1

अथ विधिविवेकः


श्रीगणेशाय नमः


साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।

बोधं विधौ समायत्तमतः स प्रविविच्यते ॥

अथ न्यायकणिका


श्रीसरस्वत्यै नमः

परामृष्टः क्लेशैः कथमपि न यो जातु भगवान्

न धर्माऽधर्माभ्यां त्रिभिरपि विपाकैर्न च तयोः ।

परं वाचां तत्त्वं यमधिगमयत्योमिति पदं

नमस्यामो विष्णुं तममरगुरूणामपि गुरुम् ॥ १ ॥

भुवनभवनस्थेमध्वंसप्रबन्धविधायिने

भवभयभिदे तुभ्यं भेत्रे पुरां तिसृणामपि ।

क्षितिहुतवहक्षेत्रज्ञाऽम्भःप्रभञ्जनचन्द्रम-

स्तपनवियदित्यष्टौ मूर्तीर्नमो भव विभ्रते ॥ २ ॥

अज्ञानतिमिरशमनीं परदमनीं न्यायमञ्जरीं रुचिराम् ।

प्रसवित्रे प्रभवित्रे विद्यातरवे नमो गुरवे ॥ ३ ॥

आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।

रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥ ४ ॥

प्रकरणाऽऽरम्भे प्रेक्षावत्प्रवृत्त्यङ्गं विषयप्रयोजनहेतुकं प्रकरणस्य
विधिविषयविवेचनं प्रयोजनमाह—


साधने पुरुषार्थस्य सङ्गिरन्ते त्रयीविदः ।

बोधं विधौ समायत्तमतः स प्रविविच्यते ॥

इह केचिदाहुः । यदप्रयोजनविषयं न तत्प्रेक्षावत्प्रवृत्तिगोचरः । यथा
काकदन्तपरीक्षा । तथा चैतन्मीमासाप्रकरणमिति व्यापकविरुद्धोपलब्धिः ।