2 न चेयमसिद्धा । प्रयोजनं खल्विह विधेर्वेदप्रामाण्यसिद्धिर्वा, पदार्थसंसर्ग
प्रतीतिर्वा, हिताऽहितसाधनताऽवगमो वा प्रवृत्तिनिवृत्तिनिमित्तम् । न ताव
त्प्रामाण्यसिद्धिरन्तरेणाऽपि विधिं तत्सम्भवात् ।


पूर्वपक्षः—स्यादेतत् । विधिविरहे कार्यशून्यतया भूताऽर्थाऽवगाहिनो
भूतस्य च मानान्तरविषयतया तदपेक्षत्वाद्वेदस्य प्रामाण्यं विहन्येत, पुरुष
वाक्यवत् । तदनुपपन्नम् । अत्रेदं तु भवान् पृष्टो व्याचष्टाम् यदेतत्पुरुष
वचसां मानान्तराऽपेक्षत्वम्, तत्किं भूतार्थतया, आहोस्वित् पुरुषबुद्धिप्रभव
तया ? न तावद्भतार्थतया । प्रत्यक्षादीनामप्रामाण्यप्रसक्तेः । तान्यपि हि
भूतार्थान्येव । चैत्यवन्दनादिवाक्यस्य च कार्याऽर्थाऽभिधायिनो निरपेक्षतया
प्रामाण्यप्रसङ्गात् । विनियोगमात्रपरमेतन्न कार्यपरमिति च स्वतन्त्रसिद्धान्त
श्रद्धामात्रविजृम्भितं न प्रामाणिकमिति निवेदयिष्यते । तस्माद्वक्तृधी
प्रभवत्वमेव सापेक्षत्वे हेतुः । तच्च भूतार्थेऽपि वैदिके नास्तीति नास्ति
सापेक्षता । सा च कार्यनिष्ठानामपि पुरुषवचसाम् । तन्न, प्रामाण्यसिद्धिरर्थो
विधेः ।


नाऽपि पदार्थसंसर्गप्रतीतिः । विनाऽपि विधिना स्थाल्यामोदनं पचति
चैत्र इति पदार्थसंसर्गप्रतीतेरुपपत्तेः । यदि मन्येत विवक्षाऽधीनरचनानि पुंसो
वचनानि, विवक्षा च मानान्तराऽवधारणाऽधीना, मानान्तरं च पदार्थसंसर्ग
गोचरं न पदार्थमात्रगोचरमिति तन्मानान्तरं प्रभवतया पुंस्यान्यपि
पदार्थसंसर्गमेव गोचरयन्ति । न त्वेवं वेदवाक्यान्यपौरुषेयाणीति पदार्थसंसर्ग
सिद्ध्यर्थ विधिरेषितव्य इति । तदयुक्तम् । विधावपि तदनुपपत्तेः । तस्मिन्
विधौ सति तद्विधिकाङ्क्षानिबन्धनः सम्बन्धः पदार्थानामिति चेत् ? तदा
काङ्क्षैव कुतः तदपर्यवसानादिति चेत् ? न । क्रियादिष्वपि साम्यात् ।
यथा हि शब्दाऽभिहितो विधिर्विषयनियोज्यादिभिर्विना न पर्यवस्यति
तथा क्रियादयोऽपि पदार्थाः कारकादिभिर्विनेति त एव पदैरुपात्ता आका
ङ्क्षायोग्यतासन्निधिसध्रीचीनाश्च संसर्ग गमयिष्यन्तीति कृतं विधिना ।
विशिष्टाऽर्थप्रतीतिप्रयुक्तत्वेन च पदानां समभिव्याहारस्य लोके विदित
लोकतदुपायत्वाच्च वैदिकाऽर्थप्रतीतेः ।


नाऽपि हिताऽहितसाधनताऽवगमस्तस्य प्रयोजनं सम्भवति ।
सन्तापमपनयति च तप्तस्य सलिलाऽवसेकः, दहति च ज्वलनज्वालाकला
पाऽऽलिङ्गनमिति वर्तमानाऽपदेशादपि हिताऽहितसाधनताऽवगमात् ।
ततश्चेप्साजिहासाभ्यां प्रमाणान्तरादिव प्रवृत्तिनिवृत्त्योरुपपत्तेर्व्यर्थो1

  1. निवृत्त्योर्व्यर्थो का॰ वि॰