ्चिद
नागतग्रहणमिति विकल्पगोचर एव क्रमः । कुतः प्रत्यक्षता क्रमस्य । येनोपलम्भादुच्यत आधाराधे
यभाव इति । ततश्च नाश्रयात्सदसतोरित्ययमेवार्थः । न दृश्यत एवाधाराधेयभाव इति
ततः कल्पनैवेयमाधाराधेयभावस्येति कथन्तर्हि तद्दर्शनमन्तरेणाधाराधेयकल्पनापि । न
भवितव्यमेव । तर्हि विपरीतकल्पनयेत्यायातं । किञ्चि(।)प्रतिक्षणविनाशिनां भावानाम
परापरदेशोत्पादवतामुपादानदेशोत्पत्तिराधारसमागमकृता । अतस्तथोत्पत्तेः स भूतला
दिराश्रयो हेतुत्वात् । हेतोरेव विशिष्टावस्थाया आधार उच्यते पूर्व्वापरयोरेकत्वमारोप्य ।
एकत्वारोपे हि सति नोत्पादं प्रतिपद्यते । पूर्व्वस्य कारणञ्चारोपयतीत्यनादिवासनासामर्थ्ये
मिथ्याविकल्पोऽतएव पूर्वपूर्व्ववासनाप्रवृत्तत्त्वादनादिसन्तानतया परलोकस्य प्रतिष्ठितिरितीष्ट
मापतितं । तथा हि ।
पूर्व्वापरयोरेकत्वकल्पना नालम्बनभावान्वयिनी । एकत्वस्याभावात् । अनेकस्मादेव
वस्तुनो भविष्यति । तत्कार्यत्वस्यादृष्टेः । तदसत् । नहि मरीच्यान्तोयकल्पना तावन्मात्र
निबन्धना पूर्व्वजलदर्शनसंस्कारादुत्पत्तेः । न च पूर्व्वमप्येकत्वमुपलब्धमतो जन्मान्तरेपि
सैकत्वकल्पना जन्मान्तरैकत्वग्रहणपूर्व्विका सापि तथेत्यनादिकल्पना परस्परेत्यनादिप्राणि
संन्तानसिद्धिः । एवमात्मादिग्रहयोगिनी बुद्धिरनादिसन्ताना तथा भवन्ती परतोपि न
विच्छिद्यत इत्यनाद्यनन्तः संसारः । अपि च ।
स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्ग्गुणसामान्यकर्म्मणां ।।
जलादीनां हि गमनविबन्धहेतुराधातुराधार इति युक्तमगतीनान्तु निष्क्रियाणां गुण
सामान्यकर्म्मंणां किमाधारैः । चैतन्यञ्च सामान्यं गुणः कर्म्म वान्यथा । सर्व्वथा निष्क्रि
यमिति नाधारेणास्य प्रयोजनमतो नाधेयस्य चेतसो नाधारविनाशेन विनाशः । सहस्थानमात्र
कमेव तस्य । यथा च सहस्थानं तथा प्राक् प्रतिपादितं ।
ननु यथा गुणः समवेतो गतिमत्त्वाभावेपि तथा चेतसोपि समवेतत्वं । न च गुणस्य
समवेतस्य समवायिकारणमन्तरेण स्थानं(।)तद्विनाशे विनाश एवेति चेत् । न (।)गमनादिप्रति
बन्धमन्तरेणाधाराधेयभावो नाधाराधेयभावमन्तरेण समवायो यतो युतसिद्धानामाधार्या
धारभूतानामिह बुद्धिनिबन्धनः समवाय इति बचनात् । एतदेवाह ।
समवेतत्वेपि जातेर्नाधारभूतव्यक्तिमन्तरेणाभावः । नित्यत्वाज्जातेर्नाधाराभावेऽभाव
इति चेत् । चेतसोपि कारणान्तरप्रतिबद्धत्वादिति समानं । न चाधाराधेयभाव इति ।
एतेनैवाधाराधेयभावप्रतिक्षेपेण प्रतिक्षेपात् समवायः प्रतिक्षिप्तः समवायि कारणञ्च
प्रतिक्षिप्तं । यदि कारणन्तत् नाधाराधेयभावः । अथ न कारणन्तदा समवायिकारणता
नास्ति । व्यवस्थितत्वञ्च जात्यादेः कारणत्वमन्तरेणापि यद्युच्यते । तदपि प्रतिक्षिप्तं ।
अथवा समवेतत्वेपि व्यवस्थित्वं तत्रैव व्यवस्थितत्वं प्रतिक्षिप्तं । नहि जातिर्व्यक्ति
समाश्रितत्वेपि तत्रैव व्यवस्थिता व्यक्त्यन्तरेप्यनुगतत्वात् । एवमाश्रितत्वेपि चैतन्यं
शरीराभावेपि शरीरान्तरानुगतं भविष्यतीति न परलोकासिद्धिः । एकशरीराभावेपि तथाभूत
बुद्ध्युपादानो न विरुध्यते । व्यक्त्यन्तरेप्यन्वयि बुद्धिवत् । तस्मान्न कार्यकारणभावमन्तरेण
कश्चिदाश्रयाश्रयिभावः ।
—इति सङ्ग्रहश्लोकाः ।
ननु दीपप्रभयोराधाराधेयतामन्तरेणापि दृष्ट आश्रयाश्रयिभावः । नहि प्रभायाः
पतनधर्म्मता । अस्ति च दीपस्याश्रयभावस्तन्निवृत्तौ च प्रभाया निवृत्तिः । न चासौ प्रभा
प्रदीपान्तरं संङ्क्रामति तदन्यद्वा । तद्यथा । प्रदीपप्रभा प्रदीपत्रिनाशे विनश्यति देशान्त
रगतापि एवं शरीराश्रितं विज्ञानं शरीरनिवृत्तौ निवर्तिष्यते विषयगतमपि । न च
विषयगतिरपि परमार्थतस्तदाकारतामात्रमेव तत्र मनोविज्ञाने दृश्यते ।
अत्रोच्यते ।
तद्विकारविकारित्वादाश्रयांश्रयिभावो दीपप्रभयोर्नैवं शरीरचेतसोरपि तु बुद्धिप्रज्ञादीनां ।
तथाहि ।
बुद्धेर्विशिष्टसंस्कारवशाद्विशिष्यमाणाः प्रज्ञादयो बोधविशेषा विवर्त्तन्ते । देहसंस्कार
विशेषमन्तरेणापि ततो बुद्धिरेव पूर्विका बुद्धेराश्रयो न देहः । ततो न दीपप्रभादृष्टान्तः ।
ननु च दीपप्रभापि सर्प्पादिभिर्व्विकृता क्रियत एव । न प्रदीपस्यैव स विकारो
मन्दच्छायालक्षणः । तेन दूरदेशवर्त्तिनी दीपप्रभान्यथा भवति । न तु शरीरविकारो
बुद्धिव्यापारभेदसमये । ननु देहविशेषादपि विशेषो दृश्यत एव । ततो देहस्योपादानभाव
आश्रयभावो वा (।)
तत्राह । चित्तोपकारद्वारेणैव तत्रापि देहस्य विकारविकारित्वं । यत्र च देहपुष्टौ
रसायनादेः प्रज्ञादेर्विशेषः । तत्र देहस्य सुखस्पर्शरूपस्योत्पत्तेरव्याकुले मनसि यथाभूत
संस्कारप्रबोधात्कस्यचित् क्वचित्प्रज्ञाविशेषः । अन्यथा सर्व्वस्य सर्वंत्र प्रज्ञासमानताप्रसङ्गः ।
तथा (।)
पृथक् पृथग् गृहीतानां मेधा प्रोक्ता तथा स्मृतिः ।
ननु रागोपि बुद्धिविशेष एव । न बुद्धेरन्योन्यत्त्वे प्रज्ञादेरप्यन्यत्त्वप्रसङ्गः । रागा
दयश्च देहस्य पुष्ट्यादेजर्यान्ते । ततो बुद्धिरपि देहादिति प्राप्तमन्यथा तदनुविधानाभावः ।
नैतदस्ति ।
रागादिबुद्धिर्या पुष्ट्यादेः सा न सर्व्वंदापि तु कदाचिदेव यदाभ्यासजोऽयोनिशोमनस्कार
सम्मुखीभावः । यस्य तु पुनरशुभावासनासमागमस्तस्य स एव प्रत्युत रागस्तनूभवति ।
यापि रागादिबृद्धिः334
सुखदुःखजा सुखितायां वेदनायां रागोनुशेते दुःखितायां द्वेष इति ।
सुखितस्य स एव पूर्व्वकोऽयोनिशोमनस्कारप्रबोध इति । दुःखितायान्तु द्वेषः कथमिति चेत् ।
दुःखितस्य सकलमेवासह्यमतस्तत्परित्यागात्मको द्वेष एव । न चात्र नियमः । दुःखितेपि
मनसि प्रतिसंख्यानवतः स्वदुःखानुमानात् कृपैव । रागोपि भवत्येव तत्प्रतीकारहेतौ । तयोरेव
तर्हि सुखदुःखयोर्बुद्धिस्वभावयोर्यथा देहादुत्पत्ति335
र्बुद्धेरपि तथैवेति प्रकृतविरोधः । नैतदस्ति ।
अन्तरर्थस्य धातुसाम्यलक्षणस्य336 सन्निधेर्विषयद्वारेणैव सुखमुत्पद्यते नाश्रयद्वारेण । नाश्रयभूतो
देहः सुखदुःखे जनयति । अपितु विषयभूतः । विषयस्य च सुखादिहेतुत्वेन देह आश्रयस्तयोः ।
विषयस्य बाह्यस्यान्तरस्य च समानत्वात् । ततो बाह्यस्याप्याश्रयत्वप्रसङ्गो न चेष्यते ।
यथाहि३ आन्तरोपि धातुसाम्यादिरर्थंविशेषो नालम्ब्यते प्रियदर्शनादिना तदा तदाश्रयत्वमेव
सुखदुःखयोः । न च विषय आश्रयो न च तन्निवृत्या निवृत्तिः । यथान्तरविषये सुखम्भवति ।
तत्परित्यज्य बहिर्विषयसञ्चारवत् तथा शरीरान्तरेपि परलोकादौ ।
तत्रापि रसायनादेरन्तरर्थसन्निधौ सुखादिबुद्धिरुत्पत्तिमिती । ततः स्मृतिभ्रंशादयः ।
न तु देहविकारो यः सन्निपातकृतः । तत आश्रयभूतात् यथाऽनालम्ब्यमानादपि चक्षुरादे
स्तद्विज्ञानमुपजायते । तद्विकारेण च विकारः । न तथा रसायनादिविकृतदेहादविज्ञाय
मानस्य कारणत्वे सर्व्वकारणत्वप्रसङ्गः । चक्षुरादीनां त्वन्वयव्यतिरेकाभ्यां तद्विकारविकाराच्चा
श्रयभावः । नैवं देहस्य । तदभावेपि बाह्यसन्निधानेपि सुखादिभावात् । स्मृतिभ्रङ्शो हि
बाह्यराक्षसादिरूपदर्शनेपि भावी ।
एतदेव दर्शयति ।
शार्दूल इति श्रवणादपि कस्यचिन्मोहोन्यो वा भवति भावः । तथा शोणितदर्शनात् ।
न चासावाश्रयस्तन्निवृत्तौ वा निवृत्तिर्बुद्धेः । एवमान्तरस्यार्थस्यालम्बनस्य सन्निधेरुत्पादात्सन्नि
पाताद्यवस्थायां स्मृतिभ्रंशादिभाव इति न देहाश्रया बुद्धिः । आलम्बनमेव देहः सुखादीनां ।
ततस्तेपि तन्निवृत्या न निवर्त्तंन्ते । आलम्बनान्तरे भावात् ।
085
चित्तस्यैव संस्कारं नियमेनानुवर्तते चित्तं न शरीरस्य । शरीरस्याश्रयत्वादृष्टेः ।
अन्यचेतस्कस्य तु नान्यत्र चित्तमुदेतीति चित्तमेवाश्रितं चित्तं । तथा हि ।
यदा बलीयानत्यन्तं भवति संस्कारस्तदा व्याक्षेपेपि न व्याकुलता चेतसो यदा तु
बलीयान् भवति व्याकुलभावस्तदा विद्यमानोपि संस्कारो न स्वकार्यमनुरूपं सम्वेदनं जनयति ।
तस्मात्पूर्व्वविज्ञाननान्तरीयकमेव चित्तमतश्चित्तनिवृत्तावेव चित्तस्य निवृत्तिरिति युक्तं ।
नन्विन्द्रियादुत्पत्तिमद्विज्ञानं । ततोपि मनोविज्ञानं । अतः पारंपर्येण मनोविज्ञानं
देहादेव भवतीति कथमनाश्रयो देहः । नहि पारंपर्येणापि कारणं धूमान्तरजनितस्य धूमस्या
ग्निरनिवर्तकः । न चापरापराग्नेरसौ न भवत्यपूर्व्वः । एवं विज्ञानमपि देहादुत्पद्यमानं
धूमवदुच्छेदधर्म्मकं स्यात् । न । इन्द्रियज्ञानमन्तरेणापि मनोविज्ञानमनादिवासनात इति
प्रतिपादनात् ।
धूमस्य हि वह्निजन्यस्य धूमजन्यस्य च नैकलक्षणत्वं । प्रज्ञादीनान्तु बुद्धि(वि)शेषा
णामभ्यासानन्तरं प्राक् समानमेव रूपमात्मग्रहादीनां च सर्व्वव्यापिनान्ततो न धूमादिर्दृष्ट न्तः ।
धूमस्य चाग्निविशेषादेव प्रबन्धः किञ्चित्कालस्थायी । प्रज्ञादयस्तु प्रज्ञादिविशेषादेव पूर्व्वकान्न
देहकृता स्थितिस्तेषां । अपि च ।
इन्द्रियादपि विज्ञानं जायमानं न पूर्व्वसंस्कार337 निरपेक्षात् । पूर्व्वविज्ञानव्याकुलत्वे
सत्यपि विषयेन्द्रियसन्निधानेऽनुत्पत्तेः । ततः पूर्व्वविज्ञानसहकारिण एव इन्द्रियादुत्पत्तिर्न
केवलात् । उत्पन्नमेव तदिन्द्रियविज्ञानं । तत्तु निश्चयाभावादनुत्पन्नमिति व्यवह्रियते ।
तदसत् ।
यदि निश्चयाभावादभावप्रत्ययो न संवेदनाभावान्न तर्हि सम्वेदनाभावो नाम क्वचि
दस्ति । तर्व्वत्र निश्चयाभावस्य हेतुत्वात् । अथ तत्र338 सम्वेदनकारणमस्ति । ततः सम्वेदनं
समर्थकारणसद्भावादनुमीयते । निश्चयस्यापि तर्हि सम्वेदनं कारणमस्तीति तस्यापि भावोऽ
नुमीयतां । अथ व्याकुलतया तदुपहतं । सम्वेदनस्यापि कारणं किमेवं नेष्यते ।
अथानुपहतस्येन्द्रियस्य विषयस्य चाव्यवहितस्य कथं न विज्ञानजनकत्वं । पूर्व्वविज्ञानस्य
जनकत्वस्या339 भावात् । पूर्व्वविज्ञानसहितस्यैवेन्द्रियस्य जनकत्वात् (।) कुत एतदिति चेत् ।
सुखादीन्द्रियविज्ञानतो यतः । प्रतिपादयिष्यते पश्चादेतच्चावसरागतं । अथ सुखदुःख
तदनुभयविज्ञानमैन्द्रियकमेव पूर्व्वाभ्यासबलादुत्पत्तिमदिति पश्चात् प्रतिपादयिष्यते । तेनेन्द्रियं
086
पूर्व्वंसंस्कारसापेक्षमेवोत्पादयतीन्द्रियविज्ञानं । ततो नाद्यमपि340
सम्वेदनमिन्द्रियादुत्पत्तिमत् ।
तस्मात्सकलं चित्तं चित्तनान्तरीयकमेवेति स्थितं । किञ्च ।
यदीन्द्रियं कारणमिन्द्रियाभावे पुरोवर्त्तिस्पष्टाकारतावद्विज्ञानं न भवेत् । भवति च
तस्मात्तदभावेपि भावान्न तत्कारणमिति । अथ भ्रान्तं तदभ्रान्तं त्विन्द्रियादेवोत्पद्यते
नैतदस्ति ।
तदाकारं हि सकलमिन्द्रियं विज्ञानमन्तरेणैव स्वप्नविज्ञानवत् । अथ यदिन्द्रियमन्तरेण
तद् भ्रान्तमन्यदन्यथेति विशेषः । तदसत् । तदाकारता हि तावत्स्वरूपं विज्ञानस्य साचेन्द्रिय
मन्तरणैवोपलभ्यते । तदा तस्यास्तत्कारणन्न भवति । सम्वादस्तु पुनरर्थस्य भावाद्भवती
त्यर्थकृत एव स नेन्द्रियकृतः । न चान्यकार्येन्यस्य सामर्थ्यं ।
अथ स्वप्नेप्यस्त्येवेन्द्रियं तेन पुरोवर्त्तिस्पष्टाकारता तत्रापीन्द्रियकृतैव तेन न व्य
भिचारः । तदपि न युक्तिमत् । यस्माद्(।)
कार्याविशेषेण कारणाविशेषोनुमीयते ।
न च स्वप्नावथायामन्यत्र चेन्द्रियस्य विशेषः । तेनेन्द्रियमेव सजातीयाभ्यासमन्तरेण
न भवतीति नाद्यं341
विज्ञानमिन्द्रियादेवोत्पत्तिमदिति पूर्व्वकमेव विज्ञानं विज्ञान342
स्याश्रयः ।
अथापि स्याद्भवतु चित्तं चित्तस्याश्रयस्तथापि नेष्टसिद्धिः । अपारलौकिकचित्ताश्रयत्वे
सिद्धसाधनं मातापितृचित्ताऽऽश्रयत्वस्येष्टेः । पारलौकिकचित्ताश्रयणेऽनैकान्तिकता । मातापितृ
स्वभावस्याप्यनुवर्तनात् ।
अत्रोच्यते । तस्माद्यस्यैव संस्कार343
मित्यादि । न मातापितृस्वभावानुवर्तनं नियमेन ।
तदविकारेपि विकारदर्शनात् । विकारेपि चाविकारदृष्टेः । यदि च तस्य संस्कारो भवेत्
पाण्डित्यादयोपि स्युः । यथा वटवृक्षादिस्वभावाद्वट344
वृक्षस्वभावता तत्प्रसवस्य । अथ यथा
पितुर्मातुर्व्वा संस्काराधायिपाठकादि345
सहकारिणी तत्स्वभावता तथापत्यस्यापि स्यात् । तन्न संस्कारेपि कदाचिदभावात् । इतरथापि भावात् । स्वसन्तानवर्त्तिपूर्व्वकविज्ञानसंस्कारा
नुवर्तनस्य (दृष्टत्वात्सन्ता नान्तरानुवर्तनस्य) चादृष्टेरुपाध्यायसंस्कारानुवर्तनमुपलभ्यत
इति चेत् । न(।) स्वसन्तानपूर्व्वविज्ञानस्यैवाभिरुचिविशेषात्तदभावेन्यत्रादृष्टेरसावपि स्वसन्ता
नादेव पारंपर्यादुत्पन्नः । अभिरुचिसहायादुत्पत्तिरिति चेत् । अस्तु तथापि स्वसम्वेदनं विना
न परसंस्कारानुवर्तंनं तेन । (।)
087
स्यादेतद्(।)
यदि347 स्वसन्तानवर्त्तिचित्तसंस्कानुवर्तनमेव नियमतः । कथं पितृस्वभावानुवर्तनं ।
तत्र परिहारः(।) सर्व्वस्य पितृस्वभावानुवर्तनप्रसङ्गात् । परलोकवादिमतेपि तर्हि सर्व्वस्या
ननुवर्तंनप्रसङ्गः । न । तत्स्वभावस्य तेन परलोकेभ्यस्तत्वादुपाध्यायस्वभानुवर्तनवत् ।
अथ यथैकस्माद् वृक्षादनेकवृक्षसम्भवस्तथैकविज्ञानादनेकविज्ञानसम्भवः । एवमेकस्मादेव पारं
पर्येण सकलं जगदुत्पन्नमिति प्राप्तं । उक्तमत्र मात्रादिस्वभावानुवर्तनप्रसङ्गात् । परलोक
वादिनोपि तर्हि सकलपूर्व्वस्वभावानुवर्तनं स्यात् । न । व्याकुलत्वेन कस्यचिद् भ्रष्ट
त्वाद्348 गर्भावस्थानदुःखेन वा । कस्याचित्तु संस्कारानुवर्तनमस्त्येव । जातिस्मरणस्य च
दृष्टेः । अपूर्व्वोत्पन्नस्य तु न दुःखं सैव तस्यावस्था नान्येति । स एव चेदुपादानकारणत्वेन349
जनकः । तच्छरीर इव शरीरान्तरेपि पुत्रसम्बन्धिनि स्मरणप्रसङ्गः । दुःखाच्चेदस्मरणन्तदसत् ।
किञ्च । पित्रोर्दुःखसम्वेदनप्रसङ्गः । यथा सुप्तस्य शरीरान्तरगतस्य४ स्वप्नशरीरे
दुःखवेदनं । जन्यवृक्षदाहे जनयितृवृक्षाम्लानिवदसम्वेदनमिति चेत् । न । उत्तरवृक्षसंस्कारस्य
पूर्व्ववृक्षेभावात् । इह तु स्वप्नश्रीरस्य पूर्व्वशरीरे दृष्टेः । ततः स्मरणमेव पूर्व्वकृतस्य
स्यात् । संस्वेदजे च न बुद्धिः स्यात् । मात्रादेरभावात् । तस्मादात्मग्रहादिबुद्धि
र्मात्रादिबुद्ध्यभावेपि दृष्टा सम्वेदजेषु350 प्राणिषु ततस्तदभावेपि भावान्न मात्रादिबुद्धिर्हेतुः ।
ततः स्वसन्तानभाविपूर्व्वबोध351 जनितमेव मनोविज्ञानमपरञ्च कायादीनां चापलं ।
ननु स्वसन्तानो352 मात्रादिशरीरमेव शरीरान्वयस्य दृष्टत्वात्353 । तदव्यतिरेकि च विज्ञानं चापलादयश्च । ततस्तदन्वयसाधने सिद्धसाधनमेव ।
अथ शरीरस्य पित्रादिसम्बन्धिनो भिन्नता परलोकिकायस्यापि६ तथेति तदन्वयितापि न स्यात् । बालाद्यवस्थायाञ्च पित्रादेः स एव चपलतादिस्वभाव इति तत्सन्तानता ।
तदप्ययुक्तं । चेतसा शरीरेण च मात्रादिस्वभावस्यानुवर्तनस्यादृष्टेः । स तस्य पिता354 न भवतीति चेत् । न । दृष्टत्वात् । न चाभ्यासमात्मीयमन्तरेण तद्विशेषो दृष्टः । तस्मात्स्वाभ्यास
एवानुमीयते । अभेदेपि चेतसो महाभूतविकारत्वेपि पूर्व्वपरलोकमहाभूतानुमानमेव । न
चाभेदो युक्तः । यस्माद्(।)
शुभादि355 संस्कारो हि स्वसम्विदिताभ्यासपूर्व्वको नाभिव्यक्तः स्वापावस्थायां काले
प्रबोधावस्थयाभिव्यज्यते । तथा देहेव्यभिव्यक्तश्चेतसीव प्रतीयते अभेदतः । यथा देहे
गुणाः कार्श्यादय356 उपलभ्यन्ते परेण च । तथा चेतोगुणस्य शिल्पादेरप्युपलम्भः किन्न भवति ।
357 358 359 088
नहि यदुपलभ्यते रूपान्तर्ग्गतन्तदन्यथा भवति । अन्तःस्प्रष्टव्यविशेषरूपत्वात्परोपलब्धि
र्न भवतीति चेत् । न । बहिःस्प्रष्टव्यस्यापि व्रणादेरनुपलम्भात् । नहि व्रणेन खरस्पर्शो
वायुरुपलभ्योन्येनोपलभ्यते । व्रणस्यैव सा शक्तिरिति चेत् । किमुपलभ्भकविशेषादुपलभ्यो
न्यथोपलभ्यते(।) तथा सति भ्रान्तत्वप्रसङगः । व्रणस्यैव संस्पर्शविशेष इति चेद्वायो
रुपलम्भकत्वप्रसङ्गः । तथा च व्रणिनो वेदना न स्यात् । अथ वायुना परिघट्टमानस्य
व्रणस्य तेनैवोपलभ्यते सस्पर्शः । अन्यस्यापि व्रणस्पर्शतः स्यात् । न स्पृश्यमानस्य परेण
उपलम्भ इति न युक्तं यतः ।
न खलु तस्य रूपमनुपहतेन्द्रियेणाविदितं युक्तं । तथा च स्वसम्वेदनमेव । असम्वेद
नस्य तद्विलक्षणत्वात् ।360 । स्वसम्वेदनमेव दुःखं सुखम्वा रागादयश्च स्युरिति महाभूतादन्यद्विज्ञानं । ततः स्वम्वेदनस्य361
देहेन सहाधाराधेयभावो न युक्तः । कथन्तर्हि पादे मे वेदना हस्ते मे
वेदनेति । हस्तविकारकाले तस्याभावादेवं362
भवति नान्यथा । हस्तादिविकारसहचरितत्वा
त्तथा व्यपदेशः । तथाहि
स्वरूपमात्रवेदने हि कथमाधाराधेयकल्पनासम्भवः । द्वयप्रतिपत्तौ हि तथा भवेत् ।
न च तत्रापि तथाद्वयप्रतिपत्तौ हि द्वयमेव तदिति भवेत्363 ।
अथ वासनानियमात्तथाविकल्पः । स तर्हि विकल्पो न महाभूताव्यतिरिक्तः स्वरूप
मात्रपर्यवसानात् । वासनाबलोत्पन्नमहाभूतत्वेपि न दोषः364 ।
ग. पुनर्जन्मपरिग्रहः
तस्माद् देहातिराक्ता बुद्धिस्ततो न मातापितृजा । स्वसन्तानपूर्व्वभाविन्येव यदि
तर्हि न महाभूतमात्रादुत्पत्तिः प्राणिनो/?/ जन्मान्तरादागमनं गर्भादिस्थाने । ततोऽशुचिदेशगम
नमयुक्तं । नहि प्रेक्षावानेवं भवितुं युक्तः । न चेश्वरप्रेरणमिष्यते । तत्रोच्यते ।
उक्तमेतद्यदि प्रेक्षावान्भवति । स्वरूपस्य स्वतोगतिर्न प्राप्यस्य ततः केनचिन्न क्वचिद्
ग्रामादौ प्रवर्त्तितव्यं अत आदिशान्तत्वात्संसार एव न भवेत् । अथ ग्रामादिगमनं यथा
कथञ्चिद् भवत्यप्रेक्षावत्तया तथा सति गर्भादिदेशगमनमपि । आत्मस्नेहप्रेर्यमाणस्य हि
हीनमपि विपर्यासादुपादेयं भवति । कर्म्मशक्तिरेव सा तादृशी येनान्यसत्त्वनेयस्य परतन्त्रस्येव
तथा गतिः । हीनस्थानपरिग्रहोपि सुखदुःखाप्तित्यागवाञ्छ्या श्रोत्रियस्य दासीवेश्मप्रवेशवत् ।
089
अथेश्वरप्रेरितत्वं कस्मादस्य नास्ति, भ्रान्तस्य स्वयमेव सम्भवान्नेश्वरकल्पना साध्वी ।
न चेश्वरप्रेरणमुपलभ्यते । यथा च नेश्वरकल्पना तथा प्रतिपादितं । आत्मस्नेह एवेश्वरस्तस्य
प्रेरकत्वप्रतीतेः । अथ यथान्येन भृत्यादिः प्रेर्यते तथा परलोकेपीति चेत् । न (।) नियमा
भावात् । आत्मतृष्णावानेव प्रेर्यते न सर्व्वः (।) सोपि सतृष्णो नैवापरेण नवीतरागादिना ।
तदाराधनेन गतिप्राप्तेः स प्रेरक इति चेत् । सर्व्वतीर्थकराणामीश्वरत्वप्रसङ्गः । तस्माद्वि
पर्यस्तमतिरेव प्रवर्तते गर्ब्भस्थानेऽन्यत्र वा दुःखेपि सुखसंज्ञया । ततो विपर्यस्तमतितृष्णाभ्यां
जन्म यस्य तु ते न स्तो न स जन्माधिगच्छति । न तस्येश्वरो जन्मदानसमर्थः । न हीश्वर
वादिनामप्ययमभ्युपगमः ।
ननु यस्यारोग्यसाधकं कर्म्मं नास्ति, तस्य भिषगकिञ्चित्करः । यस्य तु कर्म्मा
नुपहतमारोग्यसाधकं तत्रापि व्यर्थता भिषजामशक्यसमर्थाभ्यामिति365
प्राप्तं । नायं दोषः ।
न खलु कश्चित्संसारी प्रेर्यते ईश्वरेण कश्चिन्नेत्यभ्युपगम ईश्वरवादिनामथ तदा
राधनमपि गतिप्राप्तावुपयुज्यते । तथा सति दायकाराधनमपि । एतच्च सर्व्वतीर्थ
कराणामपि क ईश्वरानीश्वरयोर्व्विशेषः । तस्मादविद्यातृष्णयोरेव जन्मनि सामर्थ्यं नेश्वरस्य ।
(अन्तराभवदेहः—)यदि तर्हि गमनमागमनञ्च जन्मान्तरापेक्षया तत उपलब्धिस्तयोः
प्राप्ता तथा च नोपलब्धिरित्यभाव एव तयोरित्याह ।
यद्यपि गत्यागती न दृष्टे तथापि तयोर्नाभावः । इन्द्रियाणामपाटवाददृष्टिर्न त्वभा
वादेव । न ह्यविद्यमानस्यैवादर्शनं मन्दनेत्रस्य न तनुधूमो गतिविषयस्तथाप्यस्त्येव ।
अन्तराभवदेहो हि स्वच्छतया कर्म्मसामर्थ्यादुत्पन्नो योगिमात्रगम्यः । स्वप्नशरीर
वन्नोपलभ्यते (।) न तावता तस्याभावः । मिथ्यास्वप्नशरीरमिति चेन्नार्थक्रियाकारित्वादिति
प्रतिपादनात् । अत एव ।
स्वप्नशरीरवदेवाशक्तिमद् मूर्तत्वान्मूर्त्तमपि तु किञ्चित्क्वचिदशक्तिमज्जलवद् घटादौ
प्रभावत् स्फटिकादौ हेम्नि सूतवत् । अथवा जलवत् सूत366
वद् हेम्नि न विद्यमानमेव नोपलभ्यते ।
अपि त्वदृष्टेरसदेव वान्तराभवशरीरं । तथाहि
ब्रीहिसन्तानसावर्म्यादविच्छिन्नभवोद्भवः परिकल्पितः367 ।
मृत्यूपपत्तिभवयोरन्तरा भवतीह यः368 ।
090
न चात्र तथा । व्यवहितस्य कालदेशाभ्यामुत्पत्तेः । तथा हि कश्चिदविच्छिन्नं
का न्य कु ब्जा दिगमनं ग्रामगमनादिनोपलभते । कश्चिदिहस्थ एकदैव देशान्तरस्थमात्मानमुप
लभते स्वप्ने । तद्वद् गतिदेशेपीति न विशेषः । न च स्वप्नस्यासत्त्यतेति अस्यापि साध्यस्या
सत्त्यतया भवितव्यं । न दृष्टान्तस्य सर्व्वसाम्यं दृष्टं । वासनादाढ्र्यात्सत्त्यता भविष्यति जन्मान्त
रस्य न तु स्वप्नस्य, तदभावात् ।
यदि प्रतिभासान्तरं जाग्रत्प्रत्ययलक्षणं भवतीति स्वप्नस्यासत्त्यता जाग्रत्प्रत्ययस्यापि
सत्त्यताविपर्ययः । स्वप्नप्रत्ययस्य प्रतिभासान्तरलक्षणस्य भावात् । नहि विपर्ययत्वे विशेषः ।
अथ स्वप्ने घटादिकमकस्मादेवोपलभ्यते । तत्कारणमन्तरेणैव । ततो विशेष इति चेत् ।
जाग्रदवस्थायामपि योगिनिर्म्मिता पर्व्वतादयोऽकस्मादेवोपलब्धिगोचराः । विद्यमाना
एव ते प्रागुपलभ्यन्त इति चेद् भ्रमणविशेष एव च सामग्री तत्रेति (।) तदसत्त्यं ।
यदि विद्यमाना एव प्राक्पर्व्वतादयः क्वचिदुपलभ्यन्ते जाग्रता । स्वप्नव्यवस्थितेनापि369
तथेति किन्नाभ्युपगम्यते । अन्येन जाग्रता तेषामनुपलब्धेरविद्यमानतेति चेत् । जाग्रदुपलब्धा
नामपि स्वप्नगतेनाप्यनुपलम्भः । यथा च भ्रमणसामग्रीतस्तेषामुपलम्भस्तथावस्थान्तरस्य
स्वप्नस्य सम्भवादकस्माद् घटादीनां । कथञ्च जाग्रदवस्थेति मतिः जाग्रत्प्रत्ययस्योत्पत्तिरिति चेत् ।
तथाहि जागर्मि प्रबुद्धोहमिति स्वप्नपि विद्यते प्रत्ययः । गमनादयश्च । ततः कथं
सोपि स्वप्नः । असत्त्यत्वादिति चेत् । जाग्रदभिमतावस्थायामपि तथात्वप्रसङ्गः । परस्परानु
पलम्भो द्वयोरपि समान इति ।
अथासत्त्यमेतदिति प्रतीतेः स्वप्नस्यासत्त्यता । जाग्रत्प्रत्ययस्यापि तत्समानत्वा
दसत्त्यतास्तु । नहि तत्प्रत्ययादेव तत्त्वं । तल्लक्षणेनापि तत्त्वस्य भावात् । अपि च । असत्त्य
मित्यपि प्रत्ययः किमालम्बते ।
न खलु तद्रूपतयोपलभ्यमान एव ततोन्य इति युक्तः । नापि स न भवतीति । तदन्यता हि
तदन्यरूपतयैवान्यथा सोपि तदन्यो भवेत् । न चोपलभ्यमान एव नास्ति सर्व्वस्य तथात्व
प्रसङ्गात् । अथायमुत्पद्यते प्रत्ययः । उत्पद्यतामस्यालम्बनं नास्तीति व्यर्थतयैव370
नास्मात् पदार्थव्यवस्थितिः ।
ननु नास्त्येव स्वप्नोपलब्धौ घटादिरिति दृढोऽविसम्वादी चायं प्रत्ययस्तत्कथं
व्यर्थतास्य । तथाहि ।
तदसत् । यतः ।
किञ्च ।
एवम्भूतानादिवासनासम्भवादेते प्रत्यया व्यवहारिणामुपजायन्ते केन विशेषेण तदव्यव
हितेन जाग्रदात्माभिमानिनोपलम्भाभावेन । जाग्रदभिमानोपि वासनाबलादेव पतितशरीर
त्यागतः इदमपि व्यवहारमात्रकं न परमार्थतः । जाग्रता नाम स्वप्नेपि तथा प्रत्ययात् । अथ
स्वप्नगतानां जाग्रदुपलम्भेषु नास्तीति न प्रत्ययस्तदेतद् बन्धत्वं ।
गमनादेरविघ्नस्य सम्भवादेव क्रिययैव नास्तित्वं प्रतिपन्नमेव मुख्यं किमपरेण विकल्प
प्रतिपाद्येन । विकल्पो हि सत्त्येप्यसत्त्यतां प्रतिपादयति । अन्यथा परस्परविरोधीति विकल्पो न
भवेत् । तस्माज्झटिति विद्यटनादसत्त्यताभिमानः स्वप्नदृष्टेषु जाग्रदवस्थानुबन्धाभावाच्च ।
न च तावता तदप्यसत्त्यता । तस्मात्स्वप्नविषये गत्यागती न दृष्टे अन्येन तथापि ते एव
इत्यनैकान्तिकता तददर्शनस्य । तस्मान्न गत्यागत्योरभावोऽथवा भाव एवेति प्रतिपादितं ।
अपि च । यदि शरीरादभिन्नं सम्वेदनं शरीरञ्च परमाणुसंघातमात्रं तदा प्रत्येकं
सकलपरमाणुसंवेदनप्रसङगः । अथावयवी स्थूल एक एव तथोपलभ्यते । तथापि परमाणुषु
तस्य स्थानात् परमाणुसंस्पर्शात् परमाणूपलम्भः । अथ तेभ्य उत्पद्यते सम्वेदनं न तु तेषु
व्यवस्थितं । तथा सति तेभ्य इति कुतो गतिः । न स्वसम्वेदनं परसम्वेदनं । अथ पर
सम्वेदनमेव न स्वसम्वेदनं कथन्तर्हि सुखं सम्वेद्यते । परभूतस्यैव तस्य वेदनात् तदसत् ।
सुखादिनीलादिनोः(?) परभूतयोरेव वेदेने किमन्यदस्ति यद् वेदकं । शरीरमेवेति न चेत् ।
न खलु चक्षुरादयोनुपलभ्यमानाः खरशृङ्गवदुपलम्भकः । शक्तिरूपाश्चक्षुरादयस्ततो
नाभावरूपाः । शक्तिरप्यनुपलभ्यमानास्तीति कुतः । कार्यद्वारेण तस्या उपलब्धिरिति चेत् ।
किङ्कार्यन्तेषां । सुखादिरूपा ह्युपलब्धिः ।
ननु सापि शक्तित्वान्नोपलभ्यत एव । पारिशेष्याद् रूपादय एव ते । ते च न विज्ञानशक्तेः
कार्याश्चक्षुरादिकार्यत्वे पूर्वमभावप्रसङ्गः । उपलभ्यावस्था कार्यमिति चेत् । प्रतिपरमाणू
पलम्भप्रसङ्गः । न च विशेषाभावेवस्थाभेदः । विशेषे स्वसम्वेदनप्रसङ्गः । शक्तिसहितोत्प
त्तिरेव विशेष इति चेत् नैतद् युक्तं । यतः ।
रूपादीनां हि विशेष उपलभ्यमानता । सा चेदुपलब्धिशक्तिसहितत्वं कथं शक्तिसिद्धि
मन्तरेण सहितत्वसिद्धिः । तदसिद्धौ कथं शक्तेरनुमानं । तस्माद्रूपादिसुखादिमात्रकस्वसम्वेदनमेव
विज्ञानं विज्ञानं सुखादिकमिति सामानाधिकरण्येन प्रत्ययस्योत्पत्तेः ।
यद्यमुख्यं मञ्चाः क्रोशान्ति, पुरुषो दण्ड इति यथा । तदत्राप्रसिद्धमेव । रूपादिष्व-371
रूपव्यतिरिक्तस्य विज्ञानस्योपलम्भासम्भवात् । अनेनैव दृष्टान्तेनानुमीयत इति चेत् । न अनु
मानासम्भवात् । सां ख्या नां चेतनः पुरुष इति मुख्यस्य सामानाधिकरण्यस्योपगमात् ।
तस्माद्यथा यस्य सम्वेदनं तथैवासावभ्युपगन्तव्यः ।
न खलु विज्ञानमालम्बनव्यतिरेकेणापेरण मिश्रीभवति । ततः सुखादिमिश्रीकृतं रूपादि
ना मिश्रीभवति । रूपादिना मिश्रीभूतं परसुखादिना मिश्रीभवति । अभ्यासात्सर्व्वाकारलिङ्ग
परिप्रहेण सकलतदाकारप्रतिपत्तौ कथन्तर्हि परसुखादिरूपादयस्तदवस्थतयावलम्ब्यन्ते ।
तदसत् ।
रूपादिसुखादीनां हि न स्वरूपाकारसम्वेदनमपहायापरः प्रकारः सम्वेदनस्य । तत इदं
तटस्थमन्यथा वेति कुतो विभागः । केवलं शरीराश्रयापेक्षया तटस्थमिदमन्यथा वेति व्याव
हारिको विभागः ।
सत्त्यमेतदत एव विभागः पारमार्थिकतया न समस्ति ।
इयमेव खलु संवृतिरुच्यते येयं विचार्यमाणा विशीर्यतेन्यथा परमार्थ एव भवेत् ।
तस्माद्यथारूपादि परशरीरादौ संक्रान्तिमद्विज्ञानं तादात्म्येन तथा परशुक्रशोणितशरीरेपि ।
ततो न शक्तिर्नामान्या विज्ञानरूपा यतः सक्रियता विज्ञानाश्रयस्य केवलन्तदेवन्तदेव तथाभूतं
स्वसम्वेदनं विज्ञानं कथन्तर्हि तादात्म्येन संक्रान्ते विज्ञानात्मनि स्तम्भादेरचलनं स्वशरीरस्येव
तस्यापि चलनप्रसङ्गः । तदप्यसत् ।
यदा खलु स्पर्शविज्ञानं प्रयत्नविज्ञानस्वभावमुपजायते तदा चलनं कायादेरुपजायते
नान्यथा । तस्माद्विज्ञानं रूपादिस्वभावमेव । ततः प्रतिपरमाणु वेदनप्रसङ्गः ।
भवतोपि कस्मादेवं न भवति । तदाकारस्यापरस्य विज्ञानस्य जातेः । ममाप्यवयवी
विज्ञानरूपो न परमाणवः । तदप्यसत् । परमाणूनामपि तद्रूपताप्राप्तेः परमाणवः पृथग् भूता
एवेति चेत् । न(ा)सन्त्येव तर्हीति प्राप्तं । तथाहि ।
अथ न विज्ञानस्वभावाः शरीरपरमाणवः तथा सति न शरीरस्वभावाः परमाणवः ।
असंवेद्यत्वे च न विषयस्वभावा इति न सत्त्वं परमाणूनां । ततः केवलो वयवी । तस्य च372
द्रव्यं हि नामावयविरूपं क्रियावद्गुणवत्संयोगादिकारणं समवायिकारणं । तस्य यदि
क्रिया नास्ति373
तदा तत्सममवायिकारणत्वात् सर्व्वमेव चलतीति प्राप्तं । चलिताचलितश्चित्रोऽ
वयवि चेत् । देवदत्तयज्ञदत्तादिरूप एक एव चलितादिरूपोवयवीति प्राप्तं । अथ दृश्यत एकत्वं
चलिताचलितत्वं चेति को विरोधः । किमिदेमेकत्वं नाम । यदि प्रतिभासाभेदः स नास्ति ।
अथैककार्यता सा यदि नामैकं कार्यं कारणमप्येकमिति कुत आवरणेऽवयविनः सर्व्वस्यावरणं
संयोगाविशेषात् । अवयवस्यावरणेवयविनो न प्राप्नोतीति सर्व्वं दृश्येत । अवयवद्वारेणावरणे
न किञ्चिद् दृश्येत सकलम्वा । एकत्वेपि सर्व्वस्यापि द्रष्टुमशक्यत्वादिति चेत् । दृष्टा
दृष्टयोः कथमेकत्वं । रागयोगेप्ययमेव प्रसङ्गः ।
यद्यनेकः कायः । अनेकत्वेपि पूर्व्ववद् दोषः । प्रतिपरमाणु स्वसम्वेदनप्रसङ्गः ।
अविशेषान्न गतिश्चेत् । नैतदस्ति । अविशेष एव न सिध्यति । सम्वेदनावस्थायामुपलभ्यत्वा
त्ततो नानुपलभ्यमानाविशेषः । अत एव स्वसम्वेदनावस्थायामणुत्वमपि न विबन्धकारीति सतोपि
असदविशेषादनणुः । तवापि कथं विशेषोपलम्भ इति चेत् । न (।) स्वसम्वेदनरूपतया
विषयोपलम्भोपि तु तदाकारविज्ञानोपलम्भ एव(।) विषयोपलम्भः कथं न परमाण्वाकारतेति
चेदेतदुत्तरत्राभिधास्यते ।
ननु परमाणुमात्रकस्य कथमावरणप्रतिघातादयः ।
377 094
आवरणं हि परमाणूनामसंसर्ग्गात् कथमिति न युक्तं । नह्यवयविप्रतिबद्धमावरणं
क्वाप्युपलब्धं । येन तत्त्वाभावे परमाणुषु न स्यात्तथा प्रतिघातादिः378 । अथैवमुच्यते ।
अवयविसंयोगमन्तरेण परमाणव एव केवला अव्याहतपरस्परान्तरनुप्रवेशाः कथमा
वरणभाजः । अत्रोच्यते । अशक्तैः संयोगोपि पदार्थः कथं जन्यते । संसृष्टाः कथ379
मवयविनं
जनयन्ति । संसर्ग्गश्च नैकदेशेन तदभावात् । न सर्व्वात्मनाणुमात्रपिण्डप्रसङ्गात् । संयोगस्य
पदार्थान्तरस्य जनने न चेत् । तमेव संयोगं सान्तराः कथं जनयन्तीति समानः प्रसङ्गः ।
संसर्गश्चेत् किं संयोगेनापरेण । तथावयविना । अथ सान्तरा एव संयोगमवयविनं च
जनयन्ति । तथा सत्यावरणादिकार्यमपि किं न जनयन्ति ।
यथा विरलदेशस्थिता अपि केशमशकमक्षिकादयः एकघनाकारं प्रत्ययमुपजनयन्ति । तथा
कार्यान्तरमपि किन्न जनयन्ति । तत्र बाधकस्योपलब्धेस्तथेति चेत् । अत्राप्यतीन्द्रियदर्शियोगि
प्रत्ययो भवति बाधको यदि योगी भवेत् । यथा चाच्छिद्रचषके380 न जलश्च्युतिरुपरि
पिधाने । तथा परमाणुसंहतावपि । अथवा सूतहेमसंयोगः कथमवयविनं विनावरणप्रति
घातादिसमर्थः । तप्तोपलादिकम्वा विसरणादिकञ्च नामापरं कार्यं । तत्कारणविशेषा
दुपजायते वि/?/शिष्टसंहतिलक्षणात् । कार्यकारणभावश्चाचिन्त्यः । तथाहि पृथगशक्ता
रूपादयो विज्ञानं जनयितुं तथापि संहताऽवस्था जनयन्ति । संयोगादिति चेत् ।
ननु संयोगोपि कार्यमेव तमेव कथं जनयन्ति । न च संयोगस्य दृश्यता अदृष्टाश्रयस्य गत्य
भावात् । यद्यदृष्टाश्रयस्यापि गतिः । इन्द्रियार्थसन्निकर्षात् प्रत्यक्षं जायत इति समयः ।
संनिकर्षश्च संयोग एव तदस्य संयोगकारणत्वात्संयोगविभागेष्वकारणं गुण इति गुणलक्षणं
हीयते । अथ संयुक्तसमवेतत्वाद् गम्यते । एवं तर्हि परमाणुसंयोगसद्भावे परमाणुगतिः
स्यादिति व्यर्थमवयविकल्पनं । सर्व्वसंयोगानाम्वा गतिः स्यात् । ततो न दूरादग्रहणं भवेत् ।
इन्द्रियसंयोग एव तत्र नास्तीति चेत् । न । स्थूलानामपि न गतिः स्यात् । अथ संयोग
जोपि संयोग इष्यते । संयोगविभागेष्वकारणमिति तु समवायिकारणत्वप्रतिषेधः । न । तत्रेह
निबन्धनत्वात्समवायस्य । संयोगस्य च प्रतीयमानत्वे नियमेनेह बुद्धिरुपजायते । ततः
समवायिकारणमपि प्राप्तं । किञ्च ।
यदि संयुक्तसमवायोपि ग्रहणहेतुस्तदा कार्यद्रव्यसंयोगो व्यर्थः स्यात्परमाणुसंयोगे
नैव कार्यद्रव्यदृष्टेः । अथ कार्यद्रव्यसद्भावे परमाणुसंयोगो न कल्प्यते । परमाणुसंयोगादेव
दर्शनं घटादेरिति व्यर्थमवयविकल्पनमिति स एव दोषः । अथावयविनोऽभावे परमाणुसंयोग
कल्पना नान्यथा । विपर्ययेपि तुल्यं । न चावयविसंयोगे परमाणुसंयोगः । समानदेशकालत्वेन
विभागाभावात् । अथवा प्रतीयमानस्यावयविनोपि संयोग इति दृश्यस्यासंयोगस्यापि संयोगः
095
स्यात् । किञ्च । दृश्यता संयुक्तसमवायादिति रसरूपादियोगः पानकादौ दृश्यमाने न स्यात् ।
न गुणस्य गुण इति । नहि तत्रावयवानां तद्रूपं रसो वा । उपचारतस्तथा व्यपदेश इति चेत् ।
बुद्धिभेदः प्रसक्तः । यदेव हि रूपं रसो वावयवानां दध्यादीनां तदेवैकार्थसमवायादुपचर्यते ।
म तु रूपरसान्तरोपलम्भः ।
संयोगिनां हि यद्रूपं संयोगस्यापि381 तद् भवेत् । उपचारात्कुतस्तु स्यात्तत्र रूपरसान्तरं ।। ५३७ ।।
अथ तावेव संसर्ग्गाद्रूपरसौ तथा प्रतिभासेते । अत्यन्तसंसर्गो हि तदेकत्वप्रतिपत्तिहेतु
रिति रसान्तरत्वरूपान्तरत्वगतिः । एवं तर्हि नावयविनापरेण किञ्चित्परमाणुप्रतिभास
नमेव तथा स्थूलादिव्यवहारयोगि । किञ्च । यदि न परमाणूनामेव स्थूलता382
प्रतिपत्तिस्तदा
दीर्घा पंक्तिरिति न स्यात् (।) नहि पंक्तिर्नाम किञ्चित् । तथाहि ।
सन्निवेशमात्रस्यैव दीर्घादिता यथा मालादौ । तथा च विवादास्पदोवयविविषया
भिमत इति नावयवी । यच्चोक्तं । संयोगादिन्द्रियादयो जनयन्ति धियमवयविनमन्यम्वेत्यादि ।
तत्रोच्यते । न संयोगादीनां रूपमुपलभ्यते । संयोगिन एव रूपादयः केवला न तत्र परः संयोग
उपलब्धिगोचरः । संयुक्त इति बुद्ध्या गृह्यमाणः कथं न तथेति चेत् । संयुक्त इति संयोगिन
एव प्रतीतिः संयुक्तशब्दस्य च नापरमत्रालम्बनं ।
पुरः स्थिता यथा तेर्थाः किं सयोगस्तथा स्थितः ।
अन्वयव्यतिरेकाभ्यां संयोगादिति383 कल्पना ।। ५४१ ।।
न खलु संयोगो परः प्रतिभासते संयोगिव्यतिरिक्तः केवलमसंयुक्तयोः सावस्था नोप
लभ्यते । तौ पुनरुपलभ्येते । ततोऽन्वयव्यतिरेकाभ्यां कल्पनामात्रमेव एतदिति निर्ण्णयः ।
प्रत्यक्षेण तु तथाभूतं संदेवं भूतं जातमिति प्रतीतिः । ततः सैवास्था पृथग्भावेन ज्ञाप्यते
संयोग इति । अत एव (।)
न शब्दज्ञानवैलक्ष्यण्यमात्रादेव पदार्थभेदोपि तु प्रत्यक्षलक्षणज्ञानभेदात् । विकल्पिका
हि बुद्धिरनादिरनादिवासना384 सामर्थ्यादुपजायमाना तथा तथा प्लवते । ततो नार्थतत्त्वं
प्रतिष्ठां लभते । तत्रान्वयव्यतिरेकेण परिकल्पितं भेदमाश्रित्य संयोगादिबुद्धयः ततः
परिकल्पितस्यैव भेदो नार्थतत्त्वस्य (।) विकल्पितार्थभेदस्तु तीर्थान्तरदर्शनादप्युपजायते ।
ततोप्यर्थतत्त्वव्यवस्थापनायामनवस्था । तथाभ्युपगमेन परस्परापवादः स्यात् । ततो
भिन्नः शब्दो ज्ञानञ्च विकल्पिते वस्तुनि वासनाया अन्वयव्यतिरेकाभ्यां प्रवर्तते ।
किम्भूतोसौ विकल्पः । वस्तुभेदानुसारी वस्तुनाभेदो व्यावृत्तिरतथाभूतात् । न च व्यावृत्ता-
096
दन्या व्यावृत्तिस्ततः स एव सन्तानापेक्षया अवान्तरभेदो भेदेनैव प्रतिभाति(।) किम्वस्तु
भेदमन्तरेण कल्पनाः प्रवर्तन्ते भिन्नाः । प्रवर्तन्त एव दृष्टमेतत् । यथा गुणादिषु एको
गुण एकः समवायश्चतुर्व्विंशतिर्ग्गुणाः । न च तत्र संख्या द्रव्याश्रितत्वात् संख्याया न चाश्रय
संख्योपचार आश्रयभेदेप्येकमेव सामान्यादिकं । नष्टाजातेषु च कथमेकत्वादिकं ।
यदि नष्टाजातेषूपचारादेकत्वादेस्तथा व्यपदेशो बुद्धिश्च स एवोपचारोऽनयोः कस्मा
त्सर्व्वत्र निबन्धनं नेष्यते । अनादिकल्पनाध्यारोप एव निबन्धनमस्तु । न वस्तुपरि
कल्पनावसरः ।
ननूपचारो हि नाम मुख्यनिबन्धनः स कथमसति मुख्ये भवेत् । मुख्यञ्च भिन्न
विशेषणं दण्ड्यादिवत् । अभिन्नविशेषणत्वे गौणी व्यवस्थितिः । भवतस्तु पुनः पूर्व्वपूर्व्व
कल्पनाकृतविशेषणयोगादभिन्नविशेषणत्वेन मुख्यत्वं क्वचिदिति नोपचारसम्भवः । तदसत् ।
भिन्नविशेषणं मुख्यमित्येव च कुतः । अभिन्नविशेषणमपि कल्पनाकृतभिन्नविशेषणमत्यन्ता
भ्यासाद् रूढ़िमुपगतं मुख्यमेव । अस्खलद्गतिप्रत्ययविषयो हि मुख्यस्तदपरस्तु गौण इति
किं न पर्याप्तं । किञ्च । यदि भिन्नविशेषणं मुख्यमन्यथोपचरितं । अमुख्यमेव सर्व्वमेवं
विधं भवतु भिन्नस्य विशेषणस्याभावात् । नष्टाजातेषु तु विशेष्यमप्युपचरितमिति विशेषः ।
यदि विशेषणमप्यपरं नास्ति विशेष्यमेव तर्हि सर्व्वत्र वाच्यमित्यभिन्नार्थता पर्यायतारूपा
भवेन्न सामान्याधिकरण्यं भिन्नप्रवृत्तिनिमित्तत्वे हि तद् भवति । तदप्यवचनीयं । यतः ।
इदं सामानाधिकरण्यं शब्दयोरर्थयोर्व्वा भवेत् । न तावच्छब्दयोः प्रतिनियतार्थाभि
धानात् । लक्षितलक्षणेन सामानाधिकरण्यमिति चेत् ।
अथ नीलार्थ385 सम्बन्धिमात्रमेकध्वनेर्ग्गतं । समवायिप्रतीतो न परस्यास्त्यप्रतीतता ।। ५४७ ।।
तस्माद् बुद्धय एव स्ववासनानुरोधादुपजायमाना भेदाभेदसामानाधिकरण्यादिव्य
वहारमुपरचयन्ति । न पर्यायताप्रसङ्ग । तथाहि ।
अनर्थान्तरहेतुत्वेपि सितादिषु(।)दृश्यन्तेऽपर्याया इत्युक्तं । तत्राप्यर्थान्तरत्वमिति
चेत् । एवं सति गुणद्रव्ययोर्न विशेषः । तथाहि । क्रियावद्गुणवत्समवायिकारणञ्च द्रव्यं387 ।
समवायिकारणत्वं गुणयोगे भवेत् । गुरुत्वस्य भावादधोगतिः पानकादीनामिति क्रियावत्त्वं ।
ततो गुणोपि संयोगो द्रव्यलक्षणयोगे द्रव्यमिति गुणद्रव्याविशेषः । तस्माद् भिन्नो व्यावृत्तिभेद
परिकल्पिताऽभिधेयभेदाद् भिन्नः शब्दः प्रत्ययश्च । तद्यथाऽकर्म्मद्रव्यमद्रव्यं कर्मेति न चार्थान्त
रमत्रार्थः । तथाप्यपर्यायत्वमकर्म्मद्रव्यशब्दादीनां । तत्र व्यावृत्तिभेद एव निबन्धनं नापरः
प्रवृत्तिनिमित्तभेदः । कथन्तर्हि सामानाधिकरण्यवैयधिकरण्यप्रभेदः । गौः शुक्लो गोः
शुक्लत्वमिति ।
यथा पर्य्यायता कल्पितवाच्यभेदान्नेति प्रतिपादितं । तथाऽभेदेपि वाच्यस्य व्यतिरेक
विभक्तिः कल्पितव्यतिरेकभावाद्यथा शिलापुत्रकस्य शरीरं राहोः शिरः तथा गोः शुक्लत्व
मिति । गौरिति तदेकाकारपरामर्शंयोगी सकल एव पदार्थ उच्यते । शुक्ल इति तु तदेकदेशः
परामर्शान्तरयोगिनि च विद्यमानः । व्यतिरेकश्चान्वयव्यतिरेकाभ्यामपोद्धृतः । ततस्तस्य
गोः शुक्लो गुण इति व्यतिरेकविभक्तिः । यदा च गवाकारावग्रहो नास्ति शुक्लत्वमेव
केवलमुपलभ्यते सम्बन्धिविशेषरहितं । तदा प्रश्नयति कस्येदं शुक्लत्वमिति तदा पूर्व्वदर्श
नादवधृतगोस्वभावो निर्दिशति गौरिति । तादात्म्यसम्बन्ध एवास्य विवक्षितः । व्यतिरेकस्तु
केवलस्य प्रथमन्निश्चयात् । यदा तु न केवलेनानेन भवितव्यं यदि नाम विशेषोपलक्षण
मन्दता मन्दलोचनानां तथापि शुक्लेन गवान्येन वा भवितव्यमिति प्रश्नयत्ति कोयं शुक्लो
गौरन्यो वेति । तदा प्रतिवचनं गौरिति समानाधिकरणतया । तदन्तर्भावनेनैव प्रश्नभावात् ।
तदनुरूपमेव च प्रतिवचनं युक्तमयञ्च तत्त्वार्थ ति इति ।
098
तस्यादवयवा एव नावयवी विद्यते । यदि तर्हि नावयवी रसादय एव तदा न घटस्य
रूपादय इति भवेत् । नहि भवति रूपादीनां रूपं । नापि घटस्य वा घट इति पर्यालोचनं
परस्याशङक्याह ।
रूपादीनां प्रतिनियतशक्तिभेदमंनाक्षिप्य तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः
प्रवर्तते । ततो न रूपादयो घट इति समानाधिकरणता । अत एव समुदायशक्तिविवक्षा
यामयं391
समुदायशब्दः । जातिशब्दस्तु प्रत्येकं एकफलत्वे यथा वनं यथा वृक्ष इति ।
कथन्तर्हि रूपादयो घटस्येति व्यपदेशः । उदकाहरणसाधारणकार्या रूपादिप्रत्ययजननसमर्थाः
प्रत्येकमित्यर्थः । अथ यथा वृक्षाणां वनं वृक्षा वनं । रूपादयो घटा रूपादीनां घट इति
कस्मान्न भवति । भवत्येव यदि शास्त्रान्तरसंस्कारो न भवति । लोकस्तु प्रायशस्तत्संस्कारा
नुसारी ततो न भवति । यस्तु392
सम्यगवबोधयुक्तस्तस्य भवत्येव संप्रत्ययो रूपादय एव
केचिद् घटाः कार्यविशेषसमर्थाः । उदकाद्याहरणञ्च कार्यंविशेषः । सन्निवेशविशेषेण
वा व्यवस्थिताः । यतः संनिवेशविशेषादुदकधारणविशेषः । रूपं घट इति तु न भवति
सामानाधिकरण्यं अवयवावयविभेदेन परस्परव्याप्त्यभावात् ।
ननु वृक्षशिङ्शपात्वयोरपि न परस्परव्याप्यव्यापकभाव इति कथं समानाधि
करण्यं । नैतदस्ति यतः ।
न खलु घटबु्द्धिः प्रत्येकं रूपादौ प्रवर्तते वक्षबुद्धिवच्छिङ्शपादौ । न च स
शक्तिभेदो घटशब्देनाक्षिप्यते ।393
वृद्धव्यवहारनिरूढेः शक्तिप्रतिनियमात् । वृक्षशब्दस्तु
विशिष्टशक्ति /?/मप्याक्षियतीति न दोषः । अत्रापि व्यवहारनिरूढिः शक्तिभेदो वा निबन्ध
नमिति सर्व्वं सुस्थं ।
ननु विङ्शतिग्गविः, गवां विंशतिरिति394 न भेदोत्र कश्चित् ।
099
संहतेः ख्यातिरत्रास्ति/?/ बहुत्वेन परिस्फुटा ।
तदाहानया दिशा अन्येपि व्यपदेशा वक्तव्याः । संहतिविशेषोऽत्र विवक्षितो दशद्वय
रूपः । न च तेन वाहदोहशक्तिराक्षिप्ता । नापि तया संहतिविशेष इति सर्व्वं सुस्थं । अथवा ।
ततो न कस्यचिच्चोद्यं केनचित् क्रियते न च ।
किमयुक्तिमदत्रेक्ष्यं396 येन तत्परिचोद्यते । प्राकृते शब्दसंस्कारे दृश्यते न समञ्चसं ।। ५६३ ।।
(घ) विज्ञानं कारणम्
यदि शरीरस्य महाभूतादुत्पत्तिस्तदा वयवानां समस्तानामेव हेतुत्वं विज्ञानजन्मनि ।
यथाङकुरे भूम्यादीनां प्रत्येकम्वा यथा ज्वालादिषु दाह्यानां तृणानान्तत्र ।
नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।
यत्र खलु कार्ये परस्परसहकारितया बहुनां व्यापारस्तत्रैकाभावेपि न कार्यसम्भवः ।
तदभावेपि कार्यभावे हेतुरेवासौ न भवेत् ।
अथ परस्परनिरपेक्षा एव जनयन्त्यवयवास्ततः कर्णनासादिच्छेदेपि भवत्येव तेभ्यो
मनोविज्ञानं । एवन्तर्हि प्रत्येकं सामर्थ्यमिति प्राप्तं । ततो बहुविज्ञानसम्भवः । नहि प्रत्येकं
समर्थं बहुबीजभावेनानेकाङकुरानुदयः ।
अथ प्राणापानयोर्जनकत्वं यः कश्चिदेकोवयवस्तस्य सहकारी । न च सहकारिभेदाद्
भिद्यते कार्यं । अपरापरकुविन्दाभावेपि न पटादिभेदः ।
अत्रोच्यते । प्राणापानयोरप्यनेकत्वात्स एव प्रसङ्गः । एकावयववैकल्येपि न स्याद्
बहुसम्भवो वा । नहि प्राणापानयोरप्येकत्वं शरीरवदेव सिद्धं । अथैकत्वमेवेष्यते ।
तथापि ब्रू/?/मः
एकत्वेपि प्राणापानादीनामनेकव्यक्तिरेव ततोनेकरागादिमनःप्रसङ्गः । तद्धेतो
र्नित्यमेव सन्निधानात् । सन्निहिते च हेतावनुत्पन्नस्तद्धेतुक इत्ययुक्तं । अथानेकस्य हेतुर्न
भवत्येव प्रतिनियमत्वात् कार्यकारणतायाः । न खलु कार्यकारणभावनियमः पर्यनुयोग-
100
योग्यः । अग्नेर्हि धूम एक एवोदयमासादयति । न । विशेषाभावात् । अग्नेर्हि न तत
एव स्वभावादपरापरधूमोपलब्धिः । अत्र तु पुनस्तत एव प्राणादिस्वरूपादपरप्रबोधक
प्रत्ययान्वयादपरापररागादिचित्तभावः । न च प्रबोधकप्रत्ययस्यापि नियमः पूर्व्वंसंस्कारबला
बलस्य हेतुत्वात् । ततो यद्यसौ प्रणादिस्तस्य चेतसो न हेतुः । परतोपि तदविशेषान्न स्यादिति
क्रमेणाप्यनेकहेतुता न स्यात्पूर्व्वसंस्कारस्यैव हेतुत्वप्रसङ्गः ।
अभ्युपगम्य च प्राणादेरेकत्वमुक्तं न तु युक्तं । तथा हि ।
एक प्राणकालेपि दीर्घनिश्वसितादौ अनेकबुद्धिसद्भावान्ने398 प्राणादेर्नियमः । कुत
स्तर्हि नियमस्तत एव ग्रहणात् । ग्रहणमेव पूर्व्वपूर्व्वमुत्तरोत्तरस्य चेतसो नियमहेतुः । अथैकमेव
मनोविज्ञानं क्रमेणानेकार्थग्रहणरूपं । ततो नानेका बुद्धिरित्युच्यते । तदपि नास्ति । न
रूपाद्याकारव्यतिरेकेणापरमस्ति मनः । स्वच्छदर्प्पणसंस्थानीयमेकमेव व्यापकं मनस्तस्य
पुनरर्थप्रतिबिम्बसङ्गमः । अत्रोच्यते । यद्युदासीनमेव विज्ञानं प्राप्यार्थबिम्बोत्पत्तिः प्रत्यासत्ति
तारतम्याभावादर्थानां युगपदर्थग्रहणप्रसङगः । अथ भावनाविशेषतारतम्यान्नैवं सैव तर्हि
कारणमर्थाकारताया न प्राणापानादयः । अवस्थितस्य तु विज्ञानस्य दर्प्पणवत्को विरोधो
येन न युगपदर्थग्रहः । अथ सामर्थ्यं नास्ति तदानीं क्रमेणापि तदर्थग्रहणं मा भूदविशेषात् ।
अथापि स्यात्क्षणभेदस्तत्राप्यस्त्येव ततः क्षणभेदात्क्रमादनेकार्थग्रहणं । नैतदप्युत्तरं यतः ।
यतः (।)
बहवः क्षणिकाः प्राणाः इति सिद्धमेव नः । भवतस्तु न सिद्धमेतत् । अथ प्रमाण
दृष्टेः सिद्धमेतत् । क्रमभावी हि नैकः प्रदार्थो युक्तस्ततः कारणक्रमात्कार्यस्यापि क्रम इति
क्रमवद् विज्ञानं । त एव खलु क्रमवत्कारणविरहात् प्राणाः कथं क्रमवन्तः । पूर्व्वपूर्व्व
प्राणादिहेतुक्रमादिति चेत् । न(।)पूर्व्वस्वजातीयहेतुत्वे हि नाद्यस्य सम्भवः प्राणादेस्तादृशस्य
पूर्व्वमभावात् । परलोकाङ्गीकरणेहि जन्मादि प्राणस्य हेतुः स्यात् । मातापितृप्राण
एव हेतुरिति चेत । न । तथाभूतस्य सर्व्वंदा भावप्रसङ्गात् । एवं च सति बुद्धिरपि
मातापितृजैव इति पूर्व्वप्रसङ्गः ।
अभ्युपगम्योच्यते । अनेकता प्राणानां भिन्नदेशसंसर्ग्गात् । अनेकदेशसंसर्ग्गो हि
विरुद्धधर्म्माध्यासोनेकस्य साधकः । अनेकत्वात्प्राणस्यानेकमनोविज्ञानोत्पत्तिप्रसङ्गः ।
समानजातीयस्य च मनसः क्रमेणोत्पत्तिः । न हि क्षणभेदादेव कार्यभेदः । यथा समान
जातीयमनेकं कारणं तथा कार्यंमपि ।
नन्वनेकस्मादेकमेवोत्पद्यते सामग्री जनिका । नैतदुत्तरं ।
अनेकस्यैककार्यजनने द्वैतं399 सामग्रीरूपेणान्यथा वा (।) सामग्रीरूपेण जनने मन्दश्व
सितादिषु अश्वसिते च न स्यात् सामग्र्यभावात् । एष हि सामग्रीजन्मनः कार्यंस्य धर्म्मो
यत्समग्रव्यग्रवैकल्येऽभवनं । नहि तदभावेपि भवतस्तत्कार्यता ।
अथापि स्याद्यथा संनिहितमेव कारणं न समग्रमेव । एवं तर्हि सन्निहितमेव न कारण
मसन्निहितमपीति वक्तव्यं । न चैवमन्वयव्यतिरेकभावित्वात् कार्यकारणतायाः । तस्मात्सम
ग्रात्समग्रमेव कार्यं व्यग्राद् व्यग्रं । अविद्यमानादविद्यमानं । अन्यथाभूतादन्यथाभूतमेवेति
नियमः । नैव हि तस्य कार्यं यद्यस्य विशेषादविशेषवत् । तद्भावभावित्वमेव निबन्धन
मिति चेत् । न (।) तद्विकारविकारित्वेनैव तद्भावभाविता गम्यते ।
यदि तद्भावभावित्वमेव केवलमुपगम्यते कार्यकारणनिबन्धनविकारोऽहेतुक एव
प्रसक्तः । अथ सोपि विकारस्तन्मात्रकादेव प्रथममेव कस्मान्नोत्पन्नः । अविकृत एव हि
तस्मिन्नुत्पद्यमानः प्रथममेव स्यात् । नहि तस्य तत्कार्यं यदविशेषेपि विशिष्यत इत्युक्तं ।
ततो यथाऽहेतुको विशेषस्तथा स भावोपि ततस्तद्भावभावितापि कथं गम्यते ।
एतेन परिणामः प्रत्युक्तः । यदुच्यते (।) क्रमभाविपरिणतिविशेषसापेक्षाद् देहादेव
क्रमवद् विज्ञानमुपजायते । तदसत् ।
यथैव परिणतिविशेषाभावादविशेषो विज्ञानस्य तथा देहविशेषाभावतः परिणतेरपि ।
ननु क्षीरादिपरिणतिविशेषस्तदविशेषेपि दृश्यते । कालपरिवासमात्रादेव (।) तथा
शरीरस्यापि । नैतत्सारं । यतः ।
समानक्षीरादिसमवधाने समानोष्मादिसम्भवे च समान एव दध्यादिपरिणामः ।
शरीरस्य तु समानतासमानते । अनुरूपाभ्यासवासनाविकल्पकादिविज्ञानभेदाभेदयोर्निबन्धनं ।
ततो न परिणतिक्रमात्क्रमो विज्ञानानामिति गम्यते । तस्मात्समुदायकार्यत्वे विशेषसम्भवोन्यथा
नेकत्वमिति स्थितमेतत् । न चैवं दृश्यते ।
ननु यस्यापि विज्ञानादेव विज्ञानं तस्यापि कस्मादनेकं नोत्पत्तिमद् विज्ञानं । अत्रोत्तरं ।
102विज्ञानं समनन्तरप्रत्ययरूपं एकमेकस्य कारणं शक्तिनियमः वासनानुरूपः संस्कारः ।
आसक्तिविशेषो400
वा । दृढवासनं हि व्यवहितमपि विज्ञानं समनन्तरप्रत्ययस्य सामर्थ्यविशेषा
धानेन किञ्चिदेव विज्ञानं जनयति केवलम्वा समनन्तरप्रत्ययानुरूपप्रबोधतो वा । तथा हि ।
न खलु व्यवहितविज्ञानवासनाविकल्पानामन्येनावान्तरोपनिपातिना शक्तिविषयविषये
णोदयो१ दृश्यते । ततो विज्ञानादेककं वा401 विज्ञानमिति युक्ता व्यवस्था ।
(ङ) कर्मसिद्धिः—
ननु शरीरादनेकविज्ञानोदयेपि नियमस्तत एव विज्ञानात् । यथानेकेन्द्रियविज्ञान
सम्भवेपि कदाचिदेकमेव विज्ञानमासक्तिविषये तत एवासक्तिविशेषात् । तत्रोच्यते ।
यदि शरीरादुदीय विज्ञानं ततः पुनः पुनरपि तावदेव । तथैव देहस्य सामर्थ्य
सम्भवात् । यदि नाम विज्ञानं स्वशक्तिनियमादेकं विज्ञानं जनयति । देहस्तु तथैवास्तीत्य
परापरविज्ञानजननं । अथ तेन विज्ञानेन शरीरस्यापरविज्ञानजनने व्याघातकरणान्न शरीराद
परविज्ञानोदयः । तदप्यसत् ।
नहि विज्ञानरहिताद्देहादेवानेकविज्ञानोत्पत्तिः । पुनर्विज्ञानादेवानेकविज्ञानजननशक्ति
व्याघातः । नहि धूमादेव वह्नेर्धूमजननशक्तेरुपघातः । ततो यदि देहादुत्पत्तिर्विज्ञानादेकैक
विज्ञानजननेपि न देहस्य सामर्थ्यव्याघात इत्यपरापरानेकविज्ञानजननं । नहि कारणानां
काचित्प्रेक्षावत्ता येनेदानीम्विज्ञानादेव विज्ञानमुपजायते किमस्मदपरविज्ञानोत्पत्त्येति न
देह उत्पादयेत् ।
अथैवमपि कदाचिद् भवेत् । यदुत कार्यादेव कारणस्य स्वकार्यजनने व्याघात इति ।
ततस्तज्जातीयं विज्ञानं तज्जातीयादेव कार्यकारणभावसिद्धौ विज्ञानादेव विज्ञानमिति
न देहादस्योदयः ।
ननूक्तमनेकेन्द्रियविज्ञानसम्भवस्तत एकविज्ञानादेकैकविज्ञानमिति । सत्त्यमुक्तं (।) नोक्त
मात्रादेव परिहारोपि तु युक्तोक्तितः । न च तद् युक्तं । नहि विज्ञानमनासक्तस्वभावन्तदपर-
विज्ञानानुत्पत्तये व्याप्रियते । न चासक्तिः पूर्व्वाभ्यासमन्तरेण । ततो यज्जातीये विज्ञाने
पूर्व्वाभ्यासस्तत्सदृश एव पुनरासक्तिरतः पूर्व्वाभ्यासादेव विज्ञानान्तरानुदयः । यस्य तु ।
न लोकोस्ति परस्तस्य न पूर्व्वाभ्याससम्भवः ।
परभूतस्य हि कलशात्तद्विलक्षणस्या402 जनकता विज्ञानेषु । नहि जनकविलक्षणोपि
जनकः । तदप्यसत् ।
नानुपकार्योपकारकभावे आश्रयाश्रयिभावः तथा सति केवलस्य विज्ञानस्य सम्भवः ।
अथ देहसहकारिविज्ञानं विज्ञानं जनयति । ततो न केवलावस्थानं । तथा सति
विज्ञानादेव विज्ञानं देहस्तु सहकारीत्यस्मत्पक्ष एव समर्थितः स्यात् । अथ देह उपादान
कारणं प्रथमं । यथा शालूकस्य403 गोमयपदार्थः । पश्चाच्छालूकादेव शालूकोदयः । एवं तर्हि
गोमयमन्तरेणापि पश्चाच्छालूकादेव शालूकसम्भवस्तथा विज्ञानादेव विज्ञानमिति केवला
वस्थानप्रसङ्गः ।
अथ देहस्यापि कारणत्वमुपलभ्यते । सत्त्यं (।) नोपादानकारणत्वेन किन्तु सहकारि
त्वेनेत्युक्तं ।
अथ पूर्व्वमुपादानं पश्चात्सहकारी चेत् । नोपादानं पश्चात्सहकारि भवति ।
न च शालूकस्य तथाभूतस्य गोमयाच्छालूकाद्वा समुद्भवस्तयोर्महतो भेदस्य भावादिति
प्रतिपादितं ।
तस्मान्न देहाद्विज्ञानं ।
अथापि स्याद्(।) भवतोपि यदि न देह आश्रयो विज्ञानस्य तदा निवृत्तेपि देहे
केवलस्य विज्ञानस्यावस्थानप्रसङ्गः । नहि निर्न्निबन्धनः सहावस्थाननियमः । अत्र परमा
शङ्क्य परिहारः ।
तदा केवलस्यावस्थानं भवेत्येवेति वाक्यशेषः । यदा तु ।
तदा कुतः केवलस्यावस्थानमिति । तथा हि चित्तसन्तानस्य स्थितिकारणं तद्धेतु
वृत्तिर्देह(हे)तोः404 कललादिसंज्ञितस्य वृत्तिर्देहोत्पादनं प्रत्याभिमुख्यं तस्य लाभः केवलस्य
104
देहहेतोर्नास्ति । किन्तु चित्तसन्तानस्थितिकारणं । पूर्व्वंकं चित्तं कर्म्मंसंज्ञितन्तस्य
यदाङ्गता सहकारिकारणत्वं । तस्य चाङ्गता देहसतृष्णतायां तन्नाङ्गतां यदि गच्छति ।
तदा केवलस्यावस्थानमिष्टमेव । देहान्तरोत्पत्तौ च पञ्चायतनमैहिकं । तदेव संस्कार
कत्वेनारूप्यधातुच्युतानां देहोत्पत्तौ कारणमिति । तस्याङ्गभाव उपलभ्यते मरणादूर्ध्वं
देहोत्पत्तेरदर्शनात् । आरूप्यधातोस्त्वत्यन्तादृष्टेः । अत्राह ।
यद्यपि नाम नोपलभ्यते पञ्चायतनस्यैहिकस्य जन्मान्तरदेहजननेङ्गभावस्तथापि चित्त
सन्तानहेतोः कर्म्मसंज्ञितस्य नासाविति नानुपलब्धिमात्रकादेव तदभावनिश्चय इति अनिश्चय
करणमनुपलम्भनमिति प्रागेव प्रत्यपादीदमिति कैवात्र विमतिः ।
अथाप्युच्यते । नानुपलम्भनमात्रकमत्रोच्यतेऽपि तु व्याप्तिपूर्व्वकमनुमानं । तद्यथा ।
यदिन्द्रियन्तदिन्द्रियान्तरं न प्रतिसन्धत्ते (।) तद्यथा देवदत्तचक्षुरादिकं न यज्ञदत्तचक्षुरादिकं ।
इन्द्रियं चेह जन्मशरीरसम्बद्धमिति विरुद्धव्याप्तोपलब्धिः ।
नैतदस्ति । शेषवत्त्वादस्य उच्यते एतद्यथार्थास्ति नहि शेषवतो गतिः । जन्मान्तरे
न्द्रियाप्रतिसन्धानं हि केवलमदर्शनमात्रगम्यं न चादर्शंनमात्रकाद्विपक्षव्यावृत्तिनिश्चयः ।
अथैहिकशरीरभावीन्द्रियप्रतिसन्धानोपलब्धेरपरत्रापि तत्प्रतिसन्धानमेवानुमीयते । तत्रापि
सिद्धसाध्यता तस्यापि तदैहिकत्वात् । पारावारवत् ।
अथ शुक्रशोणितान्तरभवेन्द्रियमिति विशेष्यते ।
तदप्यसत् । अत्रापि न विपक्षाभावोऽनुपलम्भमात्रकमन्तरेण गम्यते । न च शुक्रशोणि
तान्तरत्वेन विशेषणं देशविशेषणवत्परित्राणं । घटशब्दविशेषणवच्च । तथाहि ।
नहि व्यक्तिविशेषणात्पक्ष एव प्रतिबन्धः प्रतीयतेऽन्यथा न केनचित् क्वचिद् व्यव
हर्तव्यं । शक्तिनिश्चयपूर्व्वकत्वाद् व्यवहारस्य । सामान्यविषयश्च व्यवहारतो न व्यक्तिपरता
सम्बन्धस्य । तथा च । चापल्यादिसमन्वयिनश्चक्षुरादेरभ्यासभावनातस्तथाभूतोत्पत्तौ
तथाभूतदर्शनादपरत्र तथाभूतमेवानुमीयते । न च जन्मादौ तथाभूतमिन्द्रियं कारणमुप
लभ्यते । ततो जन्मान्तरेन्द्रियजमिति नैहिकत्वमन्यद्वा विशेषणं युक्तं । अथैकमेव तदिन्द्रियं
ततो नोत्तरेन्द्रियस्य पूर्व्वेण जननसिद्धिः । यद्यप्येवन्तथापि ।
एकन्तन्नेति नेदमुपयोगि सर्व्वथा तज्जातीयकार्यदर्शनात्कारणं तथाभूतमित्यनुमानं ।
दृश्यन्ते चाभ्यासिका गुणाः स्वप्नशरीरान्तर इति प्रतिपादितं ।
किञ्च (।) विकारस्यापरापरस्य दर्शंनादपरापरजन्मसिद्धमेवात इति । इन्द्रियान्तर
मिन्द्रियान्तरं जनयति मध्यावस्थायामिति कथं न जन्मान्तरेन्द्रियजननं स्वभावभूतविकारे हि
भेद एव नैकता पृथिव्यादिवत् ।
अथापि स्यादेकसन्तानप्रज्ञप्तिरेवात्रेति नात्यन्तं भेदः । जन्मान्तरेपि समानमेतत् ।
जन्मान्तरमपि सुप्तप्रबुद्धवदेकसन्तानान्तर्ग्गतमेव स्मृतिव्यवधानेन तु दूरमिव तत्प्रतीयते ।
अथापि स्यान्नेन्द्रियादेवोत्पत्तिरिंन्द्रियाणामपि तु प्रथमं शरीरादुत्पत्तिः परत इन्द्रियादेव
शक्तिनियमात् । अत्रोच्यते ।
यदि देहात्प्रथमोत्पत्तिस्तदासेन्द्रियादनिन्द्रियाद्वा(।) सेन्द्रियादुत्पत्ताविन्द्रियादेवोत्पत्तिरिति
प्रथमस्यापीन्द्रियादुत्पत्तौ परलोकप्रसिद्धिः । अनिन्द्रियादुत्पत्तौ केशनखाग्रादेर्मृतदेहाच्चो
त्पत्तिः । अनेकत्वे चानेकेन्द्रियोत्पत्तिप्रसङ्गः । तथा चापरिमाणताप्रसङ्गः । तथा समर्थस्य
देहस्य विरतिः कुतः । अथ देहपरिणतिविशेष एवेन्द्रियाणि तदापि स एवाविनाशप्रसङ्गः
स्यादक्षाणां देहसम्भव इत्यादिकः प्रसङ्गः । अथ चित्ताभावान्मृतशरीरे नेन्द्रियसम्भवः ।
यदि तर्हि चित्तादुत्पत्तिः । तत एव चित्ताज्जन्म देहान्तरस्य चित्तस्य च जन्मान्तरभाविनः ।
किं पूर्व्वेन्द्रियकारणत्वपरिकल्पनानिर्बन्धेन । ततो न शरीरं विज्ञानस्य हेतुरतो न हेतोः
शरीरस्य वैकल्याज्जन्मान्तरासम्भवादप्रतिसन्धिरित्याह ।
इत्युपसंहारः । हेतुर्हि जन्मान्तरासङ्गतस्य सतृष्णकर्म्माभिसंस्कृतं चित्तं । तस्य
च न वैकल्यं । यदि तु शरीरं हेतुः स्यात्ततस्तद्वैकल्यतो हेतुवैकल्यादसन्धिः । न चैवं । ततो न
हेतुवैकल्यमिति नासिद्धो हेतुः । मरणचित्तत्वादित्येव परिशिष्यते । तच्च शेषवत् । अदर्श
नमात्रकेण व्यतिरेकोपदर्शनात् ।
यदप्युक्तं । इहलोकचित्तं चित्तान्तरं न प्रतिसन्धत्ते । भिन्नदेहवृत्तित्वाद्देवदत्तचित्तवत् ।
तदप्ययुक्तं ।
यदि तत्र वर्तमानमन्यवृत्तिनो विज्ञानस्य न जनकमिति प्रमाणार्थस्तदाश्रयाश्रयिभावो
निषिद्धोऽदेशस्थञ्च विज्ञानं । न चालम्ब्यमानो देह आश्रयो विज्ञानस्यान्तरस्पर्शविशेषत्वेन
सुखादिविज्ञानालम्ब्यत्वात् । आलम्बनञ्च स्वशरीरं । परशरीरालम्बनविज्ञानं जनयतीति
तेनानेकान्तः । न च देहान्तरत्वमेकसन्तानप्रज्ञप्तितः । भेदस्तु परमार्थत एकजन्मशरीरस्यापि
बालाद्यवस्थाविशेषतः । तस्मात्सन्तानस्योपकारो मनसो देहादुत्पत्तिस्तु चित्तादेव ब्रीहि
सन्तानवदिति । ततो नादिनिधने चितसन्ताने संति जन्ममरणप्रबन्धसिद्धेरभ्यासप्रसिद्धि
रित्याभ्यासिका गुणाः सर्व्व एवावकाशमासादयन्तीति सर्व्वज्ञतान्यो वा गुणः संभवति405 ।
(च) करुणाभ्यासः
ननु भवत्वभ्यासः स तु कथमत्यन्तप्रकर्षनिष्ठः । किञ्चिन्मात्रस्य विशेषस्य दर्शनात् ।
लंघनवदुदकतापवच्च । अत्रोत्तरं ।
कुत एतदिति चेदाह ।
न खलु विशेष इत्येव व्यवस्थितोत्कर्षभागी नहि लंघनोदकतापविशेषः स्वसत्तामात्र
भावेनैव तथापि तु पुनर्यत्नापेक्षणादाहितस्यापि लंघनस्य नहि लंघनं । पूर्व्वप्रयत्नलभ्यं पुनः
प्रयत्नान्तरनिरपेक्षमपितु प्रायश एव पुनर्यत्नमपेक्षते । उदकतापस्त्वंस्थिराश्रयः । पुनर्यत्नापेक्षी
च । न ह्यसौ सङ्गताग्निसंपर्क्कोप्यास्ते । यतोऽव्यवस्थितोत्कर्षता । ततो व्यवस्थितोत्कर्षंता
पुनर्यत्नापेक्षणेनास्थिराश्रयत्वेन च व्याप्ता तदभावाद्विपर्यंयसद्भावाच्च कृपादीनां मनोगुणानां
न व्यवस्थितोत्कर्षता । यश्च पुनर्यत्नापेक्षी स स्वभाव एव न भवति । अयन्तु सविशेषणो
हेतुर्यः स्थिराश्रयः स्वभावश्च । न स व्यवस्थितोत्कर्षस्तद्यथा श्रोत्रिय-कापालिकघृणा ।
यस्तु पुनर्यत्नापेक्षी तस्य ।
यः खलु पुनर्यत्नसापेक्षः स यद्यप्यतिबृद्धिमाप्नोति । तथापि तस्य न स्वभावता ।
नहि हेतुसन्निधानतापेक्षी स्वभावे युक्तः । स्वरसवाहिनस्तथा व्यपदेशात् ततो बृद्धावपि
तस्य नात्यन्तं बृद्धिः । लंघनोदकतापवत् ।
न चैवं मनोगुणाः कृपादयोऽन्ये च बाह्यगुणाः केचनेत्याह ।
काष्ठस्य हि वह्न्याहितो406 विशेषोदरदाहादिलक्षणः स पुनर्यत्नापेक्षणात्स्वरसवाही
पारदेपि चारणजारणादिलक्षणः (।) हेम्नि च पुटपाकादिकृतः । तद्वदेव चेतसि कृपादयः
पुनः पुनस्तदनुवर्तनाहितविशेषादव्यावृत्तिभाजस्तदा कृपादिविशेष आहितो यदा नापेक्षेत
यत्नं पुनस्ततोन्यः पूर्व्वत्रानुपयुक्तशक्तिरुत्तरोत्तरविशेषकृदेवति परप्रकर्षनिष्ठा (।)
ननु लंघनमपि यत्नसापेक्षं कृपादयोपि तत एकः स्वरसवाही अपरो नेति कुतः ।
उक्तमत्र । न स्वरसवाही पुनर्यत्ननिरपेक्ष उदकतापादिः कृपादयस्तु काष्ठ इवाग्निकृता विशेषाः
स्वरसवाहिनः ।
व्यवस्थितोत्कर्षता407 पूर्व्वसजातीयकृपादिबुद्धिप्रभवा एव कृपादयो न विषयादिसन्नि
धानादिसापेक्षाः । तथाहि ।
तत्क्षेत्रीकृतसन्तानानां हि प्रत्यग्रसततापकारप्रवर्तमानेष्वपि न कृपादयः शिथिलतां
भजन्ते । ततस्तेषामभ्याससमागममहोत्सवसमये कृतो विकाशेतरता मन्दता ।
अथापि स्याल्लङ्घनस्यापि सोभ्यासः समस्त्येवाभिवृद्धेरनवधिकाया हेतुः । अतस्त
स्यापि स धर्म्मप्राप्तो न चैवमतो विपर्यंय इत्याह ।
न हि कृपादेरेव समानजातीयात्कृपादिवल्लंघनादेव लंघनमपि नु बलयत्नाभ्यां स्वाभ्यस्त
लंघनोपि बलव्यपगमे यत्नस्य च न लङ्घयितुं समर्थः । बलस्य च व्यवस्थितात्मता स्वहेतु
सामर्थ्यात्प्रयत्नस्य च । ततो लंघनमपि स्थितात्मैव नान्यथा ।
अथापि स्याद्(।) अभ्यासादेव लंघनविषयाल्लंघनं । अन्यथा बलस्य प्रागपि भावाल्लं
घनप्रसङ्गः । अथ बलमेव प्राग् नासीदभ्यासेनैव तस्य निर्वृत्तेः(।) तथा सति समानजातीय
लंघनजत्वेपि लंघनमनवधिकं नेति कृपादीनामपि स एव प्रसङ्गः । अत्रोच्यते ।
नाभ्यासाद्वलमपि तु सदेव बलमुपहतं श्लेष्मादिभिरसमर्थं लंघने । ततो लंघनाभ्या
सादनयोर्वैगुण्यस्य । तत आहारादेस्तदेव पूर्व्वकं बलं स्वयमस्यास्ते । तेन पश्चाल्लंघनं न
प्राक् । अथ रसायनोपयोगाद्वलं । तदपि रसायनशक्तिनियमाद् व्यवस्थितं । समानेपि
लंघनाभ्यासे पुरुषगरुडशावकयोर्न लंघनसमानता । तथाहि ।
तस्मादभ्यासेपि योनिजातिबलापेक्षमेव लंघनं न लंघनमात्रापेक्षं । कृपादीनां तु पुनरन्या
नपेक्षत्वमेव ।
नन्वभ्यासाद्बलं बलाल्लङ्घनमिति तदेवाभ्यासपूर्व्वकत्वं कृपादिवत् । न ।
अत्यन्ताभ्यासाद् बलस्य हानिरपीत्यदोषः ।
यदि तर्हि सजातीयबीजमात्रापेक्षाः कृपादयस्तदानादित्वादत्यन्तं तत्स्वभावतैव स्यात् ।
न चास्ति तत्स्वबीज प्रभवा नेति गम्यते । अत्रोच्यते ।
यद्यपि कृपा स्वबीजप्रभवानादिश्च कालस्तथापि न सात्मीभावः । स्वबीजप्रभवैरेव
द्वेषादिभिर्ब्बाधनात् । यदि नैरन्तर्यमाप्यते तदा सात्मीभावः स्थिराश्रयत्वेपि तत्र महता प्रयत्नेन
विपक्षविद्वेषादिनिवारणे कृपात्मकत्वं ।
अवश्यञ्चेदमभ्युपगन्तव्यं ।
अभ्यासो हि कृपादीनां पूर्व्वः पूर्व्व उत्तरोत्तरस्य चित्तधर्मस्य पाटवेन पुनरुत्पत्तौ ।
उत्पन्नस्य हि स्वबीजात्पाटवमेव केवलं विधातव्यमभ्यासेन विद्यमानत्वादुत्पत्तेः । ततः ।
स्वार्थे निरुच्छकत्वेन408
परार्थें सस्पृहात्मनः ।
कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् ।
अभ्यासो ह्यनन्यकर्म्मणा क्रियमाणः कृपात्मकत्वं विदधाति । यथा घृणा वैराग्यं
रागञ्च । यथा हि विपक्षैरबाध्यमाना घृणा सात्मीभवति । यत्सद्भावादुपादेयमेव किञ्चि
न्नावभासते । तथा वैराग्यं रागितापि द्रष्टव्या ।
४. शास्तृत्वाद् भगवान् प्रमाणम्
(१) शास्तृत्वव्याख्यानम् ।
एवं कारुणिकः परदुःखनिराचिकीर्षया पर409दुःखहानार्थमुपायाभियोगी भवतीत्याह ।
दयावतो हि स्वदुःखहानाय यत्नः सम्भवी । स्वदुःखक्षयमन्तरेण परदुःखनिराकरणेऽसा
मर्थ्यं । ततः स्वदुःखक्षयसाक्षात्करणे सर्व्वभावसाक्षात्करणे चाभियुज्यते । यतः ।
यस्य खलु स्वर्ग्गापवर्गहेतुफलसाक्षात्क्रिया नास्ति तस्य परेभ्यस्तदाख्यानं दुष्करं ।
नहि तस्य तत्र सामर्थ्यं । यद्यपि नाम चतुरार्यसत्त्यदेशनासम्भवत्यनुमानपरिनिश्चितत्वे
सत्त्यानां । तथापि न सर्व्वदा । स्वार्थंसमीहावेलायामसंभवात् । नरकादिसम्भवे च
प्रतिनियतकर्म्मफलमावीच्यादिलोकधातुवृत्तान्तकथनं न सम्भवत्येव । ततः सर्वमेव
साक्षात्कर्तव्यं ।
तत्र साक्षात्कारणे हेतुः परीक्षणं । तदेवाह ।
युक्तिरनुमानं । अनुमानागोचरे चागमः, अतीन्दिययार्थप्रत्यायनहेतुः । अथवा ।
आगमः प्रथमं प्रबोधको भवति । ततो युक्तिरर्थप्रत्यायनफला प्रवर्तते । न त्वागमादेवार्थं
निश्चयः । विवक्षामात्रात्प्रवृत्तेः । अर्थ410
प्रतिबन्धाभावात् । एतच्च सर्व्वं विमर्शाभिमुखस्य
नान्यथा । ततः प्रथमं विमर्शः पुनरागमे तस्यार्थस्य दर्शनं । परार्थानुमानरूपे नाज्ञा
मात्रके । नहि प्रामाणिकेर्थे आज्ञामात्रदायी प्रेक्षावान् वक्ताऽमूढ़ो वा । ततो युक्त्या
तस्यार्थस्य स्थिरीकृत्य भावयतः साक्षात्करणमित्यनुक्रमः । तत्र तावत्प्रथमं दुःखहेतुमेव परीक्षते,
हेतुनिवर्तनद्वारेण दुःखनिवर्तनार्थं । दुःखहेतौ च निरूपिते तस्य पुनरनित्यतादिरूपन्तत्परीक्षणेन
निवर्तनयोग्यतानिरूपणार्थं । अनिरूपिते हि निवर्तनयोग्यत्वे निवर्तनायोत्साह एव न स्यात् ।
न ह्यहेतुकत्वे नित्यहेतुकत्वे वा निवर्तनाय व्यापारः सफलः । यतः ।
तस्माद्विशेषणैरनित्यतादिभिर्दुःखस्य । तस्य हेतोरनित्यतां परीक्षते ।
यदीश्वरादिको नित्य एव कश्चिद् दुःखस्य हेतुः स्यात् । ततस्तस्यावैकल्यान्निवृत्तिर्न
भवति दुःखस्येति मतिमान् भवेत् । ततो निवर्तनाय न प्रवर्तते फलस्य । न ह्यशक्ये
कश्चित् प्रवर्तते । प्रवर्तमानो वा न विघातभाक् । फलस्य च यो हेतुस्तद्विपक्षं परीक्षते । हेतो
र्हानार्थं । नहि भवतोपि विपक्षसङ्गमन्तरेण निवृत्तिः । न चाहेतोरभावो विपक्षाभावे । हेत्वभा
वादेव निवृत्तिरिति चेत् । कर्म्मक्षयादेव निवृत्तिरिति परमतं । न (।) विद्यातः कर्म्मापरापर
मिति न कर्म्मक्षयः । अविद्या च हेतुः कर्म्मण इति प्रतिपादयिष्यते दुःखस्य चेति न दोषः ।
ननु दुःखस्य न हेतुर्नियतरूपः प्रियविप्रयोगाद्यनेकरूपत्वात् । ततो निवर्तंनमशक्यं ।
अत्रोच्यते ।
आत्मात्मीययोरभिनिवेशकृतः स्नेहो दुःखस्य हेतुः । स्नेहनिवृत्तौ च नात्मीये विहन्य
माने दुःखं ।
ननु यद्यपि नात्मीये विहन्यमानेपि न मानसं दुःखं स्नेहनिवृत्तौ कायिकन्त्वात्मनि
कथं न दुःखं । अत्रोच्यते ।
न खलु सुतस्नेहतिरस्क्रियमाणात्मस्नेहा: कायिकमपि शस्त्रादिसंपर्कजनितमव
लम्बन्ते दुःखं । आत्मीयस्नेहश्च411 सत्कायदृष्टिदुःखस्य हेतुस्ततो नैरात्म्य-
दर्शनम्बाधकं विरोधित्वात् । तदाकारविरोधी हि धर्म्मस्तस्य बाधकः । पवनस्येव स्निग्ध
तौष्ण्यादयः412 । ततो नैरात्म्यसात्मीभावे तद्विपर्ययाकरस्य सत्कायदर्शनस्यानित्यस्य सतो
निवृत्तिः । तत आत्मात्मीयग्रहनिवृत्तौ सकलकायिकमानसदुःखनिवृत्तिः ।
ननु देहच्छेददाहादौ च कथं मरणादिदुःखाभावः । नैतदस्ति ।
यदा देहेनैकेन वियुज्यते परेण च तस्य युक्तिः स्मरणञ्च पूर्व्वापरावस्थयोरभ्यास
जनितस्मृतिपाटवस्य तदा बालबृद्धावस्थापरित्यागोपादानवत् परिधानोपादानत्यागवच्च
तस्य का पीडा । न च पीडानुसन्धानाऽग्रहमन्तरेण यत्रैवाभ्यासस्तदेवाभिरतिकारणं ।
औदासीन्याभ्यासे च न सुखदुःखे स्तः ।
तदाह ।
नैरात्म्यदर्शनेन सकलपर्याकुलताहेतुरागादिव्यपगमे प्रबोधविकासे चानेकप्रकारापरापरो
पायाभ्यासगुणदोषाणां प्रकाशनं । शास्त्राभ्यासे सत्यनेकप्रकारशास्त्रगुणदोषप्रकाशनवत् ।
गुणदोषप्रकाशनं हि बुद्धेः पाटवं ।
यदा च पटुबोधोपनीतगुणदोषविवेकस्तदा सकलमनुभूतगुणमध्यवर्त्ति413
क्षणिकमपि
दोषजातं जानाति । ततो वाग्वैगुण्यादिकमपि निवर्तयितुं प्रयततेऽतोवासना प्रहीयते । अयमेव
प्रत्येकबुद्धार्यश्रावकतीर्थेभ्यो विशेषो भगवतः सुगतस्य । अथवा यदि नाम दुःखप्रहाणं तथापि
न सर्व्वज्ञत्वं भवत्यन्यथा वीतरागः सकल एव सर्व्ववेदी भवेत् । अत्रोच्यते । बहुशो बहुधोपाय
मित्यादि । बहुप्रकारो हि खलूपायप्रपञ्च: । तदभ्यासे च सकलसांसारिकगुणदोषप्रकाशनं
महता कालेन ।
यथा खलु ग्रामान्तरागतस्तत्संपर्कोपजनितविशेषदर्शने तद्विदा तत आगतत्वेन ज्ञायते ।
ततो ग्रामान्तरस्यापि तद्विशेषणत्वेन गतिस्तद्वदेव जन्मान्तरस्यापि तज्जनितसंस्कारकारणत्वे
नानुमानं ।। परोक्षोर्थो जन्मान्तरसम्भवी ।
111
प्रतिनियतं देशादिसंसर्ग्गतत्कार्यस्वभावयोरवान्तरस्वभावनिरूपणे सकलकारणस्वभाव
तत्कार्यस्वभावभेदसम्बन्धवेदनमिति प्रतिनियतस्वभावसाकल्यवेदनमिति सर्व्वकर्म्मफलादि
सम्बन्धपरिज्ञानं ।
न च कार्यकारणमतिवृत्य परस्परं सकलं जगज्जायते । ततोनेकप्रकारकार्यकारण
भावभावनानुबन्धेन सकलस्य जगतो भवति वेदनमनवद्यं ततः सर्वज्ञता ।
अथानुमानेन वेदने कथमस्य साक्षाद्दर्शित्वं साक्षाद्द्रष्टा च भगवानिष्यते । तदपि
यत्किञ्चिदेव ।
यत्खलु सर्व्वाकारपदार्थस्वरूपवेदनं तदेवाध्यक्षं । साक्षात्करणार्थो हि प्रत्यक्षार्थः ।
नन्वक्षं प्रति वर्तते इति प्रत्यक्षं(।) नाध्यक्षलक्षणमेतत् । अपि तु साक्षात्सद्भूतपदार्थवेदनं ।
अक्षन्तूपलक्षणमात्रं । किञ्च । यद्यक्षयोगेपि साक्षाद्दर्शनाभावः किन्तदध्यक्षं । अक्षमेव तन्न
भवत्युपहतत्वादिति चेत् । उच्यते ।
नहि संस्थानादिमात्रकादेवाक्षता युक्ता । उपहतस्यापि तत्त्वप्रसङ्गात् । साक्षात्करण
हेतुत्वे त्वक्षतायां मनसोपि तथात्वाविरोधः । अन्यच्च ।
मनस एव समाधानसङ्गतादक्षविज्ञानमपि साक्षात्कारि । अतोऽध्यक्षजन्यत्वमकारण
मेव । तस्मादनुमानमपि सर्व्वाकारसाक्षात्करणप्रवृत्तं प्रत्यक्षमेव ।
नन्वतीतादौ परोक्षेर्ये प्रवर्तमानं कथं प्रत्यक्षं । नैतदपि युक्तं ।
अथाक्षव्यापारदपरोक्षता । स एवाक्षव्यापारः साक्षात्करणमन्तरेण कथमवगम्यते ।
साक्षात्करणेनावगतौ सर्व्वाकारानुमानेप्यक्षव्यापारः स्यात् । अनुमानावतारस्य सर्व्वत्र
भावात् । चक्षुरादिव्यापारोप्यनुमानादवगम्यते । अपि च ।
यदा तदैवोत्पन्नो भावी वा पदार्थोनुमीयते । तदा भावी तत्राक्षव्यापारः प्रतीयतेऽ
नुमानेन । यदा भूतस्तदा भूत एव । सा चा415 सर्व्वाकारेणानुमानतः प्रतीयमानः समस्त्येव
कथमभावोऽक्षव्यापारस्य ।
ननु भावी भूतो वा कथमस्ति । नैतदस्ति ।
112वर्तंमानाभिमतस्यापि पदार्थात्मनि स्तम्भादौ साक्षात्करणादेव गम्यते तदस्तित्वं नान्यतः ।
नन्वसाक्षात्कृतेपि वह्नयादावनुमानगम्यमस्तित्वं । न (।)तत्रापि तथाभूतस्यैवानुमानं
साक्षात्कृतं क्रियमाणं करिष्यमाणञ्चानुमीयतेऽन्यथानुमानाप्रवृत्तेः । दर्शनानुसार्यनुमानं
दृश्यतामेवानुमापयति । अन्यथाऽयोगात् । यदि तु न केनचिद् दृष्टं दृश्यते द्रक्ष्यते वा तदा च
शविषाणायमानमसदेव । सर्व्वसामर्थ्योपाख्याविरह एवानुपाख्या ।
ननु वर्तमानकालसम्बन्धोस्तित्वं न साक्षात्करणं । तथा च योगिनामतीतानागतपदार्थ
साक्षात्करणं भवद्भिरिष्यते । वर्तमानतामात्रदर्शने तु नासावतीतादिदर्शी । ततः सर्वजन
समानता कथमस्य शास्तृत्वं योगित्वम्वेति परे उक्तवन्तः । तत्रेदमुच्यते ।
प्रत्यक्षमतिवृत्त्यापि वृत्तिमभ्युपलभ्यते ।।
प्रत्यक्षेण रूपादीनां स्वभाव एव केवलमुपलभ्यते न कालादियोगः । तदाकारमात्रसम
गामादध्यक्षस्य (।) न हि पुरोवर्त्त्याकारपरिग्रहमन्तरेण प्रत्यक्षमीक्षते । अन्यथा सर्व्वः सर्व्वदर्शी
भवेत् । न च पुरोवर्त्त्याकारतया कालः स्तम्भादिवदुपलभ्यते । नापि प्रत्यक्षमन्तरेणानुमानं ।
अथ क्षिप्रचिरादिप्रत्ययग्राह्योऽनुमेयो वा । तदपि न सम्यक् ।
चिरंकृतमित्यादौ घटादिकमेवावभासते । न तु तत्रापरः कालः ।
अथापि स्याद् (।) यदि घटादय एव कार्यताभाजोऽवभासन्ते । कस्तर्हि चिराद्यर्थः ।
अत्रोच्यते ।
मन्दक्रमेण या घटाद्यवयवानां परिनिष्पत्तिः समाप्तिश्चिरार्थः स ।
ननु कालमन्तरेण सैव मन्दताक्रमश्च न युक्तः । न (।) साधनासन्निधानमात्रेण
तदुपपत्तेः । साधनासन्निधानञ्च सन्निधानकारणाभावात् । सन्निधानकारणाभावोपि तत्कार
णाभावत इत्यानादिरेष हेतुप्रक्रमः । ततो न कालो नाम कश्चित् ।
कालः कार्याणां प्रवर्तकः किमत्र कारणानां व्यापारस्य फलं । कारणमन्तरेण न कालः
समर्थ इति चेत् । कारणभावाभवाभ्यामेव तर्हि कार्याणामुत्पादः कालस्तु न समर्थः (।) यदि तु
कालाभावे कारणानामसामर्थ्यं । युक्तः कालस्य कारणभावः । न चाभावः कालस्य व्यापि
नित्यत्त्वात् । अयापरापरकालसमवधानापेक्षकारणादुत्पत्तिस्तदेवापरापरकालसमवधानं कुतः ।
कारणान्तरादिति चेत् । तत एव तर्हि कार्यक्रमः किं कालेन । क्रम एव काल इति चेत् ।
न (।) सहितासहितभावस्य क्रमत्वात् । स च पदार्थरूप एवेति नापरः कालः । अथादित्यादि
गतिरेव कालः । न (।) आदित्यादिस्वरूपव्यतिरेकेण गत्यभावात् । तच्च स्वरूपं
प्रत्यक्षगम्यमेव ।
कथन्तर्हि व्यतिरेकप्रत्ययोयं कालोस्य भावस्येति ।
तथा चाह लोकः ।
तत इदानीमदृश्यमानमतीतमनागतमित्यर्थतत्त्वं । एवमतीतादिदर्शनं योगिनामिति
अदृश्यमानदर्शनमिति प्राप्तं । तत्र यदि स्वयमदृश्यमानं पश्यतीत्युच्यते । तदा माता
च बन्ध्या चेति प्राप्तं । तस्मादतीतादि पश्यतीति कोर्थः । अन्येनादृश्यमानं पश्यति तद् दृश्य
मानतया वर्तमानमेव तावता तदिति न दोषः । अन्यापेक्षया तस्यातीतादित्वं । तस्माद्यत्सा
क्षात्कृतं तदेवास्तीति नातीतादक्षव्यापारस्तस्य साक्षात्कृतत्वेनास्थित्वात् ।
यद्यपीदानीन्तनकालसम्बन्धो नास्ति । तदातनकालवर्तमानतासम्बन्धस्तु साक्षात्कृतो
स्त्येव । ततो वर्तमानार्थग्रहणादतीतादिज्ञानस्यास्त्येव सर्व्वाकारपरिच्छेदवतोध्यक्षता ।
कथन्तर्हि तस्यातीतता । द्रष्टुर्वर्तमानकालसम्बन्धितया ग्रहणात् । अन्यैस्तत्कालसम्बन्धितया
वा ग्रहणात् । योगिना च समाधानादुत्थितेनातीतया व्यवहारात् । अद्यैव योगिना दृष्टं कथम
तीतमिति चेत् । नैतदस्ति यतः ।
यो हि कर्त्तुः कालः स कथमन्यस्य प्रमेयस्य भवेत् । न खलु कर्कताश्वस्य गोर्युक्ता ।
अथ तदा प्रतीयमानः कथमन्यकालः । अन्यकालत्वेन प्रतीतेः । तथाहि ।
कालो हि कर्त्तुर्नार्थस्य कालान्तरविशेषणत्वेन प्रतीयमानं कथं कर्त्तुरन्यकालत्वमनुरुध्यते ।
कर्त्ता हि पश्चादन्यकालतां प्रतिपद्यते आत्मनः प्रतीयमानन्तु कालान्तरसम्बन्धितया प्रत्येति
कथं तस्यान्यथा व्यवस्थापनं । किञ्च । कर्त्तुरपि तदा तत्कालतैव प्रतीयते । पश्चादन्य
कालतान्यैव तस्य कर्त्तुस्तत्कालतेत्युक्तं । तस्मात्तत्कालतया प्रतीयते तदिति तथास्तित्वं ।
मया तु पुनरद्य प्रतिपन्नं तदिति स्मरणव्यवहारमात्रकमेव न परमार्थः । प्रत्यक्षस्यावृत्तेः ।
तस्मात्सर्व्वाकारेण प्रतीयमानं प्रत्यक्षमेव ।
अथापि स्याद् (।) यदि तत्प्रत्यक्षं कथमन्येनागतिः । यस्य हि भावी सुतस्तदनुभूयमानतया
दृष्टस्तेनाप्रतीयमानतायां कथमभ्रान्तता । इदानीं योगिनः प्रतिपत्तिर्न सुतवतः ।
तदप्यसत् ।
यथा स दृष्टः शरीरादिकालयुक्तस्तथा तस्य न बाधितत्वं ।
भाविशरीरादि416
कालसम्बन्धी हि तेनासौ तस्य पुत्रो दृष्टः । स तथा प्रतीतावपि417
न
बाध्यते । तदापि यद्यप्रतीतिस्ततो बाधनं ।
अथ यथा तेनाद्य तद् दृश्यते तथान्येनापि योगीतरेण, कस्माददृष्टिस्तस्येति तदप्रतीत्या
बाधनं । तदप्यसारं ।
अथापि स्याद् । यद्यनेन दृश्यते । तथापि तत्स्वरूपेण प्रतीयमानं तदा कथमनागतं ।
नोपलभ्यमानमेवासदित्यतिप्रसङ्गात् । अथ यत्कालं यदुपलभ्यते तदैव तत्सदिति ।
तदप्ययुक्तं ।
न खलु कालः कश्चित् विषयविशेषव्यतिरेकेण उपलभ्यते । शीतादीनामादित्यगति
विशेषाणाञ्च ग्रीष्मादिकालत्वात् । तेषाञ्च उपलभ्यत्वे वर्तमानतैव कथमतीतभाविता ।
ग्रीष्मादीनामतीतादिविवेको गम्यते कथं । अन्यैरनुपलब्धश्चेद् द्वयो418 र्नास्ति विवेकिता ।। ६२० ।।
यद्यपि तदानीमनुपलब्धिस्तथाप्यवर्तमानता तदद्यावर्तमानं419
किमतीतमथानागतमिति
कुतो विवेकः । अत्रोच्यते ।
यथा तदनुमानमतीतानागतादित्वेन प्रत्येति तथा प्रत्यक्षमपि तेनानुमानेन समुत्था
पितं । नहि तदनुमानोत्थापितं प्रत्यक्षमन्यथा प्रत्येति । तस्माद्यथा यत्प्रतीयते तथा तद
स्तीत्यवगम्यतां ।
नन्वनुमानोत्थापितत्वं प्रत्यक्षस्य क्रमेण प्रतिपत्त्या भाव्यं तथा चानाद्य (न) न्तवस्तु
प्रबन्धप्रतिपत्तेरपरिसमाप्तिरिति कथं सर्वज्ञता । नैतदस्ति ।
न ह्यभ्याससङ्गतसन्तानानां धूमादग्निप्रतीतिः क्रमव्यपेक्षायोगीनी । ततो न क्रमः420
प्रतीतिरिति न दोषः ।
नन्वनादिवस्तुनः कथं प्रतीतिपरिसमाप्तिः परिसमाप्तौ वा कथमनादिता । नैतदस्ति ।
यदि वेदोऽनाद्यनन्तः कथमतः प्रतीतिः । अनाद्यनन्ततया चेन्न समाप्तिरिति न
किञ्चित् कर्त्तव्यं । यदि हि वेदादन्यदा421 न प्रतीतिरासीद्भविष्यति वा न वेदः प्रमाणं ।
115
नन्वद्य तावत् प्रतीतिरस्ति । नियोक्ता ममायं वेद इति प्रतीतेः । अन्यदा भवतु मा वा
भूत् । तथाप्यसौ प्रवर्तकत्वात्प्रमाणमेव प्रवर्तकाभिधानात् । नैतदस्ति । यद्ययमर्थोऽ
न्यदास्य न स्यात् इदानीं कुतः । यदि वेदोऽन्यदा नैतदर्थ इत्याशङ्का । इदानीमपि
प्रमाणमिति न स्यात् पूर्व्ववत् । अथ पूर्व्वमप्येवमेव । ततः परमपि । ततोपि परमिति
न परिसमाप्तिः । तत एकदा सन्देहे परत्राप्यनाश्वास इति न प्रमाणता । अथ पूर्व्वं
सामान्यमेकदैव प्रतीयते । तथा सत्यनुमानमेतत् । ततः सर्व्वाकारानुमाने प्रत्यक्षताप्यव्यवहृ
तैवेति । ततो नाद्यनन्तस्य प्रत्यक्षेणापि वेदनं । तस्मात् च (।)
स्वसन्तानपरिच्छेदे तत्संसर्ग्गि प्रतीयते । तत्संसर्ग्गिप्रतीतौ च परस्यापि प्रतीतितः ।
तस्मादपरिमितिकार्यकारणभावभेदाभ्यासे सकलकार्यभेदभासनं सकलकार्यभेदभासनं तत्-प्रभावाच्च कारण
भेदस्यापीति । अयमुपायाभ्यास उपायः सर्व्वपरिच्छेदस्य (।) अतो दयावान् अवश्य
मुपायाभियोगी । वेदस्तु परिज्ञानतोपि स्वर्ग्गापवर्ग्गमात्रवेदने नोपाय इति प्रागेव
प्रतिपादितं ।
ननु यदि नामोपायाभ्यासात् समीहितं सर्व्ववेदनं । रागप्रहाणञ्च सम्भवति । तथापि
वासनावैगुण्यादन्यथापि अपदिशेदसमाहितावस्थायां । क्षुदादियोगस्तु व्याघातकारी परार्थस्येति
न वेदादस्य विशेषः । नैतदस्ति ।
न खल्वनादित्वे वेदस्य प्रथममर्थसम्बन्धपरिग्रहः । व्यवहारस्तु याज्ञिकानाममूलक
एव ततोऽन्धपरम्परैव परं । विकल्पार्थप्रतिभासनमपि संकेतबलात् न च तावतार्थप्राप्तिर
न्यत्रापि दर्शंनादिति प्रतिपादितं । अत्र त्वनुमानमूलता । ततो वासनायामपि न दोषः । किञ्च ।
पटुप्रबोधस्य सकलमेव सूक्ष्ममपि गुणदोषजातमाभाति । सत्त्वार्थरक्तस्य यदपि
इष्टत्वं पीडाकरं422
ततस्तदभ्यासेन तिरस्करोति । क्षुदादयोपि विपरीतभावनावतामेव
भवन्ति नान्यथा । तथाहि ।
किञ्च ।
त्रिर्भोक्ताभ्यासतः सार्थं423 द्विर्भुंक्तेप्यधिगच्छति । द्विर्भोक्तासकृदेवेति ततः क्षुत्सर्व्वथाऽसती ।। ६२८ ।।
यदि तु वस्तुवृत्तमेवैतत् । अभ्याससाधितं न भवेत् । तस्माद् ।
अत एव चाभ्यासपाटवसङ्गमादेव प्रत्येकबुद्धश्रावकेभ्यो भगवान् विशिष्यते सुगतः ।
नन्वाचार्येण शासनमुपायत्वेन दुःखप्रशमस्य निर्दिष्टं । तथा चोक्तं । प्रयोगो जगच्छासनाच्छा
स्तृत्वं । ततः कथमुपायाभ्यासः स्यात् । सत्त्यमेतत् । किन्तूपायास424 एव शासनं नापरमित्याह ।
116
न खलु मुख्यं शासनमभिमतं किन्तूपायाभ्यास एव । कथं तादर्थ्यात् । भवति हि
तदर्थे तच्छब्दः । तद्यथेन्द्रार्था स्थूणेन्द्रशब्दवाच्या । तदर्थत्वं कुतस्ततोभावात् । उपायाभ्यास
बुद्धिपाटवाभ्यां शासनं निवर्तते । कुत एतज्ज्ञायते(।) तदाह । हेतुरुक्तमिदं द्वयं । तत्र हेतुरा
शयप्रयोगसम्पत् । आशयो जगद्धितैषिताप्रयोगो जगच्छाशनाच्छास्तृत्वं । हेतुरुक्तमेतदित्यपि
कुतः । प्रथममुक्तेरेव नहि मुख्यस्य सुगतत्वे हेतुत्वं । तस्मादुपायाभ्यास एव शासनं नान्यदित्य
वगन्तव्यं । एवमुपायाभ्यासात्सुगतो भवति भगवान् ।
(५) सुगतत्वात् भगवान् प्रमाणम्
किन्तत्सुगतत्वमित्याह ।
आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरो हेतुः । तस्य हेतोः प्रहाणं त्रिगुणं प्रशस्त
त्वात् अपुनरावृत्तेः निःशेषप्रहाणञ्चेति । प्रहाणमभाव आत्मात्मीयग्रहादेः । तस्याभावस्य
दुःखनिःश्रयाभावात् प्रशस्तत्वं । आत्मात्मीयग्रहे तु तीर्थ्यानां दुःखस्य प्रहाणं । हेतोर्दुःख
सङ्गतं । आत्मात्मीयग्रहे हि निःसन्दिग्धं दुःखमास्ते । तदेव प्रहाणं । कुतो नैरात्म्यदर्शनादेव ।
दर्शनहेयक्लेशप्रहाणं दर्शनादेव । युक्तितो वा । युक्तिरभ्यासो भावना भावनाहेयस्य क्लेशराशेः ।
अथवा युक्तिर्योगः । परस्परसङ्गताद्वैतं । अद्वैतदृष्टितोपि वा । एकदा पुद्गलनैरात्म्यादथवा
धर्म्मनैरात्म्यात् । सर्व्वथानैरात्म्यदर्शनान्न दुःखाश्रयणमिति । एवं तावत्प्रशस्तता गुण एकः ।
अपुनरावृत्तिगुणस्तु द्वितीयः । कासावपुनरावृत्तिरित्याह ।
जन्मनः सम्भवो दोषाणां च पुनरावृत्तिः । निर्दोषावस्था रागाद्यभावात् । पुनरनुत्पत्तिश्च
जन्माभावः । मोक्षनगरगमनं । दोषभावे जन्मनश्च पुनरावृत्त इत्युच्यते । ते च दोषा आत्म
दर्शनाभावान्न पुनरुत्पद्यन्ते । आत्मदर्शनबीजोद्धरणात् । जन्म च क्लेशाभावात् न सम्भवति ।
ततो पुनरागमः । क्लेशकर्म्मोद्भवं जन्मेति पश्चात्प्रतिपादयिष्यते । आत्मदर्शनाभावाच्च
कुतः क्लेश इत्याह ।
आत्मोपकारस्मरणादुपकारिणिरागिता । अपकारस्मृतौ द्वेषो मोह आत्मादिदर्शनं425।। ६३० ।।
आत्मनि उपकारिण्यपकारिणि च रागद्वेषौ तावात्माभावान्न स्तः । आत्मदर्शनन्तु़
मोहः । स नैरात्म्यभावात्साक्षादेव निवर्तते । अद्वैतदर्शने तु सुतरामेव रागनिवृत्तिर्विषयाभावात् ।
ननु नैरात्म्यदर्शंनं फलं निवर्तकमात्मदर्शनस्य विपरीतत्वादिति चेत् । परस्परं
समानं विपरीतत्वं । ततो निवर्त्तितं नैरात्म्यदर्शनेनात्मदर्शनं निवर्तकमपीति नापुनरावृत्ति
स्ततोऽशेषनिवृत्तिरपि नास्येव । न चान्यः शेषः पुनरावृत्तेः ।
अत्रेदमुच्यते ।
तस्य नैरात्म्यदर्शनस्य सद्भूतत्वात् । विपरीतत्वाच्च । तद्विपरीतत्वादात्मदर्शनस्य ।
भूतमभूतस्य निवर्तकं वैपरीत्येन वैपरीत्यमात्रं । भिन्नात्मकञ्च । न चात्मदर्शनं भिन्नात्मकं ।
आत्माभावात् परमार्थतः अभूतत्वादात्मनः । शेषः तर्हि कः पुनः । पुनरावृत्त्यभावात् अपरः ।
अत्रोच्यते । कायवाग्बुद्धिवैगुण्यं ।
ननु क्लेशकृतस्य क्लेशाभावे कुतः सम्भवः । नाक्लेशनिर्जरमपि वासनामात्रसङ्गमात्
वृषलीवादवत् । मार्ग्गस्यानेकप्रकारनिरुक्त्यपाटवं । तस्य तर्हि शेषस्य हानं कुतः ।
नैरात्म्यादपरिहीणस्य नापरः परिहाणिहेतुः । न च यावद्व्ुद्धिस्तावद्दोषहानं । उक्तेर्वितर्क
विचारपुरःसरत्वात् भ्रान्त एव सर्वंवित् प्राप्तः । अत्राह ।
अभ्यासो हि बुद्धिपाटवकृत (स्त) तो वासना परिहीयत इत्युक्तं । न चोक्तिमात्रेणेष्टः
रागादिसाधनोक्तेर्व्यतिरेकस्य विपक्षाभावलक्षणस्य । सन्देहादतोस्य सन्दिग्धव्यतिरेकित्वा
दगमकत्वं । विकल्पे वा साध्ये वचनं । व्यभिचार्य्यत्यन्ताभ्यासाद्वितर्कमन्तरेणापि वचनवृत्तेः ।
आवेधसामर्थ्यात् वचनं प्रवर्तत एव । उक्तं च ।
तस्माद्वचनेपि न दोषवानिति सिद्धं ।
नन्वन्यतः क्षयाभावो दोषाणामिति कथं दोषाभावः । नहि दोषक्षयाभावहेतुर्न दृष्ट
इति । नहि दोषक्षयाभावहेतुर्नास्ति426
वा । अत्रोच्यते । अदृष्टं427
कथमिव परिकल्प्यते ।
न नाम परिकल्पना यथा कथञ्चिदवतरन्ति । अपितु निबन्धनालोचनसोपानपद्धति
सम्भवात् । यद्येते दोषा नित्याः स्युः स्यादक्षयः प्रयत्नेपि । नहि प्रयत्नशतेनापि नित्यं क्षय
मुपनेतुं पार्य्यते । अथोपायः क्षये नास्ति नोपलभ्यते । तथाप्यक्षयः । न चैतत् त्रयमपि ।
118
हेतुमतो हि प्रागभावात् न नित्यत्वं । हेतोर्विपक्षस्य यदाभ्यासस्तदा क्षय इति नानुपा
यता । हेतुविपक्षस्य दोषक्षयोपायत्वात् । नापि तस्यापरिज्ञानं । हेतुस्वभावस्य आत्मात्मी
याकारत्वस्य ज्ञानात्तद्विपरीतविपक्षज्ञानमिति । योहि यद्विपरीतः स तद्विपक्षस्तद्यथा वायो
स्तैलं । स्निग्धोष्णत्वात् शीतरुक्षस्य । प्रभावादिविशेषाद्वाह्यं । बाह्यस्याविपक्षेपि । नैरात्म्य
दर्शनस्तु आत्मदर्शनविरुद्धमित्यविप्रत्तिपत्तिरेव ।
(६) तायित्वाद् भगवान् प्रमाणम्
यद्यपि सुगतत्वं भगवतस्तथापि स्वार्थसम्पत्तिमात्रकादसौ कथं परेषां प्रमाणं । अवि
परीतार्थप्रकाशनेंन हि प्रमाणं । न विपरीतस्य । नाप्यप्रकाशनेन । नैतदस्ति । करुणावशादु
पायाभ्या (सा) च्च तायिता भगवतः । कस्ताय इत्याह ।
वेदे हि न केनचिद् दृष्टं येन तायसम्भवः । प्रतिभासमात्रकमूलकं । यस्य च सुगतत्वं
तस्य नाभिलषणीयमस्ति किञ्चित् । ततो वैफल्यान्नानृतं वक्ति । दयावत्त्वादुपायाभ्यासः
परार्थमेव कृतः । ततो न वितथाभिधाने हेतुरस्ति । ततः कारणाभावात् प्रयोजनाभावाच्च
न वितथाभिधानं429 । करुणायोगादाक्षेपाद् अभ्यासेनोत्कर्षस्य नानभिधानमिति430 । तत
स्तायी सुगत इति प्रमाणं । स्वदृष्टस्य मोक्षमार्गस्याप्रकाशनासम्भवात् । ननु स्वदृष्ट
मार्गोक्तिरिति न तावता तायः । अन्यथा सर्व्वे तीर्थकराः प्रमाणं । स्वदृष्टमार्गोक्तेरथ तेषां
मार्ग्गकथनमेव, तन्न भवति । तस्यामार्ग्गत्वात् । अत्रापि तर्हि कथं समाश्वासः । उक्तमत्र
नैरात्म्यदृष्टेस्तद्युक्तितोपि वा । युक्तिपरिदृष्टोयं मार्ग्ग इति । तेषान्तु न नैरात्म्यदृष्टि
र्नापि युक्तिरिति । न ते प्रमाणं । न च तेषां स्वदृष्टता परस्परविरोधादुपदेशस्य ।
(I) तायः चतुःसत्यप्रकाशनम्
भगवांस्तु (।)
अथवा चतुःसत्यप्रकाशनं तायो नापरं । यद्यपि वे दा न्ते शून्यताप्रकाशनमस्ति ।
ततोप्यात्मनः432
सद्भावात् अमार्ग एवासाविति चतुरार्यसत्त्यदर्शनमेव ताय इत्यसाधारणार्थ
वचनता भगवत एव । ततः सत्त्यताभावादयमेव तायी । युक्तिरहितोपि एष मार्गो मातृ
संस्कारवदुपशम433हेतुरिति नापरानिर्दिष्टो मार्गं: । कतमानि तान्यार्यसत्यानि । दुःखं
समुदयो निरोधो मार्ग्ग इति । एतन्नाम्नापि भवत्युद्वेगः । यथा मूत्रमार्ग इति न तु वराङ्ग
मिति । तन्न ।
119
(चत्वारि आर्यसत्त्यानि)
434ननु रागोऽभिमतवराङ्गनालिङ्गनाङ्गतया सुखहेतुत्वात्सुखमेव । द्वेषोपि वैरिनिरा
करणकारणं सुखस्य (।) मोहस्तु सत्कायदृष्टिलक्षणोऽहंकारमानसमददर्पहेतुः435 सुखस्य
कारणमिति सुखमेव । रागद्वेषाद्याधारभूताः शरीरादयोपि तथैवेति न दुःखं नामास्ति । यदपि
क्षुधादि दुःखं तदपि तृप्तिसुखस्य महतो हेतुः । ततो न दुःखसत्त्यं नामास्ति इति व्यर्थिकैव
भगवतो देशनेति न तायिता । न सम्यगेतत् । यतस्ते ।
यदुक्तं रागादयः सुखहेतव इति । तत्रोच्यते ।
यदि खलु रागादयो यदृच्छयोत्पद्येरन् । नित्या वा भवेयुः । सुखम्वा तदायुक्तं । यदात्व
भ्यासादेव ते तत एव पाटवादिदर्शनात् ततोऽभूतपरिकल्पनमात्रं437 । ततोऽभ्यासपरित्याग
एव ज्यायान् । बालक्रीडाभ्यासवत् । ततो न परमार्थतः सुखं । चित्ताभिरतिलक्षणञ्च सुखं ।
अभ्यासात्संसारधर्म्मनिवृत्त्या वा वरं438 तत्त्वाभ्यास एव कुतः । सुखमप्यभ्यासादेवेष्टं । वरमौदा
सीन्यमेव । एवञ्च सति सकलमेवेदं दुःखपीडितस्य सुखमाभाति । तद्वरं रागादिपीडानुदयो न पुना
रागादिसद्भावोऽङ्गनालिङ्गनं ।
तस्माद्यत्किञ्चित्संसारसुखं तत्सर्वं परमार्थतो दुःखमेव । तथाहि ।
यथा खलु क्षुदादिदुःखं तृप्तिसुखस्य हेतुस्तथा सुखमपि व्यपगमेऽत्यन्तदुःखस्य हेतुः ।
तेन सुखं दुःखहेतुत्वात्सुखमेव तन्न भवति । एवञ्च सति सिद्धमेतत् । दुःखं संसारिणः स्कन्धा
रागादिपाटवं त्वभ्यासादिति यतश्चाभ्यासादतः । पूर्व्वपूर्व्वसजातीयतथाभूतकारणहेतुक
मिति संसारित्वमपि सिद्धं ।
ननु नाभ्यासाद्रागोदयोऽपि तु यथाकथंचिदेवान्यतो वा हेतोस्ततः पारमार्थिका एवामी
सुखादयः । ततो न दुखं संसारिणः स्कन्धाः (।) यथा वा सुखादयोऽभ्यासात् तथा दुःखादयोपि न
120
परमार्थत इति सुखमेव संसारिणः स्कन्धा इति । नैतदपि साधीयो नयदृष्ट्याऽतोऽहेतोर्न जन्म
युक्तमाकाशादेरिव । न चान्यहेतुकाः सुखादयोऽभ्यासात्पाटवयोगात् । न चापि दुःखं कश्चिद
भ्यस्यति येन दुःखमाभ्यासिकं भवेत् । अपि तु ।
न खलु दुःखं ममास्त्विति कश्चिदभ्यस्यति । सुखार्थितया सकलस्य सकल एव
प्रवृत्तेः । ततः सुखं प्रयत्नसाध्यं । दुःखं तु तदभावात् प्रकृत्यैव नतु विपर्ययः । ततो
दुःखमपि सुखाभ्यासेनैव कृतं ततः सुखमेव निवर्तयितव्यं । परमार्थतस्तु । दुःखमपि
नास्त्येव । तदपि तत्रोत्त्रासभावनात एव । ततस्तत्रोत्त्रासभावनातो दुःखं (।) ततस्तदभावात्
तत्रैव दुःखेऽदुःखा सुखे वा सुखबुद्धिः, न तु परमार्थतः । तस्मात्सुखं भावनानीतं दुःखहेतुरेव ।
यदि तन्न स्यात् दुःखमपि न भवेदेव । सुताभिष्वङि्ग/?/णः पुत्रमरणे दुःखसम्भवः ।
सुतजन्मनि तस्यैव सुखं । न परमार्थतः ।
प्रार्थनीययोः वियोगस्तु कस्यचित् नास्ति शाश्वतः ।
अथवा दुःखमिह संस्कारदुःखतालक्षणं सुखमपि तद्धिपर्ययादात्मादिलक्षणं । तन्न (।)
परामर्थतोपि त्वभ्यासात् तथा तथात्मादिव्यवस्थापनात् । तन्मूलकाश्च रागादयः(।)तत
एवाभ्यासान्नान्यथा । परमार्थस्य हेतोरभावादभ्यासोपि यदि न हेतुरहेतुता न चाहेतो
र्जन्येति युक्तम् ।
अथापि स्यात् (।) नाभ्यासजा रागादयः किन्तु वातादिजाः । तथा हि वातप्रकृतेर्मोहः
(।) पित्तप्रकृतेर्द्वेषः । कफप्रकृते राग इति । मूलदोषवदारोपि दोषो वातादिज एवेर्ष्यादिकः
(।) वातादयश्च परमार्थतः एव सन्ति ततः करणादुत्पत्तेः पारमार्थिका रागादयः । तदप्यसत् ।
योहि यस्य हेतुः स तन्न व्यभिचरति । धूम इवाग्निं । यदि महामोहादयो वातादि
धर्म्माः ततस्तद्व्यभिचारिणो न स्युः । न चैवम् (।) अतो विपर्ययः । अथ वातप्रकृतेरन्यापि
रागजनिका प्रकृतिरस्ति । द्वेषजनिका च । ततो रागद्वेषौ (।)तेन प्रकृतिसंकरान्न व्यभि
चारः । तदप्यसत् ।
तदेव यदि तत्कार्यमन्यत् कार्यं कुतो भवेत् । तत एवेति चेदन्यत् कस्मात् तद्भावतो न तत् ।
तस्माद् यदि वातादिधर्म्माव्यभिचारो न स्यात् । अन्यप्रकृतेरपि तत्प्रकृतिकल्पनायां
कार्यमपि कल्पनीयं । कार्यमदृष्टं न कल्प्यत इति प्रकृत्यन्तरमपि न कल्पनीयं । यथा कार्य्यतः
कारणपरिकल्पना तथाऽप्रतिबद्धसामर्थ्यात् कारणतः कार्यस्यापि । अथाऽप्रतिबद्धसामान्य
कारणं नास्ति । दृष्टमपि कारणाभावेन कार्यं स्यात् । तस्य तत् कारणमेव वां मा भूत् । किंच ।
अथापि स्यात् । यो य एव दृश्यते स स एव रागादेर्हेतुः । ननु सर्वतो दृश्यते रागादि
स्तत् किं सर्वो हेतुः । एवमेतदेवमेव दृष्टत्वादिति चेत् । असदेतद् यतः ।
सर्वधर्म्मत्वेहि रागादीनां सर्वस्य प्राणिनः केनचिद् भवितव्यं । ततो य एव कश्चित्
कफादिषु सम्भवी स एव रागाद्याश्रय इति समरागादिप्रसङ्गः । इत्याह ।
यदा हि रागादयः सकलप्रकृतिभाविन इष्यंते । तदा कफादिप्रकृतिस्तदुत्कर्षापकर्षेपि
रागादिहेतुरिति समरागादिता निवारयितुमशक्या ।
अथ सर्वप्रकृतित्वेपि विशेषान्तरस्य भावात् न समरागता(।)तदा तर्हि सविशेषः सर्व
हेतुर्न भवतीति न सर्वधर्म्मः । अथापि सकलकफादिप्रकृतिहेतुत्वात् सर्व्वधर्म्मा रागादयः ।
तेषामेवावान्तरपरिणतिविशेषात् न समरागादिता । तदपि यत्किञ्चित् । यतः ।
योहि परिणतिविशेषो यतो हेतो रागादिहेतुरुपलब्धः । स एव यदा द्वेषादिहेतुरपीति
व्यभिचारस्तदा सर्व्वधर्मप्रतिपादने सकलविशेषहेतुतापि प्रतिपादिता । सकलरागादिविशेषा
णामिति समरागादिता परिस्फुटैव । ततः परिणतिविशेषादित्ययुक्तो/?/ हेतुः ।439 तस्यापि
सकलरा(गा)दिविशेषहेतुत्वात् ।
अथ कार्यविशेष उन्नीयमानः परिणतिविशेषो दृष्ट एव रागाद्यसङ्करहेतुः (।)
तदप्ययुक्तं । यतः ।
यद्यदृष्टेरपि सर्वदा विशेषः कार्यदर्शनमात्रकात् परिकल्प्यते । सर्वत्र तर्हि प्रति
नियतकार्यकारणभावो विशीर्यते । अथ तत्र विशेषपरिकल्पना न क्रियते । दृष्टस्य वह्नेः
परिकल्पनेन बाधनात् । अत्रापि तर्हि दृष्टोऽभ्यासः परिकल्प्यतां । न परिणतिविशेष
परिकल्पना युक्ता ।
ननु भूतहेतुका रूपादयः इष्यन्ते । अथ भूतविशेषे विशिष्यन्ते एतदपि भवत एव चोद्यं
नास्माकं । कर्म्माधिपत्यस्य विशेषहेतुत्वात् । अन्यथा तेषामपि पक्षीकरणात् । न
तैरनेकान्तः ।
यदुक्तं अन्यहेतुसद्भावेपि यदन्यकार्यदर्शनं तस्य विशेषसद्भावात् अदृष्टविशेष
कल्पनापि (।) अत्रोच्यते । भवतु नाम कार्यान्तरं विशेषोन्यस्तत्रेपि । यदा तु पुनः फलोत्क
र्षस्तदा हेतूत्कर्षात् कार्यस्योत्कर्षः कथं निवार्यः । तत्रापि तदन्यस्य विशेषस्यभावादिति
चेत् । एवं तर्हि स विशेषः कारणं न भवतीति कार्यंकारणग्रहणं कुतः । न च दृश्यस्या
दृष्टविशेषता युक्ता । तस्मात् ।
ननु विशेषादित्यसिद्धो हेतुः । पित्तोत्कर्षे तद्दु खपीडितस्य द्वेषोत्कर्षात् नास्त्य
सिद्धता । सर्वेषामेव कफादीनामुत्कर्षपीडया द्वेषसम्भवात् । न भवत्यपि प्रकृत्यामन्द
द्वेषस्येति चेत् । पित्तोद्रेकेपि समानमेतदित्यवाच्यं । अथ सर्वजत्वं440
तदपि न युक्तं । न च
सर्वजा इत्युक्तत्वात् ।
किञ्च यदि नामापरो विशेषो नास्ति । तथापि तद्विशेषकृतविशेषो माभूत्कार्यस्य तु
हानिः कुतः । यतः । कारणवृद्धौ कार्यस्य बृद्धिरेव युक्ता न हानिः । अन्यथा तस्य न
कारणत्वमित्युक्तं यथा तापादयः पित्तादिवृद्धौ वृद्धिमन्तः ।
ननु रागस्य बृद्धिर्बृद्ध्य441द्रव्योपयोगे कफसद्भावादुपलभ्यत एव । नैतदस्ति । द्वेषस्यै
व व्याधिपीडया भावात् । सुखादिजो हि रागादिर्न कफदिभावी । सुखञ्च कस्यचित्
कथञ्चिदुपलब्धमान्तरवासनाप्रबोधात् । ततो न रागादय दोषेभ्य इति युक्तं ।
ननु यद्यपि श्लेष्मोत्कर्षे न रागः । तथापि न तावता हेतुरसौ वैषम्यजदुःखप्रति
बद्धशक्तिकत्वात् । न च योऽन्यप्रतिबन्धेन न जनयति । स न हेतुः । सर्वस्यैवाहेतुत्व
प्रसङ्गात् । अत्राप्युच्यते ।
यदि कफादिसाम्याद्विरुद्धव्याध्यसम्भवे मदस्य शुक्रापरनाम्नोऽभिवृद्धिस्ततः स्मरो
रागापरव्यपदेशभागी442 । एवं सति विषमदोषः सुरतक्षतजोऽत्यन्तस्त्रीसेवापरो रागी न स्यात्
शुक्रक्षयतः । शुक्रस्य सर्वस्त्रीषु साधारणत्वात् नैकस्त्रीनियता रागिता भवेत् । तेन
समानमदभावात् एकस्यां तीव्रता रागस्य न स्यात् ।।
अथ विषयस्यापि कारणत्वं स्त्रियः । तद्रूपादिविशेषाविशेषो यतो रूपाद्यपि कारण
मेव । तथाहि
तस्मादेकस्यां तीव्रतासहकारिसद्भावादपरत्र न तथेति न दोषः । नैतदपि साधीयो यतः ।
न सर्वहेतुः सर्वेषां समरागप्रसङ्गतः ।
अथानियतहेतुतैवेष्यते । तदप्ययुक्तं । न चाप्यनियतस्ततो भवतीति युक्तं । एकस्यां
नियतो रागो रूपग्रहणलालसस्य अतर्कितोपनतायां विरूपायां रागपीडितस्य न प्रवर्तकः
स्यात् । किञ्च । मदस्य रागहेतुत्वेऽगुणग्राहिणोपि रागो भवेत् । अथ गुणग्रहणमपि अङ्गं ।
तथा सति सर्वो गुणग्राही प्रसङ्गः । सर्वस्य गुणहेतोर्भावात् । अथ गुणभावमात्रान्न गुणग्रहणं ।
कुतस्तर्हि गुणग्रहणं । यदि निर्विषयं गुणग्रहणं अनादिवासनात इत्यभ्यासादेव रागादय इति
प्राप्तं । अपि च यस्यामवस्थायामवस्थितस्य रागस्तदवस्थस्य द्वोषो न स्यात् । रागद्वेषयोर
समत्वेन विरुद्धप्रकृतित्वात् । न च तद्विरुद्धप्रकृतौ व्यवस्थितस्य तद् भवति । अथ न भवत्येव
तदप्ययुक्तं । नियमश्चात्र नेक्ष्यते ।
अथवा । यदि द्वयोरपि सा प्रकृतिस्तदा द्वयोरपि समानताप्रसङ्गः । एवमेवेति चेत् ।
न(।)एतन्नियमस्यादृष्टेः । न ह्यत्र समानकालतानियमेक्षणं । अथ यथा पित्तप्रकृत्यवस्थितस्य
स्वेदादयः कदाचित् न सर्व्वदा । तथा रागादयोपीति । तदसत् ।
अथान्तरोपकारकृतवासनासमागमतो नियमविपर्ययस्तथा सति वासनैव रागादिकारणं ।
रागस्याप्युकारभावनाभावात् । अथापि स्यात् । यस्यापि वासनाभेदादुत्पद्यन्ते रागादयः ।
तस्यापि कथमयं न दोष इत्याह ।
रागादयो हि यदा वासनाबलाद् भवंति तदा यस्य यत्र जन्मान्तरसङ्गता वासना तत्रैव
तस्य प्रबोधः कथञ्चित् कदाचित् केनचित् हेतुनेति । वासनानियमे रूपादीनां रूपाद्य
पेक्षिता नास्तीति न प्राक्तनदोषावकाशः ।
मा भूवन् वातादिधर्म्मा रागादयो भूतधर्मा भविष्यन्तीत्याह ।
य आह भूतानां पृथिव्यादीनां एते धर्म्मास्तथाहि । पृथिव्यम्बुभूयस्त्वे रागोऽनल
वाय्वोर्द्वेषः । अब्बाय्वोर्मोह इति । तदपि निषिद्धं । सर्वत्रानैकान्तात् । तथा चोक्तं । यदवस्थो
मतो रागीत्यादि(।)आश्रयाश्रयिभावश्च निषिद्धः । अनाश्रयात्सदसतोरित्यादिना ।
ननु यथा धवलादयो महाभूतनिश्रिताः तथा रागादयोपि । तदाह । न पृथिव्यादि
निश्रिताः धवलादयः । यदि पृथिव्यादिनिश्रिताः स्युः । तदा भूतेभ्यो रूपादिव्यतिरेका
भ्युपगमो भूतमात्राभ्युपगमं बाधते । नहि भूतमात्राभ्युपगमे आश्रयाश्रयिभावः । यदि भूता
श्रितं ज्ञानं तदा तत्त्वबहुत्वप्रसङ्गः । अव्यतिरेके भूतानामैकतैव विज्ञानाव्यतिरेकात् ।
ननु भूतान्युपादाय रूपादय इत्युपगमे आश्रयप्रतिषेधविरोधः । नाश्रयार्थ उपादा
यार्थोपि तु हेत्वर्थंः/?/ । तदाह ।
नाश्रयार्थ उपादायार्थः । अपि तु हेत्वर्थस्तथाहि ।
ततो वाधाराधेयभावः ।
भवतु वा समानकालयोरेवाश्रयाश्रयिभावः कार्यकारणभावो वा । तथापि स्वाश्र
येणाविनिर्भागवर्तवनात् । तथाहि ।
यदि तयोराधाराधेयभावस्तदाधेयाभावे तदाधारस्य विनाशोऽविनाशे वा पश्चादिव
पूर्वमति नाघारता । ततोऽविनिर्भागवर्त्ती रागादिरपि प्राप्तः । न च रूपादिव्यतिरेकेण महा
भूतरूपं नामास्तीति पराभ्युपगमेनैव इदमुच्यते । न च रागादीनामविनिर्भागवृत्तिः कस्य
चित्कदाचिद् भावात् ।
सुरासवादेर्द्रव्यस्याश्रिता मदशक्तिर्विनिर्भागेन443
वर्तते । स्थिते द्रव्ये निवृत्तेः
पश्चाच्च भावात् । तथाहि । कषायमधुरद्रव्यसम्भवे प्राग्भाविनी शक्तिराविर्भवत्येव ।
पुनरप्यपगच्छति ।
तदप्ययुक्तं । शक्तेरर्थान्तरत्वाभावान्नहि शक्तिरर्थान्तरभूता भूताद् द्रव्यस्य शक्ति
रिति व्यतिरेकव्यपदेशो व्यपदेशिवद्भावाच्छिलापुत्रकशरीरमित्यादिवत् । यथा चैवं तथा
प्रतिपादयिष्यते ।
ननु पावकादीनां यदि नास्ति शक्तिरन्या तदा मन्त्रतन्त्रादीनां कस्य प्रतिबन्धो
न तावत्पुरुषस्यान्यत्र दाहात् । शक्तिप्रतिषेधे तु तस्याप्रतिषेध इत्यन्यस्य दाहः । तदसत् ।
न सदेतत् ।
तावत्यः शक्तयस्तस्य भावस्य कुत आगताः444 ।
एकस्य भावाभावौ च संस्तो न युगपत् क्वचित् ।
तदपि न परिहर्त्तव्यं ।445 यतः ।
अतो वस्त्वेव तन् नश्यति । न त्वाश्रितं तिष्ठत्यविकल एवाश्रयेऽपगच्छति ।
अथापि स्याद् (ा) अत्रापि भूतचेतनयोरेवमेव भवेत् । अत्र परिहारः । भूतचेतेनयो
र्भेदात् । न खलु चेतनानां शक्तिवद्भूताव्यतिरेकः । एतदेव कुत इति चेत् । भिन्न
प्रतिभासावबोधात् ।
126
446 प्रतिभासभेदः सर्व्वत्र वस्तुभेदस्य साधकः । भेदसिद्धेरुपायो हि न कश्चित्447 पर ईक्ष्यते ।। ७७६ ।।
भिन्नेन्द्रियभिन्नप्रतिपत्तृग्राह्यत्वेपि यद्यभेदावभासिता ।
तदा तत् कथमेवं प्रतिपत्तिर्हि भेदिका प्रतिभासरूपा न प्रतिपत्तिकारणभेदः । अथ
कारणभेदात् प्रतिपत्तेरपि भेदः । स एव तर्हि प्रतिपत्तिभेदो भेदको व्यर्थकमपरं । तत्र च
भिन्नः प्रतिभासोऽन्तःसातादिरूपेण संवेदनं विज्ञानस्य नोष्णादिरूपेण448
ग्राह्यतयाऽर्थस्य । अथान्तः
स्प्रष्टव्यविशेषरूपा एव सुखादयः तेनान्तःसंवेदनरूपा ।
अन्तःस्प्रष्टव्यविशेषो हि न दूरं भाति449 । तेनासावात्मैकदेशतया450
न्तःशरीरस्य स्थिते
र्न बाह्यवृक्षवदनुभूयते । न न्याय एष ।
यदि स्प्रष्टव्य एवासौ तस्य केन प्रवेदनं । अन्येन वेदने भिन्नवेद451 नत्वं प्रसक्तिमत् ।। ७७८ ।।
अथ स्ववेदनं तस्य न महाभूतरूपता । स्वविद्रूपं किमन्येन452 तथैव न453 विभाव्यते ।। ७७९ ।।
उदरान्तर्ग्गततत्त्वाच्चेत् अन्तःस्पर्शोस्तु वेदनं ।
यो ह्यन्तरवयवस्पर्शी तस्य वेदनप्रसङ्गः । बहिरा454 लिङ्गनस्पर्शोपि सुखरूप एव ।
द्वयोरन्योन्यसंस्पर्शे द्वयोरप्यस्तु वेदनं । पर455 रूपं परो वेति नात्म456 रूपं कथं परः ।। ७८० ।।
अथ परैः स्पृश्यमानं तदेवात्मरूपं सुखीभवति । तथा सति परेण तथा प्रतिपत्तिप्रसङ्गः ।
परस्य सर्व्वाकारप्रतिपत्तेरिति चेत् । यद्येकोसावर्थः कथं न सर्वाकारप्रतिपत्तिः । अथानेकः
प्रतिपरमाणु भिद्यते । तथा सति सुखपरमाणुभेदे सुखवद् दुःखे457
कस्यचित्प्रतिपत्तिः सुखादेः
स्यात् । न परसुखस्य लेशोपि विद्यते । स्वयं च प्रतिसंविदितानामेकस्यैव प्रतिपत्तिरिति
समानानुभवौ स्त्रोपुंसौ स्यातां । सर्वप्रवेदनेऽनेकपरमाणुप्रवेदनप्रसङ्गः458 ।
अथ परस्परसंसर्गो विभागाभावात् । न (।)तद्व्यतिरेकेण संसर्ग्गाभावात् । भावे
वा विवेकप्रतिपत्तिरनिवारिता स्यात् । संसर्ग्गाद्वि459वेकाप्रतिपत्तिरिति चेत् । नहि
तर्हि तेषां स्वरूपप्रतिपत्तिरिति भिन्नाभूतेभ्यश्चेतनाभेदेन भासनात् । अथैक एवावयवी
तथा सति परस्यापि तथा प्रतिपत्तिः । अथ परः सर्वात्मना प्रतिपत्तुमशक्तः । न तर्हि तस्य
रूपं प्रतीयते । भ्रान्तिरेवैषा भ्रान्तिरप्यन्तःस्प्रष्टव्यविशेषरूपैव । ततः परेण तथा
प्रतीयेत । एकं स्प्रष्टव्यमपरं यदि तत्र सुखादिकं । परेणैकप्रतीतिश्चेत् सुखाद्यन्यत(:)तथा
सति । तस्माद् ।
127
भूतचेतनयोर्भिन्नप्रतिभासावबोधतः । विरुद्धधर्म्माभ्यासेन460 स्वभावस्यास्ति भिन्नता ।। ६८१ ।।
कर्म्मैव भाग्यशब्देन व्यवहारपथ462
स्थितं । उपकाराविशेषस्तु नेह जन्मनि दृश्यते ।। ६८४ ।।
सविकल्पकेऽन्यत्र463 वा परेण न प्रतीयते । ततः स्वसम्वेदनं ज्ञानमेव तत् ।
अथ परशरीरान्तर्गतमिति न वेद्यते । परशरीरस्याप्यवेदनप्रसङ्गः ।
अथापि स्यात् (ा)भवतु भिन्नं तत् । अथापि देह एव तस्य कारणमतः सुखादयो
न वासनाप्रतिबद्धजन्मानः ततः पारमार्थिकाः । देहोपि शुक्रादेरतो न परलोकः । इहलोक
परम्परयैव परिसमाप्तेरतो न संसारित्वमित्याह ।
यदा हि कायः कारणं स्वभावो रागादीनां तदा देहविकारात्464
प्राक् तुल्यरूपमेव
मनो भवेत् । कारणस्य स्वभावस्य चाश्रयस्य तुल्यत्वात् । अन्यथाश्रयाश्रयिभावस्य कार्यकारण
भावस्य चायोगात्465 । अन्वयव्यतिरेकाननुविधानात् । नहि शरीरगता रूपादयो देहसमानतायाम
समानाः । अथापरापरविषयसमवधानाभिधीयमानविशेषतायामदोषः । तदपि न युक्तं ।
मनोविज्ञानस्य सुखादेश्च कैवार्थपरतन्त्रता । वासनाप्रबोधमात्रत उत्पत्तेरित्युक्तं ।
कायकारणत्वे हि पूर्वको दोषः468 । यदा तु पुनः कायकारणमनपेक्ष्य469
वासना
बोधकारणं किञ्चिदपेक्ष्य ज्ञानं कस्यचित् मनोविज्ञानमभ्युपगम्यते जन्मवत् । तदा तेन कारणेन
किञ्चन ज्ञानं स्यादविकृतेपि देहे नतु देहकारणत्वे । तस्माद्विज्ञानादेव विज्ञानं न देहादिति
संसारित्वं470 (ा)
हेत्वम्तरमप्याह ।
471
128
विज्ञानवैगुण्यावैगुण्याभ्यामुत्तरविज्ञानवैगुण्येतरदर्शनान्नियमेन तद्विकारानुवर्तनात् । विज्ञा
नोपादानरहिताद्देहान्न विज्ञानमिति472
सिद्धयति परलोकः । रागादीनाञ्च युगपदुत्पादप्रसङ्गाच्च ।
अथापि स्यात् । यद्यपि विज्ञानादेव विज्ञानं तथापि न परलोकः सिध्यति । सर्वस्य
वस्तुनो विज्ञानशक्तियोगात् । न च तथाभूताऽनारब्धकार्या शक्तिः परलोकः । नन्वेत
त्सांख्यमतं473
कुतो भवतः सकलतार्किकचूडारत्नाभिमानिनः474
सांख्यपशुरेव एवं वक्तुं समीहते,
य आगमैकशरणोऽनपत्रपः । सलज्जस्तु, नैवं अदष्टपूर्वं हि तृणाग्रे करिणां शतं । न
सां ख्या दन्यस्य वचनगोचरः सत्त्वेन । तथाहि ।
अथापि पुत्रे पित्रादेः476 संस्कारो यदीष्यते । नानन्तरस्य सर्वत्र संस्कारस्यानुवर्तनं ।। ६९४ ।।
तस्माद्विज्ञानात् स्वसन्तानवर्त्तिनो विज्ञानमिति सिद्धः परलोकः ।
किञ्च ।
यदि परलोको न स्यात् तदापूर्वसत्त्वप्रादुर्भावः तथा सति रागादीनां न नियमः स्यात्
वीतरागोपि कश्चित् स्यात् । यदा तु जन्मान्तरादागतिस्तदा तृष्णैव कारणं मतः477
प्राणिनो
जन्मनः(ा)ततो न जन्मी वीतरागः । रागादिकमन्तरेण जन्माभावात् ।
भूतात्मतानतिक्रान्तेः सर्वो रा(गा)दिमान् यदि ।
अथापि स्यात् (ा) भूतात्मता478
रागादिहेतुः सा च नापैति ततः कारणवैकल्याभावात् न
रागादिवैक्ल्यं । यद्येवमत एव हेतोः ।
तथा हि भवेत्सर्वः समानरागो यदि परस्परं भूतानामतिशयो न स्यात् । अस्ति
च479
ततो न सकलः समानरागः । यद्येवं ।
481 129
यदुक्तं रागाद्यनियम इत्यत्र परेण भवत्येव वीतरागः पृथिव्यादिसंघातः । अथ
प्राणिनो वीतरागता भवेत् कस्यचित् न । प्राणिनो यथाऽप्राणिता न भवेत्482
तथा वीत
रागतापीति चोद्यं यद्येवं । यथा प्राणिता न विशिष्यते, तथा रागितापीति सर्वःसमान
रागो भवेत् । प्राणितावत् । यदि वा कश्चित्प्राणी कश्चिदन्यथा । तथा रागीतरो वा
स्यात् । अथ प्राणिताऽभिन्ना रागादयो भिन्नास्तदा यतः कारणाद् भूतातिशयत्वाद्भेदः तथा
निर्ह्रासातिशयमन्तरेऽत्यन्तापचयोपीति वीतरागः स्यात् ।
अथापि स्यात्(ा) यद्यपि तदतिशेयनिर्ह्रासवत् कारणं । तथापि रागादिहेतोः तुल्या
त्मता न क्षीयते । अत्रोच्यते ।
यदि हिं रागादिहेतोर्या समानता सा न हीयते । ततो रागस्य सामान्यमेव हेतुः ।
सामान्यहेत्वर्थे च रागकार्यस्य समानता सदृशात्मनो हेतोः । कार्यमपि सदृशार्थकमिति
युक्तं । यदि तु हेतुसमानत्वे कार्यमसमानं तारतम्ययोगात् । तदा तस्य तत्कार्यमेव न
भवेत् । तदन्वयव्यतिरेकानुविधानाभावात् । तस्माद्यत्र तारतम्यं तत्रात्यन्तमभावोपि
अपकर्षतारतम्यभावात् धवलादिगुणवत् समानत्वाद्वा न प्रच्यवेत । किं कारणं ।
गोप्रत्ययो हि समानात्मनः सम्भवति । अथ प्राणितां प्रति न विशेषः । भूतानां
रागादीनपि । विशेषे कश्चिद्...........। तद्रूपव्यावृत्तेरन्यतोपि वा न चासौ तारतम्य
योगी भवति, गौर्गोतरो गोतम इति लोकायत दर्शंनापेक्षया पृथिव्यादौ प्राणी प्राणीतरः
प्राणितम इति483 । तस्मात्समानहेतोः समानत्वमपकर्षे त्वत्यन्तमुच्छेदोपि ।
अस्त्येवेहाग्नेरौष्ण्यस्य तारतम्यं न च सर्वात्मनौष्ण्यमसम्भवि तथापि न रागादीनां
तद्वदेव सर्वथा सम्भवाभावो न रागादीनां कायाद् व्यतिरेकात् । नात्रौष्ण्यादग्नेर्भेंदः । औष्ण्य
स्यैवाग्निव्यपदेशात्484
यद्यौष्ण्यं न स्यादग्निरेवासौ न भवेत् । न तु रागाद्यभावे भूतमेव485
तन्न भवति । यदि तु भूतसंघातोऽन्यो धर्मी तस्य धर्म्म औष्ण्यं परिकल्प्यते । तदा तस्य उष्मा
वस्थायामुच्छेद एवौष्ण्यस्य486 । अथ ज्वालायाधर्मित्वं परिकल्प्यते । औष्ण्यं धर्मः स च तत्र
न विच्छिद्यते तारतम्येपीति, परस्य परिहारः । सोप्ययुक्तः ।।
130
मन्त्रतन्त्रादिसामर्थ्यात् ज्वालौष्ण्येन विना भवेत् ।
मणेर्ज्वाला विनैवौ487 ष्ण्यं दृश्यते तत् न युक्तिमत् ।। ६९५ ।।
ज्वालाया न च धर्मित्वमौष्ण्यं प्रत्यविमुक्तितः ।
न तस्या धर्मिता युक्ता तेन नैतन्निदर्शनं ।
ज्वाला नौष्ण्यं विना नौष्ण्यं ज्वाला विना भवति । तेन न सा धार्मितया युक्ता । न
चात्यन्तमवियोगे ज्वालातदौष्ण्ययोर्द्धर्मधर्मिभावः । तेन सविशेषणो हेतुः ।
यस्यान्यस्य गुणाः सन्तस्तारतम्यमनुभवन्तः (न) ते488
क्वचित् प्रतिघातवन्तः । यथा
घटादिषु489
धवलादयः । ननु धवलादिरूपव्यतिरेकेण क इवापरः पटादिः । येन तस्या
न्यस्य सतो धवलादीनामुच्छेदः । सत्त्यमेतत् । तथापि स्पृश्यरूपा घटादयो490
न वर्णविशे
षरूपाः491 । तदभावे पटस्य492
भावात् । तेनान्यस्येत्ययमर्थः । यस्य सन्तानेनानुवर्तमानस्य
य उच्छेदधर्म्माण उदयधर्म्माणश्च ते अत्यन्तमुच्छेदधर्म्माणोपि यथा धवलादय इति
वाक्यार्थः ।
अथवानग्नित्वेनुवर्तमाने औष्ण्यस्योदयव्यययोः तारतम्येपि493 । न चैवं रागादीनामु
च्छेदसद्भावात् शक्तेरनुच्छेद इति चेत् । न(ा) शक्तेरर्थान्तरत्वात् । न(ा) रागादय एव
शक्तिः । शक्तेरपि क्वचिदुच्छेददृष्टेः । अत एवाह ।
न खलु रूपरसादिवदविभागिनो भूतेभ्यो रागादयः तदभावेपि भूतानां भावात्, न तु
रूपाद्यभावे । अथ तत्राप्येवमेव । तदप्यसत् । रागादीनां शरीरेण सहोत्पत्तिप्रसङ्गात् ।
भूतेभ्यो494
न विशिष्टता495 । रूपावभासनमपि496
न च रागादीनां देहसहभाविता सर्वदा ।
न च महाभूतत्वमात्रवादिनो रूपादीनां भूतेभ्योऽन्यत्त्वं । तत्त्वबहुत्वप्रसङगात्497 । ततोऽवि
निर्भागभागी सहोत्पादः498 । विषयहेतुकत्वात् ।
131
विषयासन्निधाने कदाचिदभावोपीति चेत् । तन्न ।
न खलु विषयान्वयव्यतिरेकानुविधानप्रसङ्गतत्सन्ताना499
रागादयः । तदभावेपि
भवनानुभवात् । सभागहेतुश्च नेष्यते । ततो न रागादीनां तदभावात्500
कदाचिदनुत्पत्तिः ।
ततोऽनियमेनैकैकरागादिसहभावी देहः स्यात् । अथवा सर्व एव रागादयो देहसहभाविनो
भवेयुः । सर्वेषां हेतोर्देहस्य सन्निधेः । अथ देहस्य परिणतिविशेष एव तादृशो येन न रागादि
सहभावः । यद्येवं ।
परलोकादिकेप्येवमेव तत्त्य501 ज्यते कथं । न ज्ञानार्थतया भेदो नापि नीलादिताकृतिः ।। ७०३ ।।
तेनानुमानमुत्सृज्य न कश्चिज्जीवितुं क्षमः ।
तत इदं प्रत्युक्तं502 ।
अप्रतीतेऽस्ति नाभ्यासः ततोऽन्योन्यसमाश्रयः ।
यावत् प्रतीतता नास्ति नाभ्यासेऽध्यक्षतोदयः ।
अध्यक्षमात्रं यदि मानमस्मिन्नहेयतत्त्वेतरयोर्विवेकः ।
132
उदितं नोपयोगीदं यदि क्वापि किमर्थिता ।
भात्यनादिप्रबन्धोयं विकल्पस्य प्रसिध्यति ।
तस्मादनादिवासनापरिपाकोपनीता एवं सुखादयो न परमार्थतः (।) ततो दुःखमेव
परमार्थतः सकलमिति ।
तत्र दुःखं ।
अनित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुराकारं दुःखसत्यं । तत्कदाचिदुपलभ्य
मानतयाऽनित्यं । नहि नित्यस्य नित्यमेवोपलभ्यमानतयाऽनित्यं । नहि नित्यस्य नित्यमुप
लभ्यमानस्य कदाचिदुपलम्भो युक्तः । उपलभ्येतरस्वभावयोः परस्परपरिहारस्थितत्वेन
विरोधात् । उपलभ्यतयैव स इति प्रतिपादनात् । न च सर्वदा सर्वमुपलब्धुं शक्यं, क्रमोपलभ्यस्य
नित्यत्वात् न च क्रम एकत्वे सम्भवति । क्रमवत एकत्वेनाप्रतिभासनात् । प्रत्यक्षस्याप्रवृत्तेः ।
अनुमानस्य तदभावेऽभावात् । प्रत्यक्षपूर्वकत्वात् । अनुमानपूर्वकत्वेऽन्धपरम्पराप्रसङ्गात् ।
तस्माद ध्रुवता संसारिस्कन्धानां506 । दुःखता च रागादीनां दोषाणां निःश्रयात् । हेतुवशत्वाच्च ।
हेतुप्रतिबन्धाच्च दुखं । सर्व परवशं दुःखमिति न्यायात् । चकारादभ्यासमात्रनिश्रयात्507
इत्यव
गन्तव्यम् । नात्मरूपं नाप्यनात्माधिष्ठितं508 । अकारणस्याधिष्ठातृत्वाभावात् । अवश्यमधिष्ठात्रा
सोपयोगेन भवितव्यं । उपयोगहेतोर्हेतुत्वात् । यदि चात्मरूपत्वं स्कन्धानां नित्यता भवेत् ।
न च नित्यं जनकमजनकस्य भावस्तत्वमुपलब्धुमशक्यत्वात् । अनेकञ्च भिन्नकालं ज्ञानमेक
स्मान्नित्यतया नोत्पत्तिमत् । न चाप्यात्माधिष्ठायकतया प्रतीयते509यच्च प्रतीयते स्कन्धानां रूपं
133
तदध्रुवं । अथानधिष्ठितानि कारणानि कथं स्वकार्ये प्रवर्तन्ते । तेनाधिष्ठातानुमीयते ।
न । अनित्यचेतनाधिष्ठानमात्रात्समाप्तत्वात् (।) चेतना चानादिरिति ततः (।)
यद्यन्ये हेतवः समुदिता अपि कार्यस्याजनकाः तदा हेत्वन्तरमपि विद्यते यदभावात्कार्यम
जातं । न चैवं । समनन्तरप्रत्यययोग्यताविशेषमात्रेण सिद्धेः । न च नित्यव्यापिनां
कदाचित् क्वचिद्वाऽभावः, येन तदभावात् अभावः प्रतीयते510 । अन्वयमात्रेण जनने सर्व
एव आकाशादयोऽधिष्ठातारो भवेयुः । तेष्वपि सत्सु कारणानां निजकार्येषु प्रवृत्तेः तेषामपि,
व्यापिनित्यतया समानत्वात् तेषामनधिष्टातृत्वादिति चेत् । तदेव व्यापिनित्यतया न सिध्यति ।
समुदयसत्त्यमपि चतुर्विधमेव हेतुतः समुदयतः प्रभवतः प्रत्ययतश्चेति । तत्र हेतुरहेतु
परिहारेण समुदय एककारणपरिहारेण । अप्रभवः असामर्थ्यपरिहारेण प्रभवत्यस्मादिति
प्रभवः । प्रत्ययः प्राधान्यपरिहारेण । तत्र दुःखस्य हेतुरस्तीति प्रतिपाद्यते । न ।
बन्ध्या सुताद्यसन्नित्यमभावात् कारणात्मनः ।
अत्र चोद्यं ।
अहेतुकवादिनः स्वभावेन महाभूतरूपं न क्रियते । विशेषा एव देशकालावस्था
विशेषयोगितया क्रियन्ते । तत्र विशेषाणामहेतुक(त्व)मुपलभ्यते । तोमरसूचीशूलतूलिकादीनां
हि न लोहादिरूपता क्रियते लोहकारादिभिः तीक्ष्णतैव क्रियते । लोहादीनामप्यपरैर्न
पृथिवीत्वादिकं क्रियते । लोहतादिरूपतायाः करणात् । लोहकाराद्यभावेपि तु कण्टकादीनां
तैक्ष्ण्यस्य तदभावेपि भावात् । नायमेव चानियतहेतुकताऽहेतुकता512 । तथान्येपि जगतो वैचित्र्य
कारिणो विशेषाऽहेतुकता(?) एव भवेयुः । क एवात्र विरोधः । तदप्यसत् ।
134
अत्राभिप्रायः । यदि विशेषा एव जन्यास्तेषां नाकारणत्वं । न खलु बदरीकण्टकानां
वक्रत्वतीक्ष्णत्वे बदरीकण्टकमन्तरेण स्तः । तदन्वयव्यतिरेकानुविधानात् तत्कार्यतेति ना
हेतुकता । अथ लोहकारेणापि क्रियते ततो व्यभिचारादेवमुच्यते । तदपि न यथावत् ।
तस्माद्यदि भेदा यदि बाह्यार्थता सर्वंथा सहेतुकत्वमन्यथा विपर्ययः ननु सत्येव
यस्मिन् यज्जन्म तस्य हेतुत्वे स्पर्शस्य दर्शनहेतुता प्रसक्ता स्पर्शाभावेऽस्वभावात् । तदसत् ।
तत्र हि स्पर्शमन्तरेण रूपमेव न भवति । यदि तु रूपं भवेत् भवेदेव दर्शनं । न
चैवंविधात् व्यतिरेकात् कारणत्वमपि तु रूपमुपदर्श्य । यदि स्पर्शाभावेऽभावमुपदर्शयेत्
दर्शनस्य । अथवा ।
परस्परावियोगेन समानकालयोरपि हेतुत्वात् उपादाय रूपस्य रूपस्य स्पर्शरूपाणि
भूतानि हेतुस्ततः पारंपर्येण दर्शने स्पर्शस्यास्त्येव हेतुतेति न विपक्षवृत्तिताहेतोरित्यव्यभिचार
एव । एवं तावदहेतुकत्वं प्रतिषिद्धमिति हेतुत इत्येकाकारो व्यवस्थितः ।
समुदय इति द्वितीयमाकारमाह ।
सहेतुकत्वेपि दुःखस्य ततो नित्यैककारणनिषेधेन समुदयाकारतानिर्ण्णयः । यदि
कारणमेकं नित्यमेव भवेत् । अनपेक्षणान्नित्यस्यानाधेयविशेषत्वात् । तेषाञ्च नित्यानां
प्रधानादीनां प्रागेव निषेधः । कुत एतदिति चेत् । असामर्थ्यात् क्रमयौगपद्याभ्यामर्थक्रिया
शक्तिवैकल्यात् न प्रभवत्वं । तृतीय आकारस्तृष्णाया एव स आकारः । एतदेवाह ।
अन्यस्य कारणस्य कर्म्मणोऽन्यस्य वा न प्रभवत्वं । न खलु कर्म्मशरीरमविद्या वा
प्रभवः । समर्थकारणापरनामा । तृष्णाऽभावेऽभावात् जन्मनः । दृश्यते च तृष्णायाः
प्रभवनं । यतः परिग्रह आग्रहापरव्यपदेशः तत्प्राप्तितृष्णाकृतः परिग्रहश्चायं जन्मसमागमः ।
तस्मादस्य तृष्णाप्रभवः । भववाञ्छानागतजन्मप्रार्थनाकारा ।
ननु न देशविशेषादिप्रार्थना समुदयसत्त्यं । उक्तं हि भगवता ।
135तत्र कतमत्समुदय आर्यसत्त्यं । येयं तृष्णा पौनर्भविकी नन्दी रागसहगता तत्र तत्राभिनन्दिनी । यदुत काय
तृष्णा । भवतृष्णा । विभवतृष्णा चेति513 । नायं विरोधः । यस्मात् (।)
येयं स्थानोपकरणादितृष्णा सा भवेच्छा संसारतृष्णा नन्दी रागसहगता तत्र तत्राभिनन्दिनी
सा सर्वैव कामतृष्णा भवतृष्णा विभवतृष्णा(।)या स्थानादितृष्णा सा भवतृष्णा सा भवेच्छा । या
स्वर्गप्रार्थनाकारा सा कामतृष्णा । या दुःखवियोगेच्छा सा विभवतृष्णा । तस्मादविरोध एव
समुदयसत्त्यनिर्देशः । नागमविरोधः कश्चिदिति ।
अहङ्कारसन्निश्रयात् एकत्वेनारोपितं (? ता) चित्तमाला तत्र यः स्नेहः सर्वत्र संप्रवर्तने
स्थानोपकरणादौ असुखे सुखादिरूपरहितत्वेन परमार्थतः । चित्तविपर्ययोपहतस्य प्रवर्तनात्
हेतुत्वमतः तृष्णाप्रभवाश्रयः । न ह्यदृष्टः क्वचिदपि प्रवर्तनसम्बन्धितः करूणायोगतो
ऽन्यत्र न संसारकारणं । अत एव प्रवर्तनं प्रति तृष्णायाः सहकारित्वात् । प्रत्ययमात्रता
नोपादानत्वं । तत्र चित्तमेवोपादानं । तस्य प्रत्ययस्तृष्णा कदाचित् करूणा । अनेन प्रत्ययत
इति आकारः कथितः ।
ननु प्रत्ययत्वेपि न तृष्णा प्रत्ययोऽपि तु देहस्ततो देहसङ्गतो न वीतरागः ।।
एतदेव दर्शयति ।
यथैव हि वीतरागस्य जन्म न दृष्टमिति रागो जन्मनो हेतुरत एव युक्तो देहो रागादेर्हे
तुरदेहस्य रागादृष्टिः । अत्रोच्यते । रागमन्तेरणापि जन्म भवति । करुणावशादभिरति
विषयत्वं तु तस्य तृष्णया ह्रियत इति विशेषमात्रहेतुत्वात् तृष्णाप्रत्ययमात्रं । एवं यदि
देहोपि प्रत्ययमात्रं रागादीनामयोनिशोमनसिकार एव तूपादानकारणं तदेष्टमेव संगृहीत
मिति दर्शयति ।
देहोपि रागस्यायोनिशोमनस्कारमनुवर्तमानो हेतुरिष्यत इव । स कदाचिद्वासना
प्रबोधस्य हेतुर्विषयवत् । एषा तु युक्ती रागहेतुत्वमपि देहस्य सम्पादयति । ततोऽन्योन्य
हेतुत्वात् तथाभूतानादिसामग्रीप्रभवं जन्मेति जन्मान्तरप्रसिद्धिरिति चर्च्चितं चा र्व्वा क
चर्च्चितमर्च्चिष्मता ।
ननु सगुणं द्रव्यमेवोद्यते । ततोऽनयोरन्योन्यमहेतुता ।
515 136
यदि हि जन्मना सहभावो रागादीनामिति न रागादयो देहस्य हेतुः तदा देहोपि
न रागादीनां । न चाहेतुकता ततः । समानजातीयकारणजनिता रागादय इति सिद्धमभिमतं ।
ननु न तृष्णा कारणमेकैव । अविद्या तृष्णा कर्म्म चेति त्रयस्य कारणत्वात् । तृष्णैव
तत्र तत्राभिनन्दिनीति समुदयसत्त्यनिर्देशः कथं ।
नैतदस्ति । कारणत्वेपि नानन्तरकारणत्वं । तृष्णैवानन्तर्येण कारणं संसारे सन्ता
नस्य प्रेरणात् । नहि मोहकर्म्मणोः सतोरपि तृष्णामन्तरेण कश्चित् प्रेरयिता । नहि विपर्य
स्तोपि सङ्गतृष्णामन्तरेण प्रवर्त्तते । अत एवाह ।
आनन्तर्यात् न516 कर्मापि सति तस्मिन्नसम्भवात् ।
कर्म्मोपात्तमपि राज्यादि परित्यजत्यतृष्णः ।
ननु बुद्धिः कर्मानुसारिणीति परित्यागः कर्म्मैव तत्तादृशं येन उपनतमवधीरयति ।
अथ मुक्तात्मनां जन्मनोऽसम्भवः इत्युच्यते । तेषामपि कर्मक्षय एव मुक्तिरन्यथाऽभावात् ।
अत्रोच्यते ।
अथ तृष्णास्ति नैवास्ति कर्म्मणोऽस्य परिक्षयः ।
एवं तावत् चतुराकारमार्यसत्त्यं व्याख्यातं समुदयलक्षणम् । इदानी तद्द्ुःखं निरोध
सम्भवीति निरोधसत्त्यं चतुराकारमाह ।
निरोधतः शान्ततः प्रणीततः निःशरणतश्चेति चत्वार आकाराः निरोध एव नास्तीति
वादिनं प्रति निरोधता ह्युच्यते । मुक्तानामपि रागादिसम्भव इति परैरभ्युपगम्यते । तत्प्रतिषेधेन
शान्ततः । अतः परोपि सम्भवति मोक्षतातिप्रतिक्षेपेण प्रणीतत इत्याकारः । मुक्तोपि
पुनरमुक्तो भवतीति निरस्य एतत् निःसरणत इति चतुर्थ आकारः । तत् प्रथम आकार-
तात्यनात्यन्तिकं517
नात्यन्तं भवति निरुध्यतेपि । न च संसारित्वादसम्भवो मोक्षस्य दोषः ।
इष्टत्वात्(।) नहि कस्यचित् मोक्षोस्ति । योहि बद्धो नहि तस्य मोक्षोस्ति । तत्त्स्वभाव
त्वात्(न) मुक्त518
स्यापि बन्धः । सदा तस्य मुक्तस्वभावत्वात् । केवलचित्तसन्तानस्या
परिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यते । तदपास्य519
परिशुद्धस्य
संसारितैवासिद्धा । न च संसारी परमार्थतः कश्चिदस्ति क्षणानामसंसरणात् । सन्तानस्य च
परमार्थतोऽभावात् ततः संसारित्वादित्यसिद्धो हेतुः । न चापि मोक्ताविद्यते यस्य मोक्षः ।
ननु यदि बद्धो न मोक्ताऽन्यस्य बन्धोऽन्यस्य मौक्षः । अन्यस्य क्षुदन्यस्य तृप्तिः ।
अन्यः चिकित्सादुःखम(नु)भवति, अन्यो व्याधिरहितः (।) अन्यस्तु यः परिक्लेशवानपरः
स्वर्गसुखमनुभवति । परः शास्त्राभ्यासायस्तोऽन्योऽधिगतशास्त्रः तदा किमिति हेतोरभियोगः
प्रेक्षावतः । अत्र समाधिः । यस्मात्
अवस्थावीतरागाणां दयया कर्म्मणापि वा ।
अत्रायमभिप्रायः । यदि तावत् तत्त्वदर्शिनःप्रति एतदुच्यते । तदा सिद्धसाध्यतैव ।
नहि ते क्वचित्प्रवर्तन्ते यत्नं वा कुर्वन्ति । धर्म्मा एव प्रहातव्या इति वचनात् । अथा
स्मदादीनं तदा तस्यैकत्वाभिमानात् स एव बध्यते स एव मुक्तिमानित्येकाधिकरणतैव
तयोः । नहि परमार्थतो वस्त्वस्तीत्ये520
तावतैव तथा व्यवहारः । प्रतीत्यपेक्षत्वाद् व्यवहारस्य ।
तथाहि । न परमार्थतः सर्पः परिहारविषयः । अपि तु । सर्पं/?/तया विमोक्षविषयः ।
अथ यदि नाम संवृत्या एकत्वं । तथापि संवृत्या व्यवहारोस्तु । परमार्थैकत्वाभावात्
कथं पारमार्थिको व्यवहारः । तदसत ।
ततो यत्नोपि नास्त्येव कस्यचिद् विभ्रमस्ततः ।
अभ्युपगम्याप्युच्यते । अवस्थेत्येवमादि ।
138
तस्मान्मिथ्याध्यारोपस्य एवंविधस्य प्रहाणाय यत्नः । अन्यथा मूढस्य न दुःखसं
वेदनहानिः ।
यदि तर्हि कर्म्मणावस्थानं जन्मान्तरकर्म्माप्यस्तीति जन्मान्तरसङ्गतिः स्यात् ।
अथासमर्थं कर्म्मं वीतरागस्यावस्थानं न भवेत् । अत्रोच्यते ।
नाक्षिप्तो यत्नमन्तरेण निवतयितुं शक्यः । यत्नश्च वीतरागस्य प्रतिहन्यते ।
उपेक्षया न तस्य क्वचिदास्थेति । अत एवास्थाऽभावात् नापरजन्मोपार्जनं । ततः सह
कारिणः तृष्णालक्षणस्याभावात् । तदेव पूर्वतृष्णाजनितमिदं जन्म नापरमिति । ननु दया
नामेयं सत्वे दुःखात् त्रातव्ये भवति नान्यत्र । नच सत्त्वः कश्चिदस्ति । नपि सत्त्वदर्शनं
प्रहीणात्मदर्शनानां ततो दयातो न प्रहीणात्मदर्शनाः । अत्र परिहारः ।
यदाहि सकलमेव दुःखमिति साक्षात्कृतं त्रिदुःखतायोगि । तदास्य समुदयलक्षणा
तृष्णाऽपैति प्रहीणसमुदयस्य न रागादय इति । समताऽविरोधिता । सकलेनैव सत्त्वसंघातेन ।
ततो दुःखितदर्शनात् वस्त्वाश्रयादयोत्पत्तिर्महतां । न तस्यामवस्थायां सत्त्वग्रहानुरोधतः तथा
भूतसत्त्वग्रहपरित्याजनाय य आशयः सा दया । सा च प्रहीणात्मदर्शंनस्यैव । अप्रहीणात्म
दर्शनो हि कथं तत्त्यागाय परेषां यतेत ।
ननु रागस्य दयायाश्च को विशेषः । अयं विशेषः ।
दयाया रागस्य च महान् भेदः । हेतुभेदविषयभेदात्522 । तथा हि । राग आत्म
नोऽनागतसुखासङ्गसन्धानपरवशीकरणमनागतसन्तमारोप्य तस्मात् प्रवर्त्तते । विषयेप्यतदात्मके
तदात्मना दृश्यमाने । चतुर्विधविपर्यासवासितमानसस्य रागिता नान्यस्य । दया तु दुःख
सन्ततिमात्रसाक्षात्करणादेव मिथ्याभिमानव्यपगमाय ।
नन्वहमस्य दुःखनिवर्तनं विधास्य इति आशयमन्तरेण कथं भवेत् । अत्र परिहारः ।
तदयं दयारागयोर्विशेषः इत्यलमतिविस्तरेण ।
ननु दया माभूत रागरूपातत्त्वदर्शिनामुदयात् । द्वेषरूपा तु भवेदशुच्यादिदर्शनात्,
वैमुख्याभावात् । नाशुभाभावनातो मुक्तिरपि तु अनित्यादिदर्शनात् । आत्मनि हि सति स
स्वतन्त्रः परदुःखविधायीति कोपः स्याद्(?) यदा तु पुनरसौ हेतुपराधीनः प्रवर्तते स्वरूप
मात्रेण । न चापकारस्तस्य शक्यः कर्त्तुमपकारकाले तस्यैवाभावात् वृथा कोपपरिग्रहः ।
यद्यात्मानमपक्रियमाणं पश्येत् कोपो भवेत् । न चात्मा कश्चित् । अपि तु सत्त्व
मन्तरेणापि सत्त्वग्रह एव केवलः कोपस्य कारणं, विना च सत्त्वग्रहं न द्वेषः । मोहस्तु नास्ति
स्वयमेव सत्त्वदर्शनस्य मोहस्याभावात् । अतः सर्वदोषविरहिता कृपा न दोषः ।
ननु यदि वीतरागः सशरीर एवास्ते । तदाऽमुक्त एव भवेत् । न दोषरहितस्य चेतसो
भावात् । किञ्च ।।
जन्मान्तरप्रतिसन्धानविरुद्धे हि मनसि वर्तमानः कथममुक्तः । पूर्व्वसंस्कारस्य च
तज्जन्मसम्भविनः क्षयादप्रतिसन्धानं । येषान्तु पुनरप्रतिसन्धिकरणाय संस्कारक्षयेच्छा नास्ति
तेऽक्षीणसंस्कारा अनघा एवावतिष्ठन्ते । यावत्संस्कारमनुवृत्तेः ।।
संस्कारहानेः करुणायाश्च मन्दत्वात् न स्थापने यत्नः । इति न सदा तिष्ठन्ति ।
महाकरुणायोगातु स्थानमेव । तत्रास्थासम्भवात् ।
यदि मार्ग्गस्य सामर्थ्य तदाद्य523
एव स्रोतआपन्नमार्ग्ग एवाभवो भवेत् । सत्कायदृष्टे
र्विगयात् । तथाहि सत्कायदृष्टेर्विचिकित्सायाः शील524 व्रतपरामर्शस्य च प्रहाणात् स्रोत
आपन्नो भवति ।
मोहश्च मूलं दोषाणां स च सत्वपरिग्रहः । इति चोक्तं । ततोमार्ग्गान्तरं व्यर्थकं
भवेत् । अत्रोच्यते ।
न खलु सत्कायदर्शनप्रहाणमाभिसंस्कारिकस्यैव प्रहाणात् । सहजस्य प्रहाणाभावः ।
सत्यदर्शनमात्रं हि स मार्ग्गः । दर्शनेन चाभिसंस्कारिकस्यामूलक्लेशत्वादात्मग्रहस्य प्रहाणं ।
तद्ध्यात्मदर्शनमौपदेशिकं दर्शनमात्रेणैव विपर्ययस्स्य प्रहीयते । सहजस्यतु सत्कायदर्शनस्य
विरूढत्वादनाद्यभ्यासतः प्रतिपक्षेण भावनामार्ग्गेणैव प्रहाणमतः सहजाहानेः ।
यस्य तु मते न सहजस्यापि हानिः । तत्र मते न हानौ वापि भवः कुतो भवति ।
पटुप्रज्ञस्य हि प्रर्थममार्ग्ग एव सकलसामर्थ्ययोगीति तस्य स एव सकलमार्ग्गस्वभावः ।।
ननु सहजं सत्त्वदर्शनं । यद्यात्माकारं तदाऽत्माभावे तत्राभिसंस्कारादेव बुद्धिर्नान्यथा ।
वस्तुनो जनकस्याभावे यदि परमुपदेशः कारणं । अत्राह ।
अनादिवासनाबलात् उदयमासादयन्ती अहमिति बुद्धिः सहजमेतत् सत्त्वदर्शनं सुखी
भवेयमहमित्येवमाकारा मा भूवमन्यथेति वा । तदप्रहाणा525
न्नाभवः । अहमिति चापश्यन्ना
त्मनि स्निह्यति न तु पश्यन् । न च सुखकामस्याभिधावनं विनात्मस्नेहेन । यस्य तु
सहजं सत्त्वदर्शनं, प्रवर्त्तितात्मस्नेहसंगति तस्य कथं पुनर्जन्माभावः । ततः सहजसत्त्वदर्शना
दाद्य एव मार्ग्गे न संसाराभावः । सत्त्वदर्शनप्रहाणादवश्यमेवेति निश्चयः । अनेन शान्त
इत्याकारः कथितः ।
ननु आत्मनि सति बन्धः तस्यैव मोक्षः । ततः परितोषविशेषादात्मनः । स प्रणीतो
मोक्षः । आत्माभावे तु कस्य परितोषः ।
यदि भवेत् भ्रान्तिरेव सेति सदोषता नासौ मोक्षः । अत्र समाधानं ।
यद्यात्मा नित्यस्तथा व्यापी तदान्वयव्यतिरेकाभावात् नासौ स्वयमात्मनो दुःखमुत्पा
दयितुं शक्तः । आकाशवत् । यदि च स्वतन्त्रः शक्तश्च कथमात्मनो दुःखमुत्पादयेत् ।
न खलु स्वबधाय कृत्योतथापनं प्रेक्षावतः युक्तं । अथासौ मूढस्तदात्मानमजानानः कथमात्माऽ
नुपलम्भादसत्त्वमेवास्य स्यात् । अथ तत्स्वभाव एवासौ तदा न कदाचिदन्यथेति । न सा
मुक्तिर्भाविनी । अथ जानानस्यापि तस्यार्था न स धर्म्मेणोत्पाद्यते526
दुःखं तथापि ।
नित्यस्य व्यापिनश्च न कस्यचित् दुःखो527
त्पादहेतुत्वं । यद्यसौ तदा दुःखस्वभावः । तदा न
दुःखस्य दुखं युक्तं । तत्स्वभावत्वे च नाऽन्यथाभावः । ततो न मोक्षः । अन्यस्वभावभावे च
न नित्यः इति नात्मा भवेत् । अथ व्यतिरिक्तं दुःखं सुखं वा, तदात्मा न सुखी दुःखी वा ।
नह्यन्येन सुखेनान्यः सुखी भवति । अथ तत्र समवायात् । ननु समवायोप्यन्य एव ।
अनन्यत्वे स एव दोषः । सुखासुखादिस्वभावत्वे च, अरापरस्वभावादनित्यत्वं । अथ निर्वि
कारोऽसौ परमार्थतः भ्रान्तिरेव तु सुखित्वादिप्रतिपत्तिः । तदप्यसत् ।
आत्मनोव्यतिरेकश्चेद् भ्रान्तेर्नात्मा अवित्तितः ।528
141
सुखित्वं यदि मोक्षेपि मुक्तेर्न स्यात्प्रणीतता ।
अथापि स्यात् न नित्य आत्मा पूर्वोक्तदोषान्नापि अनित्योऽप्रेक्षापूर्वक्रियाप्रसङ्गात् ।
अतो नित्यत्वानित्यत्वाभ्यामवाच्यः । तदपि न युक्तं ।
अनित्यत्वेनावाच्य इति अनित्यत्वमस्य नास्ति तस्य न हेतुता । अनित्यतया हेतुत्व
व्याप्तमिति चान्यत्र निर्ण्णयः(ा) ततो व्यापकस्याभावात् हेतुताप्यस्यासम्भविनी । यस्य तु पुनर्नि
त्यताऽपि नास्ति । तस्यात्यन्तमभाव एव । (अथ)529
बन्धमोक्षयोरेकाधिकरणत्वादनित्यता । न ।
हेतुत्वात् नित्यता नेति समाधिः । स चायुक्तः ।।
अथापि स्याद्(ा) उभयरूपतास्तु यदि नान्यथा । तथापि न दोषः । यस्मात् ।
नाशी च नित्यश्चेति व्याहतं । यस्मान्न नश्यति यः स नित्यः । नाशोऽभावोऽनुप
लब्धिरित्येकार्थता प्रसाधयिष्यते । अनाशो नित्यतोपलब्धिरिति च । ततो नित्यानित्ययोरे
कत्वमिति उपलभ्यानुपलभ्ययोरित्यर्थः। उपलभ्यानुपलभ्ययोश्च कथमेकत्वं ।
यदि नित्यमनित्यञ्चैकमेव । तदा प्रतिपन्नमप्रतिपन्नञ्चैकमिति प्रसक्तं । तथा
चासम्बद्धं । प्रतीयमानमेकत्वेनान्यथा न शक्यं प्रतिपत्तुं । नाप्रतीतमेव प्रतीतं शशविषा
णमप्रतीतं केनचित् प्रतीतेन सहैकं शक्यं निश्चेतुं । तत्रैकस्याप्रतीतेरिति चेत् । इहाप्य
प्रतीतेऽवश्यमप्रतीतिः । यस्यैकत्वेन प्रतीतिर्न तस्य प्रतीतिरेव नश्यति । नोत्पद्यते वा ।
अथान्यप्रतीतिरप्रतीतिः, तेनान्यप्रतीतिरूपा नास्ति प्रतीतिर्नास्ति तदन्यरूपप्रतीतिरेव
तस्याप्रतीतिः530 । एवं तर्हि यदन्यरूपं531 तत एव तस्याभावः इति प्राप्तं । तच्चायुक्तं । यतः ।
142
अनित्यं नित्यमथवा वस्त्वेकान्तेन युक्तिमत ।।
इदानीं मार्ग्गप्रसङ्गे निरोधस्यैव चतुर्थमाकारं दर्शयन्नाह ।।
प्रागेव मार्ग्ग उक्तः तस्याभ्यासादाश्रयस्य चित्तसन्तानस्यालयस्य वा परिशुद्धत्वं
भवति । आत्मात्मीयग्रहविपर्ययभूतस्य नैरात्म्यस्य सात्म्ये सकलदोषविश्लेषः ।
ननु यथा दोषयोगे गुणयोगः तथा गुणयोगेपि दोषयोग इति न निःसरणं संसारतः । न(ा)
143दोषाणां गुणसम्भवेन बाधनात् । विपर्ययः कस्मान्न भवति । गुणानां वस्तुस्वभावत्वात् ।
कथमेतदिति चेदुच्यते ।।
विज्ञानं मार्ग्गः प्रेरको जन्मिनां तस्य धर्म्मः स्वरूपं विषयग्रहणं । येन तद्विज्ञानं भवति ।
न विज्ञानमसंवेदने भवति । असंवेदनानां तथाऽभावात् । यथा चास्ति तथा स गृह्यमाणो
जनकः । आकारार्पणक्षमं । हि कारणं विज्ञानस्य विषयः । तत् स्वरूपप्रतिपादनं विज्ञानस्य
धर्मः । तथैव प्रतीयमानत्वं विषयस्य ।535
ततोऽनित्यानात्मादिरूपो विषयो विज्ञानं तथाभूत
ग्राह्येव नान्यस्तत्स्वभाव इत्याह ।
यस्य यो धर्मोऽनात्मकत्वादिग्रहणस्वभावः । असौ प्रकृतिः । तस्याः स्खलन्त्या आग
न्तुकप्रत्ययवशात् अमूलकात् स्खलितञ्च(ा) ततः स्खलनाद् व्यावृत्तौ प्रत्ययापेक्षमतोऽमू
लकत्वात् अदृढं536
फणिबुद्धिवत् । ननु फणिबुद्धेः सादृश्यदूरदेशत्वादयो रज्वां कारणानि ।
नित्यबुद्धेस्तु किं कारणं । न प्रत्यक्षं नित्यतायां प्रवर्तते । नाप्यनुमानं । नाशंका निःप्रमा
णिकेति । प्रत्यक्षतश्च क्षणिकत्वं प्रतीयते इति साधयिष्यते । ततः कुतो नित्यत्वग्रहः ।
अत्राह । तां पुनरनित्यतां पश्यन्नपि मन्दबुद्धिर्नाध्यवस्यति सत्तोपलम्भेन सर्वदा तद्भावशङ्का
विप्रलब्धः सदृशापरोत्पत्तिविप्रलब्धो वा अन्त्यक्षणदर्शिनां537
निश्चयात् ।
एतदुक्तं भवति । यदा तावदुपलब्धे पदार्थात्मनि पुनरनुपलम्भस्तदा पश्यत्येवा
नित्यतां । अतादवस्थ्यमनित्यतां ब्रूमः । किन्त्वनुपलब्धेपि मन्दबुद्धेराशङ्का न व्यपैति ।
ततः तद्भावं शङ्कत इति तद्भावशङ्कः । पूर्वं किमयमद्याप्यास्ते न वेति । ततः पुनर्दर्श
नादर्थक्रियावाप्तेः । अविप्रलब्धः सन् किमयं न व्यवस्यति । विप्रलब्धो हि तदनवाप्तेर्व्य
वस्येत् तन्न इव घटे ।538
अर्थक्रियालक्षणसत्तोपलम्भे तु को विपर्ययविवेचनस्यावसरो व्यवहारिणः(ा)
प्रतिभासभेदेन तु तत्त्वचिन्तकोध्यवस्यत्येव । व्यवहारी तु पुनरर्थक्रियार्थी । तदवाप्तेः
परितुष्टः परं न विवेचयति । कृतार्थत्वात् । सदृशापरोत्पत्तिविप्रलब्धो वा सद्र्शे/?/ हि
तदेवेदमिति बुद्धिर्यमजे ।539
पूर्वंत्र मायागोलकतदर्थक्रियायामर्थादमात्रमेव540
विवक्षितं ।
यतः परापरतृणादिकारणजातस्य वह्नेरेकताध्यवसायविषयता इन्धनमेव तत्रोपादानं न वह्निः
न खलु वह्नेरेवोत्पद्यते वह्निः (ा) आदावनुत्पत्ति541 प्रसङ्गात् । उपलास्फालनेन प्राग्
वह्नेरभावात । अथवा तत एव वह्नेरुत्पत्तिः । एवं सर्वे पदार्थाः पूर्वसमानजातीयादुत्पद्यन्ते ।
न वा समानजातीयं कारणं । कर्म्माधिपत्यादेवोत्पत्तेः । अत एतदपेक्षया विकल्पः । तच्च
कर्म्मवादिमतेन पूर्वमुक्तं । अन्यमतेन परमिति निर्ण्णयः ।
144
अथवा अतद्भावशङ्काविप्रलब्ध इति व्याख्यातव्यं । न हि तद्भावे शङ्का काचिद्वि
द्यते । सर्वदा सत्तोपलन्धेः । अनुपलम्भे हि तद्भावे शङ्का भवेत् । यदा तु मध्ये अनुपलम्भस्त
दा को वृत्तान्तः । अत्रापि सदृशापरोत्पत्तिविप्रलब्धो लूनपुनर्जातकेशनखादिवत् । मृत
प्रत्यभिज्ञात एकत्वमिति चेत् । न(ा) प्रत्यभिज्ञाया अप्रमाणत्वात् । प्रत्यक्षत्वानुमानत्वा
योगात् । तथा च प्रतिपादयिष्यते । तस्मादान्तरा542
दविद्योपप्लवादागन्तवो मलाः ।
अत एवाह ।
प्रभस्वरमिदं चित्तं प्रकृत्या; (ऽऽगन्तवो मलाः) ।
नित्यत्वविरहितस्यैव तेन ग्रहणादागन्तवो मलाः ।
असद्भूतसमारोपस्यामूलकत्वेन तौतमुद्रामात्रकत्वात् । न परमार्थतो नित्यत्वं क्वचित्
प्रतिभाति । ततो विचारशून्यत्वादागन्तवो मलाः ।
तत्प्रागप्यसमर्थानां पश्चात् शक्तिः क्व तन्मये ।
प्रागप्यसमर्था एव श्रुतचिन्ताकाले यतः(ा) ।
नन्वहेतोरपि मृदुश्रद्धादिकस्यार्हत्वात् प्रहाणिर्भवत्येव । तत्कथमनुत्पत्तिर्दोषाणां ।
यद्यपि चोत्पत्तिर्दोषस्य तथाप्यन्तर्ग्गतबाधकोत्पत्तिसामर्थ्ये शक्तोप्युत्पत्तुं । नात्यन्तं प्ररोदुं
समर्थो मलः । यथा स्यन्दिन्यां भुवि अग्निरुत्पन्नो न प्ररोहति । सात्म्ये तु544
स्थितस्य न दोषो
त्पत्तिः । तथाहि ।
नहि स्वभावो यत्नरहितेन निवर्त्तयितुं शक्यः । यत्नश्च दोषदर्शिनो गुणेषु वर्तते, दोषेषु
च गुणदर्शिनः । न च सात्मीभूतनैरात्म्यदर्शनस्य । दोषेषु गुणदर्शनं । न गुणेषु दोषदर्शनं ।
अदर्शनं वा गुणेषु । नैरात्म्यदर्शन545
स्य निरुपद्रवत्वात् ।
निखिलपदार्थस्वभावपर्यालोचनसमर्थस्य यदि नाम दोषोत्पतिस्तथाप्यसौ सत्त्योऽर्थः ।
प्रहीण इव पथिकः सम्वेगसमागमात्४ मध्यस्थभावे वर्तमानो मार्ग्ग एव यत्नमारभते
गुणपक्षपातात्, नतु दोषेऽभिरमते ।
ननु च रागद्वेषयोर्विपरीताकारत्वेपि नैकस्यैव बाधा । बाधितस्य रागस्य द्वेषेण पुन
र्बाधकत्वदृष्टेः । तथा द्वेषस्य । तथा नैरात्म्यात्मदर्शनयोरपि546 स्यात् । नैतदस्ति यस्मात् ।
145
द्वयोरध्यात्मग्रहकारणत्वात् सत्यात्मग्रहेनात्यन्तमेकस्याप्युच्छेदः । सत्यपि परस्पर
वैपरीत्ये अयुगपद्भावश्च स्यात् । किञ्च(ा) ।
कार्यकारणभावादपि यो हि यत्र विवक्षितो(।) । दुःखहेतौ स पीडितो नियमेन
सुखहेत्वर्थमिच्छति तत्रान्यत्र वा । तेनानयोः कार्यकारणभावः सुखहेतौ अनुगृहीतो नियमेन
तदुपघात इति प्रतिघवान् । अतः कार्यकारणभावात् न बाधा भेदेपि रागप्रतिघयोः । अत एव ।
यद्यपि द्वेषस्य प्रतपक्षो मैत्री(ा) रागस्याशुभा(ा) विहिंसाप्रतिपक्षः करुणा(ा) ईर्ष्या
प्रतिपक्षो मुदिता । सर्वस्य प्रतिपक्षउपेक्षा । तथापि नात्यन्तं दोषनिग्रहः मोहाविरोधात् ।
ननु सत्यपि मोहेऽहङ्कराभावात् सकलदोषप्रहाणमेव ।
नैतत्साधीयः । स एव मोहः सत्कायदर्शनं । क्लिष्टो हि मोहः सत्कायदर्शनमेव ।
नन्वसंप्रख्यानरूपाऽविद्या सत्कायदर्शनन्तु प्रतिपत्तिरूपं तत्कथं सत्कायदर्शनमेवा
विद्येति(ा) न दोषो यतः ।
असंप्रख्यानं हि निरुपधिशेषे निर्वाणे । निरोधसमापत्तौ च मुख्ये । अथ तस्य
क्लेशनिदानत्वं नास्ति । न तर्हि तदविद्यालक्षणं । सत्कायदृष्टिरेव तन्निदानत्वादविद्या
नापरा(ा) यतः ।
न तावद्विद्याभावोऽविद्या तद्भावस्य निर्वाणेपि भावात् । न चाभावो हेतुः । नापि
तदन्यो, रूपादीनामविद्यात्वप्रसङ्गात् । तस्माद्विद्याविरुद्धो धर्मोऽविद्याऽधर्म्मानृतवत् । तच्च
सत्कायदर्शनमेव । तथाहि (ा) परानुग्रहलक्षणो धर्मस्तदभावमात्रं नाधर्मोपि तु तदन्यमात्रं ।
अपितु अनुग्रहविरुद्ध उपघातोऽधर्म्मः । तथा न भूतार्थप्रतिपादनाभावोनृतमपि त्वभूत
प्रतिपादनमसत्त्यवचनं । एवं सति सत्यार्थे यदा भ्रान्त्या नास्तितां मन्यमानोऽस्तीति प्रति
पादयति । तदाऽसत्यता न स्यात् । असति च सत्यतां मन्यमानः तदा मृषा स्यात् ।
नैतदस्ति ।
अध्यवसीयमानवस्तुविषया हि शब्दाः । अध्यवसायानुरूपप्रतिपादनमेव सत्त्यताऽन्यथा547
146
असत्यतेति न्यायः । बोधिसत्त्वानान्तु भ्रान्त्यापि सत्त्वविसम्बादनं परमवद्यं । अत
एव ते सर्वाकारज्ञतायामभियोगिनो भवन्ति । ततः सत्कायदृष्टेरेवाविद्यान्यस्य विद्याप्रतिप
क्षत्वाभावात् । चैत्तत्वेन च कारणेनोपलब्धितः । मिथ्योपलब्धिरेवाविद्या । आश्र548
याल
म्बनाकारकालद्रव्यसमताभिः समं प्रयुक्ताः । इति सम्प्रयुक्ताः उक्तञ्च प्रज्ञाकारविपरीत
प्रतिपत्तिरुपैवाविद्येति । तत्र तत्र सूत्र उक्ताः । तत्र कतमोऽज्ञानविगमो यो यथाभूतानां
धर्माणामध्यारोपाधिगमः । तथा याः काश्चन लोकोपचारोपपत्तयः सर्वास्ता आत्मा
भिनिवेशतो भवन्ति । आत्माभिनिवेशनिगमतो न भवन्ति । नन्वात्माभिनिवेशो दृष्टिः ।
सा चाविद्यासंप्रयुक्ता । ततो दृष्टिद्वारेणाविद्यैवोक्तेति मन्तव्यं । नान्तरीयकत्वात् न तु
सत्कायदृष्टिरेवाविद्येति । नैतदपि साधीयः ।
दृष्टिद्वारेणाविद्यैव निर्दृष्टेति न किञ्चिदत्र प्रमाणं । सत्कायदृष्टिरेव त्वविद्या सर्व
दोषनिदानं इत्युपदर्शितमत्र प्रमाणं ।
ननु सत्कायदृष्टिर्मोहजदेशभूता549 । मोहस्तु सकलक्लेशानुगतोऽसंप्रख्यानलक्षणो
ऽन्यथा वा स कथं सत्कायदृष्टिरुच्यते । विशेषशब्दस्य सामान्यार्थत्वाभावात् । तथा
यद्यविद्यादृष्टिरेव तदा दृष्टिसंप्रयुक्ताऽविद्येति संप्रयुक्तार्थो न स्यात् न स तेनैव संप्रयुक्तः ।
अत्र चोद्ये परिहारः ।
सामान्यविशेषभावेन हि भेदप्रकल्पनया संप्रयुक्तार्थः । तद्यथा पलाशयुक्तं वनमिति ।
परमार्थतः पलाशस्वभावतैव कथिता एवं विशेषाभिधानेन तत्स्वभावोऽविद्यानिदानभूता
प्राधान्येन निर्दिष्टा । यत आत्मदर्शनमविद्या, ततः तन्मूलकाः सर्व एव क्लेशाः । नैरात्म्य
दर्शनात् मूलच्छेदकारिणो मूलच्छेदादुच्छिद्यन्ते । यतः सकलक्लेशविरोधि नैरात्म्यदर्शनं
तच्च योगिनो न व्यपैतीति न पुनः क्लेशोदयः । ततो निःसरणाकारता निरोधस्य कथिता ।
—इत्यन्तरश्लोकौ ।
नन्वात्मभावनादपि भवत्येव मोक्षः । तत् किं नैरात्म्यदर्शनेन । अत्राहागमः । आत्मा . . . . मन्तव्य550 इत्यादिः । तदप्यसत् । यतः ।
147
आत्मदर्शी हि नियमेन आत्मनि शाश्वतेन स्नेहेन सम्बध्यते । स्नेहाच्च तत्सुखेषु तृष्णा
वान् । यस्य यत्र स्नेहः स तत्सुखे परितर्षवान् । यथा पुत्रादिसुखे ।
नन्वात्मदर्शनादात्मनि स्नेहः इत्युक्तं । किं काष्टदर्शनादेः काष्टे स्नेहः स्त्री
दर्शनादेव स्त्रियां । तस्मात् यः पश्यत्यात्मानं तत्र तस्य स्नेह इत्ययुक्तं । नैतदस्ति ।
यस्यान्यत्र स्नेहः तस्यात्मनि न भवतीति कुतः ।
यद्यात्मदर्शनमात्रकेण न स्नेहः स्नेह एव कस्यचिन्न स्यात् अन्यस्य कारणस्याभावात् ।
काष्टञ्च आत्मोपयोगि न पश्यति । तेन न स्नेहः । यस्य चात्मोपयोगिनि स्नेहः
स कथमात्मनि न स्नेहवान् । अथ सत्त्वविशेषादात्मनि स्नेह एव नास्ति । परत्र तु महानु
भावतया करुणातः स्नेहवान् । तदसत् ।
आत्मानं परित्यज्य परोपकारणीकुर्वता स्वार्थं महदप्रेक्षापूर्वकारित्वं आत्मनि प्रकटितं
स्यात् ।
अथ परार्थक्रियैव सुखं । तथा च सति ।
असत्त्यव्यवहारोयमिति चेत नास्त्यसत्त्यता ।।
स्वात्मव्यवस्थितो यथा ध्यानसुखमाकांक्षति तथा गणिकाङ्गसङ्गमसुखमपि । न
खलु सुखस्य तस्यापरस्य वा विशेषः । असत्त्यता तथा स्यादिति चेत् नासत्त्यता विशेषा
भावात् । नरकादिगमनान्न युक्तमिति चेत् । न (ा) महानुभावताविशेषात् परार्थं नरक
गमनाङ्गीकरणं । महती महानुभावतेति तथाभ्यासादसत्त्यव्यवहारोऽन्यश्च सुखहेतुः । ततो
वरं सत्त्यव्यवहारोऽङ्गीकृतः । न विशेषाभावात् । तथा चात्मनि सतृष्णस्तद्वशाद्दोषादोषौ
समीकुर्य्यात् । ततो दोषतिरस्करणे ।
आत्मनि परमार्थतया विद्यमाने यस्तत्रोपकारः सोपि परमार्थः । ततः परमार्थो
पकारी यः स एव गुणवानिति प्रतीयात् । ततो गुणदर्शी ममेति साधनान्युपादत्ते । तेनात्माभि
निवेशात् संसार इति । सुखसाधनं गर्तसूकरीसंस्पर्शमपि प्रार्थयते ।
तस्माद्(ा)
आत्मपरविभागो हि परिग्रहद्वेषौ जनयेत् । ततः परिग्रहद्वेषसंप्रतिबद्धा ईर्ष्यामात्स
र्यादयो दोषा भवन्ति ।
अथापि स्यात् । आत्मन्येव स्नेहो नात्मीये तेनात्मीयस्नेहाभावात् असत्त्यव्यवहारा
भावः । अत्रोच्यते ।
आत्मनि हि स्नेहः प्रवर्तमानो न दोषमन्तरेणापैति । न च स्नेहवान् आत्मनि आत्मीये
निःस्नेहः । तस्मादात्मनि आत्मीये च स्नेहवान् सकलदोषतिरस्करणेन सर्वत्रावृत्तिमानिति
संसारसङ्गम एवास्याविरतः । अथात्मनि आत्मीये च स्नेहस्य संसारहेतुत्वात्, स्नेंहसङ्ग
तस्य च दुष्टत्वात् । आत्मीयस्य न तत्र स्नेहः ।
अन्यदोषदुष्टत्वेपि स्नेहो न क्रियते किं पुनर्यत्र स्नेह एव दुष्टो भवति । तत्राह ।
अन्यदोषेण हि स्नेहो नेति विषयदोषाद्युक्तमेतत् । अदुष्टे तु विषये स्नेहाभावो न
युक्तः । सुखहेतौ नास्ति दोषो गुणस्य भावात् । अथ स्नेह एव दोषः । भवतु किं भविष्यति ।
दुष्टत्वात् स्नेहस्य वर्जनमिति चेत् । नैतदस्ति । विषयदोषमन्तरेण स्नेहपरित्यागा
भावात् । तस्मात् ।
इच्छाद्वेषौ हि गुणदोषदर्शनाद् भवतः, तदभावान्न भवत इति न्यायः । आत्मसुख
साधनञ्च गुणः । तद्दुःखसाधनं दोषः । तच्चेद्विद्यते । नास्तीच्छाद्वेषप्रहाणं ।
अथापि स्यात् । बाह्यं वस्तु गुणवदपि परित्यज्यते ।
तदप्यसत् । बाह्यं वस्तुहि बाह्यकारणाधीनं परित्यज्यते स्नेहात्मदर्शनबलादुपजा
यमानोऽपरापरः कथं परित्यक्तुं शक्यः । विषयस्य हि स्नेहविषयत्वमुपादानञ्च गुणत्वेन तद
भावात् । तत्र स्नेहपरित्यागोऽनुपादानञ्च । स्नेहस्य तु न गुणवत्त्वात् उपादानमपि तु
विषयगुणात् । ततो विषयगुणकारणसद्भावात् कुतः स्नेहस्यानुदयः ।
—इति संग्रहः ।
अपि च ।
आत्मा हि प्रथमं दुःखसमाश्रयः । आत्मनि सति पश्चात् स्नेहो दुःखस्य कारणं ।
अत्माभावे तु कस्य दुःखं । तत उभयस्यापि दुःखहेतुत्वात् द्वयोरपि न विरागो न वैकत्रापि ।
अथापि स्याद्(ा) आत्म नि दुःखहेतुत्वं परोपाधिकं न तस्यापि स्वगतो दोषः । आत्म
स्नेहधर्माधर्म्मसंस्कारसहायः आत्मा दुःखहेतुरत्राह ।
नखल्वनिर्दोषे वैराग्यं कस्यचित् न चात्मस्नेहोदय आत्मानमाश्रयमन्तरेण५ दुःख
हेतवोऽतो न तेप्यात्मवत् सदोषाः । अतो न वैराग्यसम्भवः ।
ननु सुखहेतुत्वं स्नेहस्य ।553 हेतुतस्तद्विपर्ययसम्भवाद् वैराग्यं । न खल्वपकारिणि स्नेहः ।
अत्रोच्यते । नात्मीयबुद्धिविषये दुःखहेतावपि स्नेहविगमो दृष्टः । तस्मादात्मीय
बुद्धिपरित्यागे वैराग्यं । आत्मीयबुद्धेरेव परित्याग इति चेत् । नोपभोगाश्रयत्वेन प्रतिपन्नेषु
शरीरादिषु कस्यचित्554 आत्मीयबुद्धिविगमः । तथा हि देवः स्यां नागः स्यामिति विशिष्टं
शरीरादि मम स्यादिति तेष्वात्मीयबुद्धिं विधत्ते । तत एवंभूतबुद्धिमानेव कथं विरक्तः । तथाहि ।
यदाहि555 केशादिषूपभोगविषयता तदा सस्पृहतात्मीयबुद्धिजन्मिका । यदा तु विपर्ययः
तदा वैराग्यं सस्पृहताविगमस्वभावं नान्यथेति विभागः ।
किञ्च । वै शे षि का दीनां ।
सुखादिना समवायसम्बन्धः । शरीरेण संयोगः । शरीराश्रितै रूपादिभिः संयुक्तसम
वायः (ा) रूपत्वादिभिः समवेतसमवायः । श्रोत्रेन्द्रियेण संयोगः (ा) चक्षुरादिना सांयोगि
संयोगः । इत्यात्मसम्बन्धो न व्यपैति । ततो दोषदर्शनेपि न हीयते तेषु स्नेहः । अथ
समवायादिसम्बन्धं नाङ्गीकुर्य्यात् । तत्रापि परिहारः ।
उपकारप्रभावितो हि सर्वत्र स्नेहः । तेन कुतो वैराग्यादयः ।
अथ परः प्रत्यवतिष्ठेत ।
यथा तद् दुःखं तथा सुखमपि । सविषान्नवत् । नहि सविषमन्नं दुःखमेव । सुख
त्वस्यापि सम्भवात् । तथा गर्तसूकरादिशरीरं दुःखमपि सुखमेव । कथञ्चिदतो न परि
150
त्यागविषयः इन्द्रियादिः । ननु तादृशं दुःखसम्मिश्रं दुःखमेव । एवं तर्हि सुखसङ्गतं सुखमेव
इति प्राप्तं । किञ्च (ा) ।
यदि विशिष्टं सुखं लभ्येत स्यादन्यथा वैराग्यं । न चाविवेकिनो विशिष्टसुखतृष्णा
विवेकाभावादेव । विवेको भविष्यतीति चेत् । विवेक एव तर्हि दुःखहेतुरिति विवेक एव
वैराग्यं स्यात् । अथ विवेकोऽवश्यमेव हेतुबलादेवं तर्हि नैरात्म्यावबोधतोपि विवेकवतोऽनि
वार्य्य एवेति नात्मदर्शनान्मोक्षः । आत्मभावना त्वसम्भविनी ।
बुद्धिसुखदुःखेत्यादिसमाश्रयो ह्यसावात्मा । भाव्यमानोप्यसौ तादृश एव भवेत् । अथ
पुरुषकाराश्रयाद् दोषरहितोऽसौ क्रियेत । तदसत् ।
अत एवाह ।
यस्यात्मा वल्लभः तस्य स नाशं कथमिच्छति ।
भिन्नमात्मस्वरूपञ्चेत् न वेत्यात्मा स्ववित् कथं ।
अथासम्वेदनस्यास्य वेदनं घटरूपवत् ।
रसादीनां हि भोग्यत्वे भोक्तृता नोपलभ्यते ।
तस्मात् स्वसम्वेदनरूप एवात्मा उपशान्तो556 ऽन्यथा तस्याभावप्रसङ्गात् । स च सुखादि
सम्वेदनस्वभावो यद्यन्यथा भवेत् नाश एवास्य स्यात् (ा) यस्य चात्मा वल्लाभः स तस्य नाशं
कथमिच्छेत् ।
अवस्थास्तस्य नाशिन्यो नावस्थातेति557 चेन्मतं । तद्रूपव्यतिरेकेण नावस्थातोपलभ्यते ।। ८१२ ।।
अथापि स्यात् (ा) सम्विद्रूपता न विनश्यत्येव । सुखादीनामेव विनाशः । नैतदस्ति ।
तथा च ।
यद्यपि नाम कूटस्थनित्यतया नोत्तरोत्तरोपलम्भस्तथापि तस्य नित्यताऽविकारितैव ।
तथा क्रमाभावेन चोपलम्भस्य ।558 तस्माद्यदि क्रमभाव्युपलम्भस्तस्य त्रुट्यत्तयो559
पलम्भनाश एव प्रसक्तः । एवं च क्रमोपलम्भेच्छायां नाशेच्छैव प्रसक्ता । ततश्च ।
यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति ।
अनुपलम्भं कथमिच्छतीति चेत् । मृताद्वरं दुर्बलता । वल्लभत्वेस्य जीवितं वरमस्तु
न मृद्दृष्टिः560 जीवितस्योपरोधिनी । नन्वदृष्टेन तेन किं कर्तव्यमिति । पुनर्दर्शनमेषि
तव्यं । तथा च सति क्रमभावित्वे स एव विनाशः । अयमपरोऽस्त्येवात्मवादिनो दोषः ।
अथवा समानरूपोपलम्भाद् एकता पूर्वापरयोर्युक्ता । भिन्नरूपोपलम्भे तु भिन्नतैव स्पष्टा(ा)तथा
च सति पूर्वकस्य विनाशः । एवं च यस्यात्मा वल्लभस्तस्य विनाशं कथमिच्छति ।
अथवा बोधरूपतया आत्मा सर्व एक एव । सतु पुनरुपाधिभेदाद् भेदमाश्रयते । यथाकाशस्य
एकत्वे घटाकाशं पटाकाशमिति भेदावभासः । तस्मादात्मनामविद्याकृत एव भेदः । यद्येवं ।
यदि घटाकाशं घटाभावे न भवति यथा तथाऽविद्याभावे न भवेत् प्राणी (ा)
तथा सति घटाकाशाभावे सत्यन्येन सहैकमाकाशं जातमिति । आकाशविभागाभाववदात्म
152
विभागोपि न स्यादिति न स्वपरविभाग इति विनष्ट एवात्मा स्यादहमिति । परव्यवच्छेदेना
त्मत्वात् । आकाशतामुपगतस्य न क्रियाभोगादय इति नाकाशाद्विशेषः । ततो यद्यात्मा
वल्लभस्तस्य स नाशं कथमिच्छति । वस्तुबलादिदमायातमिति चेत् । नैरात्म्यमेव तर्हि
प्रसक्तं ।
अथापरघटादिरूपेणासौ व्यवस्थितः तथा सति सुतरामेव संसारी देवदत्तादिरूपेणापि
व्यवस्थानात् तस्मान्मुक्तत्वे सत्यभाव एव तस्याकाशवदिति । न च तादृशां मोक्षेण किञ्चित्
प्रयोजनमित्यहो महत्प्रेक्षापूर्वकारित्वं योगिनां ।
अथ परमार्थतो नात्मा क्रियाभोगाद्याश्रयस्तत्वं । तस्याविद्यावशादेव तथा स्नेहा
दयः । अत्र परिहार उच्यते ।
सर्वव्यवहारातीताद्यात्मोपलम्भतूलावलम्बि561
गगनात्मैवाऽतो यस्य यत्र प्रेमासौ न तं
तादृशमिच्छति । प्रेम्णः प्रकृतिरेवैतादृशी न भवति । भवन्ती वाऽप्रेक्षापूर्वकारितां परिदी
पयेत् । तद्वरं संसार एव प्रार्थितः । संसारसुखस्यापरितोषजनकत्वादिति चेत् । उच्यते ।
नहि सुखमप्रार्थनीयं नाम किञ्िचदस्ति । ततः सकलसुखसम्पदासीनस्यापि ततः परं
सुखातिशयवाञ्छा विद्यत एव । तदेव सुखं पुनः पुनः प्रार्थयत इति नाप्रार्थनं562 चित्तमस्यास्ति ।
प्रार्थना च नाम तृष्णा३ऽपरव्यपदेशा । महदेतन्महतां दुःखं, ततः सर्वं सुखमपरितोषजनक
मेव । ततः सुखी न कश्चिदपि परिनिर्वृतः । यतः पर्यायेण सकलसुखाकांक्षैवास्य भवति ।
ततः दृष्ट्वा वानुपादानं ततः सुखस्य कर्मोपचिनोतीति संसार एवानेन स्थातव्यं(ा) ।
ननु वैराग्यमपि दृश्यत एव न नाम न दृश्यते । तत्तु सुखाशयैव यतः परिखिन्नः । तदु
पायान्वेषणप्रयासेन दुःखमेव मन्यमानः सुखाभिमुखः प्रकारान्तराभिलाषी वैराग्यमभिमुखी
करोति नत्वात्मनि निस्नेहः । अत एवाह ।
अयमत्र परमार्थः ।
नन्वात्मग्रहमेवायं परित्यज्य दोषपरिहाराय वर्त्तिष्यते । ततः कथमात्मीय
स्नेहादयः । उच्यते । यद्यात्मग्रह एवास्य नास्ति दोषनिराक्रिया किमर्थं । नह्यनर्थित्वे
किञ्चित् कर्तुं प्रवर्तते ।
परार्थकरणेच्छायां सुखिनं तं यदीच्छति । परेण क्रियतामेव563 रुचावात्मग्रहः पुनः ।। ८२९ ।।
तस्माद् (ा)
यस्य नामात्मग्रहः स यत्किञ्चित् आत्मोपकारिणं गुणलेशमाश्रित्य तत्राभिमुखीभूत
आत्मीये वैराग्यं प्रतिबध्नात्येव दोषदर्षी (ा) नैवमिति चेत् न दोषदर्शनस्यैव तेनगुण दर्शनेन
प्रतिबन्धात् । तस्मादात्मन्यविरक्तो विरक्त एवात्मीये ।।
स्यादेतद् (ा) आत्मानं परित्यक्तुमसमर्थः । नहि स एव तेन लक्ष्यते । तथाहि
यथास्ति न तथा त्यागो यथा नास्ति तेन नात्मपरित्यागः रागस्य केवलः । ततो
रागिता परित्यागात् सदैव सुखी । अत्रोच्यते ।
यदि चात्मनि विरागः कस्य स विरागः । नेदानीमस्ति यो विरज्यते । अन्योह्यन्य
स्तत्र विरक्तः भवति । स एव चेदविरक्तस्वभावः स न विरक्तो भवति । अत्रोच्यते ।
तस्मादात्मैव तेन परित्यक्तव्यो यथा त्यजत्यसावात्मानं तथा व्यर्था दुःखभावना ।
येनाप्याकारेण न परित्यजति तथापि व्यर्था दुःखभावना वैराग्यं कर्तुमशक्यत्वात् । अथवा ।
यत्र त्यजत्यसौ तं यथात्मानमतोऽभावत् त्यागस्य व्यर्थदुःखभावना । न दुःखभावनार्था
त्यागात् समर्था । न खलु विरागस्यास्य कारणं । यथात्मनस्तथात्मीयस्यापि । ततो
न तादृशा विरागेण मुक्तो भवति । इतोपि व्यर्था दुःखभावना । यतः ।
यदि दुःखभावना विरागाय स्यात् युक्तं । यदा साविष्येत, न चासौ विरागाय । दुःख
भावना हि दुःखसाक्षात्करणहेतुरेव । नान्यथासौ विरागाय । भावनाविभावितदुःख
सन्तानो विरागी यथा स्यात् न चैवं । यतः पूर्वमिति तद् दुःखं प्रत्यक्षमेव । प्रत्यक्षपूर्वकनिश्चय
सम्भवात् । अन्यथा न संसारपरित्यागार्थी भवेत् । नह्य साक्षात्कृतं दुःख पीडयति ।
न च तथापि विरागः । ततो व्यर्थिका दुःखभावना । प्रियविप्रयोगादिदुःखं हि सकललोकस्य
प्रत्यक्षं तदा चेदविरक्तो दुःखभावनया कथं विरागो भवेत् ।
ननु दुःखभावना सकलस्य दुःखस्य स्मरणसंकलने भवन्ती महतीं दुःखसंहतिं विभावयति ।
ततो विरागितेति चेत् । तत उद्वेगात् विरागः स्यात् । नैतदस्ति । यस्मात् ।
यथा दुःखसन्तानं विभाव्य विरागस्तथा विपर्ययात् सरागोपीति कथं मुक्तिः ।
ननु प्रशमसुखस्यान्नो (?) द्वेजनात् न संसारसुखसतृष्णः (ा) तदप्यसत् । यतः ।
ननु दृश्यत एव । प्रीतिहेतौ दोषदर्शनाद्वैराग्यं । तत् कथं दोषदर्शनेपि दुःख
भावनया न विरक्तः । नैतद्यतः ।
यद्यपि क्वचिदपराधकारिणि जनें विरक्तिः क्षणं तथाप्यसौ न सर्वथा विरक्तिः । न
खलु कामी क्वचित् कामिन्यां विरक्तस्तथापि वनितान्तरेऽविरक्त एव तत्र च पर्यायेण ।
तथाहि । रागविरोध्यवस्थानादेवासौ विरक्तस्तदविरोध्यवस्थात (:) जनो पुनरविरक्त
एव । तस्माद्रागशक्तिसंङ्गतः एवासौ विरक्तः, नतु सर्वथा । पुनस्तत्रैव रागदर्शनात् ।
अत एवोक्तं । तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया । तस्मादस्य ।
यस्य हि हेयोपादेयविभागस्तस्येच्छाद्वेषौ । न सर्वंः/?/ सर्वदा हेयो नाप्युपादेयः ।
पर्यायेणेच्छाद्वेषौ परस्परबीजकौ पर्यायेणास्य भवत एवेति कथमात्मधी (?)युक्तः565 । नैरात्म्य
दर्शिनः पुनः सर्वत्रोपेक्षा हेयोपादेयविभागस्ततः सकलसक्तिनिर्मूलने व्यवस्थितस्य कुतो
रागादिसम्भवः । अपि च । विरागभाविरूपे वस्तुनि भवेन्नान्यथा न चात्मदर्शिनिः क्वचिद्वि
रूपता । न तावदस्य आत्मा सदोषः । तत्र स्नेहोपि निर्दोषविषयत्वाददोषः । उपलब्धि
साधनान्यपि निर्दोषाणि । एतावदेव सकलं जगत् क्वेदानीं स विरज्यते ।
—इति संग्रहः
155अथापि स्यात् ।
ननु विषयस्य सदोषतापि दृश्यते शरीरादेश्च । ननु का तेषां सुखहेतूनां सदोषता
दुखहेतुता । ननु पर्यायेण सर्वस्य सुखहेतुता कदाचति् दुःखहेतुता चेत् । नन्वात्मन्यपि सा
समानैव । तत्र चेदात्मनि तद्दोष एवाविरक्तः । क्व विरागवान् भवेत् । आत्मा परित्यक्तुमशक्य
इति चेत् । आत्मीयेपि न विरागः । दोषाँस्त्यक्तुं शक्यत्वाच्चात्मीयस्यैव त्याग इत्यपि मिथ्या ।
यदा यदा यस्य दोषस्तदा तस्य त्यागो न सर्वदा । यथा दोषाणां त्यागः तथा दोषानित्यतया
त्यागानित्यतापि । सुखहेतावपरित्यक्ते पश्चादभावे महद् दुःखमिति चेत् तस्मात् मूलत एव
परित्यागो युक्तः । एवं तर्हि दुःखेपि सति तदनन्तरं महत् सुखं भवतीति दुखमप्युपादातव्यं ।
तस्मान्न क्वचिद्विरागोस्त्यात्मदर्शिनः । अपि च ।
तथा ।
न गुणदर्शनादिन्द्रियादौ स्नेहः, अपि त्वात्मीयदृष्टेः ; तथाहि दोषवत्यपि आत्मीयतया
परिगृहीते स्नेहस्य भावात् इन्द्रियादौ गुणवत्यपि परत्राभावात् बालपश्वादीनां चापरिकलित
गुणदोषाणां भावात् । आत्मीयेपि च व्यतीते अभावादनागते च । तस्मान्न दोषदर्शनान्निवर्तते
स्नेहः । एवं तर्हि दोषदर्शनादात्मीयबुद्धिरेव न भविष्यति । तद्भावाच्च स्नेहः । गुण
दर्शनसम्भूतस्य आत्मीयदर्शनस्य दोषदर्शनेनापाकरणात् । न किञ्चदेतत् । यतः ।
दोषवत्यपि क्वचिदात्मीयबृद्धेर्भावात् । गुणवत्यपि चाभावात् व्यतीतादौ चेति ।
स्नेहो हि नामापि दोषदर्शनेन हीयेत यदि तावता । यावता स्नेहेन तदेव दोषदर्शन
मपाक्रियते सद्गुणारोपविधायिना । मध्यस्थतया चेतसो दोषदर्शनमनारोपश्च गुणाना
मिति चेत् । न (ा) स्नेहेन स एव मध्यस्थभावो न लभ्यते । विषयान्तरे स्नेहान्तरेण यदि
परमसौ बाध्यते नान्यथा । तथा च ।
तस्मान्न दुःखभावनया स्नेहपरित्यागतो मुक्तिरात्मदर्शिनः ।
156अत्र सां ख्याः प्राहुः । नात्मदर्शिनां दुःखभावनासम्भवत्यपि तु प्रकृतिपुरुषान्तर
परिज्ञानतो मुक्तिः । तथाहि ।
प्रकृतिः सुखादिस्वभावायाः विवेकेनाग्रहणादमुक्तिरात्मनः । ततः केवलज्ञानोदय
एवमुक्तिरात्मनः । तदप्यसत् । यतः ।
हाम्युदयदर्शनमेव भेद(द)र्शनम् (ा) अन्वयव्यतिरेकभावतो हि भेदः । आत्मा
न्वयी सुखादयो नान्वयिनः । ततो विरुद्धधर्म्माध्यासाद्भेद इति । अथैतदेव न पर्यालोचयति
संसारी । तथा सत्यमुक्तिरेव । विवेकाध्यवसायस्यासम्भवात् । न खलु सुखार्थी तस्य
हानावाद्रियते । सुखादिरहितेनात्मना न कश्चिदर्थी प्रेक्षावान् । केवलस्यार्थिनः संसर्ग्गात्
प्राक् न संसारः प्रधानेन सह एकतामात्मनि पश्यतः स इति चेत् । तदसत् ।
ननु दुःखसंवेदनाद् दृश्यत एव निर्वेदः स कथमन्यथा क्रियेत । अत्राह ।
यतः ।
दुःखसंवेदनोद्विग्नोपि न वैराग्ययोगी स्नेहेनैव ह्यसावात्मन्यात्मीये च प्रतिकूलदर्शनात्
विद्वेषवानेव हि तदा । अशुभादिवस्तुप्रत्ययमात्रमेतत् । वैराग्यस्य पारमार्थिकस्यात्म
दर्शिनस्तु स्नेहादमुक्तिरेवावस्थान्तरप्रार्थनातो द्वेष एव सर्वदा भावी तत्र तु वैराग्यं(ा)
नैतदस्ति ।
ननूद्वेगमन्तरेण कथं मुक्तिः
तदसत् ।
तत एव च ।
धर्मतामात्रदर्शनेन हि ममतामवाप्यते चेतसो(ा)ननु नय569
प्रतिधप्रहाणेन वैराग्ययोगि
तायोगिनामस्मत्पक्षे नान्यथा(ा) कथं तर्हि दुःखभावनोक्ता भगवता । अत्र प्रतिवचनं ।
न खलु दुःखदुःखतामात्रमभिसन्धाय दुःखभावनोक्ता । रागिनां हि तावन्मात्रेण
वैराग्यसुखभङ्गे सति पक्षपातपरित्यागात् संसारदुःखभावना योग्यता यथास्यादिति तूक्ता ।।
सा च संस्कारदुःखता शून्यतैव परमार्थतः । ततः शून्यता दृष्टेरेव मुक्तिः ।
शेषास्तु भावनास्तदर्था एव । अत एव नैरात्म्यदर्शनावसाना भगवतो देशना ।
यदाह । रुपं भिक्षवो नित्यमनित्यम्वा । अनित्यं भदन्त । यदनित्यं तद् दुःखं सुखम्वा ।
दुःखं भदन्त । यदनित्यं तद् दुःखं विपरिणामधर्म्मकं कल्प्यन्तु तदेवं द्रष्टुं एतन्मम, एषोऽहमस्मि
एष ममात्मेति । नो हीदं भदन्त इत्ये571 वं हेतुफलभावेनानात्मदर्शनमेव मुक्तेरुपाय इति कथितं
भवति । यः पुनरात्मदर्शी सोऽविरक्त एव ।
आत्मदर्शनबीजे हि व्यवस्थिते आत्मीयदर्शनमनुपहतं संसारहेतुः । तत आत्मनि
आत्मीये चाविरक्तो नियमेन तृष्णावांस्ततः सर्वकर्म्मारम्भसमाश्रितः । क्लेशकर्म्मभ्याममुक्तः
संसार्प्येवासाविति कुतः तस्य मुक्तिगन्धोपि ।
अथापि स्यात्(ा) अत्मीयमेव परमार्थतो नास्ति । तेन कुतः स्नेहसम्भवः(ा)स्नेहो हि
नाम विषये भवति । न निर्विषयः । तदप्यसत् ।
158
दृश्यमानमात्मीयं कथमिव शक्यं नास्तीति प्रतिपादयितुं । अविद्यानिबन्धनत्वात्
सर्वस्येति चेत् । ना अविद्याया आत्मव्यतिरेकेणाभावात् । नाविद्या पुरुषादन्या पुरुष एवेदं
सर्वमिति572
वचनात्(ा)ततोऽविद्यास्वभावत्वात् अस्य भ्रान्तता न कदाचिदपेयात्(ा)नहि
तदात्मभूता भ्रान्तिस्ततोऽपैति । तस्यैवापायप्रसङ्गात् ।
प्रतिक्षिप्तश्चस्या द्वा दः । किञ्च आत्मीये असति क्रियाभोगौ न स्तः क्रियाभोगा
त्मकत्वादात्मनः । अथ परमार्थत एतदपि नेष्यत एवेति चेत् । आत्मनोपि परार्थत्वे कोऽव
ष्टम्भः । सम्वेदनेन तस्य परिच्छेदादिति चेत् सर्वसम्वेदनप्रसङ्गः । अभ्यासात्स्वप्नादिवदसत्त्व
मिति । न युक्तमात्मनोपि न पारमार्थिकत्वं अथाद्वैतं । तदा चित्राद्वैतमिति । नात्मा
नामास्ति, नित्यत्वस्य प्रत्युत्पन्नस्वभावमात्रग्रहिणा प्रत्यक्षेणाग्रहणात्(ा) पूर्वापरप्रत्यक्षयो
र्युगपदभावात् । एकैकेन नित्यतात्मनः । अथपरमार्थ एतदपि नेष्यत एवेति चित् प्रतीतिः573 ।
न च संघटनं स्मृतेरप्रमाणत्वात् । प्रत्यक्षाभावेऽनुमानाभा(वा)च्चेति । ततो नात्मदर्शना
त्समीहितार्थसिद्धिः ।
नैरात्म्यदर्शनादेव मोक्षो नान्या गतिः प्रामाणिकीत्युपसंहारः ।
नन्वागमादात्मास्तित्वं तस्य च मोक्षः । स च मोक्ष एकान्तसुखरूपो न कदाचि
त्तस्याभावः । संसारसुखं तु विच्छेदवदिति न ततः परितोषः । स च दीक्षादिविधेरित्यचोद्यमेव
पूर्वकं सकलं । तथा चोक्तं ।
अपौरुषेयं वा वचनमिति । तदप्ययुक्तं ।
सत्त्यमेतदनीन्द्रियदर्शिनां वचनमनुमानेम बाध्यते । तदेव तु तत्प्रयुक्तत्वं वचनस्य
न गम्यते । सर्वागमसाधारणत्वादस्य । न च सर्वागमप्रमाणत्वं । न तदर्थानुष्टानसम्भवः ।
अपौरुषेयत्वन्तु न युक्तमित्युक्तं ।
ननु बीजादीनामप्ररोहणधर्म्मता दीक्षाविधिसंसर्ग्गादुपलब्धा । तदप्ययुक्तं ।
159
अथ तैलाभ्यङ्गस्य तावन्मात्रमेव सामर्थ्यं एवं सति दीक्षायामपि समानं । तथा(ा)
यदि नाम दीक्षितस्य सतः प्राग् गुरोर्ल्लाघवं भवतु । न तावता पापापहारः । लाघवं
हि गौरवविरोध्युपलभ्यमानं गुरुत्वाभावमेव गमयति न पापाभावं । पापस्य गौरवा
भावात् । पापेनैवासौ गुरुरिति चेत् । कुत एतद्(ा)आगमादिति चेत्(ा)उक्तमत्र । अपि च ।
ननु भवत्पक्षेपितृष्णाच्छेदो यदि नाम नैरात्म्यभावनातः, मुक्तिस्तु कथमिति चिन्त्यमेव ।
तदपि न यथावत् । तथाहि ।
यतः ।
तृष्णावशादेव देशादिसंप्राप्तिरुपलभ्यते ।
ननु जन्मनः कर्म्मापि कारणं ततः कथं तन्मात्रभावः । तदप्यसत् । ते एव चेतने स्वयं
कर्म्म । यत्पूर्वकं चेतनालक्षणं । दानादिकर्म्मतत्संस्कारादन्त्ये जन्मान्तरभाविनी चेतने ।
मिथ्याज्ञानतद्भूततर्षसंचेतने । त एव साक्षात्कर्म्म तदनन्तरभावित्वात् जन्मनः । पूर्वकन्तु
तत्कारणत्वात् उपचारात्कर्म्म न साक्षात् स्वतः संपूर्ण्णजन्मकारणं(ा) दीक्षितस्यापि तदस्तीति
न मुक्तिः ।
अथापि स्यात् ।
दशविधं कुशलमकुशलमपि दशविधमेव न चेतनालक्षणं । तस्य च दीक्षादिना विधानेन
नाश इति । तदप्यसद्(ा) अर्थस्यासिद्धत्वात् । अपि च ।
बुद्धेरन्वयव्यतिरेकावनुविधीयमा(ना)नि करणानि चक्षुरादीनि तानि बुद्ध्या विधी
160
यमानानि सन्ति परम्परयोत्पद्यन्ते । ततः कस्मान्न जन्म । अथ दीक्षयोपघातान्न जन्मनि
सामर्थ्यमेवं सति ।
बुद्ध्यादयो ह्यात्मगुणा यदि दीक्षयोपहताऽनलं जन्मनि सामर्थ्यभाजः । तदा दीक्षानन्तरमेव
बुद्धिरुपहता सती धारणं स्वेच्छावृत्तिर्विषयेषु निवर्त्तनं प्रेरणमभिमते क्षोभो विसंस्ठुलत्वं । निरोधो
विनाशः । एते न स्युः । अथ मरणानन्तरमसामर्थ्यं परिणतिविशेषापेक्षत्वात्कारणानां ।
तदप्ययुक्तं ।
इदानीमेव यदि सामर्थ्यं लेशतः प्रतीयते तत उत्कर्षलाभादपरमपि स्यादिति
स्याद्(ा) यदा त्वनुगम एव तारतम्यभागी नोपलब्धः । तदा निर्निंबन्धनमेव मुक्तिपरि
कल्पनं । अथेदानीं बुद्धिसद्भवात् रागादयोस्य समानस्वभावा भवन्ति । मरणानन्तरन्तु
बुद्धेरभावादेव संसारधर्माभावः ।
तदप्यसत् । बुद्धिरेव जन्मान्तरे नास्तीति कुतः । मरणादिति चेत् । व्यर्थता दीक्षा
विधेः सर्वस्य मरणे बुद्ध्यभावे सति मुक्तेः ।
रागादयो हि मला बुद्धेः सन्तो न हेतवः सन्तीति न बुद्धेरभावः । अथोपहतारागादयो
दीक्षया न समर्थास्तदा जीवतो बुद्धेः प्रतिसन्धिहेतवो न स्युः । ततो दीक्षानन्तरमेव मुक्तिः
स्यात् । अस्त्येवेति चेत् । तन्न ।
दोषा हि स्वबीजभाविनः कुत एतत् । निर्ह्रासादतिशयाच्च प्रतिपक्षस्य नैरात्म्यस्य पुष्टौ
निर्ह्रासात् । स्वपक्षस्यायोनिशोमनस्कारस्यातिशयात् । एवंभूताश्च दोषा दीक्षितेपि अनि
वारिताः । इह जन्मनि अन्यत्र च तत् कथमसौ मुक्तः ।
ननु नैरात्मदर्शनञ्चेत् कस्यासौ मुक्तिः । आत्माहि रागादिमलोपहतः शुद्धो यदा
कुतश्चिद् भवेत् तदा मुक्तः । बन्धविगमोहि मुक्तिः । नैरात्म्यदर्शने च यो बन्धः स बन्ध एव ।
न स एव मुक्तो नित्यतयात्मदर्शनभावात् । तदप्यसत् ।
तत्रास्मत्पक्षे वाचोयुक्तिमात्रमेव न घटते । तच्च दृष्टान्तेन समाहितं । आत्म
वादे तु अर्थ एव न घटते । वाचोयुक्तिमात्रेण तु घटते । नापि न किञ्चित् प्रधानस्य वस्तुनो
विघटनात् न चात्र दृष्टान्तोस्ति । यतः ।
अवस्थाभेदे ह्यात्मनः मुक्तता । अशुद्धावस्थस्य सतः शुद्धिसम्भवे । न क्रमेणा
वस्थानां कार्यतात्मनो निरपेक्षस्य युगपदेवावस्थाभावित्वप्रसङगादिति प्रदेशान्तरे निर्णयात् ।
अपि च । क्रिया विरूध्यते कियाक्रियावस्थयोः सदृशत्वात्
तादात्म्ये सति हेतुफलयोरैक्यं प्रसक्तं । एकात्मान्तर्ग्गतत्वात् तदात्मवत् । भेदे
तयोर्हेतुफलयोर्नासौ कर्त्ता न भोक्ता । करणभोगसम्बन्धाभावात् । अपरात्मवत् अनुभव
तोपि न सम्बन्धः । आत्मान्तरवदेव योगी परात्मकरणभोगसाक्षात्करणात् कर्त्ता भोक्ता
च स्यात् । अथ समवायसम्बन्धा एवं न समवायस्याभावादेव न च योगिनामपि समवायाद्
एकत्वबुद्धिहेतुः । अथ कार्यकारणभावात् कारणफलाभ्यां कर्त्ता भोक्ता चासौ भवेत् ।
तदप्ययुक्तं । सामर्थ्यञ्च न सिध्यति । न नित्यस्य सामर्थ्यमस्तीति प्रतिपादितं ।
नैरात्म्येपि तर्हि स्मरणभोगादयो न सिध्यन्ति । तन्न ।
न कस्यचित् स्मरणं स्मर्त्तुः तदभावादेव । नापि भोगो भोक्त्रभावादपि तु स्मरणमेव ।
तदेव स्मर्तृस्मरणविषय एवं भोगेपि वाच्यं सुखमेव भोग्यं भोगो भोक्ता च तच्च स्मरणं
हेतोरनुभवादुत्पद्यते । नन्वन्यतोप्यनुभवात् परकीयाभिमतात् कस्मान्नोत्पत्तिमत् । परकर्म्मणोपि
च भोगः । कार्यकारणभावनियमात् आत्मवादेपि वा कस्मान्न भवत्येष दोषः । आत्मनो भेदात्
स एव भेदः कुतः ।
नन्वसत्येकस्मिन्नात्मनि ।
आत्मापि केन प्रमाणेन स्मरणं दर्शनञ्चैकाधिष्ठानतया वेत्ति । प्रत्यक्षेणेति चेत् ।
कथन्तर्हि आत्मानमन्तरेण संसारप्रवर्तनं । आत्मानमन्तरेण सत्कायदर्शनस्याभावात् ।
स्मरणमपि पूर्वापररूपविरहादेकता नित्यानित्यतयोर्न ग्रहण समर्थमतः संसाराभाव एव ।
उक्तमत्र । न परमार्थतः संसारो नामास्ति स्वरूपस्य स्वतो गतिरिति वचनात् ।
तथापि व्यवहारत एतदेवं भवति । तथाहि ।
अभूतारोप एव खलु संसारो न परमार्थतः संसारः । अभूताश्च षोडशाकारास्तदारो
पात्परितर्षवतः कर्म्मसंसरणाभिमानोऽन्यथा न संसारस्य सम्भवः । अभिमानोपि न कश्चि
त्परापरसंवेदन576
व्यतिरिक्तोऽतोऽवेदनेप्येकत्वस्यात्मनश्च वेदनाभिमानः । तेनैवम्भूतत्वे न
योनिशोमनसिकारसम्भवेनात्र किञ्चिदिति । परामर्शंवतः स्थिरत्वेभ्यासतो नैरात्म्यस्य
विशुद्धत्वमिति सकलाविद्याविनिवृत्तिलक्षणं निर्वाणापरनामकं साक्षात्करणविषयः । तस्मात्त
त्त्वदर्शिनां तृष्णाविनिवृत्तितो मोक्षः ।
ननु कर्म्मणि देहे च स्थिते कथं मोक्षः । नैतदस्ति यतः ।
एवन्तर्हि कर्म्मदेहयोरगप्येन्यतरस्य क्षये भवत्येव मोक्षो यथाहुः । कर्म्मक्षयान्मोक्ष इति ।
न सदेतत् । यतः ।
न हि तृष्णानिवर्तनमन्तरेणापरो विपक्षः कर्म्मदेहयोः । दीक्षादिविषया व्याख्याताः ।
आगमो न प्रमाणमिति । न च तृष्णासंगतःकर्म्म न करोति । रागद्वेषादयो हि ततोऽनायासत
एव भवन्ति577 । द्वयक्षये च वरं तृष्णैव विनिवर्त्तिता । कर्म्मापि क्षपयितव्यमेवेति चेत्
नासम्भवात् प्रतिपक्षस्येत्युक्तं । यतः ।
अनेकफलदान578
सामर्थ्यमभिमुखमादधाने कर्म्मण्यात्मनि कथमेकाकारफलोपभोग
मात्रतः परिणहनः (ा) परिक्षयः579 । एकाकारञ्च तापसंक्लेशलक्षणफलं ततो न परिक्षयो
युक्तः । यतः ।
येन हि कर्म्मणा तज्जातीयमेवफलमुपजनयितव्यं । तस्य फललेशानुभवात् तत्कर्म्म
जमेव । फलमवहीयते फलानुभवेन । न तद्विलक्षणफलापचयः ।
यदि तपसः शक्तिरस्ति तदाऽशेषमे580
वाक्लेशात् लेशनः चैकलोमोत्पाटात्581
परिहीयते
फलं । तत्राप्युच्यते ।
यदि क्लेशादपलं तत्तपस्तदा582
तत एव कर्म्मक्षयः किं पञ्चतप आदि583
क्लेशेन ।
तत एव परिहीयतामशेषं कर्म्म । न खल्वन्येन कृते नान्यस्य सामर्थ्यावगतिः । न च क्लेश एव
तपस्तस्य कर्म्मफलत्वात् । न च कर्म्मफलमेव तपः । शीतातपसेविनां पश्वादीनामपि
तापसत्वप्रसङ्गात् । अथ नैतत् कर्म्मफलमिच्छया प्रवर्तनात् । कर्म्मफलन्तु तदिच्छाविर
हितस्यापि । तदप्ययुक्तं ।
इच्छया राज्यलाभादि भवेत् कर्म्मफलं न किम् ।
यदि च तत्कर्मफलं न स्यात् कथं तर्हि फलोपभोगतः कर्म्मक्षय इति भवतोच्यते ।
तस्मात् कर्म्म फलमेवैतत् । ततश्च पापस्यैव क्षयः स्यान्न राज्यादिकर्म्मणः । ततो राज्या
दिकमप्यनुभवनीयमेव । अथ राज्यादिकं निःस्पृहत्वादेव परित्यज्यते । नरकादिदुःखन्तु
बलादापतदनुभवितव्यमेव । तेन सन्ताप एवेष्यते । एवं तहि नारकदुःखमप्यनुभवितव्यं ।
अथ दुःखत्वात्तयोर्दुःखत एवापाक्रियते ।584
नारकादिकेशोल्लुञ्चनतः ।585 तदप्यसत् । इदमपि
यतः प्रमाणमस्ति ।
अपि च ।
164
निःस्पृहस्य यथा राज्यसुखाभावो न बाधकः ।
अथापि स्याद(ा) अस्ति कर्म्म कर्मक्षयाय सम्वर्त्तते। स एव भवतोभ्युपगम इत्यभयुप
गमबाधा । तदसत् । यतः
न ख(लु) कृतस्य कर्मणो हानिः, नहि कृतनाशोस्ति । कथं तर्हि कर्मक्षयः
उक्तः । अत्रोच्यते ।
यत्तु पुनर्नियोगतः फलदानसमर्थं तदवश्यमेवफलं ददाति । तदर्थमपि न तपस्वि
मामभियोगः । बलादेव तस्यागमात् । रागादिपरिक्षये त्वनागतरागकार्यफलपरिक्षय एव
न कृतस्यावश्यंभाविवेदनीयस्य कर्म्मणः । ननु यथा तृष्णायां स्थितायां पुनरुद्भूतिः कर्म्मणां
तथा कर्म्मणि स्थिते पुनः तृष्णोदय इति चेत् । तदसद्यतः ।
तृष्णायां सत्त्यां फलार्थी कर्म्म करोत्यन्यथा वा तृष्णासम्भवे हि नकिञ्चत्कुर्य्यात् ।
अथ शुभं कर्म्म सुखदानसमर्थमिति सुखाभिलाषी नियोगतो भवेत् । तन्न(ा) सुखमेव
परमार्थतः किञ्चित् संसारेऽपि तु मिथ्याविकल्प एव केवलः । तेन मिथ्याविकल्पेन विना
कुतोऽभिलाषः कस्य वा तत्सुखमिति । तस्मात् सत्कायदृष्टिलक्षणाविद्यापरिक्षयादेव मोक्षो
नान्यथेतिचतुरार्यसत्त्यप्रकाशनमेव तायः ।
तस्माच्चतुःसत्योपदेशलक्षणात् कार्यभूतात् ।
तायाद्धि भगवान् सुगत ताभिज्ञायते588 । तच्च सुगतत्वं । तत्त्वस्थिराशेषविशेषज्ञानं ।
तत्त्वज्ञानं । प्रशस्तज्ञानं । स्थिरज्ञानं । अपुनरावृत्तिज्ञानं । स्थिरं हि न पुनरावर्तते ।
अशेषविशेषज्ञानं । सर्वाकारज्ञानं । निःशेषज्ञानं । बोधार्थो हि गमिरत्र । तदस्ति भगवत इति
तायादेव ज्ञायते । न खल्वनुमानादेव तायित्वं । न ह्यन्येषामेवम्भूतं तायित्वं स्म्भवति । अनुमाने
प्रवर्त्तनेऽन्येषामपि स्यात् । अथानुमाने परम्परयागतमे589 तदिति प्रतिवचनं । तथा सत्यन्येषामपि
165
स्यात् । नानुमानं क्वचिद्भवति क्वचिन्नेति विभागोस्ति । न चैकस्यापि भगवदुपदेशात्ये
वेप्यस्ति590 । तेन सर्वपदार्थानां सर्वाकारदर्शनं भगवत इति ज्ञायते । नहि सर्वपदार्थानां
सर्वाकारदर्शनमन्तरेणेदं सम्भवति । सर्वपदार्थाः क्षणक्षयिण इत्यादि यदेव न दृष्टं तेनैवाने
कान्तसम्भवात् । अथ यथास्माकं तथा भविष्यति तस्यापि । नास्माकं तदुपदेशंविना । तस्माद्यः
साक्षाद्दर्क्षी यस्य च परोपदेशस्तस्यायं निश्चयो नान्यस्य । न च निश्चयं विनोपदेशः ।
अथ भ्रान्त्यापि सम्भवति । तदसत् । यतः ।
नित्यत्वे भवति भ्रान्तिः सदृशापरसम्भवात् ।
सदेहोपि नैव भवति । उभयदर्शनाभावादुभयांशावलम्बितत्वात् । तस्मादयं निश्चया
देवोपदेशः । स च निश्चयो न साक्षात्करणं विनानुमानस्यास्माकमुपदेशमन्तरेणाभावात् ।
न च सन्देहेन भगवतेदमुक्तं । उभयस्यापि निर्देशप्रसङ्गात् । तस्मात्तत्वस्थिराशेषज्ञान
योगाद्भगवान् सुगतः तत एव बाह्यशौक्षाशैक्षाधिकत्वं भगवतः । ततः सुगतत्वात् ।
सत्यमस्ति सुगतत्वं भगवतः तत्तु कुतो591 हेतोरिति । परिहारः ।
परार्थज्ञानघटनं शास्तृत्वसंज्ञकं कारणमनुमीयते । अन्यथा सुगतत्वस्यासम्भवः ।
ततोपि दया नान्यथा परार्थज्ञानघटनं ।
नन्वनेनैव किं साधितेन सुगतत्वमात्रेणैवासौ प्रमाणं । नैतदस्ति यतः ।
तदाह ।
ततः परार्थतन्त्रत्वं सिद्धार्थस्याविरामतः ।
दयया हि परार्थज्ञानघटने सर्वदा परार्थमेव करोति । दयातो न परिनिर्वाति । यथोक्तं
प्राक् । किञ्च ।
(७) संवादकत्वाद् भगवान् प्रमाणम्
दयावतो हि श्रेयः कथनं सम्भति ज्ञानाच्च भतमवितथं कथयति तच्च ज्ञानं ससाधनं ।
तच्च ससाधनमभियोगवान् वक्तुं यतः कारणचतुष्टयं तस्मात्प्रमाणता । अनेनैतत्कथयति ।
अदिरन्त उपादेरुपान्त इत्येषु हेतुफलभावः ।
तस्मात्प्रमाणभावो भगवत इति निश्चितं कथितं ।।
166
तत एव भगवतोऽनेनैव गुणेन स्तुतिः । प्रमाणभूतत्वलक्षणेन । तदाह ।
निरोधधर्म्मकं सर्वं
कस्मादुपदेशस्य तथाभावप्रामाण्यलक्षणास्तुतिः । तदुपदेशतः प्रमाणतत्त्वसिद्धिर्यथा
स्यादिति । तत्र प्रत्यक्षं भगवतैवोपदिष्टं । नीलज्ञानसमङगी पुद्गलो नीलं जानाति ।
नो तु नीलमेवेति१ । अनुमानमपि न वारितं । अतोऽनुमानमेव निवारितन्तु शाब्दादिकं ।
शन्याः सर्वपरप्रवादा अहमेवैकस्तत्ववादीति । अथवा प्रयोगस्य परार्थानुमानलक्षणस्य
दर्शनमस्ति । यदाह । यत्किञ्चिदुदयात्मकं निरोधधर्म्मकं तत्सर्वमिति ।
82a2 तदेवाह ।
साध्येन व्याप्तो हि हेतुर्ग्गमकः । सा च व्यप्तिरनेकधा प्रदर्शिता भगवता हेतोः ।
यत् किञ्चित्समुदयधर्म्मकं तत्सर्वं निरोधधर्म्मकमि ति । ततोऽनुमानमपि भगवतोक्तमेवेति
भगवदुपज्ञमेव प्रमाणतत्त्वं । तच्च भगवतः प्रमाणत्वादित्यतः प्रमाणमेव भगवतो गुणः
परमः स पूर्वोक्तः ।
प्रमाणतत्त्वं भगवाँस्तथागतो दिदेश यस्मादुभयेन युक्तं ।
(इति) प्रमाणवार्त्तिकालङ्कारे प्रमाणसिद्धिपरिच्छेदः प्रथमः ।। १ ।।
-
१. T. इह प्रारभ्यते वम्-पो-दङ्-पो(प्रथमाह्निकम्)। टिप्पणियां भोट-भाषान्तरपाठाः
↩ -
२ T. प्रमाणं हि अविसंवादि तत्र सति प्रमेयसिद्धेः
↩ -
३ अविसंवादित्वं
↩ -
१ बोधस्वरूपमात्रेण
↩ -
२ T
↩ -
१ बाधकभावःT
↩ -
२ पीतशंखविज्ञानादि
↩ -
३ आभासः ।
↩ -
४ क्रियासिद्धिः
↩ -
५ अन्वेषणा
↩ -
६ यथा स्पर्शादिको भिन्नविषय (:)
↩ -
७ त्यक्तः— ज्ञाने ।
↩ -
१ अभिमता नानर्थक्रिया
↩ -
२ मरीचिकायां
↩ -
३ बाधकप्रमाणस्य
↩ -
४ यतः
↩ -
५ T. भेदस्तु
↩ -
६ मतं
↩ -
१ केवलाभावप्रत्यक्षे
↩ -
२ प्रतीयते—अधिकः
↩ -
३ व्यवहारे—अधिकः
↩ -
१ व्याख्यातु॰
↩ -
२ एव सदर्थः
↩ -
३अभीष्टार्थान्त॰
↩ -
४ व्याख्यातृ॰
↩ -
५ चैवम॰
↩ -
६ प्रवृत्तिः
↩ -
७ मेद्-मोद्-दे
↩ -
१ निष्पन्नस्यानिष्पन्नस्वभावायोगात्
↩ -
२ तावित्ति ।
↩ -
१ न चोपलब्धिमात्रेण
↩ -
२ नहि तत्र
↩ -
३ लोक आशय॰
↩ -
४ वृत्त्युपलम्भः
↩ -
१ तद्गोत्रस्य हि
↩ -
१ द्विजत्वादि
↩ -
२ निष्क्रियस्वरूपस्य
↩ -
३ सदसदर्थयो॰
↩ -
४ नियोज्योऽपि (नि) योज्यस्यात्मनि स हि न स्यात् ।
↩ -
१ आचार्यदेशनात्
↩ -
२ पद्यबद्धमेतद् वाक्यम् ।
↩ -
३ ॰वादे
↩ -
१ नियोगेच्छावादिनां
↩ -
२ सिद्धं ॰
↩ -
३ ऊचुरित्यधिकम्
↩ -
४ उपयोगो न कस्यापि
↩ -
५ इतः प्रारम्यते बम्-पो-ग्ञिस्-प (द्वितीयामाह्निकम्)
↩ -
१ श्लोकवार्तिके †
↩ -
२ तमपेक्ष्य कारकः शब्दो न वाच्यः । अथ प्रतिपादकः ।
↩ -
३ स्वव्यापाररहित॰
↩ -
१ व्यर्थतेक्ष्यते
↩ -
२ परिशुद्धार्थं
↩ -
३ पाणिनिः २।३।१८
↩ -
४ पाणिनिः २।३।१
↩ -
५ अधिकं—एकत्वाद् व्यापारस्य
↩ -
१ शवबरभाष्ये (?)
↩ -
२ त्यक्तः—तस्य
↩ -
३ साफल्याधिगमः
↩ -
४ T. पद्मनिबद्धं—शिलापुत्रेत्यारभ्य दृश्यन्त इत्यन्तं वाक्यम् ।
↩ -
१ अधिकः—तस्मात् करोतीति
↩ -
२ त्यक्तः—तथा
↩ -
३ यदि संस्थानस्य ऊर्ध्वतो
↩
सामान्यदर्शनात् अयं स्थाणुरस्ति नवेति समानाकारानुभवभावे संशयो न दृश्यत इति
पुरुषस्थाण्वाकारोऽत ऊर्ध्व सामान्यं क्वापि नोपलभ्यते—अधिकम् -
४ द्वयाकारो भावः
↩ -
५ स्थाणुपुरुषविकल्पानुभवेन तेन ।
↩ -
१ तस्मात् तद्व्यतिरेकश्चेत्
↩ -
२ सुतरामवभासत एव
↩ -
३ त्यक्तः—अस्पष्ट॰
↩ -
४ T. तदस्पष्टप्रतिभासिता वा
↩ -
५ T. तद्विपर्ययरूपोपलब्धिः
↩ -
१ T. चेत्
↩ -
२ विरुद्ध धर्मस्थानाभेदः
↩ -
३ मीमांसा-भाष्ये
↩ -
५ T. त्यक्तं—प्रतिबन्धमन्तेरण
↩ -
२ T. यागादिकारणतामात्मनः
↩ -
३ T. त्यक्तः—यागे
↩ -
४ T. मीमांसा . . .
↩ -
६ T. त्यक्तं—प्रथम
↩ -
७ T.
↩ -
८ T. त्यक्तः—न
↩ -
९ T.
↩ -
१०. T. वर्त्तमान॰
↩ -
१ T.
↩ -
१ T.
↩ -
२ T. न्तरेणाप्यभ्यासात्
↩ -
३ T. विषयाकारभेदात् प्रमाणफलं
↩
बुद्धिप्रतिपत्तिभेदात् । -
४ T. अव्यभिचारित्वादज्ञाने
↩ -
५ विषय इव वा
↩ -
१ T. त्यक्तं—यथाकारका तथाकारोपीति
↩ -
२ T. पाणिनिः १। ४। ४२
↩ -
४ T. अथात्मेति (स्व) रूपत्वात्
↩ -
३ T. बाधकत्वलक्षणमपोद्यते
↩ -
१ T. निर्बोधस्वप्नाद्यवस्थासु (सुषुप्त्याद्यवस्थासु)
↩ -
२ T. पश्चादबाधः
↩ -
३ T.
↩ -
४ T. पद्यबद्धं—स्वयं॰ समर्थं
↩ -
५ T. युक्तं
↩ -
६ श्लोकवार्त्तिके
↩ -
१ T. व्यतिरेकात्
↩ -
२ T. त्यक्तं—कथन्तर्हि॰ एव
↩ -
३ T त्यकं—किञ्च॰ भवति
↩ -
४ T सिद्धिमिच्छत्यसन्देहं
↩ -
१ T
↩ -
२ T अवयविमात्रमेकं । अत्र यन्-लग्-चम् इसि यन्-लग्-चम् स्थाने प्रमादपाठः
↩ -
३ T तत्सामर्थ्यजननसामग्रयाः
↩ -
४ T प्रतिपत्त्वेन
↩ -
५ T प्रमाणमिष्यते
↩ -
६ T प्रापकमर्थस्य । (इह बम्-पो-गसुम्-प प्रारभ्यते)
↩ -
७ T कार्ये
↩ -
८ T एवं
↩ -
१ T केशादौ
↩ -
२ T इतः
↩ -
३ T तत्र
↩ -
४ T. सामान्यम् । स्वलक्षण॰ अन्यदिति न व्यपदेशः
↩ -
५ ॰करण
↩ -
६ T सत्तोत्पादावुभौ भावस्वभावान्न परात्मकाः
↩ -
७ T कारणस्य
↩ -
४ T ज्ञापयतीति
↩ -
१ T
↩ -
२ T
↩ -
३ T त्यक्तं—तथा
↩ -
४ T विभागस्तु
↩ -
५ T त्यक्तः—यथा
↩ -
६ T त्यक्तं—कार्य
↩ -
७ T कार्यकारणनिबन्धमिति
↩ -
१ T
↩ -
२ T तथाप्यसत् १ एवं ।
↩ -
३ T विरुद्धस्वभावोपलब्धेर्नान्यस्य
↩ -
४ T अधिकः—न
↩ -
५ T
↩ -
६ T. त्यक्तः—परमार्थतः
↩ -
७ T. सर्वज्ञ एव प्रमाणं
↩ -
८ T. असर्वज्ञस्य
↩ -
९. T. वर्त्तमानसन्निहितमात्रग्रहणात्
↩ -
१ T.
↩ -
२ T. अर्थाक्षिप्तस्या॰
↩ -
३ T. वस्तुप्रभृते
↩ -
४ T नार्थगतिः
↩ -
१ T परभूतं सामान्यज्ञानादथ तदात्मभूतेपि युक्तं
↩ -
२ T
↩ -
५ T. अधिकं—अभिप्रायेण यज्ज्ञानाविदो ज्ञाते स्वलक्षणे ।
↩ -
६. T एतत्सदृशता
↩ -
७ T तादृशमपेक्ष्य
↩ -
८ T अथ बहिः पक्षस्य कथं
↩ -
३. T. नाज्ञानं
↩ -
१. T अधिकं—प्रमाणवार्त्तिकालंकारे प्रमाणसिद्धिवार्त्तिकं द्वितीयम्
↩ -
१ T अथ स भवतु प्रमाणार्थः
↩ -
२ T तदेवैदं परिचोदितं न वा कथं दृष्टमिति
↩ -
३ T
↩ -
४ T पुरा
↩ -
५ T विवक्षाऽतः
↩ -
१ T
↩ -
२ T नह्यदुःखित:
↩ -
३ T संसारमूलप्रपञ्च॰
↩ -
१ T.
↩ -
२ T. ननु नास्ति
↩ -
३ T. त्यक्तं—न च॰ भवतीति
↩ -
१ T. अभिधर्मकोशे ४।१।
↩ -
२ T. कर्मव्यतिरिक्तचेतनेश्वर॰
↩ -
३ T. ॰भिव्यक्ताद् कर्मादेव
↩ -
४. T. चेश्वरचेतना॰
↩ -
५ T. चेच्चेतनारूपं स्वतोऽस्ति
↩ -
६ T.
↩ -
७ ॰सिद्धिरनवस्थितिः
↩ -
८ T. जनं सद्व्यवहारे—इति प्रमादपाठः
↩ -
९ T. ततः प्रमाणफलदायी—इति प्रमादपाठः
↩ -
१ T.
↩ -
२ T. धर्म्मादि
↩ -
३ T. सर्वः
↩ -
४ T.
↩ -
५ T. लोहित (?) गुडकारकः; गुडगोमयकारक—इत्यपेक्ष्यते ।
↩ -
६ T. विज्ञता च
↩ -
७ T. यदीष्यते ।
↩ -
१ T. त्मनोभिवदन्नसौ
↩ -
२ T. त्यक्तः—स्थित्वा
↩ -
३ T. संस्थानविशिष्टत्वाद् ।
↩ -
४ T.
↩ -
५ T: बीजकार्यकाले
↩ -
६ T. बालकन्ये
↩ -
७ T. वत्सोत्पत्त्यै
↩ -
१ T.
↩ -
२ T. पदार्थेनुपलब्धितः
↩ -
४ T. वर्णाद्य॰
↩ -
६ T. कारणत्वानुमानवत्
↩ -
७ T.
↩ -
८ T. त्यक्तः—उक्त
↩ -
९ T. जलादि
↩ -
३ T. इह बम्-पो ब्शि-पा प्रारभ्यते ।
↩ -
५ T. अधिकः—अन्यथा
↩ -
१ T. अथापि
↩ -
२ T. दृश्यते
↩ -
३ T. नरकादिदुःखन्न
↩ -
४ T. र्ग्यल-पो=राजा
↩ -
५ T.
↩ -
६ T. त्यक्तं—पक्षादिति
↩ -
७ T. त्यक्तं—शरीर
↩ -
१. T. ॰तथाभूत
↩ -
२ T.
↩ -
३ T. सागरः
↩ -
४ T. अधिकं—यद्यनुमानतोस्तीति तदन्यस्य
↩
कुतो गतिः -
५ T.
↩ -
६ T. स कुत एव स—इति युक्तः पाठोन्यथा छन्दोभङ्गः
↩ -
१. T. अथैकोवयवी
↩ -
२ T. त्यक्तः—हि
↩ -
३ T.
↩ -
४. T. त्यक्तः—सन्निवेशादि
↩ -
१ T. अग्न्यन्वयव्यतिरेकानुविधानस्य पाण्डुत्वादिति यदि तदन्वयव्यतिरेकानु॰
↩ -
२ T. भेदतो
↩ -
३ T.
↩ -
४ T. न्यायसूत्रे ५।२
↩ -
१ T. त्यक्तः
↩ -
२ T.
↩ -
३ T. केनापि—इति प्रमादपाठः
↩ -
४ T कार्यान्यत्वं हि प्रयत्नाहेतुत्वं
↩ -
५ T. ॰लब्धिः प्रयत्नानन्तरं भवति । तेनोपलब्धिलक्षणाभिव्यक्तिर्भवति ।
↩ -
६ T.॰साधने इत्यादि
↩ -
७ T. प्रमाणसमुच्चये
↩ -
१ T. अस्यार्थो ह्येतत् स्याद् । यदि कार्यत्वात् शब्दोऽनित्त्यो घटवदिति कृत्वा
↩
कार्यान्तरेण घटोऽनित्त्य इत्यत्र शब्दे किं स्यादिति हि कार्यसमः । अयं हि वक्त्रभिप्रायतः
त्रिधा । यदि हि वक्तुः घटकार्यत्वं शब्दे नास्तीति वादेऽसिद्धसमः । अथ शब्दस्यकार्यंत्वं
घटाद्यनित्त्येषु नास्तीति चेत् । ततो बिरोधाभासः । अथ तन्नित्य(त्वे)पि नेतीति चेत् ।
असाधारणत्वाद् अनिश्चतसमः -
२ T. न्यायभाष्ये (?) ५।१।४
↩ -
३ T. ननु संस्थानत्वादिकार्यसामान्येन न साधनं भवति ।
↩ -
४ T.
↩ -
५ T. तस्मादसदपरमतं
↩ -
१ T. त्यक्तः— सतः
↩ -
२ T. अधिकः—न
↩ -
३ T. मि-म्गोन-प-ञिद्ः अनभिव्यरेव
↩ -
४ T. अभिधर्मकोशे २।४५
↩ -
५ T. तरूणां—अधिकः
↩ -
६ T. एव विषाणिनि
↩ -
७ T. तथा सत्तासंस्थानादिभावेनापि न साध्यसिद्धिः
↩ -
८ T. विकल्पनं
↩ -
१ T.
↩ -
२ T. पक्षस्तं
↩ -
३ T-
↩ -
१ T. शब्दः सिद्ध उपयोगी
↩ -
२ T. वक्ष्यते
↩ -
३ T. व्यापित्वनित्यत्त्वादयो
↩ -
४ T. यदि कर्म्माद्य (भि)व्यक्तिकरणं
↩ -
५ T. ॰स्वतन्त्रजनितो
↩ -
६ T. तत्सिद्ध्यै
↩ -
२ T. (?) ग्सर्-प म-यिन-प ग्नऽ-म=अनभिनवबधू
↩ -
१ T. अधिकः—न
↩ -
१ T, कस्माददर्शनात्
↩ -
२ T. ईश्वरनिषेधवार्त्तिकं (समाप्तं), बम्-पो. ल्ङ-प (पंचमाह्निकं) प्रारभ्यते
↩ -
३ T. अशुच्यादिरसास्वादसङ्गमो दुर्निवारितः
↩ -
१ T.
↩ -
२ वदन्ति
↩ -
१ T. प्रमाणदृष्टार्थकथनात्
↩ -
२ T. ॰परिज्ञानात्
↩ -
३ T.
↩ -
४ T. त्यक्तः—हेयोपादेय
↩ -
१ T. शेस्-स्थाने शेस् इति प्रमादपाठः
↩ -
२ T. धूमो न वह्नयन्तराद्॰ नापि वह्न्यन्तरं
↩ -
१ T. व्यवहारविषयः
↩ -
२ T. तेभ्यः शरीरेन्द्रियबुद्धिभ्यश्चैतन्यं
↩ -
३ T. ॰पारिणामता
↩ -
४ T. ननु न
↩ -
६ T. त्यक्तः—यतः
↩ -
७ T. न युक्तं
↩ -
५ T. ॰शरीरान्वय
↩ -
१ T. अधिकः—कुक्षेर्
↩ -
२ T. परस्परविशेष उपलक्ष्यमाणः
↩ -
१ T. समानजातीयपूर्व्वकाः
↩ -
२ T. ततस्ततोऽपि न पूर्वजन्मसिद्धिः । तस्माद् अनादिजन्मप्रबन्धो न सिद्धः । अनादि
↩
त्वाभावे हि धूमादिव धूमान्तरसम्भवेऽपि न सर्व्वदा प्रतिबन्ध (अनुध्रुवसंबंध) एव । -
३ T.
↩ -
४ T. आदिजन्मन्यपि
↩ -
५ T.
↩ -
६ T. ननु नायमेव
↩ -
७ T.
↩ -
१ T. एवमदर्शनात्
↩ -
२ T. कस्यचिदुभयव्यतिरिक्तस्य
↩ -
३ T. परलोकसाधनं
↩ -
४ T. ॰हि हित॰
↩ -
५ T.
↩ -
६ T. काठिन्या॰
↩ -
७ T. ब्चग्स्-नस्
↩ -
१ T. संग्रहः (ब्सद्-बऽो)—अधिकः
↩ -
२ T. प्रत्येकमुपघातेऽपि इन्द्रियाणामित्यादि
↩ -
३ T.
↩ -
४ T. अधकि—नान्यत्रास्तीत्यवगमवत्, तस्माद् ।
↩ -
१ T. अनुसन्धानरूपा पूर्वां
↩ -
२ T. आश्रयो
↩ -
३ T. संसारौघपतितानां
↩ -
४ T. अधिकः—न
↩ -
१ T. तस्मात् स्वभावलक्षणं
↩ -
२ T. मनोबुद्धेर्न
↩ -
३ T.
↩ -
४ T. यदि भूतभविष्यतोः (व्युङ-व दङ् व्युङ्-वर्-ऽग्युर्-व ऽफ्यिर्)
↩ -
१ T. एवं न स्यात् कार्यं यदि
↩ -
२ T. स्वपर (= रङ्-ग्श/?/न् इति रङ्-ब्शिन् स्थाने) प्रमादपाठः
↩ -
३ T. कार्यकारणतायाः
↩ -
४ T. त्यक्तः—न
↩ -
५ T. ननु तदभावे नोत्पद्यत इत्येव
↩
कार्यं न भवति । तद् अपि (= यङ्? योद् = भावे) भवत्यवश्यमिति -
६ T.
↩ -
७ T.
↩ -
८ T. यो यस्य (=गङ गि? रङ गि=स्वयं) निरोध्यः
↩ -
१ T.
↩ -
२ T. चेत्तथापेक्षा
↩ -
३ T. तस्मादन्येन सोऽपीत्य
↩ -
४ T. कार्यकारणे
↩ -
५ T. जन्मिविज्ञानादेव (ग्शन् = अन्तरः, अन्यः इतिस्थाने चन् = वत्, इति
↩
प्रमादपाठः प्रतिभाति) -
६ T. जन्मिना विज्ञानादेव सत्येतद्विज्ञान ऐहिकादपि ।
↩ -
१ T. मृत्युवेदनं
↩ -
२ T.
↩ -
३ T. त्यक्तः—साध्यते, येन तस्याभावे को विरोधः
↩ -
४ T. बम्-पो द्रुग्-प (षष्ठाह्निकं) इतः प्रारभ्यते
↩ -
५ T. अधिकं—कार्यत्वन्तु प्रतिसन्धानाभावासिद्धं
↩ -
६ T. विरोध-प्रसिद्धेर्विरोधभावो न न प्रसिद्ध इति चेत्
↩ -
७ T.
↩ -
८ T. चित्तत्वमपि ।
↩ -
९ T. क्लेशाविसंयोगे प्रतिसन्धानाभावेऽभ्युपगमात् तदाह ।
↩ -
१ T.
↩ -
२ T. सर्वं
↩ -
३ T. अथ हेतुः फलं च इति । दङ् ऽब्रस्-बुिऽ/?/ (=फलं च) इति तु दङ्-ब्रल्-बिऽ/?/
↩
स्थाने प्रमादपाठः -
४ T कायहेतोरेवोत्पद्यते
↩ -
५ T. ॰ प्राप्तेर्मनोज्ञानं
↩ -
६ T. ॰सामर्थ्यभेदान्न
↩ -
७ T. हेतुः
↩ -
१ T. पाणिनिः १।४।३०
↩ - Typo in edition, numbered as 450.↩
-
१ T. लम्=मार्गः? —लन् (उत्तरम्)
↩ -
२ T. काय-
↩ -
३ T. णः शस्त्रा॰
↩ -
४ T. अन्यविज्ञान-
↩ -
१ T. सालु
↩ -
१ T. कायस्य
↩ -
२ ताम्रस्य
↩ -
३ एकसामाग्रिसम्भ॰
↩ -
४ स चोदक॰
↩ -
१ T. वीतरागतया
↩ -
२ T. घटादिषु
↩ -
३ T. संस्कारा-
↩ -
१ T. जलाद्याधारो
↩ -
२ T. विकल्पकारणेन
↩ - Wrongly numbered as 480 in the edition.↩
-
१ T. बुद्धिः
↩ -
२ बुद्धेरुत्प
↩ -
३ T. यदा
↩ -
१ T. विज्ञान
↩ -
२ T. ततः
↩ -
३ T. जनकस्या
↩ -
१ T. नाद्य
↩ -
२ T. नाद्य(?)
↩ -
३ T. विज्ञानाकारस्य
↩ -
४ T. द्यस्यैव नियमः
↩ -
५ T. वट वीजाद्
↩ -
६ T. ऽदोन्-व-पो
↩ -
७ T. संस्कारस्या
↩ -
१ T. यद्येवं
↩ -
२ T. उक्तत्वाद्
↩ -
३ T. उपादानत्वेन
↩ -
५ T. संस्वेदजेषु
↩ -
६ T. बुद्धि
↩ -
७ T. स्वकारणं
↩ -
८ T. उपलम्भात्
↩ -
१० T. मातापितरो
↩ -
११ T. श्रतादिके
↩ -
१२ T. कार्ष्ण्यादयः
↩ -
४ T. शरीरान्तर्गत
↩ -
४ T.
↩ -
९ T. पारलौकिक॰
↩ -
१ T. स्वसंवेदनस्य तल्लक्षणत्वात्
↩ -
२ T. विज्ञानस्य
↩ -
3 T. तस्य भावादे॰
↩ -
४ T. तत्रापि तथा भवति ।
↩ -
५ T. वासनामात्रकृतं हि विकल्पमात्रस्य भवति न महाभूतत्वेऽपि
↩ -
१ T. अनिष्टासमर्थाभ्यामिति
↩ -
२ T. वत् सूत॰
↩ -
३ T. अभिधर्मकोशे ३।११
↩ -
४ T. तत्रैव ३।१०
↩ -
१ T. स्वप्नस्थिते.
↩ -
२ T. व्यर्थतैव॰
↩ -
१ T. स्वरूपव्यति॰ ।
↩ -
१ T. सोऽपि न
↩ -
२ T.क्रियाऽस्ति
↩ -
३ नित्यत्वात्
↩ -
४ T. तत्रैव—विजातीयानामव(य)विनोऽभावात्
↩ -
६ संयोग
↩ -
५ ऽदृश्या॰
↩ -
१ T. प्रतिघादयोपि
↩ -
२ T. अत्रोच्यते, असंसृष्टाः कथं
↩ -
३ T. यथा सच्छिद्रचषके
↩ -
१ T. दृष्टेरपि ( )--भोटभाषायामस्यापद्ये भाषान्तरम्
↩ -
२ T. स्थूलतादि॰
↩ -
३ T. संयोगादिकल्प॰
↩ -
४ T. बुद्धिरनादिवास॰
↩ -
१ T. नीलादि॰
↩ -
२ T. तथैवा॰
↩ -
१ T. वैशेषिकसूत्रे
↩ -
२ ॰सोरनाक्षिप्ता॰
↩ -
३ T. ग्शुङ-लुग्स् ग्शन्.ग्यि गो.स्कब्स्.नि
↩ -
१ T. भेदोयमीदृशो
↩ -
२ T. समुदायविवक्षायां
↩ -
३ T. वस्तु॰
↩ -
४ T. पूर्व॰
↩ -
५ T. विंशतीनां गावः (?) इति न शक्तिभेदो॰
↩ -
१ T. कल्पना शब्द॰
↩ -
२ T. अत्रैवं
↩ -
३ T. स्यार्थ॰
↩ -
१ T. संभवान्न
↩ -
१ T. द्वैतं
↩ -
१ T. विषयिणो॰
↩ -
२ T. विज्ञानादेकं वा
↩ -
१ T. नुर्-नूर्-वो
↩ -
२ T. उत्पलस्य
↩ -
३ T. देहहेतोः
↩ -
१ T. अधिकः पाठः—प्रमाणवर्त्तिकालंकारे परलोकसिद्धिवार्त्तिकम्
↩ -
१ T. दहनाहितो
↩ -
१ T. व्यव॰र्षिता—नायं पाठः
↩ -
१ T. निरुत्साहेन
↩ -
२ T. स्वपरदु॰
↩ -
१ T. अथ
↩ -
२ T. आत्मात्मीय॰
↩ -
१ T. र्लुङ्-ल-द्रो-व दङ् स्नुम्-प-ल-सोग्स -प
↩ -
२ T. अणुस्थूलमध्यवर्त्ति
↩ -
३ T. यदा
↩ -
१ T. स च
↩ -
१ T. ग्रीष्मादिः
↩ -
२ T. अप्रतीता॰
↩ -
३ T. श्चेद्वयो
↩ -
४ T. तदद्यावर्त्तमान
↩ -
५ T. अक्रमा
↩ -
६ T. वेदादन्येन
↩ -
१ T. सत्त्वार्थहितैषिणः किंचिन्मात्रोपि दोषः बाधकः
↩ -
२ T. देयि ब्दग्-तु ऽग्युर्
↩ -
३ T. उपायाभ्यास
↩ -
१ T. आत्मादि॰
↩ -
१ T. एव नास्ति वा
↩ -
२ T. दूष्टं
↩ -
३ विपक्षस्य
↩ -
१ T. वितथमभिदध्यात्
↩ -
२ T. ऽफेन्-पऽि/?/ शुग्स्-लस्अ=ाक्षेपबलात्॰
↩ -
३ तस्मात्॰
↩ -
४ T. तथापि
↩ -
५ T. उपशम॰
↩ - I think this is not really a new section, but only a marker. See the toc in the print edition↩
-
१ T. द्रेगस्-पऽि/?/-र्ग्यु
↩ -
२ T. परिश्रान्त्या सुखक्षताः
↩ -
३ T. परिकल्पनामात्रं
↩ -
४ T. वा वरं
↩ -
१ T. विषयस्य तुल्यत्वात् स व्यापिस्पर्शस्तेनार्थः—बहिः
↩ -
१ T. — सर्वजत्व
↩ -
२ — सस्. ब्शुन्. पो. सो
↩ -
१ T. ततो राग उत्पद्यते
↩ -
१ T. ॰क्तिरविनिर्भागेन
↩ -
२ T. आगताः
↩ -
३ T. तदपि परिहर्त्तव्यम्
↩ -
१ T. प्रतिभासभेदः
↩ -
२ T. कश्चित्पर
↩ -
३ T. स्र.व.दङ्. द्रो.व.ल.सोग्स. र्पाऽ
↩ -
४ T. भवति
↩ -
५ T. ॰वात्मैकदेश॰
↩ -
६ भिन्नज्ञानं—बहिः पाठः
↩ -
७ पुरुषान्तरेण पुरुषान्तरस्य—बहिःपाठः
↩ -
८ T. तथैव न
↩ -
९ बहिरपि प्रसज्यते पुरुषान्तरेण पुरुषान्तरस्य स्पर्शविज्ञानं—बहिः
↩ -
१० विषयान्यत्त्वात् परत्वं—बहिः
↩ -
११ T. सन्तानान्तरस्य—बहिः पंक्तेः ।
↩ -
१२ T. सुखबहुत्वे कस्य॰
↩ -
१३ T. ने न परमाणु प्र॰
↩ -
१४ संसर्ग्गसंसर्ग्गात्—बहिः
↩ -
१ T. धर्मावस्थेन
↩ -
३ T. कान्तत्वेन
↩ -
२ T. विभेदपथ॰
↩ -
४ T. भूतेभ्यः स्याद् विभिन्नता
↩ -
६ T. देहाविकारात्
↩ -
७ T. अन्वयव्यतिरेकाननुविधानात्
↩ -
८ T. इति न भाटेभाषान्तरे
↩ -
९ कुतश्चित्-पाठान्तरम्
↩ -
१० T. दोषः प्रसज्यते
↩ -
११ T. कायमनपेक्ष्य
↩ -
१२ T. संसारित्वं स्कन्धस्य
↩ -
५ T. रूपावभास्यपि
↩ -
१ T. न जायते
↩ -
२ T. न त्वेतत् सांख्यमतं
↩ -
३ T. ॰चूडारत्नात्माभिमा॰
↩ -
४ T. ॰ति मारटीः
↩ -
५ T. मेस्-पोल-सोग्सप-िऽ/?/
↩ -
६ प्रबंधेन—बहिः
↩ -
७ T. भूतात्मता
↩ -
८ T. न च नास्ति
↩ -
१० T. भूतानि रागजनकानि-बहिः
↩ -
९ रागादिभावात्—बहिः ।
↩ -
१ अपकर्षवत् प्रकर्षवच्च—बहिः ।
↩ -
२ T. तद्रूपव्यावृत्तेरन्यतःऽपि वा समानात्मनः सम्भवति न चासौ तारतम्ययोगी भवति
↩
ग्रोप्रत्ययः गौः गोतरः गोतम इति लोकायतदर्शनापेक्षया पृथिव्यादौ प्राणी प्राणितरः
प्राणितम इति वा । -
३ T. अग्निव्यपदेशात्
↩ -
४ T. पृथिव्यादिरेव
↩ -
५ T. तदा प्रसंगावस्थायां तत औष्ण्यात् कारणोच्छेद एव
↩ -
१ T. ज्वालाविनैव
↩ -
२ T. न ते
↩ -
३ T. पटादि॰
↩ -
४ T. पटादयो
↩ -
५ T. वर्णविशेषः
↩ -
६ T. पटस्य
↩ -
७ T. औष्ण्योदयव्ययता॰ ।
↩ -
८ T. भ्यो न
↩ -
९ विभिन्नता—बहिः ।
↩ -
१० T. शक्तेरथन्तिरत्वात् त्वन्मते शक्तेर्भेदात् (ा) किञ्च शक्तिरपि न भवति । तैलाद्यबीजे
↩ -
११ तत्तवस्य नानात्वप्रसङ्गात—वहिः
↩ -
१२ चर्वाकि आह—ऐहलौकिकविकल्पो यस्य व्यामोहस्य स परलोके विकल्पान्तर
↩
मिच्छति—बहिः -
१ T. ॰नुविधानसंबद्धाः
↩ -
२ T. नियमाभावात
↩ -
३ परः शङ्कते पूर्वं परित्यज्य दर्शनं—वहिः
↩ -
४ T. ततः
↩ -
५ T. हेयादेयविशेषस्य न विवेकः प्रत्यक्षतः
↩ -
६ T. हेयाक्षादत्ययः
↩ -
१ T. कारणं—पाठान्तरम्
↩ -
२ T. संस्कारस्कन्धानां
↩ -
३ T. मात्रनि॰
↩ -
४ T. नाप्यात्मना
↩ -
५ T. लभ्यते
↩ -
१ T. तदभावाद् विकल्प्यते
↩ -
२ र् बाह्यानपेक्षणात्
↩ -
३ T. इयमेव चानि॰
↩ -
१ T. दीर्घागमे
↩ -
२ T. जन्म—बहिः
↩ -
३ T. वोद्यते
↩ -
१ र्याच्च॰
↩ -
१ T. आकारः स आत्यन्तिकः
↩ -
२ T. न
↩ -
३ T. तत्र परस्य
↩ -
४ T. वस्त्वस्ती॰
↩ -
५ T. स्वसन्तान॰
↩ -
१ T. हेतुभेदाद् विषयभेदाच्च
↩ -
१ T. तदाद्य
↩ -
२ T. शील॰
↩ -
१ T. तत्प्रहाणात्॰
↩ -
२ अथ जानानस्याऽपि तस्यात्मानो धर्माधर्मत उत्पद्यते ।
↩ -
३ आत्मनो दुःखरूपा स्याद्यस्य वा दुःखमुत्पाद्यमानव्यतिरिक्तमव्यतिरिक्तं वा ।
↩
अव्यतिरिक्तो यद्यसावित्याह—बहिः । -
४ ॰त्मा ह्यवि॰ ।
↩ -
१ T अथ
↩ -
२ तेन अप्रतीतिरेव न प्रतीतिः
↩ -
३ एकत्वाध्यस्तं यद्रुपं तत एव रुपात् तस्यात्मीयस्य क्षणिकत्वस्याभाव एतच्च विरुद्धँ,
↩
आत्मापेक्षयान्यत्त्वं प्राप्तं । ——बहिः -
१ तदानीन्तनमस्तित्वं चेत् न पूर्वधियागतं ।
↩ -
२ साक्षात्कृततया ।
↩ - Misnumbered in edition↩
-
१ धर्म्मो व्यावृत्य बोधनीयः—बहिःपंक्ति पाठः
↩ -
२ T अदृढं
↩ -
३ T अन्त्यक्षण॰
↩ -
४ T छग्स्-ऽपि-बुम् ।
↩ -
५ T म्छे-म दङ्-स्ग्रो-व-ब्शिन्
↩ -
६ T तदर्थक्रियायां अविप्रलम्भमात्रमेव
↩ -
७ T न खलु वह्नेरेवोत्पद्यते वह्निः
↩ -
१ ॰दान्तरा॰
↩ -
२ बाधकोत्पत्तिसामर्थ्यं वासनासंस्कारः—बहिः
↩ -
३ तादात्म्ये तु॰
↩ -
४ ऽदि ऽग्रोन्-पो-लस् ग्रोग्स्-ब्सङ्/?/-पो दङ्/?/-ब्रल्-ब्शिन्-दु
↩ -
५ नैरात्म्यात्मदर्श॰
↩ -
१ T. असंप्रख्यान रूपादेरविद्यानिर्वृतेरपि । शरीरमुपधी॰
↩ -
२ T. त्यागसंदर्शनादपि.
↩ -
१ T. मोहैकदेशसंभूता.
↩ -
३ आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः—बृहदारण्यक ४।५।६
↩ -
१ T. तयोरदृष्टि॰
↩ -
२ T. स्नेहार्थदर्शनबलादु॰
↩ -
१ T. स्वयंदृ/?/ष्टेर.
↩ -
२ T. धर्माधर्मसंस्कार.
↩ -
३ मनोरथ॰—सा तथैवेति सा दोष
↩ -
१ T. अभ्युपगन्तव्यो
↩ -
२ T. न अवस्थाता इति
↩ -
३ T. नित्यता क्रम॰
↩ -
४ दे-खोल्-बु-ञिद्-दु
↩ -
५ न मृत्युदृष्टिः
↩ -
१ T. तोह्यात्मा उपलकाष्टतुलाव॰
↩ -
२ T. इति न प्रार्थि॰
↩ -
१ ॰क्रियतामेव कथमात्म॰
↩ -
२ परार्थः सम्भ॰
↩ -
१ T. कथमात्मवादी मुक्तः
↩ -
१ T. स डाकिन्यापि
↩ -
१ T. पुरः कुतः
↩ -
१ T. वासी चंदन॰
↩ -
२ T. सेम्स्-म्ञम्-प. ञिद् थोब्स्-ते र्जेस्-सु-छग्स्-प-दङ्. खोङ्-ख्रो. दङ-ब्रल्-वस्-न
↩ -
३ T. निरात्मताम्
↩ -
४ T. दीर्घागमे मध्यमागमे वा
↩ -
१ T. उपनिषदि
↩ -
२ T. एकैकेन न नित्यात्मनः प्रतीतिः,
↩ -
३ T. ब्युङ्-वीऽ-सेम्स्-चन्-ल्त-व-दग् । र्च-व-ञिद्-लस् द्ब्युङ-वर्-ग्यिस्=उत्खातमूलां
↩
कुरुत सत्त्वदृष्टिं मुमुक्षवः । -
१ T. इदानीमेव
↩ -
१ T. परापरसंवेदन॰
↩ -
२ T. द्वयक्षयार्थमिति कारिकाभागोऽत्र स्थापितः
↩ -
१ T. अनेकफलसाधन॰
↩ -
२ T. मात्रतः परिक्षयः
↩ -
३ T. तदाऽशेषमेव
↩ -
४ T. चैकललोमोत्पाटमात्रात्
↩ -
५ T. तत्तपस्तदा
↩ -
६ T. ग्दुङ्-व-ल्ङ-ल-सोग्स्
↩ -
७ T. अथ दुःखत्वात्तयोर्दुःखमात्रत एवापाक्रियते
↩ -
८ T. नारकादिकेशोल्लञ्चनतः
↩ -
१ T. तज्जे
↩ -
२ T. सामग्र्/?/यन्तरसंभवे
↩ -
३ T. सुगत इति ज्ञायते
↩ -
४ T. अथा॰ परम्परयाऽगतमे॰
↩ -
१ T. देशाभावोप्यस्ति
↩ -
२ T. तत्तु कुतः
↩ -
३ T. देङ्-ल
↩