न खलु ज्ञानस्वरूपमात्रावगताविदं प्रमाणमिति भवति । किन्तर्हि (।) अर्थस्य
दाहपाकादेः क्रियानिष्पत्तिस्तस्याः स्थितिरविचलनविसम्वादनं व्यवस्था वा । सा चार्थ
क्रिया भाविनी न तत्काले (।) ततस्तत्सम्बन्धो न स्वरूपसम्वेदनमात्रावधृतः ।
ननु तत्सम्बन्धिता स्वरूपमेव (नास्ति ।) तत् कथं न स्वरूपसम्वेदनमात्रावधारणं ।
नैतदस्ति (।)
कथं तर्हि प्रवर्त्तनाकाले तज्ज्ञानं । एतदुत्तरत्र वक्ष्यामः । यद्यर्थक्रियाधिगमे पूर्वकं
प्रमाणं (।) सोप्यर्थक्रियाधिगमः प्रमाणमप्रमाणम्वा । अप्रमाणेनार्थक्रियाधिगमाभावात्
प्रमाणन्तत् । ततस्ततोप्यर्थक्रियाधिगमः परान्वेषणीय इत्यनवस्था ।
नेदं साधीयः ।
यत्रार्थक्रियास्थितिरपरोपकल्पिता तद् यावत् प्रमाणं (।) यत्र तु स्वतस्तदैवार्थ
क्रियानुभवः (।) तत् सुतरामेव प्रमाणं (।) अर्थक्रियास्थितिरविसम्वादनमिति सामान्ये
नाभिधानात् ।
ननु दाहपाकाद्यर्थक्रियेयं स्वप्नेप्पि सम्भवति पीतस(? श)ङ्खादिज्ञाने च (।) शब्द
विषये तु ज्ञाने न दाहपाकाद्यर्थक्रिया स्वतः परतश्चार्थक्रियाभावात् । तस्मादबाधितो बोधः
प्रमाणमिति युक्तं ।
तदप्ययुक्तं यतः ।
शब्दविषयं ज्ञानं शाब्दं । अपिशब्दादन्यत्रापि । अयमर्थः (।)
स्वरूपबोधमात्रेण4 सर्वं ज्ञानं भवेत् प्रमा । अथावाधितबोधत्वात् स्वप्नादावपि किन्न तत् ।। ५ ।।
बोधमात्रसंगमो हि स्वप्नेतरप्रत्ययसम्भवी समान एव सर्व्वत्र । (स हि) 5 न
पुरुषार्थस्य साधकः । अथाबाधितबोधत्वं तदपि समानमेव । जाग्रत्प्रत्ययेन बाधमानता चेत् ।
कोयं बाधो नाम ।
न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते । तत्काले तस्य
स्वयमेव नाशात् । न चाक्षिनिमीलनान्नष्टे ज्ञाने बाध्यता प्रतीयते । अन्येन नहि ज्ञानेन