पञ्चममाह्निकम्—शब्दपरीक्षा
जात्यङ्गीकाराक्षेपः
अथ यदुक्तं प्र. सं. 412 पु. वास्तवस्य शब्दार्थस्याविद्यमानत्वा
दर्थासंस्पर्शिनः शब्दा इति—तत् प्रतिविधीयते ॥
II.4
शब्दः द्विविधः
द्विविधः शब्दः—पदं, वाक्यं च । तत्र पदार्थपूर्वकत्वात् वाक्यार्थस्य
प्रथमं पदार्थो निर्दिश्य निरूप्यते ॥
पदमपि द्विविधम्
पदं च द्विविधं—नाम, आख्यातं च । 459उपसर्गनिपातकर्मप्रवचनी
यानामपि नामस्वेवावन्तर्भावमाचक्षते । 460तदुक्तं सुप्तिङन्तं पदम् पा. सू.
1-4-14 इति । इहापि सूत्रकृदाह ते विभक्त्त्यन्ताः पदम् न्या. सू.
2-2-60 इति । तत्र तिङन्तपदार्थचिन्ता वाक्यार्थविचारावसर एव
करिष्यते, 461तदौपयिकत्वात् । सुबन्तानां त्वर्थोऽयमुच्यते ॥
II.5
नामपदानि चतुर्विधानि
ते च चतुर्विधाः सुबन्ताः पदात्मानः शब्दा भवन्ति—जातिशब्दाः,
क्रियाशब्दाः, गुणशब्दाः, 462द्रव्यशब्दाः इति ॥
तत्र गवादिजातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमर्थः,
463यस्तद्वानिति नैय्यायिकगृहे गीयते ॥
गवादिपदानां जातिवाचकत्वाक्षेपः
ननु ! शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः, सास्नाद्य
वयवसन्निवेशात्मिका आकृतिः, शाबलेयादिसकलगोपिण्डसाधारणं रूपं
जातिरिति व्यक्त्त्याकृतिजातिसन्निधाने464 समुच्चारित एष गोशब्दः
कथमितरतिरस्कारेण तद्वन्मात्रवचनतामबलम्बेत ?
जातिविचारोपक्षेपः
आह—वितता खल्वियं465 कथा; चर्चयिष्यते तावत् । इदं तु
चिन्त्यताम्—जातेरेव प्रमाणातीतत्वेन शशशृङ्गवदविद्यमानत्वात् कथं
तद्वान् पदार्थो भविष्यति ?
II.6
जातिः न प्रत्यक्षादिप्रमाणसिद्धा
तथाहि—न तावत् सामान्यग्रहणनिपुणमक्षजं466 ज्ञानं भवितुमर्हति,
तस्य पूर्वापराननुस्यूतस्वलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात् ॥
जातेः प्रत्यक्षत्वासंभवः
समानेष्वाकलितेषु तद्वृत्तिसाधारणरूपमवधाय सामान्यं
गृह्यत इति सापेक्षं तत्स्वरूपग्रहणम् । इयं च प्रथमनयनसन्निपादसमुद्भूता
मतिः पूर्वापरानुसन्धानबन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत् ?
तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशल
शून्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमार्थसत्त्वं
भवितुमर्हति ॥
अनुमानं, शब्दो वा न जातौ प्रमाणं भवेत्
न चानुमानं, शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापनसामर्थ्य
मश्नुते, शब्दलिङ्गयोर्विकल्पविषयत्वेन वस्तुग्राहित्वासंभवात् । तत्प्रा
प्त्यादिव्यवहारस्तु प्रकारान्तरेण 468दर्शयिष्यते पु. 27-32 ॥
II.7
जतिव्यक्त्योः पृथगनुपलंभाच्चाभेदः
अतश्च न व्यक्तिव्यतिरिक्तं सामान्यं, भदेनानुपलं भात् । तथा
हि कुवलयामलकबिल्वादीनि करतलवर्तीनि पृथगवलोक्यन्ते, न जाति
व्यक्ती इति न तयोर्भेदः ॥
जतिव्यक्त्योस्समानदेशत्वाच्चाभेदः
469देशभेदस्य चाग्रहणात् । यतः खलु यतोऽतिरिक्तं, तत् तदधिष्ठि,
तदेशव्यतिरिक्तदेशाधिष्ठानमवधार्यते, घटादिव पटः; न चैवं जाति
व्यक्ती इति न तयोर्भेदः ॥
जातिव्यक्त्योः भिन्नबुद्ध्यविषयन्वाच्चाभेदः
अतश्चैवं—तदग्रहे तद्बुध्यभावात् । यद्धि यतो व्यतिरिक्तं, तत्
तस्मिन्नगृह्यमाणेऽपि गृह्यते, घटादिव पटः । न च व्यक्तावनुपलभ्य
मानायां जातिरूपलभ्यते । तस्मान्न ततोऽसौ भिद्यते ॥
जातेः वृत्त्यनुपपत्तिः
तद्वृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेत्—न—वृत्त्यनुप
पत्तेः । किं प्रतिपिण्डं कार्त्स्येनवर्तते जातिः ? उतैकदेशेन ? इति ।
द्वयमपि चानुपपन्नम् ॥
II.8
जातेः अनुगतत्वानुपपत्तिः
जातेश्च निरवयवत्वात् न केचिदेकशाः सन्ति, यैरेषा प्रतिपिण्डं वर्तेत
न चैकत्र पिण्डे समाप्य वर्तमाना पिण्डान्तरे समाप्यैव वर्तितुमर्हति;
समाप्तस्य 472पुनरुत्पत्तिं विना समाप्त्यन्तरानुपपत्तेः । तथाभूतस्य च
वृत्तिप्रकारस्य क्वचिदप्यदर्शनात् ॥
जातिव्यक्त्योः समवायासंभवः
या च समवायात्मिका पिण्डेषु वृत्तिः सामान्यस्य औलूक्यैरुच्यते,
तामपि न बुध्यामहे वयम् । अयुतसिद्धानामाधार्याधारभूतानां यः
सम्बन्ध इहप्रत्ययहेतुः स समवायः प्र. भा. द्रव्ये—इति यदुच्यते—
तद्विप्रतिषिद्धम् । अयुतसिद्धता च, सम्बन्धश्चेति कथं सङ्गच्छेत ?
पृथक्सिद्धे हि वस्तुनी कुण्डबदरवत् अन्योन्यं सम्बन्ध्येते, स्त्रीपुंसवद्वा ।
अयुतसिद्धत्वे तु473 तदेकत्वात् किं केन सम्बध्येत? न ह्यहं मयैव
सम्बध्ये ॥
द्रव्यगुणयोरपि सम्बन्धासंभवः
द्रव्यगुणयोरपृथक्सिद्धयोरपि सम्बन्धो विद्यत एवेति चेत्, तदिद
मुन्मत्तस्योन्मत्तसंवर्णनम्, गुणिनोऽपि गुणव्यतिरिक्तस्यानुपलम्भात् ।
अयं गुणी रूपादिभ्यो अर्थान्तरत्वेन नात्मानमुपदर्शयति, व्यतिरेकं च
तेभ्यो वाञ्छतीति चित्रम् ॥
II.8a
युतसिद्धिशब्दार्थनिर्णयः
यदपि नित्यानित्यविभागेन युतसिद्धेः स्वशास्त्रे परिभाषणं कृतं—
नित्यानां परमाणूनां पृथग्गतिमत्त्वं युतसिद्धिः । अनित्यानां तु 474युता
श्रयसमवायित्वम् । विभूनां परस्परमाकाशादीनां सम्बन्ध एव नास्ति
प्र, भा, गुण इति तदपि प्रक्रियामात्रम्—नानात्वेन सिद्धिः—निष्पत्तिः,
ज्ञप्तिर्वा युतसिद्धिरित्युच्यते । तद्विपर्ययादयुतसिद्धिः—ऐक्येन सिद्धिरव
तिष्ठते । तथा च सति सम्बन्धो दुर्वचः ॥
अवयवावयविनोरपि समवायासंभवः
अवयवावयविनोरपि समवायात्मा सम्बन्ध एवमेव परिहर्तव्यः ।
यथाऽऽह भट्टः—श्लो. वा. 1-1-4-146
परमाण्वाकाशयोः, परमाणुकालयोश्च सम्बन्ध इष्यते, नाकाश
कालयोरन्योन्यं—इति प्रक्रियैवेयमिति अलमवान्तरचिन्तनेन ।
तस्मान्न जातिव्यक्त्त्योः काचित् वृत्तिरुपपद्यते ॥
जातिव्यक्त्योः स्वरूपमपि न संबन्धः
476सुशिक्षितास्तु—रूपरूपिलक्षणमाचक्षते जातिव्यक्त्त्योः सम्बन्धम्
—सोऽपि नोपपद्यते । रूपशब्दः किं शुक्लादिवचनः ? आकारवचनः ?
स्वभाववचनो वा ?
II.8b
शुक्लादिवचनत्वे नीरूपाणां पवनमनःप्रभृतीनां द्रव्याणां गुणकर्मणां
च सामान्यशून्यता स्यात् ॥
आकारवचनत्वेऽपि अवयवसन्निवेशरहितानां तेषामेव गुणादीनां
सामान्यवत्ता न प्राप्नोति ॥
477स्वाभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् ॥
स्वरूपस्य संबन्धरूपत्वासंभवः
किंचेदं रूपं नाम ? किं वस्त्वेव ? वस्तुधर्मः ? वस्त्वन्तरं वा ?
वस्त्वन्तरं तावन्न प्रतिभातीत्युक्तम् ॥
वस्तुधर्मोऽपि तद्व्यतिरिक्तया स्थितः न चकास्त्येव । 478अव्य
तिरेके च सम्बन्धवाचोयुक्तिरनुपपन्नेत्युक्तम् ॥
न च रूपरूपित्वलक्षणः सम्बन्धः संयोगसमवायव्यतिरिक्तः कोऽपि
श्रोत्रियैः विविच्य व्याख्यातुं शक्यते—यथा ईदृगिति । तस्मात् वाचोयुक्ति
नूतनतामात्रमिह कृतम्, न त्वर्थः कश्चिदुत्प्रेक्ष्यत इत्यलं प्रसङ्गेन ॥
प्रकारान्तरेण वृत्त्यनुपपत्तिः
अपि चेयं जातिः—
II.8c
जातेरतिरिक्तत्वे साङ्कर्यं दुर्वारम्
जातौ अनुपपत्त्यन्तराणि
II.8d
भट्टोक्तजातिवादः
भाट्टास्तु ब्रुवते—भिन्नाभिन्नमेकं वस्तु अनुयायि च व्यावृत्तं च ।
यत् तस्यानुगामि रूपं, तत् सामान्यम्; यत् व्यावृत्तं, स विशेषः । तथा
हि श्लो. वा. 1-1-5-आकृति. 5—
केवलविशेषात्मकपदार्थपक्षे सामान्यप्रतीतेरनालम्बनत्वं, सामान्य
मात्रवादे च विशेषबुद्धेरनुपपत्तिः ॥—श्लो. वा. 1-1-5-आकृति. 7
न हि मिहिरमरीचिनिचयनीरप्रतीतिवत् सामान्यप्रत्ययोपमर्देन
विशेषप्रतीतिः, विशेषप्रत्ययोपमर्देन वा सामान्यप्रतीतिरुदेति; किन्तु
अविरोधेनैव युगपदुभयावभासः । अत एव 485निर्विकल्पबोधेन द्व्यात्म
कस्यापि वस्तुनो ग्रहणमुपेयते ॥
भट्टोक्तजातिवादविनिरासः
तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति ।
II.9
तदेव सामान्यं, स एव विशेषः, तदेवैकं, तदेव नाना, तदेव नित्यं,
तदेवानित्यं, तदेवास्ति, तदेव नास्तिं इति जैनोच्छिष्टमिदमुच्यते ।
उच्यमानमपि न शोभते—
विचित्रविकल्पप्रबन्धविप्रलुब्धबुद्धयः खल्वेवं मन्यन्ते । भवन्तु ते ।
न त्वेकं वस्तु बहुरूपं भवितुमर्हति ॥
वस्तूनामद्व्यात्मकत्वम्
निर्विकल्पकं न द्व्यात्मकंगोचरम्
II.10
येष्वनुगतं, तेषु बुद्ध्याऽननुसन्धीयमानेषु तद्वृत्तिसामान्यग्रहणासंभ
वात् । न चानुसन्धानसामर्थ्यं बुद्धेरस्ति491 ॥
तस्मात् भेदाविषयत्वात् प्रत्यक्षस्य न तद्गम्यं सामान्यम् ॥
अनुवृत्तप्रतीतीनां विकल्परूपत्वम्
ननु ! एवमपह्नूयमाने सामान्ये गौगौरिति शाबलेयादिषु योऽयमनु
वृत्तः प्रत्ययः, स कथं समर्थयिष्यते ?
उक्तमत्र पूर्वसंपुटे 240 पुटे—विकल्पमात्रमेष प्रत्ययः । विकल्पाश्च
नार्थाधीनजन्मान इति । तथा च परपरिकल्पितेषु 493सत्तादिसामान्येष्वपि
सामान्यमित्यनुवृत्तविकल्पाः प्रवर्तन्त एव । न च सामान्येषु सामान्यान्त
राणि संभवन्ति; निस्सामान्यानि सामान्यानि इत्यभ्युपगमात् ॥
494औपाधिक एष सामान्येष्वनुगतविकल्प इति चेत्—आयुप्मन् !
गवादिष्वपि 495कं चिदुपाधिविशेषमबलम्ब्य गौगौरित्यनुस्यूतबिकल्पो
भविष्यति ॥
II.11
अनुवृत्तबुद्धेरौपाधिकत्वम्
कः पुनरसावुपाधिरिति चेत्—एकार्थक्रियाकारित्वमिति ब्रूमः ॥
अननुगतस्याप्यनुगतप्रतीतिजनकत्वमस्त्यव
ननु ! प्रतिव्यक्ति कार्यं497 भिन्नमेव—सत्यम्—भेदबुध्यभावाच्च
तदेकमित्युपचर्यते ॥
ननु ! 499तथा मा भूत् । न त्वभिन्नमेव खण्डमुण्डयोः कार्यम् ।
बाढम् । 500दर्शनमेव तर्हि तयोरेकं भविष्यति; तच्चाभिन्नम् ॥
एकाकारानुव्यवसायजनकत्वमेवानुगतव्यवहारनियामकम्
ननु ! दर्शनमपि प्रतिव्यक्ति भिन्नमेव । सत्यम् ! स्वपृष्ठभावि
प्रत्यवमर्शाख्यकार्यैक्यादेकमित्युच्यते । यथैव शाबलेयादिपिण्डदर्शने सति
गौरित्यनन्तरमवमर्शः, तथैव बाहुलेयपिण्डदर्शनेऽपि गौरित्येवावमर्श
इति तदेकत्वमुच्यते । तदुक्तम् प्र. वा. 1-110—
II.12
तस्मादौपाधिकत्वादनुवृत्तबुद्धेः न सामान्यं किंचिद्वास्तवम
स्तीति ॥
अतिरिक्तसामान्याभावेऽप्यनुमानशब्दयोः प्रवृत्तिर्युज्यते
तत्राह—
न सर्वासु; देशकालादिभेदेन तदानन्त्यादशक्यत्वात् । नैकस्यां;
व्यभिचारात्502 । ततोऽन्यत्रापि स शब्दः प्रवर्तमानो दृश्यते । अगृहीतः
सम्बन्धे च न शब्दलिङ्गे प्रतीतिमुत्पादयितुमुत्सहेते ।—
—उच्यते—स्यादेतदेवं, यदि प्रत्यक्षविषये स्वसक्षणे शब्दलिङ्गयो
प्रवृत्तिः स्यात् ॥
शब्दानुमानयोरवस्तुविषयत्वम्
ननु ! प्रत्यक्षविषये तयोर्वृत्तावनिष्यमाणायां 503अनवस्थादिदोषोप
घातादप्रवृत्तिरेव स्यात्—मैवं वोचः—कथमसकृदभिहितमपि पूर्वसंपुटे
88 पुटे न बुद्ध्यसे ?
II.13
अपोहेनव शब्दानुमाननिर्वाहः
ननु ! विकल्पानामपि विषयः यद्यनुगामी कश्चिन्नेष्यते, तदुत्सी
देतामेव शब्दानुमाने—बाढमस्ति विकल्पानामनुस्यूतो विषयः; स तु न
वास्तवः ।
कः पुनरसाविति चेत्; उच्यते—
विकल्पानामन्यापाहविषयत्वम्
तथा हि—न विकल्पा वस्तु स्पृशन्ति । कुतः ?
प्र. वा. 1-44
तस्मात् भ्रमनिमित्तसमारीपिताकारान्तरनिषेधाय तेषां प्रवृत्तिः ।
यथा रूपसाधर्म्यसमारोपितरजताकारनिबारणाय शुक्तौ प्रमाणान्तरं
प्रवर्तते नेदं रजतम् इति; तथेहापि शाबलेयादिस्वलक्षणे निर्विकल्पेन
सर्वात्मना परिच्छिन्ने कुतश्चिन्निमितादारोपितमगोरूपमिव व्यवच्छितिदं
II.14
विकल्पाः अगौर्न भवति इति; न तु गोः स्वलक्षणग्रहणे 506तेषां
व्यापारः, प्रागेव गृहीतत्वात् ॥
विकल्पानामपूर्ववस्तुविषयकत्वं न संभवति
अथ ब्रूयात्—नानाविशेषनिकरकल्माषितवपुषस्तस्यार्थस्य किंचिद्वि
शेषणं प्रागगृहीतं विकल्पैर्गृह्यत इति—तदप्ययुक्त्तम्—नानाविशेषणनिकर
रूषितस्यापि वस्तुनः 507तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनीऽनुप
लम्भात् । तदभेदे सति तद्विशेषणोपकार्यवस्तुस्वरूपग्रहणवेलायामेव
तत्खचितग्रहणसिद्धेः विकल्पान्तराणामानर्थक्यमेव । तदुक्त्तम्—
तस्मादपोहविषयाः शब्दाः विकल्पाश्चेति ॥
भट्टोक्तं अन्यापोहदूषणम्
ननु ! अपोहवादविषये, महतीं दूषणवृष्टिमुत्ससर्ज भट्टः ।
तथाहि—अपोहो नाम व्यावृत्तिः—अभाव इष्यते । न चाभावः
II.15
508स्वतन्त्रतया घटवदवगम्यते । तदयमन्याश्रितो वक्तव्यः । कश्च
तस्याश्रय इति चिन्त्यम् ॥
अपोहस्याश्रयानुपपत्तिः
न तावत् गोस्वलक्षणमाश्रयः, 509तस्य विकल्पभूमित्वाभावात् ।
510नाप्यवान्तरसामान्यं शाबलेयत्वादि तदाश्रयः, तस्यापि हि सामान्या
त्मत्वेन अपोहस्वभावत्वात् । अभावस्य चाभावाश्रयत्वानुपपत्तेः । 511न
च शाबलेयसामान्यमगोनिवृत्तेराश्रयः, तद्धि अशाबलेयनिवृत्तेराश्रयतां
प्रतिपद्येत । न ह्येवमुपपद्यते, अशाबलेयो न भवतीति गौः, किन्तु
शाबलेयोऽशाबलेय इति 512। अशाबलेयव्यावृत्तिर्हि गोष्वपि बाहुलेया
दिष्वस्ति ॥
अपोहस्य स्वलक्षणावृत्तित्वम्
अथ 513शाबलेयादिस्वलक्षणसमुदायं अगोव्यावृत्तेराश्रयं ब्रूयुः;
सोऽप्यघटमान एव, समुदायिव्यतिरेकेण तस्यानुपलंभात् । समुदायिनां च
II.16
स्वलक्षणानां देशकालादिभेदेनानन्त्यात् 514वर्गीकरणं पुरुषायुषशतेनापि न
शक्यक्रियमिति समुदायोऽपि न 515तदाश्रयः । तस्मात् सर्वसाधारणं
प्रतिपिण्डं परिसमाप्तं किमपि नूतनं अगोव्यावृत्तेरधिकरणं अभिधातव्यम् ।
तच्च गोत्वमेव, तस्मिन्नङ्गीकृते वा किमगोव्यावृत्तिकल्पनायासेन !
प्रतियोग्यग्रहाच्च अपोहग्रहणासंभवः
अपि च न केवलमाश्रयाभावात्तदग्रहणम्, किन्तु य एव ते केचि
दपोह्या अगोरूपास्तुरगादयः तदग्रहणेऽपि तदपोहो दुर्ग्रह एव । न च
तेषामानन्त्यात् ग्रहणं संभवति । नापि वर्गीकरणनिमित्तमेषां516 किञ्चि
दस्ति । अश्वादयश्च विधिरूपतया भवन्मते न गृह्यन्ते, किन्त्वन्यव्यव
च्छेदेनैवेति, तेषामपि व्यवच्छेदग्रहणे सैव वार्तेति नेदानीं 517विकल्पैः
क्वचिदपोहो विषयीकर्तुं शक्यते । निर्विकल्पेन च न कश्चिद्व्यवहार
इति सकल518यात्रोत्सादप्रसङ्गः ॥
अपोहवादे पदानां पर्यायत्वप्रसङ्गः
किंच य एते शाबलेयादिशब्दाः, ते सर्व एवापोहवाचित्वाविशेषात्
पर्यायाः स्युः । अपोह्यभेदाददोष इति चेत्—न—अपोहानां भेदाभावात् ।
भिद्यमानत्वे वा 519स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः ॥
II.17
जातिवादे नोक्तदोषः
भवत्पक्षेऽपि सामान्यमात्रवाचित्वाविशेषात् पर्यायत्वं समानो दोष
इति चेत्—न—सामान्यानां विधिरूपत्वात् परस्परविरहितस्वभाव
तया नानात्वावगमात् । 520अपोहस्तु अभावमात्ररूपाविशेषात् न पर
स्परं भिद्यते ॥
अपोहानामनुगतत्वासंभवः
कर्कादिशाबलेयाद्याधारभेदादपोहभेद इति चेत्—न—तेषामाधारत्वस्य
निरस्तत्वात् । आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणं अपोह
भेदप्रसङ्गः । ततश्च सामान्यात्मताऽस्य हीयेत ॥
अपोहभेदस्यौपाधिकत्वमेव स्यात्
अथ अपोह्यभेदेनापोहभेदमवधार्य पर्यायता पराणुद्यते—तदप्य
सारम्—तदाप्यपोह्य-भेदाद्भेदो न पर्यायत्वमपहन्ति । 521भाक्तो ह्यसौ
न मुख्यः ॥
अपोह्यभेदेनापोहभेदो दुरुपपादः
न चापोह्यभेदाद्भेदोऽपि अपोहस्यावकल्पते । यो हि संभाव्यमान
संसर्गैराधारैरपि522 न भेत्तुं पार्यते, स दूरवर्तिभिरलब्धसम्बन्धैरतिबाह्यैर
पोह्यैः कथंभिद्येत ?
II.18
अभ्युपगम्यापि ब्रूमः—यद्यपोह्यभेदात् अपोहभिन्नत्वं, अपोह्यैक्या
त्तर्हि तदैक्येनापि भवितव्यम् । अतश्च 523गवाश्वयोरन्यापोहेन व्यवस्था
प्यमानयोः अगावोऽनश्वाश्च हस्त्यादयः अपोह्यास्तुल्या भूयांसो भवन्ति ।
असाधारणस्तु एकः गौरश्वे, गवि चाश्वोऽतिरिच्यते । तत्रैकापोह्य
भदात् गवाश्वयोर्भेदो भवतु ! भूयसामपोह्यानामभेदादभेदो वा भवतु !
इति विचारणायां, विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वं इत्य
भेद एव न्याय्यो भवेत् ॥
अपोहानां सांकर्यं दुर्वारम्
524अथासाधारण्यात् अश्वापोह एव गोऽपोह इष्यते, स525 तर्हि
सिंहादावप्यस्तीति सोऽपीदानीं गौर्भवेत् ॥
अथाश्वादिविशेषोद्धोषरहितमगोरूपं व्यवच्छेद्यमुच्यते, तत् 526प्रत्येकं
ग्रहीतुमशक्यं, आनन्त्यात् । वर्गीकरणकारणं च किञ्चिन्नास्त्येव । न हि
सर्वेषामगवामश्वादीनामेकदेशत्वं, एककालत्वं वा समस्ति ॥
II.19
अपोहकल्पनावैय्यर्थ्यम्
अथ 527गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते, हन्त तर्हि गौः पूर्वसिद्ध
एषितव्यः, यत्प्रतिषेधेनागावः प्रतीयेरन् । पूर्वसिद्धे च गवि लब्धे किम
गोभिः, किं वा तदपोहेन प्रयोजनम् ?
पूर्वसिद्धं 528गोस्वलक्षणमस्त्येवेति चेत्—न—तेन व्यवहाराभावात् ।
गोसामान्ये तु पूर्वसिद्धे मुधाऽपोहप्रयत्न इत्युक्तम् ॥
अपोहवादेऽन्योन्याश्रयः
अथ गोसामान्यमगोप्रतिषेधेन सिद्ध्यति, तदा दुस्तरमितरेतराश्रयम्
अगोनिषेधेन गोसिद्धिः, गोसिद्ध्या चागोनिषेधसिद्धिरिति । तस्माद
पोह्यस्यैव निरूपयितुमशक्यत्वात् न तद्भेदादपोहभेदः सिद्ध्यति ॥
अश्वादीनामपोह्यत्वमप्यसंभवि
अपि चाश्वादयः सामान्यरूपेण वाऽपोह्येरन् ? तद्विशेषात्मना वा ?
न विशेषात्मना; तदनन्तत्वात्, अशब्दवाच्यत्वाच्च ॥
सामान्यात्मना तु तेषामप्यपोहरूपत्वादभावरूपत्वम् । कथं चा
भावस्यैवाभावः क्रियेत । करणे वा 529प्रतिषेधद्वययोगात् विधिरवति
ष्ठत इति विधिरूपः शब्दार्थः स्यात् ॥
II.20
अपोहात्मनश्च तुरगादेः योऽपोहः, स तस्माद्विलक्षणः ? अन्यथा
वा ? वैलक्षण्ये तस्य भावात्मता भक्ते । अवैलक्षण्ये तु, यादृश
एवापोह्यः तादृश एव तदपोह इति गौरप्यगौः स्यात् ॥
अपोहवादे सामानाधिकरण्यानुपपत्तिः
किंच अपोहशब्दार्थपक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभाव
सामानाधिकरण्यादिव्यवहारा विलुप्येरन् । 530न हि एकस्मिन्नर्थे द्वयोरपो
हयोर्वृत्तिरुपपद्यते । 531न चैकः कश्चिदर्थोऽस्ति, यत्र तयोर्वृत्तिः; स्व
लक्षणस्याशब्दार्थत्वात्, अन्यस्य चासंभवात् । न च वृत्तिरपि का
चिदस्ति ॥
सदादिपदानामवाचकत्वप्रसङ्गः
सद्ज्ञेयादिशब्दानां अपोह्यनिरूपणासंभवात् नापोहवाचित्वम् ।
न ह्यसदज्ञेयं वा किंचिदवगतम्, यत् व्यवच्छिद्येत । ज्ञातं चेत्सदेव तत्,
ज्ञेयं चेति । अतः कथं सच्छब्देन सदेव, ज्ञेयशब्देन च ज्ञेयमेवापोह्यते ।
अज्ञातं तु न नितरामपोह्यम् । कत्पितं तु तत् वक्तुमशक्यम्, कल्पनयैव
सत्त्वात्, ज्ञेयत्वाच्च ॥
अपोहपदस्यार्थो दुर्वचः
अपोहशब्दस्य किं वाच्यमिति चिन्त्यम् । 532अनपोहो न भवती
II.21
त्यपोहः । कश्चायमनपोहः ? कथं वाऽसौ न भवति ? अभवन् वा
किमवशिष्यते ? इति सर्वमवाचकम् ॥
अपोहस्य पदार्थत्वासंभवः
प्रतिषेधवाचिनां च नञादिपदानां 533का वार्ता—अत्र न भवतीति ?
नेति कोऽर्थः ? 534उपसर्गनिपातानां च कथमपोहविषयत्वम् ? आख्यात
शब्दानां च पचतीत्यादीनामपोहो दुरुपपादः ॥
नाम्नामेव जातिशब्दानां अपोहविषयत्वमिष्यते, येषां भवन्तो जाति
वाचित्वं, तद्वद्वाचित्वं वा प्रतिपद्यन्त इति चेत्—ततोऽन्येषां तर्हि का
वार्ता ? 535बाह्यार्थवाचित्वे जातिशब्देषु को द्वेषः ? निरालम्बनत्वे,
ज्ञानांशाबलम्बनत्वे वा जातिशब्दानामपि तदेवास्तु, किमपोहवाद
प्रमादेन ?
—बौद्धैः भट्टोक्तदूषणोद्धारः—
अपोहस्य विलक्षेणत्वम्
उच्यते—तदेतदविदितबौद्धसिद्धान्तानामभिधानम् ॥
II.22
किन्तु खल्वयमान्तरो ज्ञानात्मा सौगतानामपोहः सम्मतः ॥
537 तथाऽभ्युपगमे चेयमपोहवाचोयुक्तिः ? स्वांशविषयं पदार्थ
ज्ञानानामित्येतावदेव वक्तुमुचितम् ॥
एतदपि नास्ति; नायमान्तरः, न बाह्योऽपोहः । किन्तु ज्ञानार्था
भ्यामन्य एव ॥
शब्दार्थस्यावास्तवत्वम्
यत एव तन्नान्तर्बहिरस्ति, तत एव मिथ्येति काल्पनिकमिति च
गीयते । किं पुनस्तत् ? आरोपितं किंचिदाकारमात्रं विकल्पोप
रंजकम् ॥
अपोहस्यावस्तुत्वम्
ननु ! बाह्यार्थव्यतिरेकेण 540किमीय आकारः आन्तरस्य ज्ञानस्यो
परंजक उच्यते—दृश्यच्छायैवानुरंजिका विकल्पानां, न दृश्योऽर्थः ।
II.23
व्यावृत्तं हि वस्तु दर्शनानां विषयः । तच्च स्प्रष्टुमक्षमा विकल्पा इत्यु
क्तम् प्र. सं. 240 ॥ अथ तच्छायामबलम्बमाना विकल्पा व्यावृत्तस्या
ग्रहणात् व्यावृत्तिविषया उच्यन्ते ॥
विकल्पविषयस्य व्यावृत्तेरवस्तुत्वम्
ननु ! व्यावृत्तितद्वतोरभेदात् या व्यावृत्तिः, यच्च व्यावृत्तं स्व
लक्षणं तदेकमेवेति व्यावृत्तिग्राहिभिर्विकल्पैर्व्यावृत्तमपि गृहीतं स्यादिति
541दर्शनतुल्या एव ते भवेयुः—नैतदेवम्—न विकल्पैर्व्यावृत्तं वस्तु
गृह्यते । न च पारमार्थिकी व्यावृत्तिः; अपि तु कश्चिदारोपित आकारः ।
वास्तवत्वे हि व्यावृत्तेः, वस्तुसंस्पर्शिन एते दोषाः प्रादुष्युः । न त्वसौ
तथेत्युक्तम् ॥
निर्विकल्पविषयस्य वस्तुत्वम्
अत एव यत् के चन पर्यचूचुदन् किल, व्यावृत्तग्रहणपक्षे 542त्रितयग्रहणं
प्राप्नोति—यत् व्यावृत्तं, येन च निमित्तेन व्यावृत्तं, यतश्च व्यावृत्तमिति ।
न च त्रितयग्रहणमस्तीत्यतः कथं व्यावृत्तग्रहणमिति—तदप्यपास्तं भवति
—यदि हि व्यावृत्तं गृह्णीम इत्येवमुल्लेखो543 भवेत् व्यवहर्तृजनस्य, तदैव
मसौ पर्यनुयुज्येत, न त्वेवमस्तीत्यचोद्यमेतत् ॥
विकल्पानामारोपिताकारविषयत्वम्
नन्वेवमारोपिताकारविषया एव विकल्पा उक्ता भवन्ति ।
व्यावृत्तिविषयत्ववाचोयुक्तिरनन्वितेत्युक्तम्—समाहितमेतत् प्र—सं—
II.24
दर्शनपृष्ठभाविभिः गौरित्यादिविकल्पैः 544अतत्कार्यपरावृत्ता आकारा
उल्लिख्यन्ते । न हि गोविकल्पैरतत्कार्याणामश्वादीनामुल्लेखः, स्वलक्षणं
च स्पृश्यते । सामान्यं च वास्तवं नास्ति । तस्मादतत्कार्यपरावृत्ति
विषयत्वमेव विकल्पानामवतिष्ठते—इत्येवं युक्त्या तेषामपोहविषयत्व
मुच्यते, 545न प्रतिपत्तितः ॥
विकल्पनिर्विकल्पवैलक्षण्यम्
ननु ! अतत्कार्यपरावृत्तमिव सजातीयव्यावृत्तमपि दृश्यस्वरूपम् ।
तत्र सजातीय विजातीयव्यावृत्तमप्याकारमुल्लिखेयुः । 546न हि सजातीय
विजातीयव्यावृत्ती, स्वलक्षणं चान्यत् । न चैकतराकारोल्लेखननियमन
हेतुमुत्पश्यामः ॥
धीमन् ! मैवं मंस्थाः । निश्चयात्मानो निर्विकल्पाः । सजातीय
विजातीयव्यावृत्ताकारोल्लेखे च सर्वात्मना तन्निश्चयात् विकल्पान्तराणां
शब्दान्तराणां चाप्रवृत्तिः स्पात् । तथा च गौरिति शब्दादुत्पद्यमानो
विजातीयव्यावृत्ताकारोल्लेख्येव विकल्पः संवेद्यते,547 न सजातीयव्या
वृत्तोल्लेखी । तुल्यविषयाश्च विकल्पैः शब्दा इत्यन्यापोहविषयास्त
उच्यन्ते ॥
सोऽयमारोपिताकारो न बहिः, आरोपितत्वादेव । नान्तः, अबोध
रूपत्वात् । अतश्चासौ न किंचिदेव । न किंचिदपि भवन् अपोह इति
II.25
548फलत उपचर्यते । अतश्च बाह्यमपोहमाश्रित्य दूषणोपन्यासे कण्ठ
शोषमनुभवन् अस्थाने क्लिष्टो देवानांपियः ॥
बाह्यस्य विकल्पविषयस्य अवस्तुत्वम्
अपि च विकल्पभूमिः अर्थः विकल्पान्तरसन्निधापितभावाभावाक्षेपी
नियतरूपो बाह्यसदृशश्च प्रतीयते । न चेदं 549रूपत्रयमपि बाह्ये वस्तुनि
युज्यते । बाह्यस्य हि वस्तुनः स्वरूपेणावगतस्य न विकल्पान्तरोपनीत
भावसम्बन्ध उपपद्यते, वैयर्थ्यात् । नाप्यभावसम्बन्धः, विप्रतिषेधात् ।
नियतरूपता च विकल्पविषयस्य गौरेव, नाश्वः इत्येवमवगम्यमाना
वस्त्वन्तरव्यवच्छेदमन्तरेण नावकल्पत इति बलात् व्यवच्छेदविषयत्वम् ।
अन्यथा नियमपरिच्छेदासंभवात् । सन्दिग्धं च वस्तु न गृह्यते ॥
एवं बाह्यवस्तुविषयत्वे च निरस्ते विकल्पानां एकस्यार्थस्वभावस्य
इति न्यायेन पु. 14 पौनरुक्त्यादबाह्यविषयत्वं550 ख्याय्यम् । अबाह्यं
चारोपितं रूपम् । तच्च बाह्यवदवभासते । न च व्यावृत्तिच्छायमप
हाय 551बाह्यारोपितयोः सादृश्यमन्यदस्तीति व्यावृत्तिविषया एव विकल्पाः
फलतो भवन्ति ॥
विकल्पानां व्यावृत्तिविषयत्वम्
यद्यपि विधिरूपेण गौरश्व इति तेषां प्रवृत्तिः; तथापि नीतिविदोऽ
न्यापोहविषयानेव तान् व्यवस्थापयन्ति । 552यथोक्तं व्याख्यातारः
II.26
खल्वेवं विवेचयन्ति, न व्यवहर्तारः इति । सोऽयं नान्तरः, न बाह्यः;
अन्य एव कश्चिदारोपित आकारो व्यावृत्तिच्छायायोगादपोहशब्दर्थ उच्यते
—इतीयमसत्ख्यातिवादगर्भा सरणिः ॥
अपोहस्य ज्ञानकारविशेषत्वपक्षः
अथवा विकल्पप्रतिबिम्बकं ज्ञानाकारमात्रकमेव तदबाह्यमपि विचित्र
वासनाभेदोपाहितरूपभेदं बाह्यवदवभासमानं लोकयात्रां बिभर्ति । व्यावृ
त्तिच्छायायोगाच्च तदपोह इति व्यवहियते । सेयमात्मख्यातिगर्भा
सरणिः ॥
विकल्पानामवस्तुविषयत्वेऽपि प्रवृत्त्युपपत्तिः
ननु ! उभयथाऽपि वस्तुविषयत्वाभावे विकल्पानां कथं वस्तुनि
व्यवहर्तारः प्रवर्तन्ते ? 553दृष्टेऽपि क्वचिद्वस्तुनि तृणादौ प्रवृत्त्यभावात् ।
अर्थित्वं तु प्रवृत्तेः कारणम् ॥
अपोहपक्षे प्रवृत्त्युपपादनम्
ननु ! अर्थितावत् दर्शनमपि कारणमेव । अर्थिनोऽप्यपश्यतस्तत्र
प्रवृत्त्यभावात् । अपोहपक्षे च प्रवृत्तस्य वस्तुप्राप्तिः कथमिति वक्तव्यम्
—उच्यते—प्रवृत्तिस्तावत् दृश्यविकल्प्ययोः एकीकरणनिबन्धना प्र-सं.
69 । दृश्यदर्शनानन्तरमुत्पन्ने विकल्पे विकल्पतया न प्रतिपद्यते
प्रमाता । दर्शनानन्तर्यविप्रलब्धस्तु दृश्यमेव गृहीतं मन्यते । तदभि
मानेन च प्रवर्तते । इदं तदेकीकरणमाहुः, दृश्यविकल्ययोर्भेदेन वस्तुनो
दृश्यात् विकल्पो यन्न गृह्यते; न पुनः भिन्नयोरभेदाध्यवसाय एकीकरण
II.27
मिष्यते । दृश्याद्विभिन्नस्य विकल्प्यस्य शुक्तेरिव रजतस्य निर्देष्टुम
शक्यत्वात् । अभेदाध्यवसाये चोपायाभावात् । नाभेदाध्यवसाये
दर्शनमुपायः, विकल्पाविषयत्वात् । न विकल्पः, दृश्यविषयत्वात् ।
तस्मात् भेदानध्यवसायादेव प्रवृत्तिः ॥
विकल्पस्य अर्थप्रापकत्वप्रकारः
प्राप्तिरपि दृश्यस्यैवार्थक्रियाकारिणो वस्तुनः, पारंपर्येण तन्मूलत्वा
त्कार्यप्रबन्धस्य । दृश्याद्दर्शनं, ततो विकल्पः, ततः प्रवृत्तिरिति ।
अर्थं हि मूलवर्तिनमुपलभ्य प्रवर्तमानस्तमाप्नोति । 554अपवरकनिहित
मणिप्रसृतायां कुञ्चिकाविवरनिर्गतायामिव प्रभायां मणिबुध्या प्रवर्तमानः ।
यत्र तु मूलेऽप्यर्थो नास्ति, तत्र व्यामोहात् प्रवर्तमानः विप्रलभ्यत एव,
दीपप्रभायामिव तथैव मणिबुद्ध्या प्रवर्तमानः ॥
अर्थप्राप्त्यादीनामाभिमानिकत्वम्
एवं च बाह्यवस्तुसंस्पर्शशून्येष्वपि विकल्पेषु समुल्लिखितेषु बाह्योऽ
र्थो मया प्रतिपन्नः, तत्र चाहं प्रवृत्तः, स च मया प्राप्तः, इत्यभिमानो
भवति लौकिकानाम् । न त्वयमर्थाध्यवसायमूलः । तदुक्तं यथाऽध्यव
सायमतत्त्वात्, यथा तत्त्वं चानध्यवसायात् इति । स्वप्रतिभासेऽनर्थेऽ
र्थाध्यवसायात् प्रवृत्तिः इत्यत्रापि ग्रन्थे अर्थाध्यवसायः भेदानध्यवसाय
एव व्याख्येयः । एवं दृश्यविकल्प्यावथौ एकीकृत्य प्रवर्तते, प्राप्नोति
चार्थमिति ॥
II.28
अपोहवादोपसंहारः
II.29
—सिद्धान्तः—
अपोहस्याप्रामाणिकत्वम्
अत्राभिधीयते—किं जात्यादेर्बाह्यस्य शब्दार्थस्यासत्त्वात् अपोहपक्ष
पातः ? उत प्रतीतिबलादेव ? इति ॥
प्रतीतिस्तावत् अपोहविषया भवद्भिरेव 559नाङ्गीकृतेति किमत्र
कलहेन ॥
जातेः प्रत्यक्षसिद्धत्वम्
नापि जात्यादेरसत्त्वम्, इन्द्रियार्थसन्निकर्षोत्पन्नबाधसन्देहरहितप्रत्य
यगम्यत्वात्, स्वलक्षणवत् ॥
जातेः निर्विकल्पकविषयत्वे अविरोधः
तथाहि—निर्विकल्पककालस्यातिसूक्ष्मत्वात् किं प्रतिभासते ? किं
न प्रतिभासते ? इति कथमेष 560कलिरावयोरुपशाम्यतु ! भवान् ब्रूते—
II.30
व्यावृत्तमेव भातीति । अहं ब्रुवे—अनुवृत्तमपि प्रतिभातीति । एवं
कलहायमानयोरावयोः कः परिच्छेदः ? न खलु शपथस्य, क्रोशपातस्य
वैषविषयः । तस्मात् निर्विकल्पकानन्तरोत्पन्नस्थूलकालकार्यपर्यालोचनया
561तद्व्यवस्था कर्तव्या ॥
निर्विकल्पस्य स्वलक्षणविषयत्वासंभवः
तत्र च—
शाब्द एष विकल्प इति चेत्—562मैवम्—
अनवगतशब्दार्थसम्बन्धोऽप्यभिनवानेकपदार्थसन्निधाने तेषामनुगतं
च व्यावृत्तं च पश्यत्येव रूपम् ॥
निर्विकल्पकस्य विशेषमात्रविषयकत्वमनुभवविरुद्धम्
अपि च प्रथमाक्षिसन्निपात एवाङ्गुलिचतुष्टयमवलोक्यमानं अन्यो
न्यगामिना च रूपेणावगम्यते । तत्कथं केवलविशेषाबलम्बी चाक्षुषः
प्रत्ययः ?
निर्विकल्पकस्य जात्यादिविषयत्वे अनुभवः प्रमाणम्
अपि च पुराणशाबलेयपिण्डमवलोकयतः कालान्तरे बाहुलेयं पिण्डं
पश्यतः पूर्ददृष्टशाबलेयपिण्डविषयं स्मरणमुत्पद्यमानं संवेद्यते । तस्मात्
II.31
सामान्यानवगमो नोपपद्यते । अन्यस्मिन्नसाधारणे स्वलक्षणे दृष्टेऽन्य
स्मारणस्य किं वर्तते ? अस्ति च तत् । तेन मन्यामहे दृष्टमुभयानुगत
रूपमिति ॥
अनुवृत्तप्रत्ययोऽपि प्रत्यक्षस्य जात्यादिविषयत्वे प्रमाणम्
563किंच व्यक्त्यन्तरदर्शनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते ।
तस्याश्च प्रामाण्यं दर्शितम्; दर्शयिष्यते च विस्तरतः क्षणभङ्गभङ्गे ।
तस्मात् अनुगतरूपविषयैव सा प्रत्यभिज्ञा, व्यक्तिभेदस्य विस्पष्ट
सिद्धत्वात् ॥
राश्यादिदर्शनानां सामान्यविषयकत्वमेव स्वरसम्
यत्र च लघुतरपरिमाणतिलमुद्गादिप्रचयसन्निधाने विच्छिन्न
564सिक्थस्वलक्षणं नास्ति, तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते । अतः
निर्विकल्पकवेलायामेव व्यावृत्तवत् अनुगतरूपावभासान्न सामान्यापह्नवो
युक्तः । प्रथमाक्षसन्निपातेऽपि तुल्यत्वमवगम्यते नानात्वं चेति 565सामान्य
भेदौ द्वावपि वास्तवौ ॥
सामान्यग्रहणे तदाश्रयनिखिलव्यक्तिग्रहणमपेक्षितम्
II.32
व्यावृत्त्यनुवृत्त्यो रुभयोरपि ग्राह्यत्वम्
II.33
एकत्र सामान्यविशेषयोस्समावेशे विरोधाभावः
यदप्यभिहितम्—इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नोपपद्यत
इति—तदपि न सम्यक् ॥
यत्र हि विरोधो भवति, तत्रैकतररूपोपमर्देन रूपान्तरमुपलभ्यते ।
प्रकृते तु नैवमिति को विरोधार्थः ?
छायातपावपि यद्येकत्र दृश्येते, किं केन विरुद्धमभिधीयेत ? अदर्श
नात्तु तद्विरुद्धमुक्तम् । न चैवमिहादर्शनमित्यविरोधः ॥
सामान्यविशेषयोस्सत्यत्वम्
तथा चाह—श्लो. वा. 1-1-5, आकृतिवादे, श्लो. 57
एतत्तु वृत्तिविकल्पादिभ्यः बिभ्यतेवाभ्युपरतं 569तत्रभवतेति तिष्ठतु
तावत्, किमत्र विमर्देन !
II.34
भाट्टवत् न वस्तूनामुभयात्मकत्वम्
व्यक्तिव्यतिरिक्तैव जातिः व्यक्तिषु वर्तत इति ब्रुमः ॥
विशेषातिरिक्तसामान्यग्रहणसम्भवः
यत्तावदवादि—भेदेन कुवलयामलकादिवत् अनवभासनादिति—तत्र
प्रतीतिभेदो दर्शित p. 7 एव ॥
सामान्यविशेषयोस्समानदेशत्वं नान्यतरापलापकम्
यत्तु देशभेदेनाग्रहणात्, तदग्रहे तद्ब्रध्यभावादिति p. 7 तत्र तदा
श्रितत्वं कारणं जातेः, न त्वसत्त्वम् । व्यक्तिवृत्तित्वाज्जातेः पृथग्देशतयाऽनु
पलम्भः, तदग्रहे तदग्रहो वा; न पुनस्तवतिरिक्ताया अभावादेवेति570 ॥
जातेर्वृत्त्यनुपपत्तिपरिहारः
यदप्युक्तं p. 7 वृत्त्यनुपपत्तेरिति, तत्राप्युच्यते—प्रतिपिण्डं कार्त्स्न्येन
जातिर्वर्तत इति । पिण्डान्तरे तदुपलम्भो न स्यादिति चेत्, किं कुर्मः ?
कमुपलभामहे ? पिण्डान्तरेऽपि तदुपलम्भोऽस्त्येव । कथं च 571भवन्तमेनं
निह्नुमहे ? एकदेशास्तु जातेर्न सन्त्येव, यैरस्या वर्तनं ब्रूमः ॥
II.35
सामान्यविषयकवृत्तिव्यवहारप्रदर्शनम्
किंनामधेयैषा वृत्तिरिति चेत्, 572न नामधेयं अस्या जानीमः ।
पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे ॥
समवायस्य दुरपह्नवत्वम्
ननु ! अयुतसिद्धयोः सम्बन्धः समवायः । स च विप्रतिषेधादेव
निरस्तः p. 8—न शक्यते निरसितुम्—
अवयवावयविनोः, गुणगुणिनोश्चेयमेव वृत्तिः । तयोरर्थान्तरत्वमु
परिष्टाद्दर्शयिष्यते । दर्शितं च अमुनैव मार्गेण देशभेदश्च तयोर्नास्तीति
विस्पष्टमयुतसिद्धत्वम् ॥
जातिव्यक्त्योस्सम्बन्धोपपादनम्
यदप्युच्यते p.-8a—
इति—तदपि परिहृतमाचार्यैः573 जातं च सम्बद्धं चेत्येकः कालः इति
वदद्भिः । सर्वं चैतदबाधितप्रतीतिबलात् कल्प्यते, न स्वशास्त्रपरिभाषया ॥
विभुद्वयसम्बन्धासम्भवः
विभूनामपि सम्बन्धः परस्परमसंभवादेव नेष्यते, न स्वशास्त्र
परिभाषणात् । न संयोगः, तेषामप्राप्तेरभावात् । अप्राप्तिपूर्विका
हि प्राप्तिः संयोगः । न समवायः, 574तदाश्रितस्य तस्यानुपलंभादित्यलं
प्रसङ्गेन !
II.36
जातिव्यक्त्योस्सम्बन्धस्य विलक्षणत्वम्
तस्मात् वृत्त्यनुपपत्तेरित्यदूषणम् ॥
जातेराश्रयविकल्पानुपपत्तिपरिहारः
यदपि सर्वगतत्वं पिण्डगतत्वं च विकल्प्य दूषितम् p. 8b तदपि
यत्किञ्चित् । यथा प्रतीतिरादिशति भगवती, तथा वयमभ्युपगच्छामः ॥
जातेस्सर्वसर्वगतत्वे प्रमाणम्
II.37
जातेस्सर्वगतत्वेऽपि न सर्वत्र सर्वदा तत्प्रतीतिः
II.38
वस्तूनां स्वरूपस्वभावविशेषाः प्रश्नातीताः
प्रतिपत्तिश्च विशेषेष्विव सामान्येषु च निरपवादा दर्शितैव ।
तस्मात् विशेषवत् अप्रत्याख्येयं सामान्यम् ॥
व्यक्तिभिरेवानुवृत्तिज्ञानानिर्वाहः
तत्रैतत्स्यात्—विशेषात्मन एव वस्तुनः 579सामान्यज्ञानजननशक्ति
युक्तत्वात् किं सामान्यकल्पनयेति—तदयुक्तम्—विशेषवत् प्रत्यक्षत्वात्
सामान्यस्य कः कल्पनार्थः ? यदि हि कार्यानुमेयं सामान्यं कल्पयेम, तत
II.39
एवमनुयुज्येमहि; कार्यस्याप्यन्यथासिद्धेः किं तत्कल्पनयेति । प्रत्यक्षे तु
सामान्ये कोऽयमनुयोगः ?
का चेयमनुवृत्तिज्ञानोत्पादिका 580शक्तिः ? विशेषेभ्योऽव्यतिरिक्ता;
व्यतिरिक्ता वा ? नित्या; अनित्या वा ? इति विकल्प्यमाना वाचोयुक्त्य
न्तरेण जातिरेव कथिता भवति, न वा किंचिदिति यत्किंचिदेतत् ॥
व्यक्तिग्रहणवेलायामेव जातेरपि ग्रहणमावश्यकम्
ननु ! यथा गोत्वादिजातिः 581नियतास्वेव व्यक्तिषु वर्तते, नासामं
जस्येन, तथा काभिश्चिदेव व्यक्तिभिः काचिद्गवादिबुद्धिर्जन्यते इति—
नैतदेवम्—विषयातिशयव्यतिरेकेण प्रत्ययातिशयानुपपत्तेः । 582उपायाति
शये तु प्रत्ययातिशयकारिणीष्यमाणे विषयातिशयं प्रति को द्वेषः ? सिद्धे
च विषयातिशये दुरपह्नवं सामान्यम् ॥
गवादिप्रत्ययानां सेनावनादिप्रत्ययवैलक्षण्यम्
ननु च ! अनुवृत्तिबुद्धिः विनाऽपि सामान्यान्तरेण सामान्या
न्तरेषु दृश्यत एवेति p. 10 कोऽत्र विस्रंभः ? उच्यते—न चाशेषेण
पंचाशद्भवितुमर्हति । यदि हि सेनावनादिप्रत्ययाः करितुरगधवखदि
रादिव्यतिरिक्तमर्थमनपेक्ष्य जायमाना मिथ्या भवन्ति, किमेतावता घटादि
प्रत्ययैरपि मिथ्याभवितव्यम्583 । बाधकसदसद्भावनिबन्धना हि वैतथ्या
II.40
वैतथ्यस्थितिः3 प्रत्ययानाम् । तत्र सत्तादौ सामान्यान्तरविरहान्मिथ्या
प्रत्ययाः, उपाधिना केन चित्प्रवर्तन्ते, न त्वेवं गवादाविति यत्किञ्चिदेतत् ।
तदुक्तम् श्लो-वा-1-1-5-आकृ-24—
अनुगतबुद्धीनामौपाधिकत्वासंभवः
ननु ! इहाप्येकार्थक्रियाकारित्वोपाधिनिबन्धन एकाकारप्रत्ययः
सेत्स्यतीत्युक्तम् p. 11—सत्यमुक्तम्—अयुक्तं तु, एकार्थक्रियाकारि
त्वस्यैवासिद्धेः585 ॥
प्रतीतीनां सादृश्यमपि सामान्याधीनम्
यत्तूक्तं—
इति—तदप्यसांप्रतम्; प्रत्यवमर्शस्याप्येकत्वानुपपत्तेः । न हि
बहुभिर्दर्शनैरेको विकल्पः संभूय साध्यते, अपि तु नानादर्शनानन्तरं तत्सा
मर्थ्यलब्धजन्मानो विकल्पा अपि भेदेनैवोल्लसन्ति । न च तेषां किमपि
कार्यान्तरमस्ति, येन ते एकतामधिगच्छेयुः ॥
केन च विकल्पानामेकत्वं गृह्यते ? न दर्शनेन, तस्य 586दृश्यविषय
त्वात् । न विकल्पान्तरेण, सर्वविकल्पानामारोपितार्थपर्यवसितत्वेन,
स्वाकारविषयत्वेन वा परस्परभेदाभेदपरिच्छेदसामर्थ्यासंभवात् ॥
II.41
ज्ञानव्यक्तीनां भेदादेकत्वमप्यसंभवि
ब्रूयात्—विकल्पोल्लिख्यमानाकारभेदानवगमाद्विकल्पानामैक्यम् ।
यादृश एव एकशाबलेयादिस्वलक्षणदर्शनान्तरभुवाऽपि विकल्पेनोल्लिखित
आकारः गौरिति, तादृश एव गोपिण्डान्तरदर्शनान्तरजन्मनापीति
विषयाभेदात्तदैक्यमुच्यते । तदुल्लिख्यमाने हि विषये भेदो न प्रति
भासते इत्यत एष विकल्पो भिन्नान्यपि दर्शनानि मिश्रीकरोति, दर्शनोपा
रूढस्य भेदस्याग्रहणादिति—
तदेतदपि न हृदयंगममभिधीयते । विकल्पास्तावद्विज्ञानक्षण
स्वभावत्वादन्योन्यं 587भिन्ना एव भवन्ति ॥
ज्ञानस्य तदकारस्य च भेदः, उताभेदः ?
यस्तु विकल्पोल्लिखित आकारोऽनुपलभ्यमानभेदः, स तेभ्यो
व्यतिरिक्तः ? अव्यतिरिक्तो वा ? व्यतिरिक्तश्चेत्, सामान्यमेवेदं
नामान्तरेणोक्तं भवति । अवास्तवत्वकृतो 588विशेष इति चेत्—न—अवास्त
वत्वे युक्त्यभावात् ॥
अव्यतिरिक्तश्चेत् स आकारः, तर्हि विकल्पस्वरूपवद्भिद्यत एवेति
कथं तदैक्यम् ? कथं वा तदैक्येन भिन्नानामपि दर्शनानां मिश्रीकरणमव
कल्पते ?
II.42
एकाकारावमर्शहेतुत्वादपि विकल्पैक्यं दुर्वचम्
अपि च रे मूढ ! सामान्यानभ्युपगमे कुतस्त्य एकाकारविकल्पो
त्पादः ? इति पर्यनुयुक्तेन त्वया, यदि विकल्पैक्यादित्युच्यते—तदेतरे
तराश्रयं भवति—कार्यैक्याच्च विकल्पैक्यं, विकल्पैक्याच्च कार्यैक्य
मिति ॥
विकल्पैक्यं कार्यैक्यमिति तु सुतरां589, अनन्तरं विकल्पैक्यं
विकल्पैक्यादेवेत्युक्तं भवति । कथं चैवमनुन्मत्तो ब्रूयात् ! तस्मात्—
ति व्यामूढभाषितम् ॥
विकल्पानामपूर्वविषयकत्वाभावेऽपि प्रामाण्यम्
यदपि विकल्पानां शब्दानां चान्यापोहविषयत्वसिद्धये प्रलपितम्
एकस्यार्थस्वभावस्य इत्यादि p. 13—तदपि यत्किंचिदेतत्—
विकल्पानामपूर्वविषयकत्वसंभवः
II.43
प्रामाण्यं न प्रयोजनाधीनम्
यदि च नाम निर्विकल्पकेन सर्वात्मना परिच्छिन्नं वस्तु पुनः परि
च्छिन्दन्ति विकल्पान्तराणि वैफल्यमश्नुवीरन्, किमेतावता तेषामप्रती
यमानार्थग्राहिता कल्पयितुं शक्यते ? न हि विरतपिपासस्य हिमकर
पटलमफलमिति, तदेव 591रजतमिति कल्पयितुं पार्यताम् । तस्मात्
दुराशामात्रमेतत् ॥
इत्थं चान्यापोहनिषेधात्मनि बाह्ये विकल्पानां शब्दानां च विषय
इष्यमाणे 592भट्टकुमारिलोपन्यस्तदुस्तरदूषणासारवारणकारणं न हि
किंचिदुत्पश्यामः ॥
विकल्पानामारोपितविषयकत्वनिरासः
यदपि तद्दूषणापनिनीषया विकल्पप्रतिबिम्बकमारोपिताकारमात्र
व्यावृत्तिच्छायोपरक्तं किमपि परिकल्पितं p. 32—तदपि न व्यवहार्
पदवीमवतरितुमुत्सहते ॥
II.44
अपोहस्य बाह्यान्तरोभयरूपत्वाभावनिरासः
सामान्यस्य वस्तुत्वमावश्यकम्
तस्मात् तत्र देशान्तरादौ 593वसता केनचिदर्थेन बुद्धयो रज्यन्ताम् !
एकान्तासता तु केनचिदारोपितेन तदुपरंजनमघटमानं मनोरथप्रायम् ।
न चैकान्तासन्नाकार आरोपयितुमपि शक्यते ॥
विकल्पानां वस्तुसंस्पर्शित्वम्
अपि च दर्शनपृष्ठभाविनो विकल्पाः तद्व्यापारकारिणः, व्यावृत्तं
स्प्रष्टुमसमर्था व्यावृत्तिमात्रमबलम्बन्त इति यदुच्यते—तत्र दृश्यस्य सजा
तीयविजातीयव्यावृत्तत्वात् उभयव्यावृत्तिरस्तीति, 594तां स्पृशन्तो
विकल्पाः कथं विजातीयव्यावृत्तिमेव स्पृशेयुः ?
उभयावमर्शे सत्येषां पौनरुक्त्यादानर्थक्यमिति चेत्—नानर्थक्यम्—
प्रमाणवर्गे निपतन्तः 595काममनर्थका भवन्तु, अर्थान्तरं वाऽऽलम्बन्ताम् !
व्यावृत्तिं त्वबलम्बमाना अंशतो नेति न श्रद्दध्महे ॥
II.45
विकल्पे सामान्यविषययकत्वमावश्यकम्
सजातीयविजातीयव्यावृत्त्यवमर्शे तु दर्शनवदसाधारणग्राहिण एव
विकल्पाः स्युरिति सामान्यनिबन्धनसंबन्धग्रहणादिव्यवदाराभावात् शब्दा
नुमाने 596प्रलयं प्रतिपद्येयाताम् ॥
अपोहस्य बाह्यत्वमान्तरत्वं वाऽऽवश्यकम्
व्यावृत्तिरपि बाह्या चेत्; तदवस्था कौमारिलदूषणाशनिः ।
आन्तरत्वे तु न तया विकल्पोपरागः कर्तुं शक्यः । नान्तः, न बहिरिति
तु 597भणितिभङ्गीमात्रम् ॥
व्यावृत्तेर्वस्तुत्वमावश्यकम्
तत्तादृशं किंचित् ? न किंचिद्वा ? न किंचिच्चेत् न—598तेन विकल्पा
नामनुरंजनस्योपपादयितुमशक्यत्वात् । अत्यन्तमसतश्च खरविषाणादेः
व्यवहारविषयत्वाभावात्, असत्ख्यातिनिरसननीतिमेवात्रोत्तरं करि
ष्यामः ॥
किंचिच्चेत्, नूनमन्तः, बहिर्वा तेन भवितव्यमेव । अतः कुमारिला
दिष्टदूषणापनिनीषया योऽयमुत्प्रेक्षितः पन्था नूतनः—सोऽपि सङ्कटः ।
तस्मात् यथाऽध्यवसायमेव तत्त्वमिति युक्तम् ॥
II.46
सामान्यस्य पदार्थान्तरसंसर्गित्वोपपत्तिः
बाह्ये च वस्तुनि शब्दान्तरोपनीयमानभावाभावसम्बन्धाद्यपि न
न युज्यते । सर्वस्य गौरित्यादिशब्दजनितस्य ज्ञानस्यास्तित्वाद्यनपेक्ष्य599
सामान्यमात्रविषयत्वात् । आकाङ्क्षानिराकरणाय अस्तिनास्तिपदा
न्तरं प्रयुज्यमानं सम्बन्ध्यते । नियतरूपता निश्चितनिजरूपे वस्तुनि
वस्त्वन्तरस्य व्यवच्छेदनिबन्धना600 सिध्यत्येव; घटो घट एव, न पट
इति । नैतावता तदपोह एव प्रत्याय्यो भवतीत्यलमतिक्षोदेन !
जातिसमर्थनोपसंहारः
II.47
—इत जातिवादः—
पदशक्तिः कुत्र
एवं सिद्धे बाह्येऽर्थे, निरस्तेषु तदपहारिषु तथागततस्करेषु अधुना
विचार्यते गोशब्दः किमाकृतेर्वाचकः ? उत व्यक्तेः ? अथ जातेः ? इति ॥
आकृतिपदस्यार्थः
जैमिनिर्हि आकृतिस्तु क्रियार्थत्वात् जै. सू. 9-3-33 इत्याकृतिं
जातिमुपदिशति । भाष्यकारोऽपि सास्नादिविशिष्टाऽऽकृतिरिति ब्रूमः
शा. भा. 1-1-5 इति ब्रुवाणः तथैव व्यवहरति । वार्तिककृताऽपि
व्याख्यातम् श्लो. वा. 1-1-5, आकृति-वाद 3—
जात्याकृत्योभदः
इह तु व्यक्त्याकृतिजातयस्तु पदार्थः गौ. सू. 2-2-68 इति सूत्र
कारः पृथगाकृतिं जातेरवोचदिति संस्थानमेवाकृतिं मन्यते ।
II.48
लोकोऽपि अवयवसन्निवेशात्मिकामाकृतिं व्यपदिशति—यत्राकृतिस्तत्र गुणा
वसन्ति इति । तस्मादवयवसन्निवेश एव आकृतिरुच्यते ॥
तस्याश्च शब्दार्थतोपपद्यते, न वा ? इति परीक्षार्हत्वमस्त्येव, न
जैमिनीयवदुपेक्षितुं 604सा युक्तेति । तद्व्यक्त्याकृतिजातिसन्निधौ प्रयोगात्
गोशब्दस्य कोऽर्थ इति विचार्यते ॥
आकृतिशक्तिवादोपक्षेपः
तत्राकृतिवादिनस्तावदाहुः—प्रयोगप्रतिपत्तिभ्यां किल शब्दार्थ
निश्चयः । वृद्धाः स्वार्थे तद्व्यवहरन्तः यस्मिन्नर्थे गोशब्दं प्रयुंजते,
श्रोतारश्च यमर्थं ततः प्रतिपद्यन्ते, स तस्यार्थः ॥
तत्र, यदि गोशब्दः केसरादिमति न प्रयुज्यते, सास्नादिमति च
प्रयुज्यते, तदसाधारणसन्निवेशविषय एवावगम्यते । प्रत्यक्षविषये गौरि
त्यादिपदं प्रयुज्यते । प्रत्यक्षं चाकृतिविषयम् । अश्वपिण्डसन्निवेशाद्वि
लक्षणो हि गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते । तत्कृतमेव वस्तूनामि
तरेतरवैलक्षण्यम् । अतः प्रत्यक्षविषये पदं प्रवर्तमानं आकृतामेव वर्तितु
मर्हति । प्रेषणादिक्रियायोगश्च व्यक्तिद्वारक आकृतेर्भविष्यतीति
यदुक्तं—
आकृतिशक्तिवादनिरासः
II.49
न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः, 605तदभावेऽपि
बाहुलेयसन्निवेशदर्शनात् । न च त्रैलोक्यान्तर्गतसकलगोपिण्डगत
सन्निवेशवचनत्वमवगन्तुं शक्यम्, आनन्त्यात् । ततश्च नाकृतिः शब्दार्थः,
तस्यां क्रियाऽनुपपत्तेः । न हि प्रेषणादिक्रियासाधनं सन्निवेशः, अपि तु
व्यक्तिः ॥
आकृतेश्शब्दार्थत्वेऽतिप्रसङ्गः
ननु ! जातिवाच्यत्वपक्षेऽपि गोत्वजातेः सर्वगतत्वात् किमिति मृद्ग
वानयनं नानुष्ठीयते ?—उच्यते—हस्ती तर्हि कथं नानीयते ? सर्वगत
त्वाज्जातेः606 । अथ सर्वत्रास्तित्वेऽपि व्यंजकव्यक्तिनियमेनापह्नूयते—
हन्त ! तर्हि सास्नादिमत्प्राणी गोत्वजातेरभिव्यंजकः, न मृद्गव इति
नातिप्रसङ्गः । सन्निवेशस्य च तत्र भावात् तद्वाच्यत्ववादिनः नैनमति
प्रसङ्गमतिक्रामन्ति ॥
शब्दानामाकृतिवाचकत्वे शुक्लादिशब्दसामानाधिकरण्यासंभवः
किंचाकृतिवचनत्वे गोशब्दस्य शुक्लादिगुणवाचिभिः पदान्तरैः सामा
नाधिकस्ण्यं न प्राप्नोति607 । न हि शुक्लादिगुणा आकृतिवृत्तयः, अपि तु
व्यक्तिवृत्तयः । तत्सामानाधिकरण्यादिबलवत्तया वरं व्यक्तिः शब्दार्थ
इष्यताम् ॥
II.50
आकृतेश्शब्दार्थत्वं निरर्थकम्
व्यक्तेश्शब्दार्थत्वे सौलभ्यम्
प्रयोगचोदनासामंजस्यात्609 व्यक्तिः शब्दार्थः । आलंभनविंशन
प्रोक्षणादिचोदनाः जातौ न संगता भवन्ति । न हि जातिरालभ्यते
विशस्यते, प्रोक्ष्यते वा ॥
अपि च षट् देयाः, द्वादश देयाः, चतुर्विशतिर्देया इति न जातिः,
षडादिसंख्याभिर्युज्यते; अपि तु व्यक्तिः । तस्मात् सैव शब्दार्थः ॥
जातेश्शब्दार्थत्वेऽनुपपत्तिः
अपि च यदि पशुरुपाकृतः पलायेत, अन्यं तद्वण तद्वयसमालभेत
इति यदि जातिः शब्दार्थः स्यात्, अन्यस्यालंभो नावकल्पेत, अन्यस्यानीय
मानस्य पशुद्रव्यस्य सैव जातिः । तत्रान्यत्वसम्बन्धो व्यक्तेरवकल्पते, न
जातेरित्यतोऽपि व्यक्तिः शब्दार्थः ॥
व्यक्तेश्शब्दार्थत्वं स्वरसम्
II.51
व्यक्तेश्शब्दार्थत्वे मीमांसकाक्षेपः
तदेतज्जैमिनीयैर्न क्षम्यते । तथाहि—व्यक्तिमात्रं वा शब्दार्थ
इष्यते ? 611विशिष्टा वा व्यक्तिः ? न तावत् व्यक्तिमात्रम्; न हि यस्यां
कस्यांचिद्व्यक्तौ गोशब्दं वक्तारः प्रयुँजते । न च यां कांचिद्व्यक्तिं
गोशब्दात् श्रोतारः प्रतिपद्यन्ते ॥
अथ गोत्वविशिष्टव्यक्तिः शब्दार्थ इत्युच्यत, गोत्वमेव हि तर्हि
गोशब्दार्थः, न व्यक्तिः । कथम् ? श्रूयताम—यदि हि व्यक्तिः शब्दार्थो
भवेत्, व्यक्त्यन्तरेषु न प्रयुज्येत । अथ व्यक्त्यन्तरेऽपि प्रयुज्यते,
सर्वव्यक्तिसाधारणस्तर्हि तस्यार्थः, न व्यक्तिः ॥
II.52
जातेरनुगमकत्वमात्रान्न निर्वाहः
ननु ! व्यक्त्यन्तरमपि व्यक्तिरेव । सोऽयं व्यक्तौ गोशब्दः प्रयुक्तः,
न सामान्ये—मैवम्—व्यक्तौ चेत् गोशब्दः प्रयुज्यते, कर्कादिव्यक्तावपि
प्रयुज्येत । यत्र प्रयोगोऽस्य दृष्टः, तत्र प्रयुज्यत इति चेत्; अद्य
जातायां गवि मा प्रयोजि, न हि तत्र प्रयोगोऽस्य दृष्ट इति । तस्मा
612द्दर्शनमकारणम्, प्रतिव्यक्ति तस्यासंभवात् ॥
व्यक्तौ शब्दार्थे इयं वा गौः, इयं वा गौः इति प्रतिपत्तिः स्यात्, 613न
तु इयमपि गौः इति । भवति चैवं प्रतीतिः । न चायमविद्यमाननियन्तृक
एव यदृच्छाशब्दप्रयोगः प्रवर्तत इति नियामकमस्य चिन्त्यम् ॥
गोत्वमेव नियामकमिति चेत्, आयुष्मन् ! साधु बुध्यसे । किन्तु
तद्गोत्वमवगतमनवगतं वेति वक्तुमर्हसि । नानवगतम्, अतिप्रसङ्गात् ।
अवगतं चेत्, कुतस्तदवगच्छामः ? शब्दात्, अन्यतो वा ? नान्यतः;
प्रमाणान्तरासन्निधानात् । शब्दाच्चेत्, तर्हि शब्दः 614प्रथमतरं गोत्वे
वर्तितुमर्हति, नागृहीतविशेषणा विशिष्टे बुद्धिः इति न्यायात् ॥
जातेर्व्यक्तिविशेषणतया शब्दार्थत्वासंभवः
ननु ! जातिं विशेषणत्वेन, व्यक्तिं च विश्येष्यत्वेन वक्ष्यति
गोशब्दः;
II.53
न शक्नोति वक्तुं, अतिभारप्रसङ्गात् । न च व्यक्त्यवगतौ गति
रन्या नास्ति, यत इयन्तं शब्दे भारमारोपयेम । न हि वयं व्यक्तिप्रति
पतिं भवन्तमपह्नुमहे । नापि भवन्तीं जातिप्रतिपत्तिमपह्नुमहे, उभय
प्रतीतेः प्रत्यात्मवेदनीयत्वात् । उभयत्र चाभिधात्री शक्तिरतिभारा
शब्दस्य, अन्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धेः । तत्र किं जातौ वर्त
मानः शब्दः व्यक्तिं, आहोस्विद्व्यक्तौ वर्तमानः जातिमाक्षिपत्विति
विचारणायां—615जातेर्विशेषणत्वात्पूर्वतरं प्रतिपत्तिरिति सैव शब्दस्यार्थो
भवितुमर्हति । तस्यां च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्य
तीति नोभयत्र शाब्दो व्यापारः ॥
गवादिपदानां दण्ड्यदिपदवैलक्षण्यम्
ननु ! दण्डिशब्दादिव विशेषणं च जातिं, विशेष्यां च व्यक्तिं
गोशब्दादेव प्रतिपत्स्यामहे । कोऽस्यातिभारः ?
विषमोऽयं दृष्टान्तः । तत्र हि प्रकृतिप्रत्ययविभागेन द्वयप्रतीतिरव
कल्पते । दण्डशब्दः प्रकृतिर्विशेषणमभिवदति । मत्वर्थीयप्रत्ययश्च
विशेष्यमिति । गोशब्दे तु नैष न्यायः संभवति । तत्र न 616विशेषणे
दण्डिशब्दो वर्तते, न च विशेष्ये दण्डशब्दः । इह तु गोशब्द एक एव
II.54
विशेषणे विशेष्ये वा वर्तते । विशेष्ये वर्तमानो विशेषणे प्रमाणान्तर
मपेक्षते । विशेषणे तु वर्तमानः तदवगमय्य, विशेष्यमप्याक्षिपतीति न
कश्चिद्दोषः ॥
शब्दाद्व्यक्तिबोधानुभवः अन्यथासिद्धः
तदिदमात्मप्रत्यक्षं617, यत् शब्दे उच्चरिते व्यक्तिरवगम्यत इति ।
सा किं शब्दात्, उत जातेः ? इति विवेको न प्रत्यक्षः । स युक्त्याऽ
वगम्यते । शब्दस्य द्वयाभिधाने यत्नगौरवात्, विरम्यव्यापारस्य चासंवे
दानात्, अन्तरेणापि च शब्दं618 जात्यवगमे व्यक्तिप्रतीतिदर्शनात् जातित
एवैषा व्यक्तिप्रतीतिः; जातिप्रतीतिश्च शब्दादिति निश्चीयते । भव
द्भिरपि च विशेषणज्ञानपूर्विका विशेष्यावगरतिरङ्गीकृतैव । यथाऽऽह
कणव्रतः—समवायिनः श्वैत्याच्छवैत्यबुद्धेश्च श्वेते बुद्धिस्ते कार्यकारणभूते
वै. सू. 8-1-9 इति ॥
शब्दात् व्यक्तिबोधनैयत्यं नास्ति
यत्पुनरभिहितम्—आलंभनविशसनप्रोक्षणादिक्रियायोगात् व्यक्तिः
शब्दार्थ इति—तदप्यनैकान्तिकम्—जातावपि क्वचित् क्रियायोगदर्शनात्—
श्येनचितं चिन्वीत इति ॥
व्यक्तेः कुत्रचित् क्रियान्वयायोगः
ननु ! अत्रापि व्यक्तेरेव कार्याङ्गता, नामूर्ताया जातेः—
मैवम्—न ह्यत्र श्येनः साधनत्वेन निर्दिश्यते पशुना यजेत
II.55
इतिवत् । 619कर्मण्यग्न्याख्यायाम् पा-सू-3-2-92 इति त्वभियुक्त
स्मरणात् चयननिर्वर्त्यः श्येन इति शब्दार्थोऽवगम्यते । न च येनव्यक्तिः
चयनेन निर्वर्तयितुं पार्यते । अग्न्याख्यायां इति हि स्मर्यते । न
हीष्टकानिचयेन पतत्री अभिनिर्वर्तते । तदाकारस्त्वग्निरभिनिर्वर्त्यत
इति अत्र जातेः क्रियाङ्गत्वं न व्यक्तेः ॥
सादृश्यं जातिमूलकमेव, न व्यक्तिमूलकम्
ननु ! व्यक्त्या सादृश्यं संपादयिष्यते—न शक्यते संपादयितुम्,
व्यक्त्यन्तरवैसादृश्यस्यापि संभवात् । यो ह्येकया व्यक्त्या सदृशः,
सोऽन्यैर्विसद्शोऽपि भवति ॥
अमूर्तानामपि साधनत्वसंभवः
यत्तु अमूर्ताया जातेर्नं क्रियाङ्गत्वमिति—नैष दोषः । अमूर्तानामपि
गणकर्मणां साधनभावोपपत्तेः—अरुणया क्रीणाति अभिक्रामं जुहोति
इति । व्यक्त्याक्षेपद्वारेण चालंभनविशसनप्रोयोगचोदनासु साधनत्वं जाते
रुपपत्स्यते ॥
II.56
आत्मा तावत् सर्वकर्मस्वधिकृतः, कर्ता च । स चामूर्तत्वात् देहे
न्द्रियद्वारेण औदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निर्वर्तयन् कर्ता
तेषु भवति । एवं जातिरपि व्यक्तिवर्त्मना तन्निर्वर्तयन्ती साधनतां
लप्स्यते ॥
जात्यादीनां क्रियाङ्गत्वं सद्वारकम्
एवं षड्देयाः इति, अन्यं तद्वर्णमालभेत p. 50 इति च
तद्वारकमेव योज्यम् । एतेनोपचयापचयसंघाताद्यपि व्याख्यातम् ॥
सम्बन्धग्रहणादिकार्यं च जातिपक्ष एव सूपपादम्, आनन्त्यव्यभि
चारादिचोद्यानवकाशात् ॥
प्रत्यक्षस्य व्यक्तिविषयकत्वेऽपि न तत्र शब्दशक्त्यावश्यकता
यत्पुनरभ्यधायि p. 53—प्रत्यक्षविषये पदं वर्तते । न च प्रत्यक्षस्य
सामान्यमात्रं विषय इति—परिहृतं तत् वार्तिककृता । प्रत्यक्षस्य हि
चित्रात्मकं वस्तु विषयः ॥
श्लो. वा. आकृ. 62 इति ॥
न हि नानाधर्मनिचयखचितचित्राकारवस्तुसमर्पणनिपुणमेकं621
किमपि पदमुपपद्यते । न च तत्र सम्बन्धग्रहणं सुकरमिति सामान्यां
शनिष्ठमेव पदं युक्तम् । तस्माज्जातिरेव शब्दार्थ इति ॥
II.57
व्यक्तेः शब्दवाच्यत्वसिद्धान्तः
अत्राभिधीयते—न जातिः पदस्यार्थो भवितुमर्हति । पदं हि
विभक्त्यन्तो वर्णसमुदायः, न प्रातिपदिकमात्रम् । तत्र च प्रकृतिप्रत्यया
वितरेतरान्वितमर्थमभिदधाते इति स्थितम् । द्वितीयादिश्च विभक्तिः
प्रातिपदिकादुच्चरन्ती प्रातिपदिकार्थगतत्वेन स्वार्थमाचष्टे । युगपच्च
त्रितयं विभक्त्यर्थः—कारकं, लिङ्गं, सङ्ख्या च । न चैतत्त्रितयं
प्रातिपदिकार्थे जातावन्वेति । न जातिः कारकम् । न च जातेः स्त्री
पुंनपुंसकविभागः । न चास्या द्वित्वादियोग इति ॥
लक्षणया न व्यक्तिबोधनिर्वाहः
ननु ! व्यक्तिलक्षणया सर्वमुपपत्स्यते इत्युक्तम्—न च युक्तमुक्तम्
—सकृत्प्रयुक्तं पदमंशेन कंचिदर्थमभिवदति । ततोऽर्थान्तरं लक्षयति ।
तद्गतत्वेन पुनः लिङ्गसङ्ख्याद्यभिधत्ते इति न प्रातीतिकोऽयं क्रमः622 ॥
प्रत्ययार्थस्य सद्वारकान्वयनिरासः
ननु ! पुंसीव सामान्ये कारकत्वं भविष्यति p. 62 ।
कक्ष्यान्तरितमित्येषः युक्तो वैभक्तिकोऽन्वयः ॥
II.58
प्रातिपदिकार्थसामान्यगतत्वेनैव विभक्त्या स्वार्थोऽभिधीयते, न
लक्षितव्यक्तिवृत्तित्वेन; यतोऽभिधानवैषम्यं स्यात् । स तु विभक्त्यर्थो
जातौ साक्षादसंभवत् 624कक्ष्यान्तरितो भविष्यति—नैतत्—625आत्मनो
ज्ञानप्रयत्नादियोगित्वेन कारकत्वोपपत्तेः । जातेस्तु साक्षान्न मनागपि
व्यापारलेशसंस्पर्श इति स्वतो दुर्लभं तस्याः कारकत्वम् । अतः कथं तत्र
विभक्त्यर्थान्वयः ?
संख्यादेर्व्यक्तिगतत्वेनैव लोकानुभवः
आकृतेरपि शब्दवाच्यत्वम्
II.59
श्येनव्यक्त्या चेत् सादृश्यमिष्टकाकूटस्य नास्ति, व्यक्त्यन्तरेण
व्यभिचारात् p. 55; न तराममूर्तया जात्या सादृश्यमाकाशेनेव
तस्यावकल्पत इति स्पर्धोदाहरणमात्रमेतत् ॥
जात्याश्रयव्यक्तेः पदवाच्यत्ववर्णनम्
तस्मात् तद्वानेव पदार्थः ॥
जात्याश्रयनिरूपणम्
ननु ! कोऽयं तद्वान्नाम ? तत् अस्यास्तीति तद्वान् इति विशेष एव
सामान्यवानुच्यते ॥
विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ । सामान्यं तु शब्दे
नानुच्यमानं नोपलक्ष्यमाणं भवति । उभयाभिधाने च शब्दस्यातिभार
इत्युक्तम्—उच्यते—नेदन्तानिर्दिश्यमानः शाबलेयादिविशेषः तद्वान् ।
II.60
न च सर्वस्त्रैलोक्यवर्ती व्यक्तिव्रातस्तद्वान् । किन्तु सामान्याश्रयः कश्चि
दनुल्लिखितशाबलेयादिविशेषः तद्वानित्युच्यते । सामान्याश्रयत्वाच्च
नानन्त्यव्यभिचारयोस्तत्रावसरः ॥
व्यक्तिवाचकत्वेऽपि गौरवाभावः
न च विशेषणमनभिधाय विशेष्यमभिदधाति शब्द इत्यभ्युप
गच्छामः, येनैनमतिभारेण पीडयेमहि । सामान्याश्रयमात्रे सङ्केत
ग्रहणात् तावन्मात्रं वदतः शब्दस्य कोऽतिभारः ?
एवं630—तद्वतो नास्वतन्त्रत्वात् इत्यादिदूषणं परिहृतं भवति ॥
किंच—
तस्मात् प्रत्यक्षविषये प्रवर्तमानं तत्समानविषयमेव भवितुमर्हति
पदम्, न सामान्यमात्रनिष्ठम् ॥
सामान्यविशेषयोः युगपद्ग्रहणाक्षेपः
II.61
प्रत्यक्षस्येव शब्दस्यापि विशिष्टनिष्ठत्वम्
उच्यते—प्रत्यक्षे तावत् द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविष
यत्वम् । सामान्येऽपि संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवत्
विशेष्यमपि विषयीकरोति । न हि सामान्यं प्रत्यक्षं, विशेषोऽनुमेय
इति व्यवहारः । एवं गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं
स्यात् । न चैवमस्ति । तस्माद्विशेष्यपर्यन्तं प्रत्यक्षम् । तथा पदमपि
तत्तुल्यविषयं, न तु सामान्यमात्रनिष्ठमिति युक्तम् ॥
व्यक्तिवाचकत्वे आनन्त्यादिपरिहारः
यत्तु—सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्तते p. 56 इति—
तत् केवलव्यक्त्यभिधाने सति आनन्त्यव्यभिचारभयादुच्यते । तद्वदभि
धाने तु तद्भयं नास्तीति न शुद्धजात्यभिधायितया शब्दः संकोचनीयः ॥
शब्दप्रत्यक्षयोर्वैलक्षण्योपपादनम्
ननु ! न सर्वात्मना प्रत्यक्षतुल्यविषयः शब्दः, प्रतिपत्तिसाम्य
प्रसङ्गात् । न च शब्दात् इन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः । तदुक्तं—
अन्यथैवाग्निसम्बन्धात् दाहं दग्धोऽभिमन्यते प्र. सं p. 82
इत्यादि—उच्यते—पूर्वमेवैतत्परिहृतम् । सकलविशेषग्रहणाग्रहणाभ्यां
II.62
प्रतिपत्तिविशेषसिद्धेः । धर्म्यभिप्रायेण च संप्लवस्योक्तत्वात् । नैतावता
सामान्यमात्रे निष्ठः शब्दो भवति ॥
शब्दस्य जातिमात्रवाचकत्वानुपपत्तिः
अपि च निष्कृष्टसामान्यांशवचनत्वे पदस्येष्यमाणे गोशब्दात् गोत्व
शब्दाच्च तुल्ये प्रतिपत्ती स्याताम् । गौः शुक्लः इतिवच्च गोत्वं शुक्लं
इति बुद्धिः स्यात् । चातुर्वर्ण्यादिवच्च स्वार्थं एव गोशब्दात् भावप्रत्ययः
त्वतलादिः स्यात् ॥
अथ मन्येथाः—आक्षिप्तव्यक्तिकां जातिं गोशब्दो वक्ति । भाव
प्रत्ययान्तस्तु निष्कृष्टस्वरूपमात्रनिष्ठामिति—तदनुपपन्नम्—अनाक्षिप्त
व्यक्तिकाया जातेः कदाचिदप्यदर्शनात् ॥
गो—गोत्वपदयोर्वैलक्षण्यम्
अथ गोशब्दश्रवणवेलायां व्यक्तिसंस्पर्शवती जातिरवगम्यते ।
भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छून्याऽसौ प्रतीयत इति—यद्यवं
आगतोऽसि मदीयं पन्थानम्—आश्रयवती चेज्जातिरुच्यते शब्देन जात्या
श्रय उक्त एव भवति । नान्यथा हि साश्रयवत्युक्ता स्यात् । तदाश्रय
परिहारेणाश्रयिसामान्यमात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते । तथा
चाहुः—632यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः, तदभिधाने त्वत
लादयः म-भा-5-1-2-119 इति । गुणस्य हि भावात् द्रव्ये शब्द
II.63
निवेशः इति तद्वद्वाच्यत्वपक्षसाक्षीण्यक्षराणि । सामानाधिकरण्यं च
तत्रैवोपपद्यत इत्युक्तमेतत् । तस्मात्—
अनुपरतव्यापारे शब्दे तदवगमात् ॥
अन्विताभिधानवादे व्यक्तिबोधावश्यकता
जात्याकृतिव्यक्तिषु शक्तिवादोपसंहारः
तदिदमुक्तं सूत्रकृता—व्याक्त्याकृतिजातयस्तु पदार्थः p. 47
इति । तुशब्दो विशेषणार्थः । किं विशेष्यते ? गुणप्रधानभावस्या
नियमेन शब्दार्थत्वम् । स्थितेऽपि तद्वतो वाच्यत्वे क्वचित्प्रयोगे जातेः
प्राधान्यं, व्यक्तेरङ्गभावः—यथा गौर्न पदा स्प्रष्टव्या इति सर्वगवीषु
II.64
प्रतिषेधोऽवगम्यते । क्वचिद्व्यक्तेः प्राधान्यं, जातेरङ्गभावः—यथा
गां मुंच गां बधान इति नियतां कांचिव्द्यक्तिमुद्दिश्य प्रयुज्यते ।
क्यचिदाकृतेः प्राधान्यं, व्यक्तेरङ्गभावः, जातिर्नास्त्येव—यथा पिष्ट
मय्यो गावः क्रियन्ताम् इति सन्निवेशचिकीर्षया प्रयोग इति । सर्वसर्व
गतत्वेऽपि जातेर्न 634मृदगवादौ विशिष्टा वृत्तिरित्युक्तम् । तदेवं गवा
श्वादिशब्दानां तावत् तद्वानर्थ इति सिद्धम् ॥
जातिरहितपदार्थस्थले गतिप्रदर्शनम्
एव हि द्रव्यशब्दा इत्युच्यन्ते ॥
II.65
गुणवाचिशब्देषु विशेषः
636गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विर
मन्ति । केचित्तु गुणमभिधाय द्रव्यमप्याक्षिपन्ति, तत्सामानाधिकरण्य
प्रयोगदर्शनात् ॥
न ह्येवं वक्तारो भवन्ति चन्दनं गन्धः आम्रं रसः इति ॥
शुक्लादयोऽपि शब्दाः गुणपदोपबन्धसंकोचितशक्तयः भावप्रत्ययान्त
पदवत् गुणमात्राभिधान एव पर्यवस्यन्ति—शुक्लो गुणोऽश्वः शौक्ल्य
मश्वः इति सामानाधिकण्यप्रयोगादर्शनात् ॥
क्रियावाचिशब्दानां शक्तिप्रकारः
क्रियाशब्दाश्च द्विविधा भवन्ति—केचित् कर्तरि कर्मणि करणे वा
प्रयुज्यन्ते, केचिद्भावमात्रवचना एव । कर्त्रादिवाचिनस्तावन्निमित्तीकृत्य
कांचन क्रियां तद्योगिद्रव्ये वर्तन्ते, पाचकादयः ॥
II.66
न हि पाचकः लावकः इति प्रवृत्तक्रिय एवोच्यते, अन्यदाऽपि
तथा तथा व्यवहारात् ॥
तदुक्तम्—कृदभिहितो भावः द्रव्यवद्भवति, क्रियावच्च इति ।
न चैकान्तेन परिहृतसाध्यमानावस्थैव तैः क्रियोच्यते; यत आह
क्रियावच्च639 इति ॥
प्रवृत्तिनिमित्ताभिधेययोर्भेदः
पाचकादिब्शदानां हि प्रवृत्तौ निमित्तं क्रिया । अभिधेयास्तु
कर्त्रादयः ॥
II.67
उपसर्गादीनां वाच्यार्थनिर्णयः
उपसर्गाः प्राचुर्येण क्रियायोगे वर्तन्ते—उपसर्गाः क्रियायोगे पा-सू.
9-8-59 इति स्मारणात् ॥
केचित्तु नामभिरभिसम्बध्यते—यथा ईषदर्थवाचिनः आपिङ्गः
इत्यादयः । अन्ये क्रियागर्भतया नाम्ना सम्बध्यन्ते । यथा—प्रगतं वयः
यस्य सः 640प्रवया इति ॥
अन्ये धातोर्विचित्रार्थतामापादयन्तः तद्विशेशणत्वेन सम्बध्यन्ते ।
यथोक्तम्—
उपसर्गाणां क्वचिद्विरुद्धार्थाभिधायित्वम्
ननु च ! क्वचिदुपसर्गो धात्वर्थमेव बाधमानो दृश्यते । यथा
प्रस्थितः इति गतिनिवृत्तिवाची धातुः प्रवृत्तगतिवचनतां नीतः
प्रशब्देन । न चेदृशं विशेषणं भवितुमर्हति ॥
II.68
नैष दोषः—642अर्थान्तराभिधानसामर्थ्यापादनमेव धातोर्विदधदुपसर्गो
विशेषणं भवितुमर्हति । अनेकार्थामिधानशक्तिश्च धातुरुपसर्गेण
नियतेऽर्थेऽवस्थाप्यत इति तस्य तद्विशेषणता ॥
उपसर्गाणां वाचकत्वम् ? उत द्योतकत्वम् ?
ते तु किं वाचकास्सन्तः तदवगतिमुपदधति ? किं वा द्योतकाः ?
इति किमनेन ॥
एवं समुच्चयादिवाचिनां चादिनिपातानां, वृक्षं प्रति द्योतते इति
कर्मप्रवचनीयानां च अर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं
प्रसङ्गेन ॥
पदशक्तिविचारोपसंहारः
II.69
वाक्यार्थविचारोपक्षेपः
केचिदाचक्षते—बाह्यस्य वाक्यार्थस्यासंभवात् पदार्थसंसर्गनिर्भासं
ज्ञानमेव वाक्यार्थ इति ॥
अन्ये तु—वास्तवः पदार्थानां परस्परसंसर्गो बाह्य एव वाक्यार्थ
इत्याहुः ॥
644अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे
कृष्णादिनिवृत्तेरवगमात् ॥
अपरे संगिरन्ते—संसर्गस्य दुरपह्नवत्वात् तस्य च 645गुणप्रधानभाव
गर्भत्वात् गुणीभूतकारकनिकरनिर्वर्त्या प्रधानभूता क्रिया वाक्यार्थ इति ॥
अन्ये मन्यन्ते—646भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो 647भावना
शब्दवाच्यो वाक्यार्थः । लिङादिशब्दव्यापारवाच्यस्तु शब्दभावनाख्यः
पुरुषस्यार्थभावनानुष्ठाने प्रवर्तकः स विधिरुच्यत इति ॥
II.70
अन्ये ब्रुवते—648द्वयाभिधाने लिडादेः प्रत्ययस्य भारगौरवत् विधिरेव
वाक्यार्थः, स एवानुष्ठेयः प्रवर्तकश्चेति ॥
तत्रापि द्वयी विमतिः—कैश्चित् प्रेषणात्मकत्वं शब्दस्याभ्युपगतम्,
लिडादिशब्देभ्यस्तथा तदवगमात्, कार्यान्तरानवगमात्, भावार्थमात्रका
र्यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात् तस्य कार्यत्वम् ॥
अन्यैस्तु—कार्यत्वेन नियोगप्रतीतेः अर्थात्तस्य प्रेरकत्वमिति संश्रितम् ।
कार्यमवगतं स्वसिद्धये पुरुषं नियुङ्क्ते—ममेदं कार्यं इत्यवगते हि
तत्सिद्धये पुरुषः प्रवर्तत इति ॥
अपरे पुनः—अभिनवं वाक्यार्थं उद्योगं नाम वर्णयांबभूवुः—इत्य
नेकशाखा विप्रतिपत्तिः । तदत्र किं तत्त्वमिति ॥
वाक्यार्थस्याबाह्यत्वं, ज्ञानस्यैव वाक्यार्थत्वं इति बौद्धपक्षः
अत्रैके तावदाहुः—वाक्यार्थो नाम पारमार्थिको बहिर्नास्त्येव ।
स हि पदार्थेभ्यो व्यतिरिक्तो वा स्यात् ? अव्यतिरिक्तो वा ? न व्यति
रिक्तः—भेदानुपलम्भात् । गौः शुक्ला आनीयतां इत्यत्र पदग्रामे जाति
गुणक्रियादिपदार्थव्यतिरेकेण कोऽसौ वाक्यार्थः ? स न दर्शयितुं शक्यते ।
अव्यतिरेके तु पदार्था एव वाक्यार्थः प्रत्येकं वा स्यात् ? सामस्त्येन
वा ? न प्रत्येकं, तथाऽनवगमात्; न हि गौरिति पदार्थ एव वाक्यार्थो
भवति ॥
सामस्त्यं तु न तेषामस्ति । तद्धि सत्तया भवेत् प्रतीत्या वा ? सत्तया
न सामस्त्यमशेषपदार्थराशेरस्तीति न नियतः कश्चन वाक्यार्थोऽवधार्यते ।
II.71
प्रतीत्या तु सामस्त्यमधटमानम्, युगपद्भावित्वेन ज्ञानानां एकपदार्थप्रतीति
समये पदार्थान्तरप्रतीत्यसंभवात् । पदार्थप्रतित्युपायाश्च वर्णाः । तऽपि
न युगपद्भाविनः । कुतः प्रतीतिकृतं सामस्त्यम् ?
अपि च पदार्थसमुदायः किमितरेतरसंस्ष्टो वाक्यार्थः ? अन्यथा
वा ? न तावदन्यथा—गौरश्वः पुरुषो हस्ती इत्येवमादावदर्शनात् ।
संसर्गस्तु दुरुपपादः । स ह्यपेक्षा गतो भवति । न चार्थोऽर्थान्तरमाका
ङ्क्षति, अचेतनत्वात् । बुद्धीनामपि क्षणिकत्वात् अन्योन्यं नाकाङ्क्षा ।
न च तत्कृतः सम्बन्धः ॥
पदार्थसंसर्गस्यापि वाक्यार्थत्वासंभवः
अत एव न संसर्गो वाक्यार्थः । न ह्यसौ अर्थानां ज्ञानानां वा
यथोक्तनीत्याऽवकल्पते ॥
व्यवच्छेदोऽप्येवमेव649 निराकार्यः । सोऽपि हि न ज्ञानानामुपपद्यते ।
तदुक्तम्—श्लो. वा. वाक्या-14
न चापेक्षायां सत्यामपि सम्बन्धः कश्चिदुपलभ्यते । यथोक्तम्—
श्लो. वा. वाक्या-22
II.72
अर्थानां तु कचिदपि भवन् सम्बन्धः शब्दैरनभिधीयमानत्वात्
असत्कल्प एव, न च भेदसंसर्गयोर्वाचकं किंचित्पदमस्ति, अश्रवणात् ।
असति च तद्वाचिनि पदे न 652तयोः पदार्थत्वम् । अपदार्थस्य च न
वाक्यार्थत्वम् ॥
श्रुतेऽपि 653तद्वाचिनि पदे सुतरामसङ्गतिः—गौः शुक्ल आनीयतां
संसर्गः इति कोऽर्थः । तस्मात् बाह्यस्य वाक्यार्थस्य सर्वप्रकारमसंभवात्
पदार्थसर्गनिर्भासं ज्ञानगात्रं वाक्यार्थः, तेनैव लोकव्यवहार इति ॥
बाह्यार्थस्यैव वाक्यार्थत्वं, ज्ञानस्य तत्त्वनिरासश्च
तदिदमनुपपन्नम्—बाह्यार्थस्यानन्तरमेव विस्तरेण प्रसाधितत्वात् ।
न च संसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति । स्थापयित्वा हि
बाह्यमर्थं वाक्यार्थचिन्तामुपक्र न्तोवन्तो वयम् । अतः कोऽवसरो विज्ञा
नमांत्रवाक्यार्थत्ववर्णनस्य ॥
पदार्थवाक्यार्थयोर्वैलक्षण्यम्
न च पदार्थव्यतिरिक्तो नास्ति वाक्यार्थः । इदं तावद्भवान् पृष्टो
व्याचष्टाम् । किं गौः इति पदाद्यादृशी प्रतिपत्तिः, तादृश्येव गौः शुक्ल
आनीयताम्' इति वाक्यात् ? उत भिन्ने एते प्रतिपत्ती ? इति ॥
तत्र तुल्यत्वं तावत्प्रतिपत्त्योरनुभवविरुद्धम् । वैलक्षण्ये तु प्रतीत्योः
वषयवैलक्षण्यमपि बलादुपनतम्, असति विषयभेदे प्रतीतिभेदानुपपत्तेः ।
II.73
यश्च तदतिरिक्तो विषयः, स वाक्यार्थः । एवं केवलगुणक्रियापदोच्चार
णेऽपि योजनीयम् । तदुक्तं—यदाधिक्यं स वाक्यार्थः इति ॥
संसर्गोऽपि पदानां न न प्रतीयते । न हि गौरश्वः पुरुषो हस्ती
इत्यसंसृष्टपदार्थप्रतीतिवत् गौः शुक्ल आनीयताम् इति प्रतीतिः । यथा
च संसर्गः प्रतीयते, यश्च प्रतीत्युपायः, तत्सर्वं विस्तरतो निर्णेष्यते ।
तस्मात् बाह्य एव वाक्यार्थः ॥
व्यवच्छेदस्य वाक्यार्थत्वनिराकरणम्
बाह्य एव भवन् न व्यवच्छेदो वाक्यार्थः, विधिरूपत्वेनावगमात् ।
संसर्गमन्तरेण चान्यव्यवच्छेदस्यापि दुरुपपादत्वात् । न हि शुक्लपदेना
संसृष्टः654 गोपदार्थ कृष्णादिभ्यो व्यावृत्त इत्यवगम्यते ॥
गोशब्दात् सर्वगवीषु बुद्धिरुपसर्पन्ती पदजनिता शुक्लपदसन्नि
धानात् अन्यतः कृष्णादेरपसर्पतीति व्यवच्छेदो वाक्यार्थ इति चेत्—मैवम्
—तत्सम्बन्धावगमपूर्वकत्वात् तदितरव्यावृत्तेः । तत्सम्बन्धावबोधेनैव
सिद्धे वाक्यस्यार्थवत्त्वे पाश्चात्यः कृष्णादिव्यवच्छेदावगमो यदि भवति,
भवतु कामं, न त्वसौ वाक्यार्थ 655इति ॥
क्रियायाः वाक्यार्थत्वपक्षः
तदेवं विधिरूपे बाह्ये च शब्दार्थेऽवस्थिते सति क्रियामेव केचिद्वा
क्यार्थं वर्णयन्ति । अयमेषामाशयः—
II.74
न च गुणप्रधानभावमन्तरेण संसर्गः पदार्थानामवकल्पते । न
चाख्यातरहितं वाक्यं किंचत्प्रयोगयोग्यम् । अनुच्चारिते तस्मिन् आका
ङ्क्षाया अनिवृत्तेः । श्रोत्राकाङ्क्षानिवृत्तये च वाक्यानां लोके प्रयोगः ।
लोकवच्च वेदादप्यर्थोऽवसीयते । आख्याताच्च 657पूर्वापरीभूतः साध्य
रूपोऽर्थोऽवगम्यते, न सिद्धरूपः । सिद्धसाध्यसमुच्चारणे कस्य किंतन्त्रतेति
चिन्तायां साध्यसिद्धये सिद्धमुपात्तमिति प्रतीयते ॥
सर्वेषां क्रियाप्रधान्ये निदर्शनानि
क्रिया हि प्रतीयमाना स्वनिष्पत्तये साधनान्याक्षिपति, तैश्च योग्यैः
संबध्यते । तानि च कानिचित् पदान्तरोपात्तानि भवन्ति । कानिचित्
वाक्यान्तरोपनीतानि । कानिचित् प्रकरणान्तरपाठलभ्यानि । 658कानि
चिदारादुपकारकाणि । कानिचित्सन्निपत्योपकारकाणि, 659कानिचिद
न्तिकोपनिपतितान्यपि योग्यताविरहात् परिहरति । 660कानिचिदतिदूर
II.75
वर्तीन्यपि योग्यानि स्वसंपत्त्यर्थमाहरति । इत्येवं दृष्टादृष्टोपकारकानेक
कारककलापसंपाद्यमानस्वरूपा क्रियैव वाक्यार्थः ॥
कतुरपि क्रियाशेषत्वमेव
अधिकारिपदमपि क्रियापेक्षितकर्तृसमर्पणेन तदुपयोगितामेवाव
लम्बते—अस्यां क्रियायामयं कर्ता, अनेनेयं क्रिया संपद्यते—इति । तत्र च
न क्रिया स्वप्राधान्यमुज्झति । न हि क्रिया कर्त्रर्था, कर्ता तु क्रियार्थः ।
स हि तां निर्वर्तयन्नुपलभ्यते । शब्दोऽपि तथैवोपदिशति एष इदं
कुर्यात् इति ॥
कर्तुरप्राधान्येऽपि प्रवृत्त्युपपत्तिः
किमथ पुनरसौ क्रियामनुतिष्ठतीति चेत्, शब्दप्रामाण्यादेवेति
ब्रूमः । शब्देन हि चोदितः त्वयेदं कर्तव्यम् इति । स चेन्नियुक्तो
नानुतिष्ठन् चोदनामतिक्रामेत् । शास्त्रप्रत्ययाच्च क्रियामनुतिष्ठति ।
विरतफलाभिलाषः कर्मसंस्कारादेव परिपक्वकषायः स्तोकस्तोकप्रपंच
प्रविलापनद्वारेणोत्तमाधिकारमारूढः तत एव 661ज्ञातास्वादः तमेव परम
पुरुषार्थमासादयतीति दीर्घा सा कथा; तिष्ठतु ! किमनया ? सर्वथा
क्रियाप्राधान्यात् सैव वाक्यार्थ इति । तदुक्तम् द्रव्यगुणसंस्कारेषु
बादरिः जै-सू. 3-1-3 इति ॥
II.76
एतदुक्तं भवति—द्रव्यादीनामेव क्रियां प्रति शेषत्वमनुगम्यते, न
क्रियाया अन्यशेषत्वमिति662 ॥
फलस्यैव वाक्यार्थत्वं युक्तम्
अत्रोच्यते—कुत इदं क्रियायाः प्राधान्यमुपेयते ? वस्तुवृत्तेन वा ?
शब्दप्रत्ययमहिम्ना वा ?
क्रियायां शब्दप्राधान्यस्याप्यसंभवः
अथोच्यते—न 664वस्तुतः प्राधान्यमिहाश्रीयते, अपि तु शब्दतः ।
शब्दप्रमाणका वयम् । यत् शब्द आह, तदेवास्माकं प्रमाणम् । तद्यथा
राजपुरुषः इति । वस्तुवृत्ते राजा जगतामीशिता प्रधानम्, पुरुष
स्तपस्वी तदिच्छानुवर्तनेन जीवति । शब्दस्तु पुरुषप्राधान्यमाचष्टे,
उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्येति । एवमिहापि यजेत दद्यात्
जुहुयात् इति क्रियां प्राधान्येनोपदिशति शब्दः । स्वर्गकामः इत्यपि
II.77
क्रियां प्रति 665कर्तुरुपदेशः । वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्म
स्वाभाव्यात फलं चेद्भवति, भवतु तत् ! पुरुषोऽपि प्रीयतां नाम
फलेन, न तु शब्दः फलोपदेशनिष्ठ । आह च तस्मिंस्तु कृते स्वयमेव
तद्भवति शा-भा-3-1-3 इति । स्वयमेवेति कोऽर्थः ? न शब्दः फल
पारतन्त्र्यं क्रियायाः प्रतिपादयतीति ॥
तदेतदयुक्तं—एवं वर्ण्यमाने स्वर्गकामो यजेत इति स्वर्गकाम
पदस्यान्वयो दुरुपपादः ॥
फलस्य वाक्यार्थत्वे आक्षेपः
ननु ! कर्तृपदमेतत् । कर्ता च क्रियार्थः, न कर्त्रर्था क्रियेत्युक्तम्—
न कर्तृपदं स्वर्गकाम इति, किन्त्वधिकारिपदमेतत् । न हि जात्यैव
कश्चित् स्वर्गकामो नाम कुत्रचित् पुरुषोऽवगम्यते, योऽत्र कर्तृत्वेन
नियुज्येत । स्वर्गे कामो यस्यासौ स्वर्गकामः, स्वर्गं वा कामयति स्वर्ग
कामः । उभयथाऽपि स्वर्गकामनाविशिष्टः पुरुषस्तस्मात्पदादवगम्यते ।
तदत्र काम्यमानः स्वर्गः कथं यागक्रियया संबध्यते ? दृष्टेन, अदृष्टेन
वोपकारेण ? यदि हि चन्दनं स्वर्गः, षोडशवर्षदेशीया अङ्गनाः स्वर्गः
इति चन्दनाङ्गनादि द्रव्यसामानादिकरण्यप्रयोगात् द्रव्यवचनः स्वर्ग
शब्दः, तदा द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः जै-सू-6-1-1
इति दध्यादिवत् साधनत्वेन स्वर्ग उपकरोति क्रियायाः । 666कामनाऽपि
II.78
द्रव्याहरणाङ्गत्वादुपकारिणी, यत् तया द्रव्यमानेतुं यतत इति दृष्टो
पकारित्वम् ॥
फलस्य वाक्यार्थत्वसमर्थनम्, स्वर्गपदार्थश्च
तच्चैतदसारम्—स्वर्गशब्दस्य द्रव्यवाचित्वाभावात् । प्रीतिवचनो
ह्येष स्वर्गशब्दः, न द्रव्यवचनः । तदेव चन्दनं शीतातुरेण, अग्रीष्मोपहतेन
वा न स्वर्ग इति व्यपदिश्यते । सैवाङ्गना विरतायां सुरततृषि न
स्वर्ग इत्युच्यते । तदेवमेष स्वर्गशब्दः प्रीतिं न व्यभिचरति, द्रव्यं तु
व्यभिचरति । एवमद्रव्यत्वात् स्वर्गस्य न क्रियाङ्गत्वम् ॥
अथापि निरतिशयसुखप्रतीत्यन्यथाऽनुपपत्तितः परिकल्पितः कनक
गिरिशिखरादिर्देशः स्वर्गः; सुतरां तस्य न क्रियासाधनत्वमवकल्पते,
667दध्यादिवदुपादातुमशक्यत्वात् ॥
अथापि अदृष्टेनैव द्वारेण समुद्रं मनसा ध्यायेते इतिवत् स्वर्गका
मना तत्रोपकारिणी—तदपि क्लिष्टकल्पनामात्रम्—प्रीतिर्हि निरतिशया
स्वर्गः । प्रीतेश्चानन्यार्थत्वं युक्तम् । प्रीत्यर्थमन्यत्, नान्यार्था प्रीतिः ।
तस्मान्न यागाय स्वर्गः, अपितु स्वर्गाय यागः । इत्थं च क्रियासाधनानु
पदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदं समन्वेति ॥
स्वर्गकामादिपदानां अन्वयक्रमः
कथं तर्ह्यस्यान्वयः ? अधिकारिवाचित्वेन ब्रूमः । कोऽयमधि
कारी नाम ? कर्मणः स्वामी । ईस्वरवचनो ह्यधिकृतशब्दः ॥
ननु कर्तैव कर्मणः स्वामी, नान्यः—मैवम्—स्वामी सन् कर्ता, न
कर्ता सन् स्वामीति ॥
II.79
ननु क्रियाकारकसम्बन्धव्य तिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च
सम्बन्धः ? उच्यते—ममेदं कर्तव्यम् अहमत्र स्वामी इति स्वस्वामि
भावमवगत्य पाश्चात्यः क्रियाकारकसम्बन्धोऽवगम्यते ॥
अधिकारिणः कर्तुश्च विशेषः
ननु त्वयाऽपि 668क्रियाकारकसम्बन्धौ नापह्नूयत एव, जातिवादिनेव
व्यक्तिप्रतीतिः । स तु पाश्चात्य इन्यत्र किं प्रमाणम् ? उक्तमत्र 669अनु
पादेयविशेषण विशिष्टस्य पुंसः निर्देशादिति । कारकत्वानुगुणविशेषण
योगिनो ह्यस्य कर्तृतया योग्यः संबन्धः । तद्विपर्यये त्वधिकारित्वेनेति ।
तस्मादधिकृतस्य कर्तृत्वम्, न कर्तुरधिकारः ॥
इत्थं च स्वर्गकामस्याधिकृतत्वं निर्वहति । यदि हि तत्कर्म स्वर्गाय
स्यात्, स्वर्गो मे भोग्यो भवेत् । कथमहं स्वर्गं प्राप्नुयाम् इत्येवं साध्य
त्वेन स्वर्गमिच्छन् स्वर्गकाम इत्युच्यते । यदि च न स्वर्गसाधनं तत्कर्म,
तद्विरुद्धमेवेदमापतति—स्वर्गं कामयते, यागं करोतीति—अन्यदिच्छति,
अन्यत् करोतीति हि स्यात् । अतः कर्मणः काम्यमानसाधनतामप्रतिपद्य
मानः स्वर्गकामः तत्र नैवाधिक्रियते; न चानधिक्रियमाणस्तत्र संबध्यते ॥
तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि संबन्धात् स्वर्गयागयोश्च
साध्यसाधनभावावगममन्तरेण तस्याधिकारनिर्वाहासंभवात् अवश्यं
क्रियायाः साधनत्वं, स्वर्गस्य च साध्यत्वमभ्युपगन्तव्यम् । अतश्च
क्रियायाः फलं प्रति गुणभावान्न प्राधान्यम् । अप्राधान्याच्च न वाक्यार्थ
त्वम् । तदुक्तम्—'कर्मण्यपि जैमिनिः फलार्थत्वात् जै-सू-३-१-४ इति ॥
II.80
क्रियाया अपि फलशेषत्वमेव
का चेयं क्रिया वाक्यार्थ इत्युच्यते ? य एष यागादिः भावार्थें धातु
वाच्यः ? उत 670प्रत्ययार्थः कश्चित्तदतिरिक्तः ? इति ॥
तत्र भावार्थस्य काम्यमानसाधनत्वात् अप्राधान्यमुक्तमेव । प्रत्य
यार्थेऽपि काम्यमानभावार्थगतसाधनभावापरित्यागैनैव प्रतीयमानो
वाक्यार्थतामेति, 671नान्यथेति । स चायं परेषामपि पक्षः । तस्मान्न
क्रियामात्रपर्यवसायी वाक्यार्थ इति सिद्धम् ॥
फलस्यापि वाक्यार्थत्वासंभवः, पुरुषस्य वाक्यार्थत्वविमर्शश्च
किमिदानीं फलस्यैव वाक्यार्थत्वं प्रचक्ष्महे ? तद्धि प्रधानं साध्यम् ।
एतदर्थो ह्यखिलः श्रमः—एतदपि नास्ति—क्रियार्थ एव तावद्वाक्यार्थत्वं
कथमुत्सृष्टम् ? अप्राधान्यादिति चेत्—फलेऽपि समानम् । फलमपि
पुरुषार्थत्वादप्रधानम् । न हि स्वर्गः स्वतन्त्र एव सत्तां लभतां इति
यतते पुरुषः, किन्तु स्वोपभोग्यतयैव सर्वमभिलषतीत्यतस्तस्यापि तदर्थ
त्वान्न प्राधान्यम् । आह च फलं च पुरुषार्थत्वात् जै-सू-3-1-5
इति ॥
हन्त ! तर्हि पुरुष एव वाक्यार्थो भवतु । स ह्यनन्यनिष्ठः,
स्वतन्त्रत्वात्—उच्यते—पुरुषोऽप्यौदुम्बरीसंभारादिषु विनियुज्यत एव ।
यजमानसंमिता औदुम्बरी भवति इति तस्यापि तदर्थत्वम् । उक्तं च
पुरुषश्च कर्मार्थत्वात् जै-सू-3-1-6 इति ॥
II.81
यद्येवं, संकटे पतिताः स्मः । न विद्मः किं विदध्महे । क्रिया हि
फलार्था, फलं च पुरुषश्च क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं
शिष्मः ? कस्य वाक्यार्थत्वम् ?
पुरुषस्यापि वाक्यर्थत्वासंभवः
उच्यते—पुरुषस्तावन्न वाक्यार्थः; आख्यातवाच्यत्व एव तस्य
672विवदन्ते, का कथा वाक्यार्थत्वस्य ?
ननु कर्तरि लकारः इति स्मरणात् कथं नाख्यातवाच्यः कर्ता ?
कोऽयं लकारो नाम ? 673स हि वर्तमाने लट्—इति विधाय, कर्तरि शप्
—युष्मदि मध्यमः—अस्मद्युत्तमः—शेषे प्रथमः—तिप्तस्झि—इति,
बहुषु बहुवचनम्—द्व्येकयोर्द्विवचनैकवचने—इति वाक्यान्तरैर्विभज्य
विवृतः । तदेतानि कारकसंख्याविभक्तिविधायीनि सूत्राणि एकवाक्यतया
व्याख्येयानि, एकार्थविषयत्वात् । एको हि पचति इत्यादिः शब्दः
तैर्व्याक्रियते । तदेवमेष वाक्यार्थो भवति—कर्तुबहुत्वे बहुवचनं झि इति ।
सेयं कर्तृसंख्याऽऽख्यातवाच्या भवति, न कर्ता—इति कुतस्तस्य वाक्यार्थ
त्वम् ? अलं चानया शास्त्रान्तरगर्भया द्राधीयस्या कथया । पुरुषस्तावन्न
वाक्यार्थः ॥
भावनाया वाक्यार्थत्वपक्षः
फलमपि न वाक्यार्थः, सिद्धासिद्धविकल्पानुपपत्तेः । सिद्धस्य
तावत् फलस्याभिधानमेव नास्ति, साध्यमानत्वेन निर्देशात् ॥
II.82
भावनास्वरूपविवरणम्
केवं भावना नाम ? भाव्यनिष्ठो p. 75 भावकव्यापारो भावना ।
भाव्यं हि स्वर्गादि फलं, साध्यमानत्वात् । साध्यत्वं चास्य 675भवनक्रिया
कर्तृत्वात् । भवनक्रियायां च कर्तृत्वं उत्पत्तिधर्मकस्य वस्तुनो दृष्टम्;
न नित्यं भूतस्य, नापि नित्यमभूतस्य । यथाऽऽह—तं. वा. 2-1-1
स्वर्गादिश्च काम्यरूपोऽर्थः खतत्पुष्पाभ्यां विलक्षण इति भाव्यो
भवति । तन्निष्ठस्तदुत्पादकश्च पुरुषव्यापारो यः, स भावना । सा ण्यन्तेन
भवतिनोच्यते । प्रकृत्यर्थस्य भवतेः कर्ता यः स्वर्गादिः, स एव 676ण्यन्तस्य
तस्य कर्मतां प्रतिपद्यते । कर्ता त्वस्य प्रयोजकः पुरुषः । णेश्चार्थः
प्रयोजकव्यापारः । पुरुषो हि भवन्तं स्वर्गादिमर्थं स्वव्यापारेण भावयति—
संपादयति । स तत्संपादको व्यापारो भावनेत्युच्यते ॥
II.83
भावना न क्रियारूपा
ननु व्यापारः क्रियैव, तदतिरिक्तस्य व्यापारस्यासंभवात् । क्रिया
वाक्यार्थपक्षश्च प्रतिक्षिप्तः—उच्यते—न क्रियामात्रं भावना । अपि
तु परिदृश्यमानपूर्वापरीभूतयज्यादिभावस्वरूपातिरिक्तः पुरुषव्यापारः
677प्रत्ययात् प्रतीयमानो भावना । यथाऽऽह—
क्रियाकारकादिविलक्षणैव हि सा शब्दात् प्रतीयत इत्यर्थः ॥
भावनायाः आख्यातवाच्यत्वम्
ननु च यजत इत्यत्र प्रकृत्यर्थो यागादिः किया । प्रत्ययार्थस्तु
प्रेरणारूपो विधिः, कर्तृसंख्यादिश्च; न तु धात्वभिधीयमानव्यापारव्यति
रिक्तो भावनाख्यः पुरुषव्यापारः प्रत्ययात् प्रतीयते । न हि भावना
वाचिनीं कांचिद्विभक्तिं स्मरति पाणिनिः, लिङादिमिव विध्यादौ । तस्मान्न
भावना वाक्यार्थः—उच्यते—भावनाऽपि प्रतीयत एवाख्यातात् यदि नैपु
ण्येन शाब्दी प्रमितिरवमृश्यते ॥
पचतिगच्छति इत्यतो यथा पाकादिर्धात्वर्थः प्रतीयते, तथा
सर्वानुगतः कर्तृव्यापारोऽपि, 679पाकाद्युपजननापायेऽपि व्यापारप्रतीतेरन
II.84
पायात् । यथा हि औपगवः कापटवः औपमन्यवः इत्युपगुप्रभृतीना
मुद्धारे च निक्षेपे च प्रत्ययार्थोऽनुवर्तते तद्धितान्तेषु, तथाऽऽख्यातेष्वपि
सोऽनुवर्तमानो दृश्यते ॥
अपि च पचति इत्याख्यातपदस्य यदाऽर्थो व्याचिख्यासितो
भवति, तदा पाकं करोति इति वाक्यं व्याख्यातारः प्रयुंजते—पचति
इति कोऽर्थः ?—पाकं करोति इति पाकशब्देत द्वितीयान्तेन साध्यं
धात्वर्थं व्याचक्षते । कर्तृव्यापारात्मकं प्रत्ययार्थं करोति इतिपदेन ॥
किं च किं करोति देवदत्तः ? इति पृष्टास्सन्तः द्वये वक्तारो
भवन्ति करोति पाकं इति, पचतीतिवत् । तदिदमुभयरूपमप्युत्तर
मेकार्थम्; अन्यथा न तेन प्रष्टा प्रत्याय्येत । तस्मात् पाकं करोतीति
पदद्वयस्य योऽर्थः, स एवार्थः एकस्य पचतीति पदस्य । अत्रापि पच
त्यर्थादन्यः करोत्यर्थः प्रतीयत एव । योऽसावन्यः करोत्यर्थः, सा
भावना ॥
भावनायाः अतिरिक्तत्वानतिरिक्तत्वे
आह—न कर्तृसंख्यादिव्यतिरेकेण प्रत्ययात् धात्वर्थातिरिक्तं व्यापारं
प्रतिपद्यन्ते । प्रतिपद्येरंश्चेत् 680करोतीत्यतोऽपि शब्दात् प्रतिपद्येरन् । न
च करोतीत्यत्र प्रकृतिप्रत्ययवाच्ये क्रिये विभज्य दर्शयितुं शक्येते—उच्यते
—नेदं साधु बुध्यसे ॥
II.85
करोतीत्यादिशब्देभ्यश्च यथा न भवितव्यविशिष्टेभ्यः तत्प्रतीति
रिष्यते, न तथा सर्वेभ्यः ॥
के पुनस्ते विशिष्टाः शब्दाः, ये भावनामभिदधति ? उच्यते—
भवन्ति केचित् भावार्थाः, न कर्मशब्दाः—यथा—भावः भवनं
भूतिः इति । भवन्ति केचित् कर्मशब्दाः, न भावार्थाः—यथा—682श्येनै
कत्रिकादयः कर्मनामधेयतया प्राक् समर्थिताः । ये तु भावार्थाः सन्तः
कर्मशब्दाः यजते ददाति जुहोति इत्येवमादयः, तेभ्यः भावनाख्या
क्रिया गम्यते । तैरेव लिङादिविभक्त्यन्तैः सोऽर्थोऽभिधीयते यजेत
दद्यात् जुहुयात् इति । तदुक्तं—यज्याद्यर्थश्चातोऽवगम्यते भावये
दिति च इति शा. भा-2-1-1 ॥
II.86
करोतिशब्दादपि केवलात् कर्तृव्यापारो न नासाववगम्यते; यत्र
यागादिकर्मणाऽननुरक्तेन प्रयोगयोग्यतां प्रतिपद्यत इति विशिष्टेभ्य एव
यजत्यादिशब्देभ्यो भावनाख्योऽनुष्ठेयः पुरुषव्यापारः प्रतीयत इति
सिद्धम् ॥
अख्यातार्थवस्तुस्वरूपे पक्षभेदाः
इत्येवं केचित् ॥
इत्यपरे ॥
भावनायाः धात्वर्थानुगतत्वपक्षः
II.87
यथा हि शाबलेयादिष्वनुगतं च गोरूपमवभासते, व्यावृत्तं च
शाबलेयादिरूपं, एवमिहापि यागादिकर्मणामनुगतं च व्यापाररूपं प्रति
भासते परस्परविभक्तं च यागादिरूपम् । यत् तदनुगतं व्यापाररूपं,
सा भावना । यथा च शाबलेयाद्यननुरक्तं पृथक्त्वेन गोत्वं दर्शयितु
मशक्यम् । तदुपरक्तत्वेन तस्य सर्वदाऽवगमात् । न चैतावता तस्य
नास्तित्वम्, 685सुख-दुःखाद्यवस्थानुगतस्येवात्मनः ॥
तथा च किं करोति, इत्यनवगतविशेषव्यापारसामान्यप्रश्ने सति,
पचति पठति इति तद्विशेषोत्तरवचनं अनुगुणं भवतीति । तच्च
सामान्यरूपमपि न गोत्वादिवत्, क्रियात्ववद्वा सिद्धतयाऽवभासते, येन
विधेरविषयः स्यात् ॥
अपि च यजते दद्यात् जुहुयात् इति सर्वत्रापरित्यक्तपूर्वापरी
भूतस्वभावं तद्व्यापारसामान्यमवगम्यते । तेन विधेश्च विषयतां प्रति
पद्यते । तदिदं सकलधात्वर्थसाधारणं साध्यमानावस्थं व्यापारसामान्यं
भावनेत्युच्यते । तस्मिंश्च पक्षे धातुवाच्यत्वमपि भावनाया वक्तुं
शक्यते ॥
पाकादिशब्देभ्यो 686धातौ सत्यपि तदप्रतीतेः न धातुवाच्यत्वं भावनाया
इति चेत्, भवत्यादौ तर्हि सत्यति प्रत्यये तदप्रतीतेः प्रत्ययवाच्यत्वमपि
न स्यात् । तदलमनेन निर्धारणप्रयत्नेत । सर्वथा धातोर्वा प्रत्ययाद्वा
भावनाऽवगम्यत इति सिद्धम् ॥
II.88
भावनाया अंशत्रयविशिष्टत्वम्
भावयेत् इत्यवगते नूनमपेक्षात्रयं भवति—किं भावयेत् ? केन
भावयेत् ? कथं भावयेत् ? इति ॥
तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते—किं भावयेत् ? स्वर्गं
इति ॥
ननु ! स्वर्गकामः इति पुरुषनिर्देशोऽयं, न फलनिर्देशः—सत्यम्,
स्वर्गपरस्त्वयं निर्देशः । उक्तं हि निरतिशयप्रीतिवचनः स्वर्गशब्दः ।
प्रीतिश्च यान्नार्थेत्यप्युक्तम् । साध्यत्वेन च स्वर्गः काम्यत इति स एव
हि किमित्यंशे निपतति स्वर्गं भावयेत् इति । स्वर्गं कामयते इति च
व्यत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम् । बहुव्रीहावपि तस्यैव साध्यत्वं
विधिवृत्तपर्यालोचनयाऽवधार्यते ॥
करणाकाङ्क्षाविवरणम्
एवं स्वर्गं भावयेत् इत्यवगते केन भावयेत् इत्यपेक्षायां, यागे
नेति सम्बध्यते ॥
ननु ! यागेन इति न श्रूयते, किन्तु यजेत इति । तच्चाख्यातपदं
प्रकृतिप्रत्ययात्मकसमुदायरूपम् । तत्र ङिप्रत्ययस्य भावना वाच्येत्यु
क्तम् । यज् इति धातुमात्रमवशिष्टम् । तस्य कृदन्तस्य तृतीयान्तस्य
यागेनेति योऽर्थः स कथमेकाकिना 687तेन प्रत्याय्येत—उच्यते—भावना चेत्
II.89
प्रत्ययार्थ इति सोढमायुष्मता, यागेनेत्यभिसम्बन्धः सोढव्य एव । यो
हि तस्यां यथा सम्बद्धुं योग्यः तमसौ तथा प्रत्येष्यति, नान्यथेति करणा
काङ्क्षापरिपूरणेन सम्बन्धयोग्यो यजिरिति तथैवैष भावनयाऽभि
सम्बध्यते ॥
यागस्य करणत्वं शब्दसामर्थ्यलभ्यम्
कस्य पुनश्शब्दस्य सामर्थ्यमेतत् ? भावनावाचिन इति—ब्रूमः—
तृतीययैव कारणत्वमभिधानीयमिति नेयं राजाज्ञा । 688ततस्तदवगतेस्तु
तथाऽभ्युपगम्यते । एवमिहापि स्वर्गकामो यजेत इति तथाऽवगति
र्भवन्ती किमिति न मृष्यते ?
यागस्य करणत्वौचित्यम्
ननु एवं तर्हि धात्वर्थस्य साध्यताऽवगतेः किमित्यंशे यजिना पति
तव्यम्—किं भावयेत् ?; यागम् । केनेत्यपेक्षिते वाक्यान्तरसम
र्पितं ब्रीहिभिः इत्यादि सम्बध्यताम्; न पुनर्यजेः साध्यरूपव्यापारा
भिधायिप्रत्ययोपसर्जनीभूतकर्मतां अतिप्रत्यासन्नामनारुह्य दूरवर्तिनीं करण
तामधिरोढुमर्हति—उच्यते—स्यादेतदेवं, यदि हि स्वर्गकामः इति न
श्रूयेत । तस्मिंस्तु श्रुते नैवं भवितुमर्हति । कुतः ?
II.90
स्वर्गस्य हि काम्यमानत्वेन प्रीत्यात्मकत्वेन चानन्यार्थत्वात्
साध्यतायां, योग्यत्वात् किमित्यंशोपनिपाते सिद्धे तत्रालब्धनिवेशो
यजिः तदपेक्षितां करणतामेव योग्यत्वादबलम्बते ॥
कर्मनामधेयत्वं च ज्योतिष्टोमादीनां शब्दानामुक्तम् ॥
साध्यस्य भागस्य करणत्वसंभवः
ननु साध्यत्वपक्षसाक्षितामपि कर्मनामधेयानि भजन्ते—अग्निहोत्रं
जुहोति इति—नैषदोषः—साध्य एव भवन् भावार्थः साधनतामबलम्बते ।
तत्रापि हि स्वर्गभावनायामग्निहोत्राख्यो होमः करणमेव, अन्यथा 690स्वर्ग
कामपदानन्वयप्रसङ्गात् इत्युक्तम् । नामधेयपदं तु कर्मतामनुवदति
किंचित् करणताम्; अग्निहोत्रं इत्यादि, ज्योतिष्टोमेन इति । तस्मात्
यजेः करणत्वेनैवान्वय इति सिद्धम् ॥
यत्तु प्रत्यासन्नत्वात् साध्यांशोपनिपातितेत्युच्यते—तदयुक्तम्—
योग्यत्वविरोधिनी प्रत्यासत्तिः संबन्धकारणम्, न तद्विपरिता । योग्य
त्वं च स्वर्गस्यैव साध्यतायां, यजेश्च करणतायामित्युक्तम् ॥
II.91
कर्थभावाकाङ्क्षाविवरणम्
एवं यागेन भावयेत् इत्यवगते, कथम् ? इत्यपेक्षायां इति कर्तव्यत
तद्वाक्यपठिता, वाक्यान्तरनिवेदिता वा संबध्यते ॥
तद्वाक्योपात्ता तावत्—यथा एतस्यैव रेवतीषु 691वारवन्तीयमग्नि
ष्टोम साम कृत्वा पशुकामो ह्येतेन यजेत इति ॥
वाक्यान्तरोपात्ता—ब्रीहीनबहन्ति तण्डुलान् पिनष्टि समिधो
यजति बर्हिर्यजति तनूनपातं यजति इति ॥
दर्शपूर्णमासाभ्यां यजेत स्वर्गकामःज्योतिष्टोमेन स्वर्गकामो यजेत
इत्यत्र अनन्तरोक्तरीत्या एष वाक्यार्थो जातः—दर्शपूर्णमासेन यागेन स्वर्गं
ववेत् अनयाऽग्न्याधानादिकयेतिकर्तव्यतयेति ॥
II.92
विधिप्रत्ययस्यावश्यकता
692किमर्थं पुनर्विधिराश्रीयते ? वर्तमानापदेशिष्वप्याख्यातेषु—भावना
प्रतीयत इति दर्शितवान् भवान् । अतः किं विधिना ? तस्य ह्यीश्चयणं
स्वर्गयागयोः साध्यसाधनभावबोधनाय; प्रवृत्तिनिवृत्तिलिद्धये वा ?
साध्यसाधनसम्बन्धस्तावत् आकाङ्क्षा-सन्निधि-योग्यता-पर्यालोचनया
693वर्तमानापदेशिनोऽप्याख्यातात् भावनावगमे सति भवत्येवान्तरेणापि
वधिम् ॥
प्रवृत्तिरपि पुरुषेच्छानिबन्धना स्वर्गस्य साध्यत्वे, यागस्य साधनत्वे
ऽवधारिते, यः स्वर्गमिच्छेत् स तत्सिद्धये प्रवर्तेतैव । यस्तु नेच्छेत् तस्य
विधिरपि किंकुर्यात् ? न ह्यप्रवर्तमानस्य पुंसः विधिर्गले पाशं निदधातिः
रज्वा वा बाहू बध्नाति । निषेधाधिकारेऽपि सुरापानब्राह्मणहननादे,
प्रत्यवायसाधनत्वावधारणात् तत्परिजिहीर्षया निवृत्तिर्भवति, न विधितः ।
यस्तु प्रत्यवायान्न बिभेति, स विधावपि श्रुते न निवर्तत एवेति । तस्मात्
प्रवृत्तिनिवृत्त्योर्न कारणं विधिरिति तदर्थमपि तदाश्रयणमसांप्रतम् ॥
विधिस्वरूपविमर्शः
कश्चायं विधिर्नामेत्येतदपि न विद्मः । ननु चाहुः—
II.93
बाढं श्रुतोऽयं श्लोकः । किन्तु कोऽसावप्रवृत्तप्रवर्तक इति न
जानीमः; प्रवर्तकस्वरूपे हि संशेरते प्रवादुका इति ॥
प्रवर्तकत्वं कस्येति विमर्शः
किं लिङादिः शब्द एव प्रवर्तकः ? तद्व्यपारो वा ? तदर्थो
नियोगः ? फलं वा स्वर्गादिः ? श्रेयस्साधनत्वं वा ? रागादिर्वा ? प्रव
र्तकस्वरूपानवधारणाद्विधेरप्यनधारणमिति ॥
यत्तावदुक्तं किं विध्याश्रयणेनेति—तत्रोच्यते—
विधिवचनमन्तरेण हि स्वर्गकामो यजेत इति 695पुरुषलक्षणार्थ
स्वर्गकामशब्दः, 696शुक्लो होतेतिवत् स्यात् । तदा चैकपदोपादानलक्षण
प्रत्यासत्तिसम्बन्धनिसर्गघटितपूर्वापरीभूतस्वभावधात्वर्थसाध्यतातिक्रमेण
दूरात् स्वर्गस्य साध्यत्वं 697अन्यत्रोपसर्जनीभूतस्य कथं कल्पयितुं शक्यते ?
तस्मादेष विशिष्टः साध्यसाधनसम्बन्धः विधिप्रसादलभ्य एव भवति,
नान्यथेति विधिराश्रयणीयः ॥
विधेरावश्यकता
कथं पुनर्विधिरप्यमुं साध्यसाधनभावं बोधयति ? इत्थं बोधयति
—स हि 698सप्रत्ययप्रवर्तकस्वभावः । न चापुरुषार्थरूपे व्यापारे
II.94
पुरुषः प्रयत्नशतप्रेर्यमाणोऽपि सप्रत्ययः प्रवर्तते । प्रवर्तमानेऽपि पुंसि
प्रवर्तकत्वाख्यनिजस्वरूप699संकोचमाशङ्कमानः विधिः पुरुषार्थस्वभावं स्वर्गं
साध्यतया व्यवस्थापयति, यागं चास्य साधनतयेति । एवं ह्यवबोध
यतोऽस्य प्रवर्तकत्वं निर्वहति ॥
फलोपदेशमात्रान्न प्रवृत्तिः
यत्तु दर्शितेऽपि स्वर्गादौ फले न प्रवर्तते चेत्पुरुषः किं विधिः कुर्या
दिति—तदप्युक्तम्—न हि वाय्वादिवत् पुरुषस्य प्रवर्तको विधिः ।
वाय्वादिः खलु सप्रत्ययमपि तदितरमपि प्रवर्तयति । विधिस्तु
सप्रत्ययस्यैव प्रवर्तकः । सप्रत्ययस्य चैतावत् प्रवर्तनं, यत्
प्रवर्तितोऽहमिति ज्ञानजननम् । न च फलमदर्शयता विधिना
सप्रत्ययस्येदृशं ज्ञानं जनयितुं शक्यम् । फले तु दर्शिते सति
तदस्य ज्ञानं जनितमेव । अनेन जनितं चेत् ज्ञानं प्रमाणवृत्तेन
प्रवर्तित एवासौ विधिना पुरुषः । आलस्यादिनाऽनर्थित्वेन वा बहिः
प्रवृत्तिपर्यन्ततया चेन्न प्रवर्तेत—मा प्रवर्तिष्ट ! विधिना तु स्वकर्तव्यं
कृतम्, प्रवर्तितोऽहमिति ज्ञानजननात् । अन्यो हि प्रवर्तनावगमः,
अन्यश्च 700बाह्यो व्यापारः ॥
विधेरेव साध्यसाधनभावावगमः
II.95
यजेत इति प्रेरणा प्रतीयमाना साध्यसाधनसम्बन्धमनवबोधयति
विधौ न निर्वहतीति तत्कृतस्तदवबोध उच्यते । निषेधे च न हन्यात्
इति निषेध्यमानस्य भावार्थस्यानर्थतामनवबोधयन् विधिः न रागतः
प्रवर्तमानं पुमांसं निरोद्धुमुत्सहत इति विधेयवन्निषेध्येऽपि तस्यैव व्यापार
इत्यवश्याश्रयणीयो विधिः ॥
यश्चैष पर्यनुयोगः—किमर्थं विधिराश्रित इति—स तु खलु सरल
मतिकृत इव लक्ष्यते । न हि वयमद्यकृतविधिमाश्रयेम, जहीमो वा ।
प्रतिपत्तारो हि वयं वेदस्य, न कर्तारः । तत्र च सविधिकानि यजेत
स्वर्गकामः इति प्रभृतीनि श्रूयन्ते । तेषां मीमांस्यमानोऽर्थ ईदृगव
तिष्ठते । स्वर्गः साध्यः, यागः साधनमिति । स चायं विधिसामर्थ्यलभ्य
इति युक्तं विधेराश्रयणम्701 ॥
कस्य प्रवर्तकत्वं युक्तम्, फलस्य, तद्ज्ञानस्य वा ?
यत्तु प्रवर्तकस्वरूपानिश्चयाद्विधेरनिश्चय इति—तत्राप्युच्यते—फलं
तावन्न प्रवर्तकम्, सिद्ध्यसिद्धिविकल्पानुपपत्तेः । सिद्धस्य फलस्याप्रवर्त
कत्वं सिद्धत्वादेव । न हि यत् यस्यास्ति, स तदर्थं यतते । नाप्यसिद्धस्य
खरविषाणप्रख्यस्य फलस्य प्रवर्तकत्वं युक्तम्, अदृष्टत्वात् ॥
अथ कामनाविषयीकृतं फलं प्रवर्तकमिष्यते—सेयं कामनैव प्रवर्तिका
भवति, न फलम् । तस्माद्रागादिः प्रवर्तक इत्याहुः ॥
II.96
श्रेयस्साधनत्वस्य प्रवर्तकत्वपक्षः
एतदपि न पेशलम् । उपजातप्रवृद्धतररागस्या पि702काम्यमनोपाय
परिच्छेदमन्तरेण प्रवृत्त्यनुपपत्तेः न हि स्वर्गकामः सांग्रहिणीमनुतिष्ठति ।
तद्वरं श्रेयस्साधनत्वं प्रवर्तकम् । लोकेऽपि चैवमेव व्यवहारो दृश्यते ।
हरीतक्यादीनामारोग्यसाधनतां वैद्याचार्यचोदनातोऽवगत्य तदुपयोगादा
वातुरजनः प्रवर्तते । तृप्तिसाधनतामोदनस्य मन्यमानः तद्भक्षणाय
बुभुक्षितः प्रवर्तते—इति श्रेयस्साधनत्वमेव प्रवर्तकम् ॥
विधिप्रत्ययादेः प्रवर्तकत्वपक्षः
एतदपि न चतुरस्रम्—श्रेयस्साधनत्वं ह्यनवगतमवगतं वा प्रवर्तकं
भवेत् ? नानवगतम्, अव्युत्पन्नस्य प्रवृत्तेरदर्शनात् । यो हि हरीतकीना
मारोग्यहेतुतां न कुतश्चिदधिगतवान्, नासौ तदर्थ्यपि तामुपयुङ्क्ते ।
तस्मात् 703तद्बोधहेतुः प्रवर्तकः । स च दृष्टे विषयेऽन्वयव्यतिरेकादेरपि
संभवति, किं तेन ? अदृष्टे तु विषये श्रेयस्साधनाधिगमः शब्दैकनिबन्धन
इति तदधिगमोपायः शब्द एव प्रवर्तकः । अत एव शब्दोऽपि न
स्वरूपमात्रेण प्रवर्तकः, वाय्वादितुल्यत्वप्रसङ्गात् । यदि हि पवन इव,
पिशाच इव, कुनृप इव शब्दः प्रवर्तको भवेत्, अनवगतशब्दार्थसम्बन्धोऽपि
श्रवणपरवशः प्रवर्तेत, न चैवमस्ति । तस्मादर्थप्रतीतिमुपजनयतः
शब्दस्य प्रवर्तकत्वम् ॥
704 II.97
लिङादेः प्रवर्तकत्वप्रकारः
न च नाम पदप्रतीतौ वर्तमानापदेशकाख्यातात्पदार्थप्रतीतौ च सत्यां
सप्रत्ययोऽप्रवर्तमानः कश्चित् दृश्यत इति लिङादिरेव शब्दः प्रवर्तकाभि
धानद्वारेण प्रवर्तको भवितुमर्हति । शब्दस्य च ज्ञापकत्वात् चक्षुरादि
कारकवैलक्षण्ये सत्यपि प्रतीतिजन्मनि करणत्वमपरिहार्यम् । करणं च
कारकं च न निर्व्यापारं स्वकार्यनिर्वृत्तिक्षममिति व्यापारस्तस्यावश्यं
भावी । लिङादेश्च शब्दस्य न प्रतीतिजन्ममात्रे व्यापारः, किन्तु पुरुष
प्रवृत्तावपि, तथाऽवगमात् । लिङा अर्थावगमे सति प्रवृत्तिर्दृश्यत इति
तत्रापि लिङव्यापारः प्रभवति । स चायं लिङादिव्यापारः शब्दभावना
नामधेयो विधिरित्युच्यते । स एव प्रवर्तकः ॥
भावनाया द्वैविध्यम्
इह हि लिङादियुक्तेषु वाक्येषु द्वे भावने प्रतीयेते—शब्दभावना,
अर्थभावना चेति ॥
तत्र अर्थभावना तावत् धात्वर्थातिरिक्तप्रयोजकव्यापारात्मिका
दर्शितैव । यो भवनक्रियाकर्तृविषयः प्रयोजकव्यापारः पुरुषस्थः, यत्र
भवनक्रियायाः 705कर्ता स्वर्गादिः कर्मतामापद्यते, सोऽर्थभावनाशब्देनोच्यते ।
व्याख्यातश्चासौ ॥
भावनाद्वयस्वरूपम्
यस्तु शब्दगतः प्रयोजकव्यापारः, यत्र पुरुषप्रवृत्तिः साध्यतां प्रति
पद्यते, सा शब्दभावना । तथा ह्युक्तम्—
II.98
लिङन्तशब्दश्रवणे हि यथा यज्याद्यवच्छिन्नं स्वव्यापारं पुरुषोऽधिग
च्छति, तथा तदनुष्ठाने प्रेरितोऽहम् इत्यपि प्रतिपद्यते । तेनानुष्ठेया
र्थप्रतिपादन इव प्रेरणायामपि शब्दस्य सामर्थ्यात् भावनाद्वयप्रतिपादकं
लिङादियुक्तं वाक्यमिष्यते । ततः पुरुषव्यापारश्चार्थभावना, शब्दव्यापा
रश्च शब्दभावनाऽवगम्यते । शब्दव्यापारात्मकत्वाच्च शब्दभावना
शब्देनाभिधीयते । अनवगता च सती न कार्याङ्गमिति शब्देन साऽभि
धीयतेऽपि । तदुक्तं अभिधत्ते करोति च इति ॥
शब्दभावनाया अंशत्रयवर्णनम्
ननु ! शब्दभावनाऽपि भावनात्मकत्वादर्थभावनावदंशत्रयमेपक्षत
एवेति तदस्या दर्शयितव्यम्—उच्यते—भाव्यांशे तावदस्याः पुरुषप्रवृत्ति
रुपनिपतीति उक्तमेव । पुरुषप्रेरणात्मको हि विधिः शब्दभावनेति
तत्साध्या पुरुषप्रवृत्तिरेव तत्र भाव्यतां प्रतिपद्यते । करणांशे तु तस्याः
नियोज्यविषयसमर्पकपदव्यापारो707 निविशते । यथा हि यज्यादिना
स्वर्गादिर्भाव्यः संपद्यत इत्यर्थभावनायामसौ तत्करणतामबलम्बते, एवमि
हापि नियोज्यपुरुषप्रवृत्तिविषयाद्यवगमात् संपद्यत इति तदभिधायकशब्द
व्यापारस्तत्र करणतां प्रतिपद्यते । इतिकर्तव्यांशे तु अर्थवादपदव्यापारो
ऽस्या अवतिष्ठते । केवलं विधिपदश्रवणे हि सति न तथा प्रवर्तयितुमुत्स
हन्ते श्रोतारः, यथा अर्थवादजनितबहुप्रकारकर्मप्राशस्त्यज्ञानपरिपोषित
II.99
हृदयाः सन्तः—इति अर्थवादाः प्रवृत्त्यतिशयहेतवः । तेन तद्व्यापार
इतिकर्तव्यतांशमस्याः पूरयतीति ॥
एवं नियोज्यव्यापारो भाव्यः, विषयादिसमर्पकपदव्यापारः करणं,
अर्थवादपदव्यापारः इतिकर्तव्यतेति सेयं त्र्यंशा शब्दभावना । सैव च
विधिः ॥
विधेः भावनायाश्च सम्बन्धवर्णनम्
न च 708विधेर्वाक्यार्थानन्वयलक्षणो दोष आशङ्कनीयः; एकप्रत्ययो
पादानलक्षणया प्रत्यासत्या तदन्वितत्वावगमात् । आहुश्च—
श्लो-वा-वाक्य-79
विधिर्भावनायां पुरुषं नियुङ्क्ते । यथाऽऽह—
तयोः कथमन्वयः स्यात् ?
विधेः प्रेरकत्वप्रकारः
ननु च त्वयैवोक्तं धात्वर्थात् पूर्वतरं तद्भावनाया विधेश्च संबधोऽव
गम्यते । एकपदोपादानेऽपि धात्वर्थस्तावत् प्रकृत्यंशाभिधेयः । विधि
भावने तु द्वे अपि प्रत्ययांशेनाभिधीयेते इति । अतश्च 710स्वच्छैव भावना
II.100
विधिना स्पृश्यते, न विषयाद्यनुरक्ता । स्वच्छा च न प्रयोगयोग्या भवति ।
यथा च फलकरणेतिकर्तव्यतांशपरिपूर्तिप्रस्थिता प्रयोगयोग्या, न तां
विधिः स्पृष्टवान् । अविधिस्पृष्टेषु च धात्वर्थकारकादिषु किमिति सचेताः
पुरुषः प्रवर्तेतेति—उच्यते—यद्यपि विधिः अनधिगतधात्वर्थानुरागतया
स्वच्छामेव भावनां एकाभिधानत्वात् प्रथममाक्रामति; तथापि तादृशि
तस्यां सप्रत्ययप्रवर्तनात्मकनिजस्वरूपनिर्वहणमलभमानो न तावत्येव
विरमति, किन्तु परिणीतबालकन्यको वर इव तावद्विलम्बमानः प्रसा
रितहस्त आस्ते—यावत् सर्वाङ्गसुन्दरी प्रयोगयोग्या भावना भवति ।
आह च—श्लो. वा. वाक्य-171
भावनायाः वाक्यार्थे अन्वयप्रकारः
सा हि वाक्यान्तरोपात्तमप्यपेक्षते, प्रकरणान्तराधीतमपि वांछति ।
प्रकृतिवद्भावलभ्यमपि याचते । 712अर्थसामर्थ्यगम्यं प्रमाणमपि
स्पृहयति—इत्येवंविध एष शब्दप्रमाणमहिमेति ॥
II.101
स चायं व्युत्पादनक्रम ईदृशो व्याख्यातृभिरुपदिश्यते—इत्थमस्या
न्वयः, इत्थमस्येति । वाक्यार्थः पुनर्भावनात्माऽवगम्यमानः एकयैव
बुद्ध्याऽनेकजातिगुणद्रव्यक्रियाद्यङ्गकलापकल्माषिततनुरवगम्यते तादृश्ये
कैवेयं वाक्याद्वाक्यार्थबुद्धिः । यथाह—श्लो-वा-वाक्य-327
भावनायाः पूर्णस्वरूपम्
एक एवायमतिदीर्धः क्रमविकस्वरः सकलाङ्गपरिपूरितभावनातत्त्व
विषयः प्रतिभासः । यथा हि स्थाल्यधिश्रयणात् प्रभृति आनिराका
ङ्क्षौदननिष्पत्तेरेकैवेयं पाकक्रिया—सलिलावसेकतण्डुलावपनदर्वीविघ
ट्टनास्रावणाद्यनेकक्षणसमुदायस्वभावा, तथा प्रथमपदज्ञानात् प्रभृति
आनिराकाङ्क्षवाक्यार्थपरिच्छेदादेकैवेयं शाब्दी प्रमितिः713 । आह च—
इति कृतमतिविस्तरेण ॥
सोऽयं वाक्यार्थः भावनानामधेय कर्तृव्यापारः स्वर्गयागादिरर्थः
यस्तु व्यापारः प्रैषरूपो लिङादेर्वाच्यः कार्ये वा, तं विधिं सङ्गिरन्ते ॥
II.102
शब्दभावनायाः वाक्यार्थत्वविचारः
तदेतदननुमन्यमाना अन्ये प्रचक्षते—योऽसौ शब्दभावनाख्यः शब्द
व्यापारः शब्दस्य कार्योऽभिधेयश्च, तमभिदधतः कुर्वतो वा शब्दस्य
व्यापारान्तरमस्ति, न वा ?
यदि तावन्नास्ति, तदेष व्यापारान्तरनिरपेक्षस्वव्यापारमिवार्थमपि
वदतु, विश्राम्यतु 714व्यापारकल्पना । अस्ति चेदस्य तदभिधाने व्यापा
रान्तरं, तदाऽनवस्थाप्रतीकारः कश्चिदन्वेषणीयः । न जासौ715 दूरादपि
लभ्यते । भूतपरिस्पन्दव्यतिरिक्तव्यापारनिरासश्च प्रमाणसामान्यलक्षणे
विस्तरेण कृतः इत्यसौ मार्गः इहाप्यनुसरणीयः ॥
यश्चासौ व्यापारः क्रियते चाभिधीयते च, स किं पूर्वमभिधीयते,
ततः क्रियते ? पूर्वं वा क्रियते, पश्चादभिधीयते ? युगपदेव वा करणा
भिधाने इति ॥
न तावत् पूर्वमभिधीयते ततः क्रियते—अनुत्पन्नस्याभिधानानु
पपत्तेः । न ह्यजाते पुत्रे नामधेयकरणम् । अर्थासंस्पर्शी च तथा सति
शब्दः स्यात् ॥
अत एव न युगपदुभयम्, अनुत्पन्नत्वानपायात् प्रयत्नगौरव
प्रसङ्गाच्च । नापि कृत्वाऽभिधानम्, विरम्यव्यापारासंवेदनात् ॥
लिङादिभिः शब्दभावनाप्रतीत्यसंभवः
अपि चायं तपस्वी लिङादिः प्रत्ययः सत्यपि 716गोबृन्दारकत्वे कथ
ममुमतिबृहन्तं भारं वक्ष्यति ? कर्तारं च तत्संख्यां चाख्यास्यति ?
II.103
भावनामभिधास्यते ? शब्दभावनां च करिष्यति ? तां च वदिष्यति ?
इति दुर्वहोऽयं भारः ॥
शब्दभावनायाः वाक्यार्थे अन्वयासंभवः
कश्चायं शब्दभावनानामधेयस्य विधेर्वाक्यार्थे717 भावनायामन्वय इति
वक्तव्यम् ॥
ननु उक्त एव एकप्रत्ययाभिधेयत्वलक्षणः संबन्ध इति—न ब्रूम
आभिधानिकः संबन्धो नोक्त इति । किन्तु पुरुषव्यापारात्मिकाया अर्थ
भावनायाः प्रधानत्वेन वाक्यार्थत्वात्, तदपेक्ष्यमाणफलकरणेतिकर्तव्यतांश
पूरणेन स्वर्गकामादिपदान्तराभिधेयोऽर्थः समन्वेति, 718गुणत्वेन । शब्द
व्यापारस्तु तदपेक्षितमन्यतममपि नांशं पूरयितुमलमिति तत्र न गुणता
मबलम्बते । न च 719द्वयोः प्रधानयोः घटः पट इतिवद्वा, पचति पठतीति
वद्वा संबन्ध उपलभ्यते ॥
भावनयोः गुणप्रधानभावसंभवः
अथार्थभावना शब्दभावनाख्यविधेर्विषयसमर्पणेन गुणतामबलम्बते;
विधिस्तर्हि वाक्यार्थः, न भावना, तस्या अप्राधान्यात् । अतो भावना
द्वयं प्रत्ययार्थ इति न हृदयंगममेतत् ॥
एकाभिधानाभिधेयत्वं च न भावनयोरन्योन्यसमन्वये कारणम्;
अक्षाः—पादाः—माषा इत्यादावदर्शनात् ॥
II.104
भावनाद्वयसद्भावे न प्रमाणमस्ति
किंच कस्यानुरोधेन द्वे भावने प्रत्ययवाच्ये इष्येते ?—उच्यते—
लिङादिशब्दश्रवणे सति कार्ये च, प्रेरणायां च बुद्धिरुत्पद्यत इति ॥
यद्येवं एक एव तादृशोऽसौ लिङर्थो भवतु । तदेकत्वाच्च न
परस्परसमन्वयः चिन्तयिष्यते । न च प्रत्ययेऽप्यतिभार आरोप
यिष्यते ॥
नियोगवाक्यार्थविचारः
ननु ! एकस्यापि लिङर्थस्य यदि शब्दः कार्यत्वं, प्रेरणां च ब्रवीति,
ततस्तदवस्थ एवातिभारः । कश्चासावेकः कार्यात्मा, प्रेरणात्मा च
तस्यार्थः ? उच्यते—यो लिङादिप्रत्ययादवगम्यते, यमभिवदतो न
तस्यातिभारः, यत्र न तद्व्यतिरेकेण प्रमाणान्तरं क्रमते, स 720नियोगो
नामावाक्यार्थः । तथा हि—वृद्धव्यवहारतः शब्दानामर्थे व्युत्पत्ति
रित्यत्र तावदविवाद एव । व्यवहारे च वाक्यार्थे वाक्यस्य व्युत्पत्तिः,
वाक्येन सर्वत्र व्यवहारात् । तत्र यजेत इत्यादितिङन्तपदयुक्तेषु पदा
न्तराणामर्थस्तावदास्ताम् । आख्यातार्थे ह्यवगते तदानुगुण्येनासौ
स्थास्यति । आख्यातस्य च यजेत इत्येवमादेरर्थः परीक्ष्यमाणः प्रेरणा
त्मक एवावतिष्ठते; यतः पदान्तरसन्निधाने सत्यपि न प्रेरणाबुद्धिरुप
जायते । आख्यातपदश्रवणे च सति सा जायते । तस्मात् तस्यैव
प्रेरणात्मकोऽर्थः । तत्रापि तु जुहोत्यादिधात्वन्तरोपजननापायपर्या
लोचनया धातोस्तत्प्रतीतौ व्यभिचारात्, प्रत्ययस्य चाव्यभिचारात् तस्यैव
सोऽर्थ इति गम्यते ॥
II.105
विधिरूपनियोगस्य लिङर्थत्वम्
कः पुनरसावर्थः ? यस्मिन् सति नियुक्तोऽहमत्र इति प्रतिपद्यते
पुरुषः, सोऽसावर्थः । स एव विधिरित्युच्यते । विधौ हि लिङादिप्रत्ययं
स्मरति पाणिनिः, न धात्वर्थे यागादौ, न कर्तृव्यापारे भावनायाम् ।
विधिश्च नाम प्रेरणात्मक एव । अत एव वर्तमानापदेशिकाख्यातजनित
प्रतीतिविलक्षणेयं प्रतीतिः यजेत इति । अत्र हि प्रैषप्रैष्ययोः संबन्धो
ऽवगम्यते । अन्य एवायं क्रियाकर्तृसंबन्धात् 721प्रैषप्रैष्यसंबन्धः ॥
अख्यातेन प्रेरणायाः प्राधान्येनोपस्थितिः
ननु यजेत इति क्रियाकर्तृसंबन्धोऽवगम्यते ?—न ब्रूमः नाव
गम्यत इति; किन्तु प्रैषप्रैष्यलक्षणोऽपि संबन्धः प्रथममवगम्यते । प्रेषितो
हि क्रियां कर्तुमुद्यच्छतीति ॥
ननु ! क्रियासंबन्धितयैवासौ प्रेष्यते यजतां भवान् इति—सत्यम्
—क्रियासंबन्धितयैव प्रेष्यते । प्रेष्यते तु सः । प्रेष्यते चेदयमन्यं
तर्हि संबन्धः । क्रियासंबन्धात्तु उभयसंबन्धितामस्य राजगवीक्षीरवत् अव
गमिष्यामः । यथा गौः राज्ञा च संबध्यते, क्षीरेण च—या राज
संबन्धिनी, सा क्षीरसंबन्धिनी, या क्षीरसंबन्धिनी; सा राजसंबन्धि
नीति । एवमिहापि पुरुषः 722प्रेषितेन च संभन्त्स्यते, क्रियया च । यः
प्रेष्यते स करोति; अथ यः करोति, प्रेष्यते स इति ॥
प्रेरणाया अतिरिक्तत्वम्
ननु ! नेदमुभयं भवति—प्रैषोऽपि क्रियैव । प्रवर्तनं हि कुर्वन्
प्रवर्तयति इत्युच्यते । सोऽयं क्रियासम्बन्ध एव भवति । न ततोऽन्यः
II.106
प्रैषप्रैष्यसंबन्ध इति—स्यादेतदेवम्, यदि वाय्वादिवत् प्रवर्तने कर्ता
लिङादिः स्यात् । प्रेरितोऽहमत्रः इति तु ज्ञानजनकत्वं विधेः प्रवर्तकत्वम् ।
स एष प्रवर्तनं ज्ञापयति, 723न करोतीति अन्य एवायं क्रियाकर्तृसंबन्धात्
प्रैषप्रैष्यसंबन्धः ॥
ज्ञानस्य क्रियाविलक्षणत्वम्
ननु ! ज्ञानमपि क्रियैव । तत्करणे च पुनरयि स एवायं क्रिया
कर्तृसंबन्धः—मैवम्—कारकज्ञापकयोर्भेदस्य सुप्रसिद्धत्वात् । इह च
योऽयं यागपुरुषयोः क्रियाकर्तृसंबन्धः, ततोऽन्यं प्रैषप्रैष्यसंबन्धमुपदर्शयितुं
प्रवृत्ताः स्मः । स ततो विलक्षणः प्रदर्शित एव । वैलक्षण्येऽपि तस्य
यथाकथंचित् नाम क्रियमाणं न वारयामः ॥
प्रेरणायाः प्रथमं प्रतीतिः
भवत्वयमन्यः प्रैषप्रैष्यसंबन्धः । स तु प्रथममवगम्यत इत्येष कुतो
निश्चयः ? उक्तमत्र—प्रेषितोऽहम् इति हि विदित्वा क्रियायां प्रवर्तते ।
आचार्यचोदितः करोमि इति हि दृश्यते । यजेत इति श्रुते नियुक्तो
ऽहम् इति प्रथममवगच्छति । ततो यजते । तेनायमाद्यः संबन्धः ।
पाश्चात्यस्तु क्रियाकर्तृसंबन्धः । तत् योऽयं लिङर्थः प्रथममवगम्यते, प्रैषो
नाम, सा प्रेरणा, स नियोगः, स वाक्यार्थः ॥
विधिनिमन्त्रणादीनां वैलक्षण्यम्
ननु ! विधाविव निमन्त्रणादिषु लिङलोटावपि स्मर्येते एव—सत्यम्
—ते तु प्रेरणाया एवौपाधिका 724अवान्तरभेदाः । सम-हीन-ज्यायोविषय
II.107
एव प्रयोगोपाधिनिबन्धन एष प्रेषणा ध्येषणादिभेदव्यवहारः । प्रेषणा
तु सर्वत्रानुस्यूताऽवगम्यते । तदुक्तम् प्रवर्तकत्वं तु शब्दार्थः, सर्वत्रापरि
त्यागात् इति । स चायं लिङादीनामर्थः प्रैषो णिजर्थविलक्षणः
प्रतीयते ॥
णिजर्थवैलक्षण्यं लिङर्थस्य
ननु ! प्रयोजकव्यापारे णिच् विधीयते । प्रयोजकव्यापारश्च प्रैषः ।
प्रैषे च लोडादयो विधीयन्ते इति णिजर्थ एव लोडर्थः । तथा च कुरु, कुरु
इति यो ब्रूते, स कारयतीत्युच्यते—न—प्रतीतिभेदात् । अन्या हि करोतु
कुर्यात् इतिप्रतीतिः, अन्या च करोति कारयति इति प्रतीतिः ।
प्रयोजकव्यापारो हि णिजर्थः, ज्ञापकव्यापारस्तु लिङर्थः । प्रवृत्त
क्रियाविषयश्च प्रयोजकव्यापारो णिजर्थः, इहतु 725तद्विपरीतः । तत्र हि कार्यं
726पश्यतः प्रवर्तनम्, इह तु प्रवतितस्य कार्यदर्शनं इति महान् भेदः ॥
तत्र यथा कुर्वन्तं कारयति, तथैवेहापि प्रैषः प्रवर्तमानं प्रेरयति, नाप्र
वर्तमानं स्थावरमिति । न हि वनस्पतिरुच्यते यजस्व इति—न—स्थाव
रादेरयोग्यत्वात् । ब्राह्मणादिस्तु यः प्रेर्यते, असा, वप्रवृत्तक्रिय एव ।
न हि 727यजमान एव यजेत इति चोद्यते, किन्तु अप्रवृत्तक्रिय एवेति
सर्वथा णिजर्थाद्विलक्षणो लिङर्थः ॥
II.108
नियोगे व्युत्पत्तिप्रदर्शनम्
आह—भवत्वयं विलक्षणोऽर्थः । स तु प्रमाणान्तरावगम्यश्चेत्,
तदुपदर्श्यताम् अयमसावेवंरूप इति । प्रमाणान्तरानवगम्यश्चेत्, कथं
शब्दैकगोचरे तत्र संबन्धव्युत्पत्तिः—उच्यते—शब्दैकगोचरस्तु नियोगः,
व्युत्पत्तिश्च तत्र सूपपादैव । यो हि यजेत दद्यात् जुहुयात् इति लिङा
दिभ्यो विधिः प्रतीयते, कथमसौ लिङादीनामगम्य इष्येत ? व्युत्पत्ति
श्चास्य व्यवहरादवकल्पते । गच्छ अधीष्व इति श्रृण्वन् वृद्धः चेष्ट
मानो दृश्यते । चेष्टा च स्वात्मनि प्रवर्तिकाऽवगमपूर्विका दृष्टा ।
प्रत्यक्षदृष्टे चाम्रादौ सुखसाधनतयाऽन्वयव्यतिरेकाभ्यामवगते, तदनु
स्मरणात् 728प्रवर्तमानः कस्मिंश्चिदात्माकूते समुपजाते सति भौतिकं व्यापार
मारभते । स चात्मधर्मः आत्मेव स्वसंवेद्यः ॥
आत्मनः स्वप्रकाशत्वम्
अहंप्रत्यगम्यो ह्यात्मा; नासौ परस्मै दर्शयितुं शक्यते । न च
न चर्चयितुं शक्यते । एतावता नानुभूयत इति न शक्यते वक्तुम् ।
परोऽपि ह्येनमहंप्रत्ययेनानुभवत्येव । तथाऽयमपि भौतिकव्यापारहेतु
रात्माकूतविशेषो न प्रमाणान्तरवेद्यो भवति । न च न वेद्यते, तत्संवेदने
सति चेष्टाया दृष्टत्वात् । तस्मात्परमपि गच्छ अधीष्व इति शब्द
श्रवणे सति चेष्टापन्नं दृष्ट्वा तस्यापि तादृक्प्रेरणावगमोऽनुमीयते ।
स च शब्दान्तरश्रवणे सत्यप्यदृश्यमानः, लिङादिश्रवणे च सति दृश्य
मानः तदर्थ एवेत्यन्वयव्यतिरेकाभ्यामवगम्यते इतीयतीयं व्युत्पत्तिः ॥
II.109
तदेतदात्मप्रत्यक्षम् । लिङादिश्रवणे सति प्रेरणावगतिः भवति, प्रथम
श्रुताच्च लिङादेरसौ न भवति । न च प्रमाणान्तरेण सोऽर्थो दर्शयितुं
शक्यते, कुर्यात् इत्यस्यार्थः कुर्यादित्यनेनैव प्रतिपाद्यते, न प्रकारान्तरेणे
त्येवं व्युत्पत्तौ संभवन्त्यामपि यैरगृहीतसम्बन्ध एव लिङादिः स्वरूपसाम
र्थ्येनैव प्रेरक इष्यते, तेऽत्यन्तभीरव इत्युपेक्षणीयाः ॥
लिङादिनैव नियोगप्रतीतिः
ननु ! यदि लिङादिव्यतिरेकेण नान्यतो नियोगोऽवगम्यते, कथमसौ
729नियोगशब्दात् प्रतीयते ? कथं वा नियोशब्दस्य नाम्नोऽप्यर्थः प्रमाणा
न्तरगोचरः स्यात् ?
अयि साधो ! न नियोगः निपूर्वेण युजिना घञतेन बोधयितुं शक्यते ।
व्यवहारमात्रमेतत्स्वरूपमाख्यातुमाश्रीयते; यथा तु यजेत इत्येव
मादिभ्यः शब्देभ्यः सोऽवगम्यते, तथा नान्यत730 इत्यत एव न प्रमाणान्तर
गोचरो धर्म इत्याहुः ॥
लिङर्थो हि नियोगो वाक्यार्थः । स एव धर्मः । स च न
प्रमाणान्तरगम्य इति ॥
नियोगस्यैव प्रेरकत्वं, कार्यत्वं च
ननु ! लिङर्थः प्रेरणात्मकोऽयं व्याख्यातः कार्यात्मा चायमनु
ष्ठेयो धर्मः । स एव च वाक्यार्थो युक्तः । कार्येऽर्थे वेदस्य प्रामाण्य
II.110
मिति हि मीमांसकाः । तस्मात् पुनरपि भाट्टपक्षवत् द्वयमापतति—
प्रेरकश्च विधिः, कार्यरूपश्चानुष्ठेयोऽर्थ इति—731सुखैधितो निरनुसन्धान
इवायुष्मानेवं व्यवहरति । न ह्यन्यः प्रेरकः, अन्यश्चानुष्ठेय इत्युक्तम् ।
नियोग एव प्रेरकः, नियोग एव चानुष्ठेयः ॥
प्रेरकत्वकार्यत्वयोरविरोधः
कथं द्वैरूप्यमस्य शब्दो वदतीति चेत्—मैवम्—प्रेरकत्वमेव
शब्दार्थः; आर्थं तु कार्यत्वम् । यतो विधिरेवानुष्ठेयतयाऽवगम्यते
आचार्याज्ञां करोमि राजाज्ञां करोमि इति ॥
किमर्थं तर्हि विषयानुष्ठानमिति चेत्—न ह्याज्ञा घटादिवत् स्वरू
पेण कर्तुं शक्या, अपि तु विषयद्वारकं तत्संपादनम् । कमण्डुलं बिभृहि
इत्याचार्येणाज्ञप्तः कमण्डुलं भृत्वाऽऽचार्याज्ञां कृतां मन्यते । कटकं गच्छ
इति राज्ञाऽऽप्तः कटकं गत्वा राजाज्ञां कृतां मन्यते । सोऽयं नियोग
एवानुष्ठेयः ॥
ननु ! राजाज्ञया करोमि इत्यपि व्यपदेशो दृश्यते । स 732चाननु
ष्ठेयामेवाज्ञां दर्शयति—मैवम्—तत्राप्याज्ञैवानुष्ठेया । प्रेषाणाभिप्रायेण
तृतीयानिर्देश इत्येवं केचित् ॥
नियोगस्यैव शाब्दत्वम्
अन्ये तु शाब्दं कार्यत्वं नियोगस्य, प्रेरकत्वं त्वर्थादित्याचक्षते ॥
अनुष्ठेयता हि तस्य निजं रूपम् । स्वसिद्धये स तु नियोज्यं नियुं
जानः प्रेरक इत्युच्यते । तदिदं कार्यत्वं अपरित्यक्तप्रेरकभावमस्याव
II.111
गम्यते । प्रेरकत्वं चापरित्यक्तकार्यभावमित्यन्यतरदत्र शाब्दं रूपं, अन्य
तरच्चार्थं रूपमिति न भाट्टैरिवास्माभिः प्रत्यये गुरुर्भार आरोपितः ॥
नियोगस्य विषयाधिकारादिकथनम्
स चायं नियोगः प्रतीयमानः यजेत स्वर्गकामः इत्यनुबन्धद्वया
वच्छिन्नः प्रतीयते । 733यज्यादिनास्य विषयानुबन्धो धातुनोच्यते ।
स्वर्गकामः इत्यधिकारानुबन्धः पदान्तरेणार्प्यते । तत्र च स्वर्गकाम
स्यैवाधिकारो निर्वहति । यदि भावार्थस्य स्वर्गं प्रति साधनत्वमवगम्यते;
एवं तर्हि स्वर्गकामेनैवासौ कृतो भवतीति स्वर्गकामपदान्वये प्राक्तन
एव मार्गोऽनुमन्तव्यः, न पुनः स्वर्गादिफलप्रदर्शनपूर्वकं विधेः प्रवर्तकत्वम्,
734अस्वातन्त्र्यप्रसङ्गात् । न हीदृशं शास्त्रस्य दैन्यम्—यत् फलं विना पुंसः
प्रवर्तयितुं न शक्नोतीति । अन्यथा यावज्जीवं यजेत इत्यादाव
प्रवर्तकं शास्त्रं स्यात् ॥
नियोगस्य फलशेषत्वाभावः
किं यावज्जीवं इत्यादिचोदनाः फलशून्या एव ? ओमित्युच्यते ।
न हि विधिः फलमाकाङ्क्षति, अपि तु नियोज्यं, विषयं च—कस्य
नियोगः ? कुत्र नियोगः ? इति । ते एते उभे अप्याकाङ्क्षे परिपूर्णे ।
तत्र—जीवतो नियोगः, यागे च नियोग इति । अतः परं फलकल्पनं
पुरुषबुद्धिप्रभवं भवति, न शास्त्रीयम् । कामाधिकारे तु नियोज्यतैव
अन्यथा स्वर्गकामस्य नोपपद्यत इति स्वर्गस्य साध्यत्वमभ्युपगतम्, न
II.112
पुनर्विधेः फलार्थत्वात् । अत एव न तत्र वैधी प्रवृत्तिः, लिप्सयैव प्रवृत्त
त्वात् । आह च 735तस्य लिप्साऽर्थंलक्षणा जै. सू. 4-1-2 इति ।
साध्यसाधनभावप्रतिपादनपर्यवसितो हि तत्र विधिव्यापारः, न प्रयोग
पर्यवसित इति ॥
श्येनादेरधर्मत्वे कारणम्
अत एव श्येनादेरधर्मत्वम् । तत्र हि अभिचरन् इति 736शत्रा
शत्रुं वैदिकेनोपायेन जिघांसुरधिकारी दर्शितः तस्य । न तत्र शास्त्रं
प्रवर्तकम् । जानात्येवासौ मयैतत् कर्तव्यम्, उपायं तु न वेद
इत्येवम् । उपायमात्रमस्योपदिश्यते श्येनः । श्यनं कुरु इति तु न
विधिः प्रभवति, जिघांसाया एव तत्र प्रवर्तकत्वात् । 737अतः श्येनादेर
धर्मत्वात् तद्व्युदासार्थपदोपादानं चोदनालक्षणोऽर्थो धर्मः जै-सू-1-1-2
इति ॥
कामाधिकारेषु हीतिकर्तव्यतांशे शास्त्रीया प्रवृत्तिः । यथोक्तं—
738क्रत्वर्थो हि शास्त्रादवगम्यते शा-भा-4-1-2 इति । भावार्थमात्रस्य
हि करणत्वमवगतम् । इतिकर्तव्यतांशस्तु न करणत्वावगतिबेलाया
मुपनिपतित इति तत्र लिप्साया अभावात् शास्त्रमेव प्रवर्तकम् ॥
II.113
अग्नीषोमीयादिर्हिसाया अधर्मत्वाभावः
अत एव अग्नीषोमीयहिंसाया नाधर्मत्वम् । न हिंस्यात् सर्वा भूतानि
इति निषेधः सामान्यशास्त्रम् । सामान्यशास्त्रं च विशेषशास्त्रक्रोडीकृत
विषयपरिहारेण प्रवर्तत इति अग्नीषोमीयहिंसायाः शास्त्रीयत्वात् न
निषेधविधिः अनर्थतां बोधयेदिति ॥
ननु ! श्येनेऽपि शास्त्रीया प्रवृत्तिः । प्रवर्तकत्वं हि विधेः स्वरूपं
प्रमाणान्तरविलक्षणम् । नान्वयव्यतिरेकवत्साध्यसाधनप्रतीतिमात्र
पर्यन्तो हि विधिव्यापारो भवितुमर्हतीति सर्वत्र विधेः प्रयोक्तृत्वानपायात् ।
एव मेवचेयं प्रवृत्तिः श्येनेन यजेतेति ॥
उच्यते—प्रवर्तितोऽहं इति ज्ञानजननं विधेः प्रेरकत्वम् । तत
सत्यं सर्वत्र तुल्यं 739करणे च श्येने, इतिकर्तव्यतायां अग्नीषोमीये ।
बाह्ये तु प्रवृत्तिलक्षणे भौतिके व्यापारे यत्र लिप्सादि प्रकारान्तरमस्ति,
तत्र भवग्त्यपि विधेः प्रयौक्तृशक्तिरुदास्ते, पशुपुरोडाशप्रयाजवत् ।
तत्रोदासीने विधौ निषेधशास्त्रमवतरति न हिंस्यात् इति ॥
श्येनज्योतिष्टोमादेर्वैलक्षण्यम्
यदि तु सर्वत्रैव प्रयोक्तृशक्तिरुदासीना भवेत्, तदा ज्योतिष्टोमान्न
विशिष्येत श्येनः; शास्त्रीयायां प्रवृत्तौ अग्नीषोमीय इव निषेधशास्त्र
स्यानवकाशात् ॥
II.114
ज्योतिष्टोमेऽनुल्लंघितनिषेधोऽधिकारी, स्वर्गस्यानिषिद्धत्वात् ।
श्येने तु हिंसायाः प्रतिषिद्धत्वात् उत्क्रान्तनिषेधोऽधिकारीति चेत्—
मैवम्—अधिकारिदशायामपि भवन्मते विधेः प्रयोक्तृत्वानपायात् न
निषेधशास्त्रमवकाशं लभत इति श्येनेऽपि नावधीरितनिषेधोऽधिकारी
स्यात् ॥
ननु ! न विधिः फले प्रयोज्यं प्रेरयति फलं कुरु इति । कर्मणि
त्वेनं प्रवर्तयति यजस्व इति । तेनाधिकारिदशायामप्रतिहतो निषेध
शास्त्रावकाशः—आयुष्मन् ! अस्मत्पक्षमेवाश्रितोऽसि । फले चेन्न
प्रवर्तयति विधिः पुरुषं, फलार्थित्वादेवैनमुपाये प्रवर्तमानं तत्रापि न
प्रेरयेत् । उपायानभिज्ञस्य तु उपायमेव दर्शयेत् । यावदप्राप्तं हि विधे
र्विषयः । तदुक्तं—जानात्येवासौ मयैतत् कर्तव्यं, उपायं तु न वेद
इति । प्रतीतिरपीयमीदृशी अभिचरन् यजेत् इति । यदि त्वं शास्त्री
येनोपायेन वैरिणं हन्तुमुद्यतः, श्येनेन जहि, श्येनस्तवोपायः इत्यर्थः ।
तदलमतिप्रसङ्गेन ॥
कामाधिकारेषु तावत् न फलाकाङ्क्षी विधिः । फलं त्वधिकारे
हेतुरिति स्थितम् ॥
निषेधस्थले विध्यर्थः
II.115
निषेधस्थले निर्वाहक्रमः
ननु ! एतावन्न विबुध्यामहे निषेधविधेः को विषय इति । भावार्थाः
कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत जै-सू-2-1-1 इति स्थिते नञर्थस्तावत्
742पूर्वापरीभूतत्वाभावात् न विधेर्विषयः, 743अनन्विताभिधानाच्च ।
न हि नञोऽनन्तरं लिङविभक्तिः श्रूयते, अपि तु हन्तेः । हननमपि न विधे
र्विषयः, तस्य धर्मत्वप्रसङ्गात्, नञ्प्रयोगस्य वैयर्थ्यप्रसक्तेः । हनने च
पुरुषस्य स्वतः प्रवृत्तेश्च । नञ्विशिष्टोऽपि न हन्त्यर्थोऽस्य विषयः,
तयोर्विशेषणविशेष्यभावाभावात् ॥
पुरुषप्रयत्नोऽपि न केवलो विधेर्विषयः, स्वतास्सिद्धत्वात् । नापि
नञर्थानुरक्तः, कुत्रापि नञर्थस्य विशेषणत्वानुपपत्तेः ॥
II.116
न हिंस्यादित्यस्य पर्युदासत्वासंभवः
अथायमब्राह्मणादिन्यायेन हन्तौ पर्युदस्ते भावार्थान्तरे नियोगः
कल्प्यते—न हन्यात् इति कोऽर्थः ? अन्यत् किमपि कुर्यादिति; तर्हि
किं तद्भावान्तरमिति न विचारयितुं शक्यम् । यत्किंचिदिति चेत्—
न—तस्य स्वतस्सिद्धत्वेन विध्यनर्हत्वात् । अवश्यं जीवन् पुमान्
किंचित् करोति, पठति, गच्छति, भङ्क्ते च ॥
अथ विषयांशं परिहृत्य प्रमाणांशे नञ् निविशते, सा हि प्रवर्तमान
पुमांसं रुणद्धि, यद्धन्यात् तन्नेति—तदप्यनुपपन्नम्—745अन्विताभिधानेन
विधिविभक्तेर्हन्तिनाऽवरुद्धत्वात् । प्रेरणशक्तिस्वभावो विधिः स्थितः ।
यस्तु निषेधात्मा नञ् पार्श्वें स्थितः, तत्र न विधिः संक्रामति । संक्रा
न्तावपि नञश्च संबन्धे सति विधेः स्वरूपनाशोऽवगम्यते । स्वभानो ह्येष
नञः, यदयं येन येन संबध्यते तस्य तस्याभावं बोधयतीति । अतो
विधिसंबन्धे नञ इष्यमाणे एतावान् वाक्यार्थोऽवतिष्ठते हननविधिर्ना
स्तीति । ततश्च हननस्य विधित्वं च स्यात् ॥
निषेधवाक्यार्थसिद्धान्तः
अत्रोच्यते—दध्ना जुहोति इति होमस्य वचनान्तरचोदितत्वात्
विधिविभक्तिशक्तिरुपपदं संकामतीति यथा वर्णितं, एवमिहापि हनने
स्वतः प्रवृत्तत्वेन विधिवैफल्यात् नञश्च श्रूयमाणस्यानर्थक्यप्रसङ्गात्
विधायिका शक्तिः नञर्थमेव स्पृशतीति किं नेष्यते ?
746 II.117
ननु ! उक्तमत्प्र भावार्थाः कर्मशब्दाः इति । तत्र दध्यनुरक्तो
होम एव विधीयत इति फलतो दधि विहितं भवति, न प्रमाणतः । इह
तु नञस्तदुपमर्दस्वभावत्वात् संसर्गो दध्यादेरिव कल्पते ॥
मैवम्—निवृत्तिमेव कुर्वन् विशेषणीभवति । सेयं नञुपहिते हन्तौ
श्रुते हनननिवृत्तिर्गम्यते । यथा सिद्धरूपदध्यनुप्रवेशेऽपि न होमस्य
साध्यमानाऽवस्था निवर्तते, तथा नञनुविद्धहन्त्यर्थावगतौ न पूर्वापरीभाव
बुद्धिर्निवर्तते747 । न ह्यब्राह्मणवत् न हन्यात् इति सिद्धरूपबुद्धिः748 ।
सोऽयं हनननिवृत्तिरूपः पूर्वापरीभूतोऽर्थो विधिविषयो भवति ॥
प्रकारान्तरेण निषेधवाक्यार्थः
अथवा विभक्त्यर्थेन नञ्, संभन्त्स्यति । शुद्धस्य लिङादेरर्थः
प्रवर्तकः, नञुपहितस्य तस्यार्थो निवर्तक इति शब्दशक्तिरेवैषा वाऽपर्यनु
योज्येति ॥
यत्तु साक्षात् नञोऽनन्तरं विधिविभक्तिर्नोत्पद्यते, तत् तस्याधातु
त्वात् धातोः परे तिङादयः प्रत्यया भवन्ति, नान्यस्मादिति । योग्यतया
तु नञर्थेन तस्य संबन्धः । 749न च तत्रायमर्थोऽवतिष्ठते हननविधिर्ना
स्तीति । किन्तु नञुपहितो विधिरौदासीन्ये पुरुषं नियुङ्क्ते । 750तदव
च्छेदकश्च हन्तिः, अन्यथा सर्वक्रियौदासीन्यं प्रतीयेतेत्यलमतिविमर्देन ।
निषेधविधेरपि सिद्धोऽनुबन्धद्वययोगः751 ॥
II.118
निषेधस्थले फलविमर्शः
प्रवर्तनावगामजनने हि विधिव्यापार इत्यसकृदुक्तम् । तत्र चास्य
न किंचिद्वैकल्यम् ॥
फलाभावेऽपि विधिसंभवः
ननु ! विधेः फलापेक्षा नास्ति चेत्, किं तर्हि अश्रूयमाणफलेषु
विश्वजिदादिषु स्वर्गादिफलं कल्प्यते ? अनभिज्ञो देवानांप्रियः—न तत्र
विधेः फलापेक्षा । न च फलं तत्र कल्प्यते । किन्तु अश्रूयमाणत्वा
दधिकारानुबन्धस्य, निरधिकारस्य च विधेर्विधित्वानिर्वाहात् अधिकारा
नुबन्धः कल्प्यते । तत्र सर्वान् प्रत्यविशिष्टत्वात् स्वर्गकामः चोदनाशेष
भावेन नियोज्यः कल्प्यते । न चेयं पौरुषी कल्पना, श्रुत्येकदेशः स इति
हि तद्विदः । तदियमधिकारानुबन्धकल्पना, न फलकल्पना इति सोऽय
मनुबन्धद्वयावच्छिन्नो नियोगो वाक्यार्थः ॥
II.119
नियोगस्यैव प्राधान्यम्
वाक्यार्थत्वं चास्य प्रधानत्वात् । अन्यो हि यज्यादिरर्थोऽवगम्य
मानः तदनुप्रवेशेन प्रतीयत इति गुणो भवति । नियोगस्तु स्वमहिमा
क्षिप्तदृष्टोपकारानेकक्रियाकारककलापोपबृंहितस्वरूपः प्रतीयत इति
प्राधान्यमबलम्बते । कार्यं चेत् प्रधानमुच्यते नियोग एव 753कार्यम् ।
फलं चेत् प्रधानमुयते, तदपि न सिद्धम्, अपि तु साध्यम् । साध्यत्वं
चास्य754 नियोगाधीनमिति नियोग एव प्रधानम् । पुरुषस्तु नियोज्यमान
त्वादप्रधानमिति ॥
नियोगस्य चतुर्विधत्वम्
एवं नियोग एव प्रधानत्वात् वाक्यार्थः । स च प्रतीतिभेदपर्या
लोचनया चतुरवस्थ उच्यते । उत्पत्तिविधिः, विनियोगविधिः, प्रयोग
विधिः, अधिकारिविधिरिति ॥
उत्पत्तिविधिः अग्निहोत्रं जुहोति इति; अग्निहोत्राख्यकर्मस्वरू
पोत्पादव्यतिरेकेणार्थान्तरानवगमात् ॥
विनियोगविधिः दध्ना जुहोति इति, उत्पत्तिविधितः प्रतिपन्ने
भावार्थे तत्र दध्यादिगुणविनियोगावगमात् ॥
अधिकारिविधिः अग्निहोत्रं जुहुयात् स्वर्गकामः इति; निर्ज्ञाते
कर्मणि तत्राधिकृतस्य पुंसस्ततोऽवगमात् ॥
II.120
प्रयोगविधिस्तु यः क्रमपर्यन्तं प्रयोगे पदार्थानवगमयति । अयं
चाधिकारविधेरेव व्यापारविशेष इति तदेवास्योदाहरणम् अग्निहोत्रं
जुहुयात् स्वर्गकामः इति ॥
क्वचिदेकस्मिन्नेव वाक्ये रूपचतुष्टयं विधेरवगम्यते, न तत्र पृथगुदा
हरणमपेक्ष्यते । यथा एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोम साम कृत्वा
पशुकामो ह्येतेन यजेत इति ॥
नियोगस्य रूपान्तराणि
अन्यान्यपि नियोगस्य रूपाणि व्यापारभेदादवगम्यन्ते । स हि भावार्थ
सिध्यर्थं तत्समर्थमर्थमाक्षिपतीति तत्प्रयोजक उच्यते । यथा माणवकस्थ
स्याध्ययनस्याचार्यकरणविधिः755 ॥
क्वचिदन्याक्षिप्ते वस्तुनि लब्धे सति तत्राप्रयोजको विधिर्भवति—
यथा क्रयनियुक्तैकहायिन्या लाभे सति, न 756पादपांसुग्रहणार्थं अन्यामेक
हायनीमाक्षिपति विधिरिति । प्रकरणपठितपदार्थपटलपरिग्रहाच्च
ग्राहक इति विधिरुच्यते ॥
757क्वचित् प्रकरणपठितस्यापि तेनागृहीतस्य द्वादशोपसदादेः प्रक
रणादुत्कर्षदर्शनात् अत एव नियोगगर्भो विनियोग इत्याचक्षते ॥
II.121
क्वचिद्विनियोजकश्रुत्यादिप्रमाणविरहेऽपि पश्वेकत्वाद्युपादानं शेषी
कुर्वन्नुपादायक इत्युच्यते । पशुना यजेत इति विभक्या हि प्रातिपदि
कार्थो विनियुक्तः । तत्स्थं त्वेकत्वं उक्तमेव, न विनियुक्तं, एकेन
इत्यश्रवणात् पशुरुपादीयमानो न संख्यारहित उपादातुं शक्यते । श्रुतसं
ख्यापरित्यागकारणाभावाच्च एकत्वविशिष्टः पशुरुपादीयत इत्युपादानत
शेषीकृतमेकत्वम् ॥
नियोगवादोपसंहारः
वैकृतस्तु सौर्यादिविधिः प्राकृतमितिकर्तव्याताजातमाकर्षश्चो दक
इत्युच्यते । तदिदमेकस्यैव भगवतो लिङर्थस्य प्रयोक्तृशवित—खचिता
त्मनः प्रचुरव्यापारवैचित्र्यमुपदर्शितमिति अलमनया महामतिमानस
वत्या मीमांसार्थकथया । सोऽयमीदृशो नियोगो वाक्यार्थः ॥
नियोगवाक्यार्थनिरासः
लिङादेरवगम्यमानः कार्यरूपः प्रेरणात्मा च वाक्यार्थो नियोग
इत्युक्तम् । न चासावेवंरूपोऽपि परिदृश्यमानभावार्थादिव्यतिरिक्तोऽ
वगम्यते ॥
II.122
ननु ! अन्य एव क्रियाकर्तृसंबन्धात् प्रैषप्रैष्यसम्बन्धो हि दर्शितः ।
न युक्तोऽसौ ॥
नियोगस्यातिरिक्तत्वनिरासः
किमिदानीं करोति कुर्यात् इत्यादि च तुल्ये एते प्रतिपत्ती ?
अभिनवमिदं शब्दज्ञत्वमायुष्मतः । न ब्रूमो न भिन्ने एते प्रतिपत्ती इति ।
करोति इति प्रवृत्तक्रिय उच्यते, वर्तमानकालावच्छिन्नश्च । किं त्वसौ
प्रैषः ततोऽवगम्यमानोऽपि प्रेरको न भवति, न च कार्य इति ब्रूमः ॥
ननु ! प्रेरकत्वेनैवावगम्यमानः कथं प्रेरको न भवेत् । एतदेवास्य
प्रैषत्वम्, यत् प्रेरकत्वम्—सत्यम्—प्रेरकत्वेनैवासौ गम्यते । 759न त्वसौ
तथा भवति । व्यवहारमात्रमेतत् राजाज्ञया करोमि इति । कार्यत्व
मप्यस्य प्रक्रियामात्रं राजाज्ञां करोमि इति ॥
फलस्यैव प्रेरकत्वं, न नियोगस्य
II.123
वेदे फलस्य प्रवर्तकत्वासंभवशंका
तत्रैतत् स्मात्—लोके भवतु फलार्थित्वात् प्रवर्तनं, आरिराध
यिषते, प्रेरकातिशयानुवर्तने वा तस्य पारंपर्येण फलहेतुत्वात् । वेदे तु
वक्तुरभावात् प्रेरणावगमादेव प्रवृत्तिः ॥
उन्मत्तवाक्यादपि लिङादियुक्तात् न प्रेरणावगमो नास्ति ? भवन्नपि
दोषदर्शनात् उपेक्ष्यते, उन्मत्त एवं प्रलपतीति । वेदे पुनः यजेत
इत्यत्र प्रेरणावगमात् परित्यागकारणाभावात् तत एव प्रवर्तनम् । प्रवर्त
नाभावेऽपि न वेदस्याप्रामाण्यम्, प्रमाणव्यापारस्य तेन निर्वर्तितत्वादि
त्युक्तम् ॥
वेदेऽपि फलस्यैव प्रवर्तकत्वम्
उच्यते—वेदेऽपि वक्ताऽस्ति । तदाशयवशेन तत्रापि फलार्थिनां
प्रवर्तनमिति संभवदपीदमुत्तरं नाचक्ष्महे, कथान्तरप्रसङ्गात् । कित्विदं
ब्रूमः-प्रेषणावगमादेव प्रवृत्तिसिद्धौ 761स्वर्गकामपदं बादरिवदन्यथाव्याख्याय
II.124
ताम् । अधिकारानुबन्धाभिधाने पुरुषविशेषणमात्रमेतत् भवतु, किं स्वर्ग
साध्यकत्वकल्पनया । 762विशेषणत्वमेवान्यथा न निर्वहतीति चेत्; आयातं
तर्हि फलस्य साध्यत्वम् । तच्चेत् साध्यत्वेनावगम्यते, तस्यैव सामर्थ्य
सिद्धं लोकानुगुणमव्यभिचारि च प्रवर्तकत्वमुत्सृज्य न प्रेरणावगमस्य
तद्वक्तुमर्हसीति ॥
विध्यर्थस्य फलार्थत्वात्, वाक्यार्थद्वयापत्तिः
ननु ! विध्यर्थो न भावार्थवत् फले करणं, येनास्य तदङ्गत्वं स्यात् ।
आक्षेपकत्वात्तु तस्य फलार्थत्वमुच्यते । प्रयोक्तृत्वं हि तस्य निजं रूपम्—
यद्येवं भावार्थ एव साध्यो भवतु । विध्यर्थस्य तु किमनुष्ठयेत्वमुच्यते ?
सोऽपि भावार्थसिद्ध्या संपद्यते, कृतो मया स्वामिनियोगः इति
व्यवहारादिति चेत्—
नियोगस्यापि फलशेषत्वम्
II.125
नियोगसिद्ध्यसंभवः
नियोगश्च शब्दैकगोचरत्वात् मा दर्शि; फलं तु स्वर्गपश्वादि 764तेन
सह निष्पद्यमानं किमिति न गृह्यते ? क्रमपक्षे पूर्वं वा नियोगः, पश्चात्
फलम्; पूर्वं वा फलं पश्चाद्वा विनियोगः सिद्ध्येदिति । यदि पूर्वं
नियोगः, तदा 765नियोगस्यासंपाद्यत्वात् तद्विषयलिप्साया अनुपपत्तेः
करणांशेऽपि वैधी प्रवृत्तिस्स्यात् ॥
इष्यत एवेति चेत्—
अथ पूर्वं फलसिद्धिः, ततो नियोगसिद्धिः; तर्हि फलस्य तदानीं
दर्शनं भवेत्, सिद्धत्वात् ॥
II.126
फलस्य नियोगशेषत्वनिरासः
अतश्च यत् कैश्चिदुच्चते—767स्वर्गसिद्धिमवान्तरव्यापारीकृत्य नियो
गमेव भावार्थः संपादयतीति—तदप्यपास्तम्—अवान्तरव्यापारस्य ज्वल
नादेरिव प्रधानव्यापारात् पूर्वं दर्शनप्रसङ्गादिति768 ॥
अथोच्यते—स्वर्गकामस्य स्वर्गं साधयितुमुद्यच्छतो यागे
नियोगः यः संपाद्यः श्रूयते, 769स चेत् संपन्नः शब्दवृत्तेन फलमपि संपन्नमेव ।
आनुभाविकी तु स्वर्गादिसिद्धिः कालान्तरे भविष्यतीति—एतदयक्तम्—
सिद्धिद्व्यानुपलंभात् । न ह्येका शाब्दी सिद्धिः, अन्या चानभाविक्री
फलसिद्धिः कुतस्त्येति चिन्त्यम् ॥
भवन्तो ह्यपूर्वशब्देन धर्मशब्देन च नियोगमेवोपचरन्ति । न च
नियोगः शक्तिवत् आत्मसंस्कारवद्वा कालान्तरस्थायी भवती । स हि
प्रेरणात्मकः, कार्यरूपो वा, नोभयथाऽपि स्थैर्यमबलम्बते770 ॥
नियोगस्य फलाक्षेपकत्वं न संभवति
तत्रैतत् स्यात्—नियोगसिद्धिः आक्षित्तफलसिद्धिर्भवति । विषया
द्यनुबन्धावच्छिन्नो ह्यसावेवानुष्ठेयः । तत्र यथा तेन तेन कारकचक्रेण
II.127
क्रियाकलापेन विना संपत्तिमलभमानः तत्तदाक्षिपति, तथाऽधिकारानु
बन्धबन्ध्योऽपि नासौ संपत्तिमधिगच्छतीति 771तमप्याक्षिपति । यश्चा
यमधिकारानुबन्धाक्षेपः, स एवायं फलाक्षेपेण तु विधेः फलाक्षेपि
तेत्युक्तम् । एतदयुक्तम्—
नियोज्यः 772चण्डालस्पर्शनेनेव स्वर्गकामनोत्पादमात्रेण नियोज्यतां
प्रतिपन्न इति कथं नियोज्याक्षेप एव फलाक्षेपः ॥
नैतदेवम्—
यागस्वर्गयोः साध्यसाधनभावः कथमवगम्यते ?
ननु ! लोके काम्यमानस्य साध्यत्वं दृष्टम् हरीतकीं भक्षयेदारोग्य
कामः इति । तेन वेदेऽपि यजेत स्वर्गकामः इति स्वर्गस्य साध्यत्वमव
II.128
भोत्स्यामहे । साधो ! लोकेऽपि कथमेतदवगतम् आयुष्मता ? नियोज्य
समर्पकपदवाच्यपर्यालोचनेन ? विधिवृत्तपरीक्षया वा ?
नित्येष्वपि फलसद्भावः
ननु ! कामनाधिकारे स्वर्गः श्रूयते, नित्याधिकारे त्वसौ774 न श्रूयते ।
आश्रूयमाणः कस्यानुरोधेन कल्प्यते ? विधेरेवेति ब्रूमः । स्वर्गेण
श्रुतेनापि किं करिष्यति, यद्यसौ विधिना नापेक्ष्यत, घृतकुल्या अस्य
भवन्ति इत्यादिवत् अश्रुतोऽपि चासौ विधिनाऽऽकृष्यत एव । तस्मात्
विधिरेवात्र775 प्रमाणं, न श्रवणाश्रवणे इति काम्यवन्नित्येऽपि फलमभ्यु
पगन्तव्यम्; न वा क्वचिदपीति ॥
निषेधस्थलेऽपि फलसद्भावः
II.129
येन हि दुर्विषहक्लेशद्वेषकलुषितमनसा ब्राह्मणहननं सुखसाधनमिति
कर्तव्यमिति गृहीतम्, निरर्गलरागरसिकेन सुरापानं सुखसाधन
मिति गृहीतम्, स ततो विधिना वार्येत, यदि तदसुखसाधनमिति
ज्ञाप्यते । तस्मान्नित्येषु 776प्रत्यवायपरिहार इव, उपात्तदुरितक्षव इव वा
प्रतिषिध्यमानेषु कर्मसु नरकपातः फलमित्यभ्युपगमनीयम् । इतरथा
ह्यर्थानर्थविवेको न सिद्ध्यति ॥
करणेतिकर्तव्यतयोरविशेषः
अवान्तरविभाग एवैषः करणेतिकर्तव्यतालक्षणः । सकलाङ्गो
बृंहितस्वरूपस्तु भावार्थः काम्यमानोपायतां प्रतिपद्यते, नैकेनाप्यंशेन
न्यूनाः । अत एव काम्यानां कर्मणां सर्वाङ्गोपसंहारेण प्रयोगमिच्छन्ति ।
तस्मात् करणवदितिकर्तव्यतायामपि लिप्सात एव प्रवृत्तिः स्यात् ॥
II.130
कामाधिकारे विध्यर्थः
यदप्युक्तं—कामाधिकारेषु काम्यमानभावार्थयोरुपायोपेयभावमात्र
प्रतिपापर्यसितो विधिव्यापार इति—तदपि न सम्यक्—विधिपुरुष
योर्हिं प्रेर्यप्रेरकभावलक्षणः संबन्धः । तत्र यागादयो विषयत्वेन प्रतीयन्ते,
नेष्यमाणोपायत्वेन । साध्यसाधनमात्रप्रतिपादनपर्यवसितव्यापारस्तु
विधिः विनियोगपर एव स्यात् । ततश्चाप्रवृत्तप्रवर्तकं नाम निजं
रूपं जह्यात् ॥
नन्वेवं काम्येषु विधितः प्रवृत्ताविष्यमाणायां अप्रवर्तमानः प्रत्यवे
यात्, विध्यतिक्रमात्—मैवम्—स्वर्गं सिषाधयिषोः तत्राधिकारात् ।
अन्यस्त्वनधिकृत एव, क्षत्रियादिरिव वैश्यस्तोमे । नासावकुर्वन् प्रत्य
वायमर्हति । स्वर्गार्थी तु विधितः प्रवर्तत एव । लिप्सया तु करणांशे
प्रवृत्तिरिष्यमाणा क्रत्वर्थमितिकर्तव्यतांशमपि मैवं स्पृशेत्779 । क्रतू
पकारकामो हि तत्र प्रवर्तते इत्येवं सर्वत्र विधिरुत्सीदेदेवेत्यलं प्रसङ्गेन ॥
II.131
नियोगे व्युत्पत्त्यसंभवः
अपि च—
ननु उक्तमाकूतविशेषपूर्विकां चेष्टामात्मनिष्ठां दृष्ट्वा परत्रापि
तथाऽनुमानमिति—अयुक्तमिदम्—स्वात्मन्यपि प्रेरणावगमनिमित्ता
भावात् । न ह्यात्मेव, संविदिव प्रेरणावगमनिमित्ताभावात् प्रेरणा
स्वप्रकाशा । प्रेरणासंवित् स्वप्रकाशेति चेत्—तदुत्पादे तर्हि निमित्तं
तावत् मृग्यम् । न तावच्छब्दः, तदानीं व्युत्पत्त्यभावात् । स्वात्मनि
प्रेरणावगमपूर्विकां हि चेष्टामुपलब्धवतः ते परत्र चेष्टादर्शनात् तदनुमानं
सेत्स्यति । तन्निमित्तं लिङादिश्शब्द इति भोत्स्यते, स पुनर्व्युत्पत्तिकाले
स्वात्मन्येव प्रेरणावगमश्चिन्त्यो वर्तते । प्रमाणान्तरात्तु तदवगम इति
चेत्—उत्तिष्ठ, असिद्धं शब्दैकगोचरत्वम् ॥
या चेयं पूर्वावधारितसुखसाधनभावे कपित्थादौ स्वात्मनि प्रवृत्ति
रुपलब्धा, तत्र प्रेरकत्वेन फलार्थिता निर्ज्ञाता, नान्या कचित् प्रेरणा ।
तदुक्तम् प्र-वा-भा-2-4-183 ।
इति । फलविषया हीच्छा तत्र स्वसंवेद्या ॥
II.132
कथं तर्ह्येवमाचष्टे आचार्यचोदितोऽहं जुहोमि इति ? अस्त्वयं
व्यपदेशः । आचार्यचोदना तु न तत्र कारणम्; अपि तु हिताहितप्राप्ति
परिहारार्थित्वमेवेत्यतः फलं प्रवर्तकं युक्तम्, अनुभवसाक्षिकत्वात् ॥
शब्दप्रयोक्त्राशयस्यापि प्रेरकत्वं न युक्तम्
येऽप्याहुः—प्रयोक्त्राशयस्य प्रवर्तकत्वम्, यतोऽननुविधेयस्य वचनात्
न प्रवर्तमानः कश्चिद्दृश्यते । अनुविधेयस्य पुंसः किंचिदब्रुवतोऽपि
भ्रूभङ्गादिनाऽऽशयमवगम्य प्रवर्तत इति—एतदप्ययुक्तम्—यतः प्रयोक्त्रा
शयानुमानेन स्वार्थसंभावनया लोकः प्रवर्तते । न पुनः प्रयोक्तैव प्रीयता
मिति । तत्प्रीतिरपि स्वप्रीतिहेतुत्वेनार्थ्यते, न तत्प्रीतित्वेन । बुद्धोऽपि
हि नाम सकलसत्त्वहितंप्रतिपन्नः परार्थं स्वप्रयोजनतयैव781 संपादयति ।
परार्थसंपादनद्वारकं तु तत् । तस्मात् स्वप्रीतिरेव प्रवर्तिका । प्रयोक्त्रा
शयस्य च प्रवर्तकत्वे वेदार्थप्रयोक्त्राशयानवधारणात् अप्रवृत्तिरेव प्राप्नोति ।
तस्मात् फलमेव प्रवर्तकम् ॥
यत्पुनः फलस्य प्रेरकत्वे दूषणमभ्यधायि—सिद्ध्यसिद्धविकल्पानुप
पत्तेरिति—तदप्ययुक्तम्—इच्छाविषयीकृतस्य प्रवर्तकत्वाभ्युपगमात् ।
असिद्धे कथं कामनेति चेत्—असिद्धत्वादेव । इदानीं च तदसिद्धं;
नैकान्तासिद्धस्वरूपमेव, खपुष्पवत् ॥
II.133
रागादेः प्रवर्तकत्वनिरासः
येऽपि रागादेः प्रवर्तकत्वमभ्युपगतवन्तः, तैरपि कामनाविषयीकृतं
फलमेव प्रवर्तकमभ्युपगतम् । 782इच्छाविशेषा एव हि रागादयः ॥
यदपि श्रेयस्साधकत्वं प्रवर्तकमुच्यते, तदपि न चारु; सत्यामपि
श्रेयस्साधनतायां अनर्थित्वेन प्रवृत्त्यभावात् ॥
ननु ! अर्थिनोऽपि नानियतविषया प्रवृत्तिः, अपितु निर्ज्ञातश्रेयस्सा
धनभावे भावार्थे । तस्मात् तत्साधनतावगमः प्रवर्तकः—सत्यम्—द्वये
सत्यपीच्छैव प्रवर्तिका वक्तुं युक्ता, तस्यां सत्यामेव प्रवृत्तिदर्शनात् ।
प्रवृत्तिर्हि नाम प्रयत्नः । प्रयत्नश्चेच्छाकार्य इति काणादाः । 783विषय
नियमे तु श्रेयस्साधनत्वं कारणं, न प्रवृत्त्युत्पादे ॥
किंच भावनावगतं श्रेयस्साधनत्वं प्रतर्तकमिष्यते तैः । तच्च न
पृथगभिधातुं युक्तम् । भवनायाः त्र्यंशत्वेन तत्स्वरूपानगमसमये एत
दंशयोः स्वर्गयागयोः साध्यसाधनभावावगतिसिद्धेः । न चांशद्वयाव
च्छिन्नस्य व्यापारस्य श्रेयस्साधनत्वं रूपं वक्तुमुचितम्, अनिष्पन्नस्य तस्य
ताद्रूप्याभावात् । न ह्यनिष्पन्ने, गवि तदेकदेशसास्नादौ गोत्वरूपं
सामान्यं निविशते । न चांशत्रयपूरणमन्तरेण भावनाख्यव्यापारनिष्प
त्तिरिति ॥
II.134
शब्दस्यापि प्रेरकत्वासंभवः
यत्तु लिङादेश्शब्दस्य तद्व्यापारस्य वा प्रेरकत्वमुच्यते—तत् प्रागेव
प्रतिक्षिप्तम् । विधिरपि स्वमहिम्ना वा प्रेरकः स्यात् ? साध्यसाधन
भावसंबन्धावबोधनेन वा ? स्वमहिम्ना प्रेरकत्वमस्य पूर्वमेव निरस्तम् ।
साध्यसाधनभावसंबन्धावबोधनपुरस्सरे तु तस्य प्रवर्तकत्वे फलस्यैव
प्रवर्तकत्वमिदमनक्षरमभिहितं भवति ॥
को हि नाम निष्फलमर्थं प्रेक्षावाननुतिष्ठेत् ?
ननु फलेऽपि दर्शिते केचित्तत्र न प्रवर्तन्त एव । किंचातः ? काम
मा प्रवर्तिषत । न हि कारको विधिः, अपितु ज्ञापक इत्युक्तम् ॥
ननु फलमप्रदर्शयन्नपि ज्ञापयेत्—न ज्ञापयितुमुत्सहते, प्रेक्षावान्
हि ज्ञाप्यते, न च फलं विनाऽसौ तथा ज्ञापितो भवति इत्यलं बहुभाषि
कया ॥
फलस्यैव प्रवर्तकत्वोपसंहारः
II.135
—इति वाक्यार्थविमर्शः—
वाक्यार्थस्वरूपवर्णनम्
आह—
उच्यते—यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्
न्या-सू-1-1-24 इति वदता सूत्रकृता फलं प्रवर्तकमिति प्रदर्शितम् ।
प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमीप्सति, जिहासति वा । तस्येप्सा
जिहासाप्रयुक्तस्य समीहा प्रवृत्तिरुच्यते । सामर्थ्यं पुनरस्याः फलेना
भिसंबन्धः इति च ब्रुवाणो भाष्यकारोऽपि फलेप्सां प्रवर्तिकां प्रादीदृशदिति
तदीयां सरणिमनुसरद्भिरस्माभिरपि तथैव तत्कथितम् ॥
विद्यास्थानानां विविक्तविषयकत्वम्
वाक्यार्थस्तु न क्वचिदपि सूत्रकारभाष्यकाराभ्यां सूचित इति कुतः
शिक्षित्वा वाक्यार्थस्वरूपं वयमाचक्ष्महे । किमिति ताभ्यामसौ न सूचितः
785
II.136
इति चेत्, 786पृथक्प्रस्थाना हीमा विद्याः । प्रमाणविद्या चेयमान्वीक्षकी,
न वाक्यार्थविद्येति ॥
यद्येवं पदार्थोऽपि कस्मादिह दर्शितः व्यक्त्याकृतिजातयस्तु पदार्थः
इति—स्थाने प्रश्नः—स तु शब्दानामर्थासंस्पर्शितां, वदन्तं रुदन्तं च
शमयितुं शब्दप्रामाण्यसिद्धये सूत्रकृता यत्नः कृतः ॥
पदार्थानामेव वाक्यार्थत्वम्
यद्येवं वाक्यार्थमपि बाह्यं वास्तवमन्तरेण शस्त्रस्य प्रमाणता न
प्रतिष्ठां लभत इति तत्रापि प्रयत्नः कर्तव्य एव—सत्यम्—पदार्थप्रतिपाद
नयत्नेनैव तु कृतेन तत्र यत्नं कृतं मन्यते सूत्रकारः, यदयं पृथक्पदार्थेभ्यो
न वाक्यार्थमुपदिशति स्म । तस्मादयमस्याशयः—पदार्थ एव वाक्यार्थः
इति ॥
तत्किममुमेव पक्षं अनुमोदामहे पदार्थ एव वाक्यार्थ इति । बाढं
ब्रुमः । किंतु नैकः पदार्थो वाक्यार्थः, अनेकस्तु पदार्थो वाक्यार्थः ॥
पदार्थवाक्यार्थयोः विशेषः
ननु ! अनेकोऽपि भवन् पदार्थ एवासौ । न च पदार्थो वाक्यार्थो
भवितुमर्हति । 787सामान्ये हि पदं वर्तते, विशेषे वाक्यम् । अन्यच्च
सामान्यम्, अन्यो विशेषः । अन्यत्राप्युक्तम्—यदत्राधिक्यं स
वाक्यार्थः इति । तस्मादन्यः पदार्थः, अन्यश्च वाक्यार्थः—उच्यते—
II.137
यदेतदुक्तमस्माभिः अनेकः पदार्थो वाक्यार्थः, न पुनरेकः इति, तन्न
बृहीतमायुष्मता ॥
वाक्यार्थस्यापूर्वत्वम्
एतदुक्तं भवति—परस्परसंस्पृष्टपदार्थसमुदायो वाक्यार्थ इति संसर्ग
एवाधिक इति यदत्राधिक्यं इत्युच्यते । न चानाक्षिप्त788विशेषत्वेन
संसर्ग उपपद्यते इति विशेषो वाक्यार्थ इत्युच्यते । संसर्गस्तु स्वरूपतो न
वाक्यार्थः, अपदार्थत्वात् । गौः शुक्ल आनीयताम् इति पदग्रामे संसर्ग
वादिनः पदस्याश्रवणात् । श्रवणेऽपि सुतरामनन्वयात् । गौः शुक्ल
अनीयतां संसर्गः इति कोऽस्यार्थः ? तस्मात् संसृष्टो वाक्यार्थः, न
संसर्गः । तदुक्तं—व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य इति । न च
तन्तुभिरिव पटः, वीरणैरिव कटः तदतिरिक्तोऽवयविस्थानीयः पदार्थो
निर्वर्त्यमानो वाक्यार्थ उपलभ्यते । जातिगुणक्रियावगमेऽपि अवयविबुद्धेर
भावात् । न च पदार्थावयवी वाक्यार्थः । तेन पृथग्वाक्यार्थं नोपदि
ष्टवानाचार्यः ॥
वाक्यार्थः न पदार्थातिरिक्तः
ननु ! गुणप्रधानभावमन्तरेण न संसर्गोऽवकल्पते । न चैकस्मिन्
वाक्ये बहूनि प्रधानानि भवन्ति; प्राधान्यमेव हि तथा सति न स्यात् ।
गुणास्तु बहवो भवन्ति । यदिदमनेकगुणोपरक्तं एकं किंचित्प्रधानं, स
वाक्यार्थ इति तद्विषयेयमेकस्वभावा बुद्धिः—सत्यम्—तथापि त एव
II.138
संसृष्टाः पदार्था अवभासन्ते, न तदारब्धः कश्चिदेकः । संसर्गसिद्धिकृतस्तु
गुणप्रधानभावोऽभ्युपेयते ॥
स च गुणप्रधानभावो न 789नियतः, येन एकमेवेदं प्रधानमिति व्यव
स्थाप्येत । क्वचित् कारकं प्रधानम्, क्रिया गुण; द्रव्यस्य चिकीर्षित
त्वेनावगमात्—व्रीहीन् प्रोक्षति इति ॥
संसर्गविशिष्टपदार्थानां वाक्यार्थत्वम्
तस्मात् गुणप्रधानभावानियमात् अन्योन्यसंसृष्टः पदार्थसमु
दायो वाक्यार्थ इति एतावदेव श्रेयः । संसर्गावगमे च सर्ववादिनाम
विवादः ॥
अन्यव्यवच्छेदः न वाक्यार्थः
ननु संसर्गवदन्यव्यवच्छेदोऽपि गम्यते । गौः शुक्ल आनीयताम्
इति श्रुते कृष्णाश्वादिव्यवच्छेदप्रतीतिदर्शनात्—सत्यम्—संसर्गपूर्वकस्तु
व्यवच्छेदः । शुक्लगुणसंसृष्टो हि गौः कृष्णादिभ्यो व्यवच्छिद्यते ।
अन्यापोहस्तु न पदार्थ इत्युक्तम् । तस्मान्न भेदो वाक्यार्थः ॥
II.139
संसर्गस्य अशब्दार्थत्वम्
ननु ! संसर्गोऽपि न शब्दार्थः—सत्यम्—स हि शब्दस्याभिधेयो न
भवति, न तु ततो न प्रतीयते । अनभिधेयः कथं प्रतीयत इति चेत्—
790एतदग्रे निर्णेष्यते । व्यवच्छेदे तु न सा गतिः । तस्मात् संसृष्टाः
पदार्थाः वाक्यार्थ इति स्थितम् ॥
फलरूपप्रधानार्थस्यैव वाक्यार्थत्वम्
अथवा गुणीभूतेतरपदार्थानुगृहितः एक एव प्रधानभूतः पदार्थो
वाक्यार्थ इत्येकाकारप्रतीतिबलादुपेयताम् । एकस्त्वयमसावर्थ इति न
निर्णेतुं शक्यते । यदि त्ववश्यमेकस्य कस्यचिदभिषेककलशो दातव्यः,
तत् फलस्यैव दीयताम् । न हि निष्प्रयोजनं किंचिद्वाक्यमुच्चर्यते ॥
सकलेन च कारककलापेन क्रिया निर्वर्त्यते । क्रियया च फलम् ।
न तु फलेनान्यत् किमपि निर्वर्त्यत इति प्रधानत्वात् फलमेव वाक्यार्थः ॥
फलस्यैव प्राधान्यपक्षः
ननु ! फलमपि पुरुषार्थमिति पुरुषः प्रधानं स्यात्—नैतदेवम्—फलं
सुखात्मकत्वात् पुरुषाश्रितं भवति, सुखादीनामात्मगुणत्वात् । न चैता
वता पुरुषः प्रधानम् । 791सोऽपि हि फलार्थमेव यतते । भावना तावत्
II.140
फलनिष्ठ एव व्यापारः । नियोगस्यापि फलं विना न प्रवर्तकत्वमित्यु
क्तम् । क्रियाया अपि केवलाया वाक्यार्थंत्वमपास्तम् ॥
क्रयाया अपि फलशेषत्वम्
ननु ! फलस्य स्वर्गादेः निसर्गतः 792सिद्धरूपत्वात् कारकैस्सह संबन्धो
पप्राप्नोति । सिद्धस्य च कः संबन्धः ? क्रियागर्भ इति चेत्—तर्हि
फलमपि, कारकाण्यपि—क्रियया संबध्यन्ते, को विशेषः ? सत्यम्—परं तु
कारकाणि साधनत्वेन, फलं तु साध्यत्वेन । क्रियया हि फलं साध्यते
न फलेन क्रियेत्यतः फलस्यैव प्राधान्यमिति सिद्धम् ॥
उद्योगस्य वाक्यार्थत्वपक्षः
अपरे पुनः लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषं
उद्योगं नाम वाक्यार्थमाचक्षते । तत्स्वरूपं तु वयं न जानीमः, कोऽयमात्म
II.141
स्पन्दो नामेति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नव
आत्मनो गुणा विशेषगुणा भवन्ति, नान्ये । तत्रायमात्मस्पन्दः बुद्धिर्वा
स्यात्, प्रयत्नो वा, इच्छाद्वेषयोरन्यतरो वा ? अन्ये तु विकल्प
यितुमपि न युक्ताः । तत्र यदि बुद्धिरात्मस्पन्द उच्यते—तर्हि प्रतिभा
वाक्यार्थ इत्युक्तं भवति; न नूतनं किंचिदुत्प्रेक्षितमेतत् ॥
अथ प्रयत्न आत्मस्पन्दः, तर्हि भावनाया नामान्तरकरणमुद्योगैति ॥
अथ इच्छाद्वेषयोरन्यतरोऽसौ—तर्हि सुखेच्छा, दुःखजिहासा वा
वाक्यार्थ इति अक्षपादपक्ष एवायं, नापूर्वं किचित् ॥
अथापि भाट्टपरिकल्पितो व्यापार आत्मास्पन्दः,—सोऽपि भावनैव,
नार्थान्तरम् ॥
अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः—स तर्हि नियोग एव;
793उपसर्गान्यत्वमिदं, न वस्त्वन्यत् ॥
वाक्यपदीयोक्तः प्रतिभाया वाक्यार्थत्वपक्षः
अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते । तत्पक्षस्तु संसर्गनिर्भासज्ञाननि
राकरणेन प्रागेव प्रतिक्षिप्पः ॥
बाह्यस्य विषयस्याभावात् सैव विषय इति चेत्, न तस्य
समर्थितत्वात् ॥
II.142
प्रकृतविचारस्य शब्दप्रामाण्योपयोगित्वम्
योऽपि व्याघ्र आयातः इत्युक्ते शूरकातरनराधिकरणनानाकार
कार्योत्पादः—स बाह्येऽर्थे व्याघ्रागमानादौ प्रतिपन्ने वासनानुसारेण भवन्
न प्रतिभामात्रहेतुको भवति । तस्य हि ज्ञायमानोऽर्थः करणम्,
न तद्ज्ञानमात्रम् । अर्थस्तदानीं795 नास्तीति चेत्—विप्रलम्भवाक्यमिदं
असत्यार्थं भविष्यति, न त्वबाह्यविषयं तत् । यथाऽवस्थिते वनितात्मनि
बाह्येऽर्थे वासनानुसारेण कुणप इति, कामिनीति, भक्ष्यमिति प्रतिभा
भवन्ति—तथाशब्दार्थेऽपि व्याघ्रागमनेऽवगते शूराणामुत्साहः, कातराण
भयमित्यादि कार्यं भवति । न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति ।
तस्मात् वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कय्यते; कथ्यतां
नाम, न त्वसौ शब्दस्याभिधेया । अनभिधेयाऽपि संसर्गवत् वाक्यार्थ
इति चेत्—तत्राप्युक्तम् । संसृष्टा वाक्यार्थः, न संसर्गः । एवमिहापि
प्रतिभावन्तोऽर्था वाक्यार्थः, न प्रतिभेति ॥
शब्दस्य च प्रत्यक्षवत् वर्तमानार्थनिष्ठत्वाभावात् अनागताद्यर्थाभि
धायिनोऽर्थासन्निधानेन प्रतिभापरत्वं यदुच्यते—तदप्ययुक्तम्—अनागता
दिविषयत्वेऽपि तस्यार्थविषयत्वं प्रसाधितमिति कृतं विस्तरेण ॥
इति श्रीजयन्तभट्टकृतौ न्यायमञ्जर्यां पञ्चममाह्निकम्
-
प्रपन्नायेति । कर्मणि क्तः । विपन्नानामिति कर्तरि शेषे वा षष्ठी । अथवा सर्वत्र ऐकरूप्येण विपन्नानामित्यादौ—निर्धारणे षष्ठी । दृढाशानां— अपूर्णानामिति यावत्र । आशा हि अपूर्णतैव । विपन्नानां जीवानां मध्ये तैः रक्षकत्वेन प्रपन्नः । विपन्नकर्तृकप्रपत्तिकर्मीभूत इत्यर्थः । नित्यापूर्णानामिति यावत् । अपूर्णतैव आशानिदानम् । विपन्नानां, दुःखितानां, दृढाशानां इतिपदैः जीवानां निर्देशेन—प्रपन्नाय, सुखात्मने, संपूर्णाय इति पदैः परमात्मनश्च निर्देशेन जीवपरमात्मनोश्चेतनत्वेन साम्येऽप्यत्यन्तवैलक्षण्यमभिहितम् । जीवानां दृढाशत्वादेव दूःखित्वम्, दुःखित्वादेव विपन्नत्वं च सूचितम् । तथा ईश्वरस्यापि संपूर्णत्वादेव सुखात्मत्वं, तत एव च प्रपन्नत्वं च सूचितम् । परमात्मनि सुखसद्भावः जयन्तभट्टसंमतः ॥ कारणबन्धवे—जगत्कारणभूतnII.4 बन्धवे । अथवा समोऽहं सर्वभूतेषु इति वदन्नपीश्वरः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् इति भक्त्याक्यकारणेन चेतनानां बन्धुर्भवतीति सः कारणबन्धुः । अन्यथा हि लोकवैय्याकुली । तथोक्तं—सर्वज्ञोऽपि च देवेशः सदा कारुणिकोऽपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते इति ॥
↩ -
उपसर्गाः—क्रियायुक्ताः प्रादयः । निपाताः—चादयः । कर्मप्रव चनीयाः—अनुर्लक्षणे पा. सू. 1-4-84 इत्याद्युक्ताः अनु इत्यादयः ॥ तथा च पदार्थो द्बिविदः—सिद्धः साध्यश्च । तत्र सिद्धार्थवाचकं नामपम्, साध्यार्थ वाचकं आख्यातपदमिति वस्तुस्थितिः । तेन चत्वारि पदजातानि, नामाख्यातोपस र्गनिपातभेदेन इति यास्कवचनमापातत इत्युक्तं भवति ॥
↩ -
पदद्वैविध्ये वृद्धसम्मतिमाह—तदुक्तमिति—तथा च निपातादीनां सुबन्ता परपर्यायनामपदेष्वेवान्तर्भाव इत्याशयः ॥ यद्यपिः शक्तं पदम् इति प्रसिद्धं पदलक्षणम्; अथापि ते विभक्त्यन्ताः पदम् इति गौतमोक्तेः न तत् प्रत्याख्यातुं शक्यम् । अन्यथा घटम् इत्यादीनामपि वाक्यत्वेन व्यवहारप्रसङ्गः । अतः शक्तं पदम् इति परीक्षकानां शास्त्रीयं लक्षणम् । विभक्त्यन्तं पदम् इति च लौकिकानां व्यावहारिकं लक्षणमिति व्यवस्था ज्ञेया ॥
↩ -
तदौपयिकत्वात्—वाक्यार्थोपयुक्तवात । क्रियायां हि वाक्यं समाप्यते ॥
↩ -
द्रव्यशब्दाः—एत एव संज्ञाशब्दाः यदृच्छा शब्दा इत्युच्यन्ते । यथा प्राचां घटादिशब्दाः । नव्यानां डित्थादिशब्दाः ।
↩ -
तद्वान्—जातिमान् । तथा च अनुगमार्थमेव जात्यपेक्षेति भावः ॥ तथा च जात्यादिवाचकत्वं प्रवृत्तिनिमित्ततया विवक्षितम् । गोशब्दाः जातिं, शुक्लशब्दाः गुणं, पाचकादिशब्दाः क्रियां, डित्थादिशब्दाः द्रव्यं संज्ञां च निमित्तीकृत्य प्रवृत्ताः इत्यर्थः ॥
↩ -
सन्निधानं—उपस्थापनम् । त्रीणि ह्येतानि पदेन प्रतिपत्तुं शक्यानि ॥ एवं सति कथं पदानि व्यक्तिवचनानीति निष्कर्षः ?
↩ -
इयं कथा—पदानामर्थः किं व्यक्तिः, उताकृतिः, उत जातिः, उत द्वयं, त्रयं वा इति विचारः ॥
↩ -
अक्षजमित्यादि—स्वलक्षणापरपर्यायं निर्विकल्पकमित्यर्थः । प्रथमसंपुटस्य 236-257 पुटा द्रष्टव्याः ॥
↩ -
सापेक्षमिति—सामान्यग्रहणं तु त्रैकालिकवस्तुस्फुरणसापेक्षम् । इन्द्रियं वर्तमानैकविषयकम् । ततश्च कथं इन्द्रियेण सामान्यग्रहणमिति सारम् । अनपेक्षा— पूर्वापरवस्तुग्रहणनिरपेक्षा ॥
↩ -
दर्शयिष्यत इति—अनादरे । वस्तुतस्तु दर्शितमिदं पूर्वमपि ॥ प्र. सं. 62 पु.
↩ -
यद्यपि—अवयवावयव्यादिषु नास्ति देशभेदः, तथापि तैरवयवी नाङ्गीक्रियते इति स्मर्तव्यम् ॥
↩ -
एकत्र—एकस्मिन् पिण्डे इत्यन्वयः । समाप्तिः—अपरिशेषः ॥
↩ -
पटैकदेशभूततन्तौ न हि पटबुद्धिः प्रामाणिकी । अभ्युपगभ्येदं दूषणम् ॥
↩ -
उत्पत्तिः—स्वरूपावाप्तिः । एकस्मिन् घटे परिसमाप्तं चेत् घटत्वं, नूतनतयोत्पद्यमाने घटे घटत्वं तेनव सह लब्धस्वरूपं सत् तत्र वर्तत इति वक्तव्यम् । ततश्च सामान्यं, अनित्यं अननुगतं च स्यादिति भावः ॥
↩ -
तदेकत्वादिति—अन्यथा हि युतसिद्धतैव स्यात् कुण्डबदरयोरिव । अयुतसिद्धे हि वस्तुनी समानदेशेसभ्यते । समानदेश समानकाल च सम्मते । समानदेशकालयोस्तु वस्तुनोः न वास्तविकभेदः, किन्तु शब्दादिभेदमात्रम् । अस्ति हि वस्त्वैक्येपि शब्दभेदः, घटः कुंभ इत्यादि । ततश्च सम्बन्धासंभवः । अधिकमन्यत्र ॥
↩ -
युतेति—युतेष्वाश्रयेषु समवायः इति कन्दली । तथा च आश्रयमन्तरा पृथगनवस्थानं अयुतसिद्धिरिति भावः ॥
↩ -
अवयवी यदा न निष्पन्नः तदा संबन्धः कयोः ? यदि निष्पन्नः तर्हि स्वातन्त्र्यमागतमिति तयोर्युतसिद्धिरेव वक्तव्या ॥
↩ -
सुशिक्षिताः—प्राभाकरा इति चक्रधरः । परंतु प्रकरणपंचिकादौ समवायोऽङ्गीकृतः । अतः प्राचीनैर्मीमांसकैरतिरिक्ततया स नाङ्गीकृत इति ज्ञेयम् ॥
↩ - संबन्धस्य वस्त्वभिन्नत्वे संबन्धिन्या जातेरपि वस्त्वभित्रत्वमावश्यकमिति जातिरिति, घटः कलशः इत्यादिवत् शब्दभेदमात्रं, न तु तस्या अतिरिक्तत्वसिद्धिः ॥↩
-
किं वस्त्वेव इति कल्पस्योत्तरमिदम् ॥
↩ - प्रमाणवार्तिकादौ 1, 40-163 श्लो विस्तरेणोक्तं संगृह्णाति—सर्वेत्यादि ॥ सर्वसर्वगता—सर्वस्मिन्नपि व्याप्ता ॥ कर्कः—सिताश्वः ॥ शाबलेयः—चित्रगौः ॥↩
-
व्यक्तिसामर्थ्यं—अभिव्यञ्जनसामर्थ्यम् ॥
↩ -
खण्डगोपिण्डेन अभिव्यक्तं गोत्वं पूर्णशृङ्गवि कथं स्यात् ? यदि स्यात्, तर्हि गोभिन्नेऽपि कुतो न स्यात् ?
↩ -
न त्विति—पिण्डसर्वगतापि वा इति किल द्वितीयः विकल्पः ॥ न तु तत्पिण्डवृत्ति तत् इत्यत्र सर्वगतत्वमेव हेतुः ॥
↩ -
सा च बुद्धिरित्यनुकर्षः—वस्तुनः द्व्यात्मकत्वं—अनुवृत्तिव्यावृत्त्यात्मकत्वं— सामान्यविशेषात्मकत्वं विना तादृशी बुद्धिः न भवेत् ॥
↩ -
अन्यतरा—बुद्धिरित्यनुकर्षः । अनुवृत्तव्यावृत्तबुद्ध्योरन्यतरायाः भ्रमत्वं गौणत्वं वा न वक्तुं शक्यं, कदापि बाधकप्रत्ययाद्यभावात् ॥
↩ -
निर्विकल्पेति—अयं विषयः पूर्वसंपुटे 252 पुटे द्रष्टव्यः ॥
↩ -
मौखर्यं—मुखरस्य भावः । दुर्मुखे मुखराबद्धमुखौ ॥
↩ -
उक्तं—पूर्वसंपुटे 251 पुटे द्रष्टव्यम् ॥
↩ -
इतः—विकल्पात् प्रागेव प्रत्यक्षेण व्यावृत्तं स्वलक्षणमात्रं गृह्यते । तदेव तात्त्विकम् । अधिकं पूर्वसंपुटु एव द्रष्टव्यम् ॥
↩ -
नेति प्रत्ययादेव मिथात्वमिति न । यत्राकस्मात् बाधकप्रत्ययो नोत्पन्नः, तत्र तस्य सत्यत्वप्रसंगात् ॥
↩ -
शबलं—संकीर्णं—द्व्यात्मकमिति यावत् ॥
↩ -
ज्ञानस्य स्वलक्षणमात्रग्रहणसमर्थत्वादिति हेतुरूह्यः ॥
↩ -
ये अद्वैतवाञ्छया प्रस्यक्षं सामान्यविषयकमाहुः, ते प्रत्यक्षस्वरूपं न सम्यग्जा नन्तीति भावः । अधिकं पूर्वसंपुटे 251 पुटे द्रष्टव्यम् ।
↩ -
सत्ताद्रव्यत्वापृथिवीत्वदिषु, घटत्वादिषु व्याप्यव्यापकभावाना पन्नेस्षु च जातिषु जातिः इत्यनुगतव्यवहारे सत्यपि न हि तत्र जातित्वं नाम अनुगता काचिज्जातिरंगीक्रियते; प्रकृतेपि तथैव ॥
↩ -
औपाधिकः—नित्यत्वे सत्यनेकसमवेतत्वादिरत्र उपाधिः । स च नानुगतः ॥
↩ -
कं चिदिति—अन्ततः बुद्धिविशेषविषयत्वादिरेव उपाधिः ॥
↩ -
गोविशेषेण अनडुहा बाहः, धेन्वा दोहः ॥
↩ -
कार्यं भिन्नम्—कार्यस्वरूपं ह्यननुगतमेव । कथं तेनानुगतधीः ?
↩ -
खण्डः—खण्डशृङ्गः गौः, मुण्डः—शृङ्गरहिता गौः—गवाश्वयोः यथा कार्यभेदः, न तथा खण्डमुण्डयोः ॥
↩ -
तथा—अश्वकार्यात् गोकार्यस्य मा स्त्वभेदः । खण्डमुण्डयोरपि कार्यं भिन्नमेव हि । कथं तर्ह्यैक्यव्यवहार इत्याक्षेपाशयः ॥
↩ -
दर्शनं—ज्ञानं एकरूपमेव खलु ॥
↩ -
सम्बन्धः—अनुमितौ व्याप्त्याख्यः, शब्दे शक्त्याख्यः ॥
↩ -
यस्यां व्यक्तौ शक्तिग्रहः, व्याप्तिग्रहो वा, तदितरव्यक्तौ वा शब्दानुमानयोः प्रवृत्तिदर्शनात् ।
↩ -
अनवस्थादीत्यादिना—तन्मूलकशक्तिग्रहव्याप्तिग्रहासंभवः ग्राह्यः ॥
↩ - अबहिर्गतं—स्वलक्षणाख्यवस्तुनः अनतिरिक्तं । अन्यथा हि अतिरिक्तजातिरिव अतिरिक्तापोहांगीकारः स्यात् । अत एव बहिस्थमिव ॥↩
-
एतस्येत्यादि—अयं विषयः पूर्वसंपुटे 239 पुटे द्रष्टव्यः ॥
↩ -
तेषां—विकल्पानाम् । प्रागेव—निर्विकल्पकाल एव ॥
↩ -
तद्विशेषणेत्यादि—विशेषणं हि विशेष्यं इतरस्माद्व्यावर्तयति । अतश्च विशेष्यस्वरूपमेव विशेषणेन परिवर्त्यत इति वक्तव्यम् । उपयन्नपयन् धर्मः विकरोति हि धर्मिणम् इति हि न्यायः । एवञ्च विशेषणेन विशेष्यस्य कश्चन उपकारः विशेष्येऽतिशयाधानरूपः वक्तव्यः । तेन च विशेषणे तदनुगुणशक्तिः, विशेष्येऽपि अतिशयस्वीकारानुगुणा शक्तिश्च स्वीकार्या । तथा च विशेषण—उपकार— शक्तीनां द्रव्याद्भेदेऽनवस्था । अभदे पूर्वोत्तरग्रहणयोर्विषयाधिक्यं न स्यात् ॥
↩ -
स्वतन्त्रतयेति । यद्यपि गुणक्रियादीनामपि नियमेन द्रव्याश्रितत्वात् नास्ति स्वातन्त्र्यम्, अथापि नात्र तादृशः स्वातन्त्र्याभावः अभावस्योच्यते । स्वरूपलाभ एव अभावः परतन्त्रः, गुणादिस्तु न तथा । अभावो हि प्रतियोगिनिरूप्यः ॥
↩ -
तस्येति । नो चेत् स्वलक्षणज्ञानमपि विकल्पः स्यात् ॥
↩ -
अवान्तरत्वं शाबलेयत्वादेः गोत्वापेक्षया व्याप्यत्वात्, व्यक्त्यपेक्षया व्यापकत्वात् ॥
↩ -
अभ्युपगमेपि प्रकृते नोपयोग इत्याह—न चेति । तद्धि—शाबलेयत्वं हि । गौः अशाबलेयो न भवति इति इत्यन्ययः ॥
↩ -
अत्रापि न भवति इत्यनुकर्षः ॥ गौः अशाबलेयो न भवति इत्यस्यासम्भवे हेतुमाह—अशाबलेयेत्यादि ॥ बाहुलेयः खलु गौः अशाबलेय एव भवति । अतः तन्निषेधः कथंकारं गवि भवेदित्यर्थः ॥
↩ -
शाबलेयादि । आदिना बाहुलेयादीनां स्वलक्षणविशेषाणां ग्रहणम् ॥
↩ -
वर्गीकरणं—अनुगमकरणम् । स्वलक्षणानां व्यावृत्तस्वरूपत्वादिति हेतुः ॥
↩ -
तदाश्रयः—अगोव्यावृत्तेराश्रयः ॥
↩ -
एषां—अगोरूपाणां तुरगादीनां । समानाकृतिष्वपि गोत्वसामान्यं विना अनुगमस्यासंभवे भिन्नाकृतीनां तुरगमहिषादीनां का वार्तेत्यर्थः ॥
↩ -
विकल्पैः—सविकल्पज्ञानैः ॥
↩ -
यात्रा—लोकयात्रा—लोकव्यवहारः ॥
↩ -
अनुवृत्तं अपरमार्थं, व्यावृत्तमेव परमार्थसदिति हि तन्मतम् ॥
↩ -
भावो हि स्वस्वरूपेण गृह्येत नाभावः; प्रतिव्योग्यनुयोगिग्रहणसापेक्षत्वात् अबावस्य, तन्मते तुच्छत्वाच्च ॥
↩ -
अपोहानां न स्वतो भेदः, किन्त्वपोह्यानां भेदादेवेति कथनात् ॥
↩ -
अनुपदमेव, पुट. 15 अपोहानामाश्रयानुपपत्तिः वर्णिता ॥
↩ -
गवाश्वयोरित्यादि । गवाश्वोभयविषयकं एकं जानं जदा यातं, तदा तदुभयातिरिक्तं हस्त्यादिकं सर्वं अपोह्यं भवति । वस्तुदृष्ट्या गोः अपोह्यः अश्वः अश्वस्यापोह्यः गौश्च तत्र अपोह्यसमुदाये न निविष्टौ भवतः । एतदुभयापेक्षया अपोह्यानां बहुत्वात् हस्त्याद्यपोहः गवि अश्वे च वर्तमानः एक एव भवेत् । तेन गवाश्वयोरभेदः एकजातीयत्वं सिद्धयेत् इति प्रघट्टकार्थः ॥
↩ -
असाधारण्यं हस्त्याद्यपोहापेक्षया ॥
↩ -
सः—अश्वापोहमात्रम् ॥
↩ -
प्रत्येकमित्यादि । गोभिन्ना हि अश्वगजादयः परस्परं विलक्षणाः अननुगताः ॥
↩ -
गोप्रतिषेधः—गोभिन्नत्वमिति यावत् । अस्यानुगमकत्वं वक्तव्यं चेत्, गवि अश्वादिभिन्नत्वं पूर्वमवगन्तव्यम् । नो चेत्, अश्वोऽपि गौः स्यात् । एवञ्च गवि विलक्षणे प्रथममेव गृहीते अनन्तरं अपोहेन किं साधनीयम् ?
↩ -
व्यावृत्तं स्वरूपमेव हि स्वलक्षणमित्युच्यते । तत्र व्यावृत्तत्वज्ञानं तु अपोहेन भवतीति न वैयर्थ्यमिति भावः ॥
↩ -
प्रतिषेधद्वयेत्यादि—अपोह्यस्य सामान्यरूपत्वे, अतिरिक्तसामान्यानङ्गीकारात् तदपोहरूपमेव स्यात् । तस्य व्यावृत्तिः गवि भासमाना अभावाभावरूपा अर्थात् भावरूपैव स्यादिति सिद्धं भावात्मकं सामान्यम् ॥
↩ -
न हीत्यादि—स्वेतरख्यावृत्तिरूपत्वादपोहस्य, स्वेतरत्वेन सर्वस्यापि ग्रहणात् एकस्मिन् अपोहद्वयस्य न संभवः ।
↩ -
न चैक इत्यादि—धर्मद्वयाश्रस्यैकस्यान्ननङ्गीकारत् ॥
↩ -
अनपोह इत्यादि—गौरित्युक्ते अगोभिन्नेतिवत्, अपोह इत्युक्ते अनपोह भिन्न इति खलु वक्तव्यम् ॥
↩ -
का वार्ता—स्वय तैः अभावरूपार्थस्यैव बोधनात् ॥
↩ -
उपसर्गनिपाताख्यातानि हि अद्रव्यवाचीनि ॥
↩ -
बाह्यार्थवाचित्वे—विज्ञानातिरिक्तवस्तुवाचित्वे ॥
↩ -
एतदाह्निकस्यान्ते अयं पक्षः विचारितः ॥
↩ -
तथौ त्यादि—ज्ञानस्य कथमपोहपदवाच्यत्वमित्याक्षेपः । ज्ञानविशेषः स इति समाधानम् । वस्तुतस्तु उभयविलक्षणोऽयमिति विवरणम् ॥
↩ -
तन्नेत्यादि—तृतीयप्रकाराभावादिति हेतुः ॥
↩ -
शब्दस्य परमार्थवस्तुबोधकत्वं नास्त्येव, शाब्बोधस्तु विकल्परूपः । निर्विकल्पमेव हि वस्तुविषयकम् ॥
↩ - किमीयः—किंसम्बन्धी ॥↩
-
दर्शनं—निर्विकल्पः । ते—सविकल्पाः ॥
↩ -
छिन्नं इत्युक्ते, छेदनक्रिया, तत्कर्म, तत्साधनं इति त्रितयमावश्यकम् ॥
↩ -
निर्विकल्पेन गृह्यमाणं वस्तु व्यावृत्तस्वरूपं, न तु तत् तदा व्यावृत्तत्वेन गृह्यते । सविकल्पेनैव तु व्यावृत्तिर्गृह्यते ॥
↩ - अर्थक्रियाकारित्वं हि सत्त्वम् । तच्च प्रतिवस्तु भिन्नम् ॥↩
-
प्रतिपत्तितः—स्वरूपप्रतिपत्तितः—विधिमुखप्रतीतितः ॥
↩ -
न हीत्यादि—निर्विकल्पे व्यावृत्तं वस्तु भासते इत्युक्ते; गौः इति निर्विकल्पे, अश्वादिव्यावृत्तिवत्, इतरगोव्यक्तिभ्योऽपि व्यावृत्तिः गृह्यते, तद्व्यक्तिमात्रविषयत्वान्निर्विकल्पस्य ॥
↩ - शब्दःखलु सामान्यविषयः, अतस्तेन सजातीयव्यावृत्तिः न बोध्येत ॥↩
-
फलतः—अर्थात् व्यवहारतः ॥
↩ -
त्रिरूपं—भावरूपं, अभावरूपं, नियतरूप च ॥
↩ -
अबाह्यविषयत्वं—बाह्याविषयत्वम् ॥
↩ - बाह्यारोपितयोः—बाह्यस्य आरोपितस्य च ॥↩
-
प्रमाणवार्तिकस्वोपज्ञवृत्तौ ॥ न्या—म—ग्र—भ
↩ -
दृष्टेऽपि—इत्यादिः समाधानग्रन्थः ॥
↩ -
प्रथमसम्पटस्य ६२ पुटटिप्पणी दृष्टव्या ॥
↩ -
एतत्सर्वं जानताऽपि पुरुषेण, लोकवदेव लोकव्यवहारोऽपि निर्बोढव्यः, सक्ताः कर्मण्यविद्वांसः यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथा गी इतिवत् ॥
↩ -
नियमप्रकारः—जातिव्यवस्था, असांकर्यादिकं च ॥
↩ -
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा । दृष्टा यथैवौषधयः भिन्नत्वेऽपि न चापराःप्र. वा. ॥ विजातीयेष्वपि हि पदार्थेषु एककार्योपयोगिनी एकशक्तिः वर्ततेः ॥
↩ -
सामानाधिकरण्यव्यवहारः ॥
↩ -
नाङ्गीकृतेति—प्रमाणतयेति अध्याहायम् ॥
↩ -
कालिः—कालिस्स्त्री कलिकायां, ना शूराजिकलहे युगे मेदिनी ॥
↩ -
तद्व्यवस्था—निर्विकल्पकविषयव्यवस्था ॥
↩ -
मैवमित्यादि—अर्थं बुद्ध्वा हि शब्दरचना । यद्यर्थभेद एव पूर्वं न गृहीतः, तर्हि शब्दविकल्पस्य को वाऽवसरः । अतश्च विकल्पविषयाणां जात्यादीनामपि निर्विकल्पकविषयत्वमावश्यकम् ॥
↩ -
किंचेत्यादि—सदृशपिण्डस्मरणं प्रमाणतया पूर्वमुक्तम् । अत्र तु एकपिण्डदर्शनसमनन्तरं सजातीयपिण्डान्तरमपि यदा सन्निहितम्, तदा उभयोरपि दर्शने अयमपि गौः इत्येवं रीत्या प्रतिसन्धानं प्रमाणीकृतम् । अत्र हि व्यक्तिद्वयं प्रत्यक्षमीक्ष्यते, अनुवृत्तप्रत्ययश्च भवति ॥
↩ -
सिक्थं—प्रातिस्विकव्यक्तिः ॥
↩ -
सामन्यभेदौ—सामान्यं विशेषश्च ॥
↩ -
सामान्यमित्यादि—तत्र—तद्व्यक्तौ । समानानां भावः किल सामान्यम् । तस्य स्वतन्त्रवस्तुत्वे एकपिण्डदर्शनेऽपि सामान्यं गृह्येत इत्याक्षेपाशयः । व्यावृत्तमित्यादि प्रतिबन्द्युत्तरम् । समानेत्यादि समाधानम् । एकपिण्डदर्शनेऽपि सामान्यं गृत्यत एवेत्यर्थः । समान्याश्रयनिखिलव्यक्तिदर्शनाभावेऽपि तद्वृत्तित्वेन तद्ग्रणे न विरोधः । अत एव कालन्तरे सदृशव्यक्तयन्तरदर्शने प्रत्यभिज्ञानम् । अन्यथा व्यावृत्तेरपि प्रतियोगिग्रहणसापेक्षत्वात् निर्विकल्प तदग्रहणप्रसङ्गः । अनुवृत्तिरित्यादिः आक्षेपः । गतिः—उपायः । समाधानं—व्यावृत्तिरित्यादि ॥
अथेत्यादि काममित्यन्तं परमतानुवादः । इदं समाधानं सिद्धान्तेऽपि सममित्याशयः उत्तरवाक्यानाम् । उभयत्रापि—अनुवृत्तव्यावृत्तयोरुभयोरपि ग्रहणे, यौ ब्रूत इत्यत्रापि । अयमंशः प्रथमसम्पुटे 251 पुटे द्रष्टव्यः । प्राज्ञाः— कुमारिलादयः ॥
सामान्यमेव सत्यं, व्यावृत्तं मिथ्येति वेदान्त्येकदेशिनः । व्यावृत्तमेव सत्यं सामान्यं मिथ्येति वैभाषिकादयः । उभयं मिथ्येति शून्यवादिनः । उभयं सत्यमिति सिद्धान्तिनः । इदमेव यौ ब्रूतः इत्यनुपदमुक्तम् ॥
↩ -
तदवेदनात्—विरोधासंवेदनात् ॥
↩ -
अस्तु इत्यभ्युपगमवादसूचकम् । इदमुत्तरत्र स्पष्टम् ॥
↩ -
तत्रभवता—कुमारिलेन । वृत्तिविकल्पादिरनुपदं परिह्रियते ॥
↩ -
अन्यथा समानदेशत्वात् किं सामान्यं निषिध्यते, उत विशेषः ? इति विनिगमकाभावात् न त्वदिष्टसिद्धिः ॥
↩ -
भवन्तं—उत्पद्यमानं, उपलंभमिति शेषः । गोत्वं हि प्रतिपिण्डं समग्रमेव दृश्यते, न तु लेशतः ॥
↩ -
न नामधेयमित्यादिरुपहासः ॥
↩ -
व्योमशिवः इति चक्रधरः ॥
↩ -
तदाश्रितस्य—विभुद्वयाश्रितस्य । उभयोरपि द्रव्यत्वेन अवयावयविभावमन्तरा न समवायसंभवः । अस्तु तर्हि तयोरस्वरूपमेव संबन्धः, असंबद्धत्वापेक्षयाऽस्य बरत्वादिति चेत्, एवमुक्त्या यदि तृप्यसि, उच्यतां कामम्, न नोहानिरिति ॥
↩ -
सक्सूत्रकण्ठयोः, द्रव्यगुणयोश्च यादृशी वृत्तिः, तद्विलक्षणैव जातिव्यक्त्योः ॥
↩ -
देहेनेवेत्यादि—आत्मानो हि विभवः । अथापि तत्तदेहावच्छेदेनैव तस्य तस्य अहं इत्यनुभवः, सुखदुःखाद्यनुभवश्च । एवमेव सर्वजातीनां सर्वत्र सत्त्वेऽपि न सर्वसाङ्कर्यम्, न वा सर्वत्रोपलब्प्रिसङ्गः । किन्तु तत्तपिण्ड एव तत्तज्जातेरुपलब्धिः । वस्तुतस्तु—आत्मनां द्रव्यत्वेन परिमाणस्यावश्यकत्वात् विभुत्वरूप परिमाणस्य सर्वगतत्वपर्यायस्य संभवः । जातेस्तु अद्रव्यत्वेन न तादृशस्यापि सर्वगतत्वस्य संभवः । अद्रव्यत्वादेव जातौ वृत्तिप्रश्न एव न घटते । तथा परिमा प्रश्नश्च । निरवयवद्रव्याण्यपि अवृत्तिपदार्थाःइत्युच्यन्ते । द्रव्येष्वेव एवंत्वे रूपादीनां गुणानां परिमाणादिप्रश्नः यथा न युज्यते, तथैव अद्रव्यायाः जातेरपि । अतश्च, यथा पटे शौक्ल्यं दीर्घं वा, ह्रस्वं वा ? इत्यादिप्रश्नाः इव सर्वेऽपि वालिशप्रश्नाः । तर्हि कथं एते ज्ञेयाः, व्यवहर्तव्याश्च इति चेत्—यथेदानीमपि ज्ञायन्ते, व्यवह्रियन्ते च तथैवेति गृह्यताम् । न हि लोके कस्यापि जातिज्ञानमेव नास्ति, न वा न जातिव्यवहारः । किन्तु व्यवहारविषयभूता जातिः किंरूपा ? किंलक्षणा ? अतिरिक्ता, अनतिरिक्ता वा इति विचार्यते । न तु व्यवहार एव निह्नूयते । अतश्च यथानुभवं व्यवहियताम् । अन्यत्र कुत्राप्यदृष्टावपि पावकौष्ण्यवत् तत्तद्वस्तुस्वभावा धर्मिग्राहकप्रमाणसिद्धा अपर्यनुयोज्याः, यथानुभवं अङ्गीकार्या इति सङ्क्षेपः । अयमर्थः समनन्तरश्लोकेषु स्पष्टः ॥
↩ -
प्रतियोगिनी—जात्या संबद्धैव ॥
↩ -
अद्य जातमपि स्वलक्षणं वस्तु गवादि, कस्मात्कारणात् स्वेतरसकलवस्त्वात्मकं न जातं, किन्तु सकलव्यावृत्तमेव । प्रथमं व्यक्तिरुत्पद्यते, अनन्तरमेव इतरव्यावृत्तिर्भवतीति न हि वक्तुं शक्यम्, उत्पत्तिकाले तस्या व्यक्तेः सर्वात्मकत्व प्रसङ्गात् । अतः उत्पद्यमानमेव वस्तु इतरव्यावृत्त्यात्मकधर्मविशिष्टमेव जायत इत्येव वक्तव्यम् । अतः सर्वमुभयोस्समानमेव ॥
↩ -
सामान्यज्ञानं—अनुवृत्तत्वज्ञानम् ॥
↩ -
शक्तिः,—व्यक्तिष्विति शेषः ॥
↩ -
न हि सर्वत्र जातिव्यवहारो दृश्यते । अतः जातिमन्तरापि व्यवहारो निर्बहत्येवेत्याक्षेपाशयः । व्यवहारोऽन्यः, ग्रहणमन्यत् । यथापेक्षं हि व्यवहारः । यथावस्तु च ग्रहणम् । जातेर्ग्रहणं तु वर्तत एव पूर्वमपि । अन्यथा प्रतीत्यवैलक्षण्यप्रसङ्गेन सर्वसाङ्कर्यं स्यादिति समाधानस्याशयः ॥
↩ -
उपायातिशयः—सन्निकर्षादिः ॥
↩ -
सेनावनादिप्रत्ययाः किलापेक्षिकाः, न नियतविषया वा । गोघटादिप्रत्ययास्तु नैवमित्यर्थः । अन्यथा सविकल्पदृष्टान्तेन निर्विकल्पमप्यप्रमाणं स्यात् ॥
↩ -
एकधीकरणं—अनुगतप्रतीत्युत्पादनम् ॥
↩ -
असिद्धेः—न हि सर्वासां सजातीयानां व्यक्तीनां समानकार्यकारित्वं प्रत्यक्षसिद्धम् ॥
↩ -
विकल्पा हि दृशिरूपाः, न दृश्याः । विकल्पविषयकविकल्पान्तराङ्गीकारेऽपि विकल्पानामसद्विषयत्वेन नार्थनिश्चायकत्वम् ॥
↩ -
एक एव घटः कालभेदेन यदा द्विवारं ज्ञानेन विषयीक्रयते, तदा विषयस्यैक्येऽपि ज्ञानव्यक्तिभेदः अनिवार्य एव । एवं सति नानाघटविषयकनानाज्ञानानामप्येकत्वं ज्ञानत्वाख्यानुगतजातिमन्तरा कथ व संभवेत् ?
↩ -
विशेषः—ज्ञानस्वरूपादिति शेषः ॥
↩ -
कार्यमिति विकल्प एवोच्यते यदि, आत्माश्रयः ॥
↩ -
सर्वधर्मविशिष्टं वस्तु युगपदेव कुतो न गृह्यत इत्यत्राह—विचित्रेत्यादि ॥
↩ -
रजतेन प्रयोजनलाभात् रजतमिति इत्युच्यते ॥
↩ -
श्लोकवार्तिके अपोहवाद इति शेषः ॥
↩ -
वसता—इत्यनेन वस्तुत्वं सामान्यस्योच्यते ॥
↩ -
तां—व्यावृत्तिम् ॥
↩ -
काममित्यादि—स्वकारणानुरोधि प्रमाणम्, न प्रयोजनानुरोधि ॥
↩ -
प्रलयमित्यादि—अतः व्यावृत्त्यपेक्षयाऽधिकस्य सामान्यस्य विकल्पविषयत्वमावश्यकम् ॥
↩ -
भणितिभङ्गीमात्रं—तृतीयप्रकाराभावात् ।
↩ -
तेन—तुच्छेन ॥
↩ -
शब्दानुमाने हि सामान्यमुखेनैव प्रवर्तेते ॥
↩ -
निबन्धना नियतरूपता—इत्यन्वयः ॥
↩ -
एवं—कल्पितेनैवापोहेन ॥
↩ -
सूत्रे—व्यक्त्याकृतिजातायस्तु पदार्थः इत्यत्र ॥
↩ -
आक्रियते—निरूप्यत इत्यर्थः इति न्यायरत्नाकरः ॥
↩ -
सा—अवयवसन्निवेशविशेषात्मिका आकृतिः ॥
↩ -
तदभावेऽपि—शाबलेयसन्निवेशाभावेऽपि । अनेन व्यभिचारः प्रदर्शितः । समनन्तरवाक्येनानन्त्यं प्रदर्श्यते ॥
↩ -
जातेः—गोत्वादिजातेः ॥
↩ -
आकृतेरपि शौक्ल्यवत् व्यक्तिविशेषणत्वात् ॥
↩ -
संबन्धः—शब्दार्थसंबन्धः । तत्र सौष्टवं अनुगमसौलभ्यम् ॥
↩ -
चोदनायास्सामञ्जस्यमेवानन्तरवाक्येषु वर्ण्यते ॥
↩ -
केवलव्यक्तेश्शब्दार्थत्वे आनन्त्यं व्यभिचारश्च दुर्वार इत्याशङ्कां परिहरति— उपलक्षणमित्यादिना ॥
↩ -
विशिष्टा—जातिविशिष्टा ॥
↩ -
दर्शनं—यत्र प्रयोगोऽस्य दृष्टः इत्यवोक्तं दर्शनम् । असंभवात्—जगति विद्यमानसर्वगवां केनापि द्रष्टुमशक्यत्वात् ॥
↩ -
न त्वित्यादि । व्यक्तिद्वयानुगमिकायाः जातेश्शब्दार्थत्वाभावात् । नियन्तृकः—नियामकः ॥
↩ -
प्रथमतरं—गोरुपस्थापनात्प्रागिति यावत् ॥
↩ -
जातेरित्यादि—इदमत्र तत्त्वं—प्रत्यक्षं व्यक्तिद्वारा जातिं गृह्णाति । शब्दस्तु जातिद्वारा व्यक्तिम् । तत्र प्रत्यक्षस्थले प्रापकान्तराभावात्, उभयत्रापि सन्निकर्षसत्वाच्च प्रत्यक्षमेव प्रमाणम् । शाब्दस्थले तु लक्षणायाः, अर्थापत्तेर्वा संभवात् न व्यक्तिबोधनव्यापारभारः शब्दस्योपरि निक्षेप्तुं युक्त इति जातिरेव पदार्थः, व्यक्तिस्तु वाक्यार्थः स्यात्कामम् । पदादनुपस्थितस्यापि शाब्दबोधे भानसंभवादिति ।
↩ -
विशेषणे—केवले इति शेषः । इह त्वित्यादि । विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे इतिवत्, विशेष्ये क्षीणशक्तिश्च नैव गच्छेद्विशेषणम् इत्यपि तुल्यन्यायात्समानमिति भावः ॥
↩ -
आत्मप्रत्यक्षं—स्वानुभवः । शब्दे श्रुते व्यक्तिबोधः न निह्नूयते । कार्यमनुभवसिद्धं, न कारणमित्यर्थः ॥
↩ -
शब्दं इत्यस्य व्यक्ति—इत्यादिना संबन्धः ॥
↩ -
कर्मणीत्यादि—अनेन अग्न्याधानस्थानवाचकात् चिञ्चयने इति धातोः क्विप् विहिता । श्येन इव चितः श्येनचित् इति दृष्टान्तः । तथा च श्येनचित् इत्यत्र श्येनशब्दः श्येनसदृशे लाक्षणिकः । श्येनाकृतिकमग्न्याधानस्थानमित्यर्थः ॥
↩ -
पशुपदेन लक्षितया व्यक्त्या आलम्भनविशसनाद्युपपत्तिः, यथा हस्तेन कृते कार्ये पुरुषेण कृतं इति, चक्षुरादौ पश्यति पुरुषः पश्यति इति च व्यवहारः ॥
↩ -
एकमिति—व्यक्तिस्तु अनेकधर्मविशिष्टा । पदं तु एकैकधर्मविशिष्टमेव बोधयेत्, न समग्रां व्यक्तिम् । नीलः इत्युक्ते रूपमात्रं, महान् इत्युक्ते परिमाणमात्रं बोध्यते । अतः न पदं व्यक्तिवाचकम् ॥
↩ -
अपितु पदश्रवणसमनन्तरमेव पशुना इत्यादौ करणत्वपुंस्त्व-एकत्वविशिष्टा व्यक्तिरेवावगम्यत इति शेषः ॥
↩ -
जात्यन्वितत्वेन लिङ्गसंख्यादिबोधनमत्यन्तविरुद्धम् ॥
↩ -
कक्ष्या—व्यक्तिरूपा ॥
↩ -
अन्ततः पुरुषाधिष्ठानमन्तरा हि चक्षुः न पश्येत् ॥
↩ -
पदैरितिशेषः ।
↩ -
जनयन्तीं—बोधयन्तीम् ॥
↩ -
भारस्य—यः तादृशविशिष्टबोधनशक्तिमान्, तस्य कथं गौरवम् । अशक्तस्य तु गौरवम् ॥
↩ -
नीलो घटः इत्यादिसामानाधिकरण्यं शब्दस्य व्यक्तिवाचकत्व एव घटेत ॥
↩ -
तद्वतो नास्वतन्त्रत्वादुपचारादसंभवात् । वृतिरूपस्य भिन्नत्वात् राज्ञि भृत्योपचारवत् इति प्रमाणसमुच्चयस्य श्लोकः । शब्दः न जात्याश्रयवाचकः । तत्र हेतुः अस्वतन्त्रत्वादित्यादि ॥
↩ -
विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वात् प्रथमं विशेषणमात्रविषयकमेव प्रत्यक्षं सिद्धान्तेऽप्यङ्गीकुतम्—इत्याक्षेपाभिप्रायः । समाधानन्तु—तत्तु विशेषणज्ञानं निर्विकल्पकं, अतीन्द्रियम् । सविकल्पके तु जातिविशिष्टमेव वस्तु इन्द्रियेण गृह्यति इति प्रत्यक्षं विशिष्टविषयकमेवेति ॥
↩ -
गुणं—अप्रधानं गुणजातिक्रियादिः । यादृशं प्रवृत्तिनिमित्तमादाय शब्दः प्रवृत्तः, तं भावप्रत्ययः अभिधत्ते ॥
↩ -
वाक्यव्यापारः नियोगः विध्यादिः । सः अङ्गं—विध्यन्तं विना न निण्पाद्य इति विध्यन्तविशिष्टस्यैव यथा आत्मलाभः, तथाऽत्रापि ॥
↩ -
मृदा निर्मितगोप्रतिमादौ ॥
↩ -
कल्पिताः—अनुमिताः, भेदाः—व्यक्तिभेदाः । कल्पान्तरादिगगनव्यक्तीरादाय गगनत्वादीनामपि सामान्यत्वसंभवेऽपि डित्थादौ न तथेत्याशयः ॥ ये प्रचक्षते ते अतीव ग्राहिकाः इति नर्मोक्तिः ॥
↩ -
नीलादिपदानि गुणवाचीनि, गुणिनि लाक्षणिकानि । रूप-गन्धादिपदानि तु केवलगुणवाचकानि ॥
↩ -
अंशुः—अंशुकः, तन्त्ववयवः, सूर्यो वा ॥
↩ -
अन्ये पाकादयः शब्दा इत्यन्वयः ॥ प्र. सं p.-50
↩ -
चकारात् द्रव्यवदित्यस्य ग्रहणम् ॥
↩ -
प्रवयाः स्थविरो वृद्धः इत्यमरः ॥
↩ -
विशिनष्टि इति विशेषणं इति खलुव्युत्पत्तिः ॥
↩ -
विहरतीत्यादौ न हि धात्वर्थे विशेषः उपसर्गेण बोध्यते, किन्तु विलक्षण एवार्थः । तच्च वैलक्षण्यं क्वचिद्विरोधरूपमप्यस्तु ॥
↩ -
शास्त्रान्तरे—व्याकरणनिरुक्तादौ ॥
↩ -
शुक्लो गौःइत्युक्ते अशुक्लव्यवच्छेदः गवि भासते । स एव वाक्यस्य अर्थः ॥
↩ -
न हि वाक्यघटकपदानि विशकलितस्वतन्त्रार्थबोधकानि ॥
↩ -
भाव्यनिष्ठः—भाव्ययागाद्याश्रितः, तद्विषयकः ॥
↩ -
भावना—अर्थभावना ॥
↩ -
द्वयं—पुरुषव्यापाररूपार्थभावना, शब्दव्यापाररूपशब्दभावना च ॥
↩ -
पदार्थेम्यः व्यतिरेकाव्यतिरेकादिविकल्पदुःस्थत्वादेव ॥
↩ -
ध्रियेत—तिष्ठेत । वस्तूनां क्षणिकत्वादिति हेतुरत्र ॥
↩ -
अपेक्षणेऽपीत्यादि—संबन्धस्य अपेक्षामूलत्वात् ॥
↩ -
तयोः—भेदसंसर्गयोः ॥
↩ -
तद्वाचिनि—भेदसंसर्गवाचिनि ॥
↩ -
असंसृष्टः—शुक्लपदार्थेंनेति शेषः ॥
↩ -
अपि तु आर्थिक इत्यर्थः ॥
↩ -
संहताः—क्रियायामिति तात्पर्यम् ॥
↩ -
पूर्वोत्तरावधिमानिति यावत् ॥
↩ -
साक्षाफलान्वयीनि आरादुपकारकाणि, साधनस्वरूपनिष्पादनद्वारा तादृशानि सन्निपत्योपकारकाणि ॥
↩ -
पूषानुमन्त्रणादीनि ॥
↩ -
यथा प्रकरणान्तरगतान्यपि पूषानुमन्त्रणादिनि पौष्णचरुकर्मणि ॥
↩ -
प्रपञ्चभ्रमनिवृत्त्या संसारबन्धविगमेन ज्ञातस्वरूपसुखः ॥ इदं च कर्मब्रह्मकाण्डयोरैकशास्त्र्यवादिप्राचीनवेदान्तिनां मतम् ॥
↩ -
भूतं—सिद्धं भव्याय—साध्याय उपदिश्यते इति न्यायः ॥
↩ -
तथाचानिष्टपरिहार एत कुत्र चित्फलम् ॥
↩ -
वस्तुतः—वस्तुस्वरूपतः ॥
↩ -
कर्ता नाम क्रियानिर्वर्तकः । अतः सोऽपि क्रियाशेष एव ॥
↩ -
फलस्य कथं क्रियायामुपयोगः ? इत्यत्राह—कामनापीति ॥
↩ -
दध्यादिवत्—इति व्यतिरेकदृष्टान्तः ॥
↩ -
अहं इदं एभिस्साधनैः मम सुखाय अस्माद्धेतोः अत्रेदानीं करोमि इति व्यवहारे सर्वकारकाणां क्रियाकारकसम्बन्धः प्रतीयते ।
↩ -
अनुपादेयविशेषणं स्वर्गः । द्वितीयं तु लोहितोष्णीषादयः ॥
↩ -
प्रत्ययः—अख्यातम् । तदर्थः पुरुषव्यापारः, भावना वा ॥
↩ -
नान्यथा—स्वतन्त्रतया, स्वयंपुरुषार्थत्वेन ॥
↩ -
विवदन्ते—भावना, कृतिर्वा आख्यातार्थ इति किल मन्यन्ते ॥
↩ -
स हीति—एभिस्सर्वैर्मिलित्वैव लकारस्वरूपं ज्ञातव्यम् ॥
↩ -
साक्षात—व्यापारान्तरापेक्षां विनैव ॥
↩ -
भवति इत्युक्ते हि फले भवनक्रियाकर्तृत्वं प्रतीयते । अतश्चात्र कर्तृत्वं आश्रयत्वे, तच्च विषयत्वे, तच्च साध्यत्वे विश्राम्यति ॥
↩ -
गतिबुद्धि इत्यादिना अत्र कर्मत्वप्रतीतेः ॥
↩ -
धात्वर्थः क्रिया, तदतिरिक्ता भावना अख्यातार्थः ॥
↩ -
भावना धत्वर्थवत् न कारकनिष्पाद्या, नापि कारकवत् धात्वर्थनिष्पादिका । अपि तु उभयोरपि प्राणप्रदात्री ॥
↩ -
आदिपदेन गमनादिपरिग्रहः । अत्र धात्वर्थस्तु भिद्यते, न त्वाख्यातार्थः ॥
↩ -
करोतीति—पाकं करोति इति व्यवहारात् यदि आख्यातार्थविवरणं करोतिना क्रियेत, तर्हि करोति इति व्यवहारे व्यापारस्यौव धात्वर्थत्वात् आख्यातार्थः कः अतिरिक्तः वक्तव्य इत्याक्षेपार्थः ॥
↩ -
पाकः, तदनुकूलव्यापारश्चेति विभागतः । पाकं पचति इति निरर्थकः शब्दः प्रयुज्येत चेत्, न तत् विषयव्यवस्थापकम् ॥
↩ -
एकत्रिकेण यजेत इत्युक्तः यागविशेषः । लोकेऽपि पाकादिशब्दाः केवल धात्वर्थाः । प्रयत्नादिशब्दाः केवलव्यापारवाचिनः । पचतीत्यादयः उभयपराः ॥
↩ -
दशपायः—दशाविगमः ॥
↩ -
तद्व्यतिरिक्तत्वं—धात्वर्थक्रियावैलक्षण्यम् ॥
↩ - आत्मनः सुखादुःखादिसंबन्धमन्तरा प्रत्येकं भानस्य वेदान्तिव्यतिरिक्तैः अनङ्गीकारेऽपि न नास्तित्वं यथा, तथा ॥↩
-
धातौ सत्यपि—धात्वर्थे प्रतीयमानेऽपि । भवत्यादौ इत्यत्र आदिना करोत्यादिपरिग्रहः ॥
↩ -
तेन—केवलधातुगा ॥
↩ -
ततः—यत्र तृतीया श्रूयते, ततः ॥
↩ -
सामानाधिकरण्यं—ज्योतिष्ठोमेन इति हि तृतीया स्पष्ठं श्रूयते ॥
↩ -
अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादौ ॥
↩ -
वारवन्तीयसाम करणं उत्पत्तिवाक्य एव शिष्टम् ॥
↩ -
यदि भावना आख्यातार्थः पुरुषप्रेरिका, तर्हि जुहुयात् इत्यादि विधिप्रत्ययस्य का आवश्यकता इत्यर्थः ॥
↩ -
लडाख्यातात् ॥
↩ -
ज्ञातेऽप्यर्थे राजाज्ञादिना प्रवृत्तिदर्शनात् ॥
↩ -
स्वर्गकामपदस्य बहुव्रीहित्वात् लक्षणया पुरुषः अर्थः ॥
↩ -
ऋत्विजां मध्ये शुक्लवर्णः होतुः यथा क्वचित् ज्ञापकः, तथा ॥
↩ -
अन्यत्र—कामनायाम् ॥
↩ -
सप्रत्ययः—ज्ञानादिमान् ॥
↩ -
साध्यसाधनाद्यनवबोधे हि प्रवर्तकत्वं संकुचितमेव भवेत् ॥
↩ - बाह्यः—शारीरकः ॥↩
-
मातापितृसहस्रेभ्योऽपि हि वत्सलतरं शास्त्र पुरुषं न कदाऽपि विप्रलम्भयेदित्ययमंशः विधिश्रवणेन दृढीक्रियत इति विधिरावश्यक इति सारम् ॥
↩ -
अयमेवात्रोपाय इति निश्चयः उपायपरिच्छेदः ॥
↩ -
श्रेयस्साधनत्वबोधे हेतुः विधिरूपः शब्दः ॥
↩ -
लडाख्यातादेः ॥
↩ -
कर्तृत्वं चात्राश्रयत्वरुपम् । स्वर्गो हि यागेन भवति ॥
↩ -
अन्यां—अर्थभावनातो विलक्षणाम् । शब्दव्यापारत्वात् तस्या अभिधां इत्युक्तिः ॥
↩ -
लिङादिपदज्ञानादिरूपः । लिङश्रवणेन हि अयं मां प्रेरयति इति मन्यते पुरुषः ॥
↩ -
लिङबोध्यविधेः, आख्यातबोध्यभावनायाश्च विशकलिततयैवोपस्थितत्वेन, प्रकृतिप्रत्ययभावाद्यभावात् आकांक्षाविरहेण कथं तयोर्वाक्यार्थेऽन्वय इत्याक्षेपः ॥
↩ -
एकेनैव प्रत्ययेन लिङत्वेन विधिः, आख्यातत्वेन भावना चाभिधीयते ॥
↩ -
स्वच्छा—केवला धात्वार्थाननुरक्ता ॥
↩ -
अंशैः—फलकरणेतिकर्तव्यताभिः ॥
↩ -
स्रुवेणावद्यति इत्यत्र अर्थसामर्थ्यात् पुरोडाशाद्यवदानाङ्गत्वं लभ्यते ॥ तथा च शब्दार्थानामाकाङ्क्षा बहुप्रकारेण शाम्यति ॥
↩ -
भावनाया अखण्डत्वसंपादनायायं क्लेशः वर्णितः ॥
↩ -
व्यापारः—शब्दभावनाख्यः ॥
↩ -
असौ—अनवस्थापरिहारः ॥
↩ -
गोबृन्दारकः—वृषभश्रेष्ठः ॥
↩ -
विधिवाच्यार्थभावनया साकं कथमन्वयः ?
↩ -
गुणत्वेन—तदङ्गत्वेन ॥
↩ -
द्वयोः—पुरूषव्यापारशब्दव्यापारयोः ॥
↩ -
तथा च कार्यरूपत्वात् प्रेरणारूपत्वाच्च नियोगस्य न गौरवम् ॥
↩ - प्रेर्यप्रेरकभावरूपः संबन्धः ॥↩
- प्रेषितं—प्रेषणा ॥↩
-
प्रवर्तनमित्यनुवर्तते ॥
↩ -
विधिनिमन्त्रणामन्त्रणाध्येषणानां प्रेरणारूपत्वेऽपि चतुर्णां पृथगुपादानं प्रपञ्चार्थमिति वैय्याकरणा अपि । तत्र विधिः हीने निमन्त्रणं ज्यायसा । आमन्त्रणं समे । अध्येषणं ज्यायसि यथासंभवं इत्युत्सर्गः ॥
↩ -
अप्रवृत्तप्रवर्तने हि विधिः ॥
↩ -
न ह्यज्ञातकार्ये णिच्प्रयोगसंभवः ॥
↩ -
यागे प्रवृत्तः यजमानः, पूर्वं तु न यजमानः ॥
↩ -
प्रवर्तमानः—इत्येतदनन्तरं प्रथमं इति पूरणीयम् ॥ अकूतं—अभिप्राय विशेषः ॥
↩ -
नियोगः इति नामपदात् ॥
↩ -
अन्यतः—यागः इत्यादिपदेन ॥
↩ -
अशिक्षितः अलस इति नर्मोक्तिः ॥
↩ -
अननुष्ठेयां—अनुष्ठेयभिन्नाम् ॥
↩ -
यज्यादिना धातुना—इत्यन्वयः ॥
↩ -
अस्वातन्त्र्यं—विधेः फलशेषत्वम् ॥
↩ - तस्य—स्वर्गादेः लिप्सा अर्थलक्षणा—वस्तुस्वभावनिबन्धना । तस्य किमर्थं विधिरित्यत्राह—साध्येत्यादि । प्रयोगः—प्रवर्तनम् ॥↩
-
शत्रा—शतृप्रत्ययेन ॥
↩ -
अतः—कामनाया अप्रवर्तकत्वात् । न हि श्येनः काम्यकर्म ॥
↩ - क्रतूपकारकः अर्थः, इतिकर्तव्यता ॥↩
- तथा च फलभूता हिंसा श्येनादौ । अग्नीषोमीयादौ तु इतिकर्तव्यतायाम् । इतिकर्तव्यताविषयकप्रवृत्तिस्तु शास्त्रादेवेत्युभयोवैलक्षण्यम् ॥↩
-
श्येनविधिः न प्रत्यवायं बोधयति, न हिंस्यात् इति निषेध एव श्येनस्यं प्रत्यवायरूपत्वं वदति ॥
↩ -
अधिकं—प्रत्यवायहेतुत्वम् ॥
↩ -
यागादिवत् क्रियाप्रतीतेस्तत्राभावात् किं विषयकस्तत्र विधिः ?
↩ -
धातुविधिप्रत्ययार्थयोर्मध्ये कथं नञर्थस्य निवेशसंभवः ?
↩ -
हननस्य ध्वंसरूपस्य नञर्थें एवान्वये वस्तुन उन्मज्जनमेव प्राप्नोति ॥
↩ -
प्रत्ययानां प्रकृत्या साकमन्वयस्य प्रथममेव प्रतीतेः ॥
↩ -
हननस्य साक्षाद्विधिनैवान्वयात् ॥
↩ -
प्रवृत्तिवत् निवृत्तेरपि क्रियारूपत्वात् ॥
↩ -
तत्र पर्युदासानाश्रयणादिति हेतुः ॥
↩ -
हननस्य विधित्वप्रसक्तिं पूर्वोक्तां वारयति—न चेत्यादिना ॥
↩ -
अवच्छेदकः—अवधिः, औदासीन्यप्रतियोगी ॥
↩ -
विषयानुबन्धः, अधिकारानुबन्धश्च द्वयम् ॥
↩ -
विधेः स्वे अर्थे खण्डना तु नास्ति ॥
↩ -
वस्तुतस्तु नियोग एवमुख्यं कार्यम् । फलमपि तत्रैवान्तर्भूतम् । लोकव्यवहारसिद्धं तु कार्यं गौणम् ॥
↩ -
अस्य—फलस्य ॥
↩ -
संमाननोत्सर्जनाचार्यकरण इत्यादिना आत्मनेपदप्राप्त्या अष्टवर्षं बाह्मणमुपनयीत, तमध्यापयीत इति आचार्यकरणं विहितम् । तच्चमाणवकस्याध्ययन मन्तरा न संभवतीत्यार्थादध्यनलाभः ॥
↩ -
सप्तमं पदमभिगृह्णाति इति सप्तमपदात्पांसुं गृहीत्वा हविर्धानशकटाक्षमार्जनं विहितम् ॥
↩ -
द्वादशोपसत्ताऽहीनस्येति श्रवणेऽपि, तिस्र उपस्रदो भवन्ति इति वचनेन उपसत्त्रयस्य प्राप्तिः ॥
↩ -
वाक्यशास्त्रं हि मीमांसाशास्त्रं नियोग निरूपण एव पर्यवस्यति ॥
↩ -
वास्तविकं प्रेरकत्वं तु तस्य नास्ति ॥
↩ -
लडादिप्रयोगेऽपि ॥
↩ -
फलस्य कर्मशेषत्वं नास्तीति बादरेर्मतं पूर्वमीमांसायां 3-1-3 निरूपितम् । तेन फलस्य प्राधान्यं सिद्धमिति तज्ज्ञानमेव प्रवर्तकम् ॥
↩ -
विशेषणत्वं—पुरुषविशेषणत्वम् ॥
↩ -
द्वयं—नियोगं, फलं च ॥
↩ -
तेन सहेति—उभयोरपि भावार्थसाध्यत्वात् ॥
↩ - नियोगस्य स्वतः पुरुषार्थत्वाभावात् असंपाद्यत्वम् ॥↩
- इतिकर्तव्यतायामेव विधिर्युक्ता । धात्वर्थेंऽपि विध्यङ्गीकारे श्येनस्यापि विहितत्वप्राप्त्या अधर्मत्वं न स्यात् ॥↩
-
नियोगः स्वसिद्वये फामपि संपादयति । यागश्च नियोगम् ॥
↩ -
तथा च स्वर्गस्य पूर्वमेव अनुभवप्रसङ्गः ॥
↩ -
सः—नियोगः ॥
↩ -
यागं नर्वर्तयन् नियोगश्चरितार्थः । तथा च कालान्तरे कथं फलम् ?
↩ -
तं—अधिकारं—फलम् । तथा च फलसिद्धावेव नियोगसिधिः पूर्णा । अत एव अपूर्ववृद्धिरेव स्वर्गः इत्यप्युच्यते ॥
↩ -
पुरुषविशेषणस्य चण्डालस्पर्शस्य स्नाने निमित्तत्वमात्रेण यथा चारितार्थ्यं, तथा स्वर्गस्यापि यागे प्रवर्तनामात्रेण ॥
↩ -
स्वकर्मण इति पञ्चमी ॥
↩ -
असौ—प्रत्यवायपरिहारः ॥
↩ -
अत्र—फलसाधनत्वे ॥
↩ -
प्रत्यवायपरिहारः—अकरणे यो भवेत्तस्य परिहरणं—प्रागभावसंरक्षणम् । उपात्तदुरितक्षयः—जातस्य तस्य ध्वंसः ॥
↩ -
एवं च—विधिसद्भावादेव । वज्र इति च श्येनवत् र्हिंसाफलक्रो यागविशेषः ॥
↩ -
प्रेरकत्वस्य समानत्वेऽपि फलद्वारकमेव चतुरवस्थत्वं नित्यनैमित्तिककाम्यप्रतिषेधस्थलेषु ॥
↩ -
अतस्साङ्ग एव करणे विध्या प्रवृत्तिः ॥
↩ -
सैव—फलविषयकेच्छैव ॥
↩ -
आकाशस्य स्थितिर्यावत् यावच्च जगतः स्थितिः ।तावन्मम स्थितिर्भूयाल्लोकपापानि निघ्नतः
-
फलविषयिणी उत्कटेच्छा रागः ॥
↩ -
विषयनियमः—प्रवृत्तिविषयव्यवस्था ॥
↩ -
प्रत्यक्षं वस्तु प्रदर्शयति । प्रवृत्तिस्तु इच्छयैव । एवं च विधेः स्थानमेव न लभ्येत ॥
↩ -
उपलंभः—ज्ञानं, न तु प्रत्यक्षम् ।
↩ -
गोपदं गोत्वावच्छिन्नवाचकम् । परन्तु गामानय इति वाक्यस्थं न यत्किञ्चिद्गोवाचकम् । किन्तु विशिष्य किञ्चिद्व्यक्तिवाचकम् ॥
↩ -
व्याकरणं पदशास्त्रम् । मीमांसा च वाक्यशास्त्रम् । इदं च प्रमाणशास्त्रम् ॥
↩ -
संसर्गस्य व्यक्तिविशेषगतत्वात् ॥
↩ -
गुणप्रधानभावः आपेक्षिक एव सर्वत्र । अपेक्षा च देशकालकार्यानुरोधेन बहुप्रकारा । स्वदेशे राजाप्रधानन् । शिशोर्नामकरणे शिशुः प्रधानम् । पाककार्ये पाचकः प्रधानम् ॥
↩ -
अग्रे—समनन्तराह्निके ॥
↩ -
क्रियामयत्वाल्लोकस्य, फलस्यैव क्रियया साधनात् तस्यैव लोकदृष्टवा प्राधान्यम् । वस्तुदृष्टया तु पुरुषस्य स्यान्नाम प्राधान्यम् ॥
↩ -
क्रियैव साध्या । स्वर्गश्च न क्रियारूपः । अतः न साध्यः किन्तु सिद्धः, घटादिवत् ॥
↩ -
उत्, नि इति उपसर्गभेदमात्रम् ॥
↩ -
भारतमनुष्याणां, उद्योगर्वेत्यादिः नर्मोक्तिः ॥
↩ -
तदानीं—शब्दोच्चारणकाले ॥
↩