१. परिच्छेदः
. विधिभावनादि वार्त्तिकं प्रथमम्
१. प्रमाण-लक्षणम्
(१) अविसंवादि ज्ञानं प्रमाणं
नमोबुद्धाय ।
व्वक्तारः परमार्थसंग्रहधिया व्याधूतफल्गुक्रमाः ।
धन्यानां विदधातुमुद्धतधियां धीः सम्विदे धीयते ।। २ ।।
अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् ।
भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते ।
तत्र हेतुराशयप्रयोगसम्पत् सांव्यवहारिकप्रमाणापेक्षया । आशयो जगद्धितैषिता (।)
प्रयोगो जगच्छासनात् शास्तृत्वं (।) फलं स्वपरार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविध
मर्थमुपादाय । प्रशस्तत्वं स्वरूपवत् । अपुनरावृत्त्यर्थं सुनष्टज्वरवत् । निःशेषार्थं सुपूर्ण
घटवत् (।) परार्थसम्पत् जगत्तारणात् तायित्वं । सन्तानार्थञ्चापरिनिर्व्वाणधर्म्मत्वात् ।
एवम्भूतं भगवन्तं प्रणम्य प्रमाणसिद्धिर्विधीयते । प्रमाणाधीनो हि प्रमेयाधिगमो
भगवानेव च प्रमाणं । प्रमाणलक्षणसद्भावात् । प्रमीयतेऽनेनेति प्रमाणम् ।
तत्र सामान्येन प्रमाणलक्षणं निर्दिशति ।
ज्ञानं प्रमाणन्तत्र सति प्रमितिसिद्धेः । अविसम्वादि2 (।) विसम्वादे सति विपर्ययात्
इन्द्रियार्थसंयोगादयो हि विसम्वादविविक्तज्ञानोपलक्षिता एव तत्त्वं प्रतिलभन्ते । अविसम्वा
दार्थी हि सर्व्वः प्रमाणान्वेषणप्रयुक्तः ।
ननु (अ) विसम्वादित्वं 3 तस्य साधनज्ञानस्य स्वरूपमेव । तस्मिँश्च स्वरूपेण
ज्ञायमाने ज्ञातमेव तदिति किं परीक्ष्यते । अथ न स्वरूपसम्वेदनं (।) तदा प्रमाणमेव
नास्तीत्यापतितं । न चायं पक्षः क्षमो भवतामिति ।
तदसत् । न स्वरूपमेव ज्ञानस्य प्रामाण्यं सम्वादित्वम्वा (।) अपि तु (।)