सप्तममाह्निकम्—प्रमेयपरीक्षा
प्रमेयनिर्देशः
एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं
दर्शयितुमाह—
आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखा
पवर्गास्तु प्रमेयम् ॥ १-१-९ ॥
यथा देवदत्तयज्ञदत्तविण्थुमित्रा भोज्यन्ताम् इति एवकारादिश्रुति
मन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते,
नान्ये; तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधो
ऽवधार्यते ॥
प्रमेयविभागाक्षेपः
ननु कथं द्वादशविधमेव प्रमेयमवधार्यते, यावता समान
तन्त्रे पृथिव्यानीनिनव द्रव्याणि' रूपादयश्चतुर्विशतिगुणाः, उत्क्षेपणादि
II.264
पंचकर्माणि, परापरभेदेन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽन्त्या
विशेषाः, एकः समवाय इति षट्पदार्थाननुक्रम्य तदवान्तरविशेषैरा
नन्त्यं प्रमेयस्योपवर्णितमस्ति ॥
उच्यते—किं पुनरिह प्रमेयं विवक्षितमिति तत्सामान्यलक्षणं ताव
परीक्ष्यताम् ॥
प्रमेयसामान्यलक्षणम्
आह—सूक्तमिदं—कस्यापि कर्णे पृष्टः कटिं चालयतीति । द्वादश
विधत्वमाक्षिप्तं न प्रतिसमाधत्ते भवान् । प्रयेयस्य सामान्यलक्षणं तु
1030परीक्षते इति ॥
उच्यते—अलं केलिना ! एतदेवात्र प्रतिसमाधानं भवति । न हि
प्रमाणविषयमात्रमिह प्रमेयमभिमतम्, एवंविधस्य प्रसिद्धत्वेन लक्षणा
नर्हत्वात् । प्रमाण एवं ज्ञाते सति तद्विषयोऽर्थः प्रमेयमिति प्रज्ञायत
एव । किं तेन लक्षितेन ? तस्मात् विशिष्टमिह प्रमेयं लक्ष्यते ॥
तच्च द्वादशविधमेव भवति, न न्यूनमधिकं वेति समाहितमित्थं
भवति विभागाक्षेपः ॥
द्वादशानां विशिष्टप्रमेयत्वम्
कुतः पुनरेषः प्रमेयविशेषो लभ्यते ? निःश्रेयसार्थत्वाच्छास्त्रस्य ।
प्रमेयज्ञानस्य प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव
II.265
मिथ्याज्ञाननिवृत्त्यादिक्रमेण अपवर्गाहेतुत्वप्रतिज्ञानात् । तथाविधस्य
चापवर्गोपायत्वस्यात्मादिष्वेव भावात् ॥
आत्मादीनां प्रमेयत्वोपपादनम्
भवत्वेवम् ! सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यम् ?
विशेषनिर्देशात्तु, शब्दप्रयोगसामर्थ्याच्च ॥
सत्यम्, आकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं भवति । तत्तु
न सप्रयोजनं आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु
प्रमेयम्, अस्यैव निःश्रेयसहेतुत्वादित्याशयः ॥
तदित्थमेष तुशब्दः निःश्रेयसानङ्गभूतप्रमेयान्तरपरिहारद्वारेण
विशिष्टमात्मादि प्रमेयमिह सूचयति ॥
आत्मादिज्ञानस्य मुमुक्षुसंपाद्यत्वम्
आत्मनो हि भोगाधिष्ठानं शरीरम् । भोगसाधनानीन्द्रियाणि ।
भोक्तव्या इन्द्रियार्थाः । भोगकारणं मनः । प्रवृत्तिः पुण्यपापात्मिका ।
II.266
रागादयश्च दोषाः शरीरादिजन्महेतवः । एतत्कृतश्च शरीरादियोगवि
योगाभ्यासः प्रेत्यभावः । 1033एतत्कृतमेव च संसारे सुखदुःखरूपं फलं ।
तच्य विविधमेव । 1034विवेकवतः सर्वं दुःखमेवेति । एवं शरीरादि
दुःखान्तं हेयतयैव भावनीयम् । एददनुपयुक्तश्चात्माऽपि तथैव ।
एतद्वियुक्तस्त्वात्मैवापवर्ग 1035उच्यते । स चोपादेयतया भावनोयैत्यत
एवात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः, स र्दि परमः पुरुषार्थ इति ॥
तत्त्वज्ञानस्य मोक्षहेतुत्वोपपापनम्
एवमिदं द्वादशविधं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन
अभ्यासात् तद्विषयविपरीतग्रहात्मकं मिथ्याज्ञानं क्षिणोति ॥
II.267
तदित्थमेव द्वादशविधं प्रमेयं अतिगहनसंसार1037मारवस्थलप्रभवभीम
सन्तापनिर्वापणमहाह्रदतामुपयातीति तदेवोप देशार्हमिति सिद्धम् ॥
आत्मविचारोपक्षेपः
शरीरात्मवादोपक्षेपः
न च तावदात्मा प्रत्यक्षतो गृह्यते, घटादिवत् बाह्येन्द्रियेण, 1038सुखा
दियन्मनसा वा परिच्छेत्तुमशक्यत्वात् । अनुमानं तु न प्रमाणमेव चार्वा
काणाम् । न चात्मसिद्धौ किंचन लिङ्गमस्ति । ज्ञानादियोगस्तु भूताना
मेव परिणामविशेषोपपादितशक्त्यतिशयजुषां भविष्यति । यथा गुड
पिष्टादयः प्रागसतीमपि मदशक्तिं आसादितसुराकारपरिणामाः प्रपद्यन्ते,
तथा मृदाद्यवस्थायां अचेतनान्यपि भूतानि शरीराकारपरिणतानि चैतन्यं
स्प्रक्ष्यन्ति । कालान्तरे च व्याध्यादिना परिणामविशेषमवजहन्ति
तान्येव चैतन्यशून्यतामुपयास्यन्ति । चैतन्यवत्त्वानपायाच्च तावन्तं
कालं तान्येव स्मृत्यनुसन्धानादिव्यवहारनिर्वहणनिपुणतामनुभविष्यन्ति
इति किमनुमानक आत्मा स्यात् ?
II.268
आगमास्तु मनोरथाधिरूढप्रामाण्याः कथमात्मानमवबोधयितुं
शक्ष्यन्ति । अयमपि चागमोऽस्त्येव विज्ञानघन एवैतेभ्यो भूतेभ्यः
समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ति इति । तत् आत्मनो
नित्यस्य परलोकिनोऽभावात् कृतमेताभिः अपार्थकपरिश्रमकरिणीभिः
परलोककथाभिः ॥
आत्मनः अहमर्थत्वम्
अस्त्ययमहंप्रत्ययः कश्चित् शरीरसमानाधिकरणः स्थूलोऽहम्
क्षामोऽहं इति । कश्चित् ज्ञातृसमानाधिकरणः—जानाम्यहम्
स्मराम्यहम् इति । तत्र स्थूलादिसमानाधिकरणस्तावदास्तामहं
प्रत्ययः ॥
II.269
अवस्तुत्वाच्च नासौ पूर्वं किंचिज्ज्ञातवान्, न चाद्य किंचिज्जाना
तीति । तस्मादहमेव ह्यो ज्ञातवान्, अहमेवाद्य जानामीत्यस्मिन् प्रत्यये
ह्यश्चाद्य चानुवर्तमानो ज्ञाता प्रतिभातीति गम्यते ॥
शरीरं न अहमर्थः
न चासौ कायः, बालाद्यवस्थाभेदेन नानात्वात्, अचेतनत्वाच्च ।
एवंच 1042प्रत्यभिज्ञाऽहंप्रत्ययग्राह्ये ज्ञातरि सिद्धे, सोऽयं स्थूलादिसमाना
धिकरणः अहंप्रत्ययः तदभेदोपचारेण शरीरे वर्तमानो 1043मिथ्येति कल्प
यिष्यते । न पुनरेतदनुरोधेन ज्ञानादिसमानाधिकरणाहंप्रत्ययमिथ्यात्व
कल्पनं युक्तं, अबाधितत्वात् । न खल्बहं जानामीति प्रत्ययः केन चिद
ल्पीयसा दोषकारणेन कलुषीकर्तुं पार्यते । तत् अस्यात्मैव मुख्यो
II.270
विषयः, तदतिरिक्तं वस्तु 1044भाक्त इति । तस्मादहंप्रत्ययगम्यत्वादात्मा
प्रत्यक्ष इति ॥
आत्मनः अहंप्रतीतिविषयत्वे विवादः
अत्र वदन्ति—शब्दमात्रोच्चारणमेतत् अहं जानामि अहमिच्छामि
अहंसुखी अहं दुःखी इति । न तु ज्ञानादिस्वरूपातिरिक्तः तदाश्रयः
कश्चिदेतासु बुद्धिषु परिस्फुरतीति । कथमेकस्यामेव संविदि कर्ता च कर्म
चात्मा भवेत् ॥
विज्ञानात्मनः ज्ञातृत्वासंभावः
यच्च अवस्थाकृतं भेदमबलम्ब्य ग्राह्मग्राहकभावसमर्थनमेकस्यैवा
त्मनः कृतं किल द्रव्यादिरूपमात्मनो ग्राह्यं, ज्ञातृरूपं च ग्राहकमिति
तदनुपपन्नम्—द्रव्यादिरूपे ग्राह्ये न ज्ञातरि ग्राह्यता साधिता स्यात् ।
आत्मवर्तिनोऽपि द्रव्यादिरूपस्य घटादितुल्यत्वात्1046 ॥
व्यवसायानुव्यवसायर्वैलक्षण्यविमर्शः
यदपि निपुणंमन्यैरुच्यते—भवतु ज्ञातृतेव ग्राहिका । तथापि 1047विषयो
पाधिकृ तोऽस्त्येव भेदः । घटावच्छिन्ना हि हि ज्ञातृता ग्राह्मा, शुद्धैव
II.271
तु ज्ञातृता ग्राहिकेति । घटमहं जानामि इति कोऽर्थः ? कथम्
जानन्तमात्मानं जानामि इत्यस्मत्प्रयोगसंभेदाच्चैवमवकल्पते । अन्यत्र
तु शुद्धविषयग्रहणमेव भवति घटोऽयं इति—तदेतदपि सरलमति
प्रतारणमात्रम्—यथा हि घटोऽयं इत्त्र घटमात्रप्रवणैव संवित्, एवं
अस्मत्प्रयोगसंभेदेऽपि घटमहं जानामि इत्यत्र घटप्रवणैव बुद्धिः ॥
इयांस्तु विशेषः—पूर्वं केवलं घटग्रहणं, अधुना तु ज्ञानविशिष्टघटा
वमर्श इति ॥
विज्ञानस्यात्मत्वे युक्तिः
ननु ! विभज्यमानायां प्रतीतौ घटोऽयं इति तावत् विषयग्रह
णम् । जानामि इति तु ज्ञानग्रहणमपि भवतु नाम । अहमिति तु कस्य
ग्रहणम् ? न चैकस्यामेव प्रतीतौ अंशविभागेव प्रामाण्यमप्रामाण्यं च
वक्तुं युक्तम्—घटमिति जानामीति च प्रमाणं, अहमिति तु न प्रमाण
मिति । तस्मादत्र ज्ञातुरवभासोऽभ्युपेयः ॥
उक्तमत्र नैकस्यां प्रतीतावात्मनः कर्तृता कर्मता च स्यातामिति ॥
ग्राह्यस्यैव न ग्राहकत्वम्
यस्तूपाधिस्त्वयोन्नेतुमुपक्रान्तः, सोऽयं न घटते, घटप्रवणत्वात् ।
घटं अहं जानामि इति प्रतीतेर्विभज्यमानत्वेऽपि घटमिति जानामीति
च अंशद्वयं विषयनिष्ठमेव जातम् । अहमिति तु अयमंशः यद्यात्मविषय
इष्यते, तर्हि स एव तु शुद्धोऽवशिष्यते ग्राह्यो ग्राहकश्चेति । नावस्था
कृतस्तद्भेदः समर्थितः स्यात्1048 । भेदाभावेन चैकस्यैव—ग्राह्यग्राहकभाव
II.272
मनुपाधिकमभिदधता विज्ञानवादवर्त्म संश्रितं स्यात् । तस्मादहंप्रत्ययस्य
ग्राहकाद्भिन्नं ग्राह्यं अभिधित्सता शरीरमेव ग्राह्यमभ्युपगन्तव्यम् ।
ज्ञानसामानाधिकरण्यानुपपत्तेश्च वरमस्य मिथ्यात्वम्, अस्तु नामात्माव
लम्बनता ॥
अहमर्थस्य शरीरातिरिक्तत्वं नानुभवसिद्धम्
ननु ! ममेदं शरीरं इति भेदप्रतिभासात् कथमहंप्रत्ययः शरीरा
लम्बनः स्यात् ? भोः साधो ! नैवंविधेषु विश्वसितुमर्हति । ममात्मा
इत्यपि भेदप्रत्ययदर्शनात् ॥
अथावस्थाभेदादिना यथातथा तत्समर्थनमास्थीयते; तदिह शरीरा
लम्बनत्वेऽपि सैव सरणिरनुसरिष्यते । तस्मात् अहंप्रत्ययः शरीरालम्बन
एवेति, स च ज्ञानादिसमानाधिकरणो मिथ्या, स्थूलादिसमानाधिकर
णस्तु सम्यगिति ॥
मम शरीरम् इति प्रतितेर्मिथ्यात्वम्
ये तु मम शरोरं ममात्मा इति बुद्धी,—ते द्वे अपि मिथ्या,
ममप्रत्ययस्याहंप्रत्ययवत् आत्मानालम्बनत्वात्, शरीरे च भेदानुपपत्तेः ॥
तस्मादहंकारममकारयोः द्वयोरप्यविषयत्वात्1049 आत्मा परोक्ष
इति सिद्धम् ॥
II.273
आत्मनः स्वयंप्रकाशत्वपक्षः
अपरे पुनराहुः— ग्राह्यग्राहकरूपोभयसंपत्तेरेकस्य कर्मत्वं कर्तृत्वं च
युगपदात्मनो मन्यामहे; किन्तु चितिशक्तिस्वभाव1050मपरसाधनमपरोक्ष
मात्मतत्त्वं प्रचक्ष्महे । न ह्यात्माऽन्यजन्येन ज्ञानेन घटादिर्रिव प्रका
श्यते, अपि तु स्वत एव प्रकाश्यते । चेतनत्वमपि तस्य नैसर्गिकमेव,
न करणोपनीतचितियोगनिबन्धनम् । चिद्योगाद्धि चेतनत्वे घटादा
वपि1051 तत्प्रसङ्गः । न चास्ति नियमहेतुः, अनेककारकनिकरपरि
घटिततनुरपि चितिरात्मानमेव ज्ञातारं करोति, न कारकान्तरमिति ।
तस्मात् स्वत एव चित्स्वभावता तस्य भद्रिका । तदिदमात्मप्रकाशनं
संविद्वदवगन्तव्यम् । यदाहुः—संवित संवित्तयैव संवेद्यते, न संवेद्यतयेति ।
नास्याः कर्मभावो विद्यत इत्यर्थः । एवमात्मा ग्राहकतयैव प्रकाश्यते, न
ग्राह्यतयेति तद्वैरुप्यस्य चोदनमनुपपन्नमिति ॥
आत्मनः स्वयंप्रकाशत्वासंभवः
एतदपि न चतुरश्रम्—अपरसाधनमिति कोऽर्थः ? उपायान्तरनिर
पेक्षमेव प्रकाशमानमात्मतत्त्वमास्त इति; तदयुक्तम्—अकरणिकायाः
प्रतीतेरदृष्टत्वात् । अपूर्वं च तत् किमपि यथाभ्युपगतप्रमाणातिरिक्त
मेव प्रमाणं स्यात् । न च नियमकारणमत्र पश्यामः, तथा प्रकाशमानः
स्व एवात्मा प्रकाशते, न परात्मेति1052 । प्रकाशमानत्वेन चात्मनो नून
मनुभूयमानता वाच्या । अनुभूयमानता च अनुभवकर्मत्वम्, इत
रथाऽस्याः प्रत्यक्षतैव न स्यात् ॥
II.274
आत्मनः अपरोक्षत्वनिराकरणम्
अथोच्यते—न प्रत्यक्ष आत्मा, किंन्त्वपरोक्ष इति; नेदमर्थान्तर
वचनम् । शिशव एवं प्रतार्यन्ते, न प्रामाणिकाः । प्रत्यक्षश्च न भवति,
अपरोक्षश्च भवतीति चित्रम् ॥
प्रत्यक्षज्ञानकर्मत्वमस्य नास्तीति चेत्, तर्ह्यपरोक्षत्वमपि मा भूत् ।
प्रकाशत्वादपरोक्षत्वमिति चेत्—न—दीपादेः प्रकाशस्याप्यन्धादिभिरगृह्य
माणस्य प्रकाशमानत्वायोगात् । तस्मात् प्रकाशते चेदात्मा नूनमनुभूये
तापीति बलात् कर्मत्वमपरिहार्यम् । अतश्च तदवस्थैव द्वैरूप्य1053
चोदना ॥
ज्ञानमपि न स्वयंप्रकाशम्
प्रकाशज्ञानपक्षं च प्रतिक्षेप्स्यामः । स चात्मन्यपि तुल्यो न्यायः ।
कल्पनाद्वैरूप्यं च भवतां, आत्मा च स्वप्रकाशः, संविच्च स्वप्रकाशेति ।
न च निपुणमतिरपि विवेकमीदृशमुपदर्शयितुं शक्नोति भवान्—इयं
स्वप्रकाशा फलरूपा संवित्1054, अयं स्वप्रकाशो ज्ञातृरूप आत्मेति । चित्रं
चेदं यत्तयोः द्वयोः प्रकाशयोरन्तराले तद्व्यापारः परोक्षः ज्ञानाख्यः
संपन्नः इति ॥
अहंप्रतीतेः शरीरविषयत्वम्
ननु घटमहं जानामि इत्यत्र त्रयप्रतिभासः—घटं इति विषयः
प्रकाशते, अहं इत्यात्मा, जानामि इति संविदिति ॥
II.275
उक्तमत्र—घटं जानामि इति ज्ञानविशेषणविषयप्रतिभासः । अहं
इति तु शरीरे ज्ञातृत्वभ्रमः, एकस्यात्मनः ग्राह्यग्राहकभावानुप
पत्तेरिति ॥
आत्मनः चैतन्यरूपत्वासंभवः
यदपि स्वतश्चेतनस्वभावत्वमात्मनः कल्प्यते—तदपि न सोप
पत्तिकम् ॥
अत्मनः ज्ञानरूपत्वे दोषः
यदि च स्वत एवार्थावभाससामर्थ्यमात्मनः1055—तत् किमिन्द्रियैः
प्रयोजनम् ? मनष्षष्ठैरिन्द्रियनिरपेक्षपदार्थपरिच्छेदसामर्थ्यपक्षे च सर्व
सर्वज्ञतापत्तिः । अतोऽवश्यं ज्ञानसमवायिनिबन्धनमेवात्मनश्चेतयितृ
त्वम् ॥
न च घटादिभिरतिप्रसङ्गः आशङ्कनीयः । पदार्थस्वभावोपनत
स्यैव क्रियावैचित्र्यस्य सर्वलोकप्रसिद्धत्वात् । 1056चेतनादिक्रियाः कर्म
समवायिन्यो न भवन्ति । गमनादिक्रियास्तु कर्तृसमवायिन्यः । तदियं
ज्ञानक्रियाऽपि कर्तृसमवायिन्येव । न च वस्तुशक्तिरनुयोज्या भवति ॥
तस्मान्न प्रत्यक्ष आत्मा, नापि स्वतश्चेतयितेति स्थितम् ॥
II.276
आत्मनः मानसप्रत्यक्षगम्यत्वपक्षः
स्वयूथ्यास्तु केचिदाचक्षते—यद्येकस्य कर्तृत्वं कर्मत्वं चानुपपन्न
मित्यप्रत्यत्यक्ष आत्मा इष्यते ? तदयमनुमानेनापि कथं ग्रहीष्यते ?
अरूपस्याप्यात्मनः प्रत्यक्षत्वम्
ननु ! आत्मनः किं रूपं1058, यत् प्रत्यक्षेण साक्षात्क्रियते ?—यद्येवं
सुखादेरपि किं रूपं, यन्मानसप्रत्यक्षसमधिगम्यमिष्यते ॥
ननु ! आनन्दादिस्वभावं प्रसिद्धमेव सुखादेः; तर्हि तदाधारत्व
मात्मनोऽपि रूपमवगच्छतु भवान् ॥
II.277
आत्मनः प्रत्यक्षत्वमन्तरा सुखादेः प्रत्यक्षं न संभवति
अपि च—
तस्मात् प्रत्यक्ष आत्मा ॥
आत्मनः प्रत्यक्षत्वाभावे प्रतिसन्धानासंभवः
पूर्वं अहममुमर्थमनुभूतवान्, अहमेवाद्य पुनरनुभवामि इति तुल्य
विषयं तावत् । तुल्यकर्तृकताऽपि तत्र प्रकाशते, इतरथा त्वनुमातुम
प्यात्मा न शक्येत ॥
II.278
आत्मनः अनुमेयत्वपक्षः
तदाह सूत्रकारः—
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्
॥ १-१-१० ॥
इच्छा नाम तावदित्थमुपजायते—यज्जातीयमर्थमु पयुंजानः पुरुषः
पुरा सुखमनुभूतवान्, पुनः कालान्तरे तज्जातीयमर्थमुपलभ्य सुखसाधन
तामनुस्मृत्य तदादातुमिच्छति । सेयमनेन क्रमेण समुपजायमानेच्छा
पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति, कार्यस्य निराधारस्यानुपपत्तेः ।
आश्रयमात्रप्रतीतौ चायमन्वयव्यतिरेकवानेव हेतुर्भवति । इच्छा धर्मिणी1062
—आश्रितेति साध्यो धर्मः—कार्यत्वात्, घटादिवत्; गुणत्वात्, रूपा
दिवत् इति वा हेतुर्वक्तव्यः ॥
गुणत्वं चेच्छादीनां अचाक्षुषप्रत्यक्षत्वादिना रसादिवद्दर्शितमा
चार्यैः ॥
आत्मानुमानप्रकारः
एवमन्वयव्यतिरेकवताऽमुना हेतुना अधिष्ठानमात्रेऽनुमिते, तदधि
ष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्य
II.279
पेक्षतदुत्पादनपर्यालोचनया तत्कार्यसमानकर्तृकत्वावगमात् शरीरादि
प्रतिषेधे सति, स एव केवलव्यतिरेकिभवने तु विशिष्टमाश्रयमनुमापयति ।
इच्छा—शरीरादिविलक्षणाश्रया—शरीरादिषु बाधकोपपत्तौ सत्यां कार्य
त्वात् । अत्र च साधर्म्यदृष्टान्तो न संभवतीति वेधर्म्यदृष्टान्तः प्रद
र्श्यते । स च घट एव । योऽभूत् साधर्म्यदृष्टान्तः कार्यत्वे 1063निर्वि
शेषणेऽपि घटः, स एव वैधर्म्यदृष्टान्तः सविशेषणे । यत्र विलक्षणा
श्रितत्वं नास्ति, तत्र सविशेषणं कार्यत्वमपि नास्ति, यथा घटादाविति
न न शक्यते वक्तुम् । तत्र कार्यत्वमात्रयोगेऽपि सविशेषणानां कार्य
त्वाभावात् विलक्षणाश्रितत्वमपि तत्र नास्ति, भूताश्रितत्वेन प्रत्यक्ष
मुपलभ्यमानत्वात् ॥
केवलव्यतिरेकिसमर्थनम्
ननु चान्वयदर्शनमन्तरेण केवलो व्यतिरेकः प्रतीयमानः संदिग्धो
भवति—किं तत्साध्याभावकृतैव तस्य तस्माद्व्यावृत्तिः, उत निमित्तान्त
रकृता ? इति । सन्दिग्धव्यतिरेकस्य हेतोरगमकत्वं निश्चितव्यभिचार
हेतुवदिति तार्किकाः—उच्यते—स्यादेतदेवम्, यदि प्रथममनवगतान्वय
एव केवलव्यतिरेकशरणो हेतुः प्रयुज्येत । यत्र त्वन्वयव्यतिरेकवानेव
हेतुः कंचन 1064विशेषमाश्रित्य केवलव्यतिरेकितामबलम्बते, तत्र न ?
सन्दिग्धव्यतिरेकताऽवकाशं लभते । घटो हि भूतलाश्रितत्वेन प्रत्यक्ष
मुपलभ्यते । तदस्य विलक्षणाश्रयविरहादेव सविशेषणहेतुशून्यता
जाता, निर्विशेषणावस्थायां तद्योगदर्शनादिति न सन्दिग्धो व्यतिरेकः ॥
II.280
अथवा शरीरत्वं सामान्यमिह वैधर्म्यदृष्टान्तीकर्तव्यम् । तत्र हि
सर्वात्मना1065 कार्यत्वस्य शङ्काऽपि नास्ति । न च तद्विलक्षणाश्रितम्,
शरीराश्रितत्वस्य प्रत्यक्षमुपलम्भादिति ॥
इच्छालिङ्गकात्मानुमानम्
तदियमिच्छा 1066प्रथमपदार्थदर्शनादिकार्यसमानकर्तृकतयाऽवगम्य
माना शरीरादिविलक्षणमाश्रयमवगमयति, सविशेषणात्कार्यत्वादिति
स्थितम् । यश्च स विलक्षण आश्रयः तत्राऽऽत्मसंज्ञाऽगमिकी1067 ॥
द्वेषादिलिङ्गकात्मानुमानम्
एवमेव द्वेषादेरात्मलिङ्गता वक्तव्या । यज्जातीयस्यार्थस्य सन्नि
धानाद्दुःखमनुभूतवान् पुरुषः, तज्जातीयमर्थं पुनरुपलभमानो दुःखसाध
नतामनुसन्धाय तत् द्वेष्टीति । सोऽपि प्रतिसन्धातारमेकमन्तरेण नोपपद्यते ॥
आभ्यामिच्छाद्वेषाभ्यामनन्तरं प्रयत्नः समुत्पद्यते । सोऽपि यथो
क्तेन क्रमेणानुसन्धानपूर्वक एव । प्रयतमानस्य सुखदुःखे भवतः ।
ते अपि तथैव द्रष्टव्ये ॥
ज्ञानस्यात्मानुमानलिङ्गत्वेनाकथने हेतुः
ज्ञानं तु यद्यपि प्रथममनुसन्धाननिरपेक्षमपि भवति । तदपि च
शक्यत एवात्मलिङ्गमभिधातुम्; तथाप्यनुसन्धानपूर्वेच्छादिकार्यप्रकर
II.281
णात् निर्णयात्मकमेव ज्ञानमुदाहर्तव्यम् । तत्र हि बुभुत्साविमर्शादिपूर्व
कत्वमुपलब्धमिति तदेककर्तृकत्वमुपकल्प्यते1068 । तदेवमिच्छादीन्यात्म
लिङ्गानीति स्थितम् ॥
अनेकहेतुकथने दोषाभावः
इति कारुणिको हि मुनिरनेकमिह हेतुमार्गमुपदिष्टवान् ॥
आत्मनः अनुमेयत्वेऽपि सुखाद्युपलब्धिसंभवः
ननु ! अत्र चोदितं—अनुसन्धातारमन्तरेण तदेतदिच्छादि कार्यं
नावकल्पत इति कथं ज्ञायते । एकत्र प्रमातरि तद्दर्शनादिति यदुच्यते—
तदिदमेकप्रमातृग्रहणादात्मप्रत्यक्षत्वमङ्गीकृतं स्यात् इति व्यर्थमनुमानम् ।
अग्रहणे तु प्रमातुरेकस्य तत्पूर्वकत्वेनेच्छादेः प्रतिबन्धाग्रहणादशक्यमनु
मानमिति—परिहृतमेतत्—कार्यत्वेनैव लिङ्गत्वमिच्छादेरुपवर्णितम
स्माभिः, न स्मरणादिसमानाधारतयेति ॥
किमर्थस्तर्हि प्रतिसन्धानोपन्यासः ? शरीरादिषु तदाश्रयत्वप्रतिषे
धार्थः1070 । न त्वेवं व्याख्यातवन्तो वयम्, एकस्य प्रमातुः इच्छादिकार्या
श्रयत्वदर्शनात् एकाश्रयत्वानुमानमिति । तस्मान्न दोषः ॥
II.282
आत्मसाधकव्याप्तिग्रहणसमर्थनम्
ननु कथं न दोषः ? शरीराद्याश्रयत्वप्रतिषेधसाधनेऽपि हेतोर्व्याप्ति
ग्रहणासंभवात् । यावद्धि दर्शनस्मश्णेच्छादि कार्यजातमेकप्रमातृ
नियततयाऽनवधारितं, तावत् कथमस्मदवस्थाभिः न शरीराद्याश्रयत्व
निषेधस्य तत्पूर्वकस्य चैकात्माश्रितत्वस्य सिद्धिः ॥
क एवमाह—न गृहीतमेककर्तृकतया कार्यमिच्छादीति—यदि गृहीतं
तर्हि वक्तव्यम्, क्व गृहीतम् ? केन वा प्रमाणेन गृहीतमिति । स्वात्म
न्येवेति चेत्, सोऽयं प्रत्यक्ष आत्मा भवेत् । एवमनभ्युपगमे वा न व्याप्ति
ग्रहणमिति ॥
उच्यते—न च प्रत्यक्ष आत्मा, न च व्याप्तेरग्रहणम् । न चैव
धर्म्यन्तरे व्याप्तिर्गृह्यते । किन्तु स्वसन्तान एव । तथापि न सिध्यति
प्रमातृनियततानुमानम् ? कथमिव सिध्यति ? सन्तानान्तरेषु एकप्रमातृ
पूर्वकत्वेन प्रतिसन्धानस्य दृष्टत्वात् ॥
व्याप्तिग्रहणकालासंभवप्रदर्शनम्
ननु ! कोऽत्र व्याप्तिग्रहणकालः ? प्रमाणानुमानबद्धि1071 तद्भेदेन
भवितव्यम् । ततः किम् ? इदं ततो भवति । कथं स्वसन्तान एव
व्याप्तिर्गृह्यताम् ? कथं वा तत्रैव प्रमातृनियमोऽनुमीयतामिति । सेयसु
भयतः पाशा रज्जुः । आत्मा वा प्रत्यक्षः । व्याप्तिर्वा दुरवगमेति ॥
II.283
आत्मनः अप्रत्यक्षेऽपि व्याप्तिग्रहणम्
नैतदेवम्—यथा शाक्यपक्षे—सत्त्वात् क्षणिकत्वानुमाने व्याप्तिग्रहणम्,
तथेहापि भविष्यति । तत्र हि यैव क्रमयौगपद्यव्यावृत्त्या सत्त्वस्य
नित्येभ्यो व्यावृत्तिः, स एव क्षणिकैः अन्वय इति धर्म्यन्तरनिरपेक्षत
यैव साध्येऽपि धर्मिणि प्रतिबन्धग्रहणं च अनुमानं च दर्शितम् । तद्व
दिहाप्येकप्रमातृपूर्वकत्वेन प्रतिसन्धानस्य धर्म्यन्तरे यद्यपि ग्रहणं नास्ति ।
तथापि सन्तानान्तरभेदे यदस्यादर्शनं, तदेवैककर्तृकत्वदर्शनमिति कोऽन
योर्हेतुत्वे विशेषः ?
व्यप्तिग्रहणासंभवाक्षेपपरिहारौ
ननु ! तत्र नित्येभ्यः क्रमयौगपद्यव्यावृत्त्या व्यावृत्तत्वं1072 शक्य
ग्रहणम् । इह तु प्रमातृभेदेन प्रतिसन्धानव्यावृत्तिर्दुरवगमा । स्वस
न्तानेऽपि ज्ञानक्षणाभिन्ना एव प्रमातारः । न च तेभ्यो व्यावृत्तं प्रति
सन्धानमिति ॥
तिष्ठत्वन्वयः, व्यतिरेकमुखेनापि कष्टमिदमनुमानं वर्तते । स्वस
न्ताने सन्तानान्तरवत् प्रमातृभेदाग्रहणात् । तद्भेदग्रहे हि स्वपरसन्तान
विवेको न स्यात् । यद्येवम्, प्रमातृभेदग्रहणाभावात्1073 पुनरप्यात्मा
प्रत्यक्ष आयातः ॥
मैवम्—नात्मा प्रत्यक्षः । प्रमातृभेदो हि स्वसन्ताने न गृह्यत इत्यु
क्तम् । न पुनस्तदैक्यं गृह्यते । अन्यच्च भेदाग्रहणम्—अन्यच्च
तदैक्यग्रहणम् । भेदाग्रहणादेव च व्याप्तिसिद्धेः न कष्टमनुमानम् ॥
II.284
ननु च स्वसन्तानेऽपि प्रमातृभेदाग्रहणं किं प्रमातुरेकत्वात्, उत
ज्ञानानां कार्यकारणभावात् ? इति न निश्चीयते । ततश्च संदिग्धो
व्यतिरेकः—यथा ज्ञानानां कार्यकारणभावो नास्ति, यथा च न तत्कृतोऽयं
व्यवहारः, तथाऽनन्तरमेव सविस्तरं वक्ष्यामः । तस्मादिच्छादिकार्येण
युक्तमेकप्रमात्रनुमानम् ॥
देहादेः इच्छाद्याश्रयत्वासंभवः
उक्तं च मदशक्तिवद्विज्ञानमिति—उच्यते—शरीरं तावन्नेच्छादेरा
श्रयः; शैशवयौवनवार्धकादिदशाभेदेन भिन्नत्वात् ॥
शरीरं च बाल्याद्यवस्थाभेदेन भिन्नम् । अतस्तस्य नाश्रयो भवितु
मर्हति, सन्तानान्तरवत् । यथा हि देवदत्तदृष्टेऽर्थे न यज्ञादत्तस्य
स्मरणं, एवं बालशरीरानुभूते युवशरीरस्य तन्न स्यात् ॥
शरीरस्यैकत्वनिरासः
ननु अवस्थामात्रमेव भिन्नम्; अवस्थातृशरीरस्वरूपमभिन्नमेव
प्रत्यभिज्ञाप्रत्ययप्रामाण्यादवगम्यते । न चेयं प्रत्यभिज्ञा लूनपुनर्जात
II.285
केशनखादिप्रत्यभिज्ञावदन्यथासिद्धा, विनाशस्यानुपलम्भात् । स्तम्भादौ
हि क्षणभङ्गित्वप्रतिषेधः प्रत्यभिज्ञयैव करिष्यते । 1075सा चेहापि तादृश्येव
—तदयुक्तम्—स्तम्भादौ नानात्वकारणाग्रहणात् । इह तु रूपपरिणाम
सन्निवेशाद्यन्यत्वदर्शनात् सादृश्यनिबन्धनेयं भ्रान्तिरेव प्रत्यभिज्ञा । न
खलु शिशुशरीरे, तरुणशरीरे, जरच्छरीरे च तुल्यमेव परिमाणाद्यु
पलभ्यते ॥
शरीरभेदसाधनम्
तथा च 1078केचित् पच्यमानस्य घटादेरपि प्रागवस्थाविसदृशरूपादि
योगिनः पाककारणभूतवेगवदग्निद्रव्यसंयोगपर्यालोचनयैव प्रलयोदयौ
कल्पितवन्तः ॥
II.286
पीलुपाकवादवर्णनम्
यद्यपि कन्दुकनिक्षिप्ता घटादयः तृणपर्णादिपिहितवपुषोऽपि तद्वि
वरप्रसृतेन नयनरश्मिना न विनष्टा इत्युपलभ्यन्ते । यद्यपि तत्संख्या,
तत्परिमाणः, तत्सन्निवेशः, तद्देशाश्च पक्वा अपि दृश्यन्ते, यद्यपि पतन्तो
न विभाव्यन्ते, यद्यपि च तदा तेषां कर्त्रादिकारककलापासंभवात्
पुनर्घटनमघटमानमिव लक्ष्यते—तथापि तेषामनुमानेन विनाशः परि
कल्प्यते । सर्वावयवेष्वन्तर्बहिश्च पाकात् पूर्वरूपादिविलक्षणगुणोपलब्धेः
अन्तःप्रवेशः कृशानोरनुमीयते । तेन वेगवता वह्निद्रव्येण नोदनात् अभि
घाताद्वा नूनं घटाद्यारम्भकेष्ववयवेषु क्रिया जायते, क्रियातः विभागः,
विभागात् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात् द्रव्यविनाश इति ॥
1079अनुप्रवेशपक्षेऽपि सूक्ष्मविवरपरिकल्पनात् अवश्यमवयवसंयोग
विघटनं घटादेरिति विनाश एव ॥
पीलुपाकवादे युक्त्यन्तरम्
अपि च पाकानन्तरं कन्दुकादपकृष्यमाणाः पिठारादयः केचित्
स्फुटिताः, केचिद्वक्रतां गताः, केचित् सन्निवेशान्तरमेव प्रतिपन्ना दृश्यन्ते ।
तस्मादपि पश्यामो नश्यन्तीति ॥
1080तत्संख्यत्वादिति सर्वमनैकान्तिकं सूच्यग्रविद्धकण्ठकोणैः कुम्भा
दिभिः । अतः पूर्वोक्तनीत्या नष्टेषु घटादिकार्यद्रव्येषु परमाणव एव
पच्यन्ते । पक्वाश्च श्यामादिगुणानवजहतः रक्तादिगुणान्तरयोगमनु
II.287
भवन्तः प्राणिगतसुखदुःखोपभोगसाधनभूतादृष्टप्रेर्यमाणाः परस्परं संयुज्य
द्यणुकादिप्रक्रमेण तादृशमेव घटादिकार्यमारभन्ते । तत्रामुष्मिन् क्षणे
ऽमुष्य कार्यस्य प्रसवः, अमुष्य प्रलय इति प्रक्रिया न लिख्यते, ग्रन्थविस्तर
भयात्, अप्रयोजनत्वाच्चेति ॥
आम्रफलादिष्वपि पीलुपाकः
एवं तपनातपपच्यमानेष्वाम्रादिफलेष्वेष एव न्यायः । शरीरे
ऽप्यौदर्येण तेजसा पच्यमानेष्वन्नपानादिषु रसमलधातुभावेन परिणाम
मुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ संभवत इति स्थैर्याभावात्
कथमनुसन्धानादिकार्ययोगस्तस्येति ॥
पिठरपाकवादसमर्थनम्
अपरे पुनः प्रत्यक्षबलवत्तया घटादेरविनाशमेव पच्यमानस्य
मन्यन्ते । सुषिरद्रव्यारम्भाच्च अन्तर्बहिश्च पाकोऽप्युपपत्स्यते । 1081दृश्यते
च पक्वेऽपि कलशे निषिक्तानामपां बहिः शीतस्पर्शग्रहणम् । अतश्च
पाककाले ज्वलदनलशिखाकलापानुप्रवेशकृतविनाशवत् तदापि शिशिर
तरनीरकणनिकरानुप्रवेशकृतविनाशप्रसङ्गः । न चेदृशी प्रमाणदृष्टिः ।
अतः प्रकृतिसुषिरतयैव कार्यद्रव्यस्य घटादेरारम्भात् अन्तरान्तरा तेजः
कणानुप्रवेशकृतपाकोपपत्तेरलं विनाशकल्पनया । 1082पिठरपाकपक्ष एव
पेशलः ॥
II.288
क्वचित्तु सन्निवेशान्तरदर्शनं काष्ठाद्यभिघातकृतमुपपत्स्यते । पाव
कसंपर्ककारित्वे तु सर्वत्र तथाभावः स्यात् । तस्मादविनष्टा एव घटा
दयः पच्यन्ते । सोऽयं तु घटादिन्यायः शरीरे नेष्यते ॥
तस्मात् परिमाणादिभेददर्शनान्नैकं शरीरं इति ज्वालादिप्रत्यभि
ज्ञावत्तत्प्रत्यभिज्ञेति स्थितम् ॥
अवस्थाऽवस्थावतोर्भेदाभेदविमर्शः
यदप्युच्यते अवस्थानामेव नानात्वम्, अवस्थाता पुनरेक एव देहाख्य
इति—तदप्ययुक्तम् भेदाभेदविकल्पानुपपत्तेः । यदि शरीरादव्यतिरिता
एव तदवस्थाः, तर्हि तन्नानात्वात् शरीरनानात्वप्रसङ्गः । एकस्मा
च्छरीरादप्यनन्यत्वात् अवस्थानामप्यन्योन्यं भेदो न स्यात् ॥
अथ व्यतिरिक्ताः शरीरादवस्थाः, तर्हि भेदेन तदुपग्रहो दर्श
यितव्यः । न चासावस्ति । गोत्वादावनुवृत्ता 1084बुद्धिरन्यथाऽसिद्धा
सती जातितद्वतोर्भेदमापादयन्ती न केनचित्प्रतिहन्यते । इह पुनरव
स्थातुरेकत्वग्राहिणी बुद्धिः पूर्वनीत्या प्रमाणबाधितत्वात् भ्रान्तेति ।
तस्मात् शरीरस्य भिन्नत्वात् सन्तानान्तरवत् स्मृत्यनुसन्धानादिकार्य
योगो दुर्घट इति न तस्येच्छादिकार्याश्रयत्वम् ॥
II.289
शरीरचैतन्यवादनिरासः
इतश्च न शरीरस्य ज्ञानादियोगः, परिणामित्वात्, क्षीरवत्;
रूपादिमत्त्वात्, तद्वदेव; अनेकसमूहस्वभावत्वात्, त्रिदण्डादिवत्;
सान्निवेशविशिष्टाच्च भूतत्वात्, वाह्यभूतवत् ॥
चैतन्यशून्यं शरीरं, शरीरत्वात्, भूतशरीरवत् । न शरीरधर्म
श्चैतन्यम्, अयावद्द्रव्यभावित्वात् । न च संयोगादिभिः व्यभिचारः;
तदुपजननापाययोर्निमित्तान्तरजन्यत्वदर्शनात्, इह च तदभावात् ।
विशेषगुणत्वे सतीति वा विशेषणोपादानान्न व्यभिचारः । तद्विशेषगुणत्वे
हि चैतन्यस्य रूपादिवत्तदवस्थानादविनाशप्रसङ्गः ॥
किण्वादिदृष्टान्तदौस्थ्यम्
यत्तु मदशक्तिवदित्युक्तम्—तत्रमदशक्तेर्दृष्टत्वात् अभ्युपगमः, न
तु ज्ञानस्य तत्र दर्शनम् ॥
ननु ज्ञानमपि 1085तदन्वयव्यतिरेकानुविधायि प्रायेण दृश्यते । भूते
ष्वन्नपानाद्युपयोगपुष्टेषु पट्वी चेतना भवति, तद्विपर्यये विपर्ययः ।
ब्राह्मीघृताद्युपयोगसंस्कृते च कुमारशरीरे पटुप्रज्ञता जायते ॥
वर्षासु च स्वेदादिनाऽनतिदवीयसैव कालेन दध्याद्यवयवा एव
चलन्तः 1086पूतनादिक्रिमिरूपा उपलभ्यन्ते । चैतन्ये च गुरुलाघवव्यव
हारोऽपि भूतातिशयसदसत्त्वकृतो भविष्यतीति भूतचैतन्यपक्ष एव युक्ति
युक्तो लक्ष्यते ॥
II.290
नैतच्चारु—चेष्टेन्द्रियार्थाश्रयः शरीरं लक्ष्यते । तत्र तदनु
ग्रहात् इन्द्रियानुग्रहे सति पटुकरणत्वात् विषयग्रहणमपि पटुतरमिव
भवति । न च विषयग्रहणादन्यच्चैतन्यं नाम ॥
चेतनानामभौतिकत्वम्
एतेन ब्राह्मीघृतोपयोगोऽपि व्याख्यातः । व्यापकत्वादात्मनः सर्वत्र
भावे सति भोगायतनत्वेन कदाचित् भूतावयवानां उपादानम् । अतः
शुक्रशोणितादिवत् दध्यवयवान् विकृतानुपादास्यते । तथा च स्वेद
जादिभेदेन बहुभेदो भूतसर्गः प्रवर्तते विचित्रकर्मपरिपाकापेक्षयेति
यत्किंचिदेतत् । तस्मान्न सर्वथा भूतानां चैतन्यमिति सिद्धम् ॥
इन्द्रियचैतन्यवादनिरासः
नापीन्द्रियाणि यथोक्तस्य 1087ज्ञानादेः कार्यस्याश्रयतां प्रतिपद्यन्ते—
दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ न्या-सू-३-१-१
यमर्थमहमद्राक्षं चक्षुषा, तमेवैतर्हि स्पर्शनेन स्पृशामि, यमस्प्राक्ष
स्पर्शनेन, तमधुना चक्षुषा पश्यामि इति कतरदिन्द्रियमेवमनुसन्दधीत ?
न चक्षुः, स्पर्शाविषयत्वात् । न त्वगिन्द्रियं, रूपाविषयत्वात् । तस्मा
दुभयविषयग्रहणसमर्थः कश्चिदनुसन्धाताऽस्तीति स इन्द्रियव्यतिरिक्तो
गम्यते ॥
II.291
गुणगुणिभेदसिद्धिः
अतश्च—न गुणव्यतिरिक्तो गुणी, भेदेनाग्रहणात्—इत्यसिद्धः
परोक्तो हेतुः, भेदग्रहणस्य दर्शितत्वात् । वृत्तिविकल्पादीनां तु प्रति
समाधानं सामान्यसमर्थनावसरे 1089कथितम्, अवयविसिद्धौ वक्ष्यते
चेत्यलमवान्तरचिन्तया ॥
इन्द्रियाणामनात्मत्वे हेत्वन्तराणि
इतश्च नेन्द्रियाणां चैतन्यम्, करणत्वात्; वास्यादिवत् । भौति
कानि चेन्द्रियाणि वर्णयिष्यामः । तेन य एष भूतचैतन्यनिराकरणे न्यायो
वर्णितः, स तेष्वपि योजनीयः ॥
अतश्चैवं—
इन्द्रियान्तरविकारात् ॥ न्या. सू. ३-१-१२ ॥
II.292
अति तुच्छश्चायमिन्द्रियचैतन्यपक्ष इति किमत्र बहु लिख्यते ॥
मनश्चैतन्यवादनिरासः
ननु ! मनस्तर्हि इच्छादेरधिष्ठानं भविष्यति । तद्धि नित्यमेकं
सर्वविषयं, अभौतिकमिति न प्राक्तनदौषैः स्पृश्यते—उच्यते—मनसोऽपि
तदाश्रयत्वमनुपन्नम् । कुतः ?
ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ॥ न्या. सू.
३-१-१७ ॥
मनसो हीच्छाद्याश्रयत्वे ज्ञानादौ कर्तृत्वात् तस्यापि बाह्यगन्धादि
विषयज्ञानयौगपद्यानुपपत्तेः तद्ग्रहणकरणघ्राणाद्यधिष्ठानपटुना केन
चिदान्तरसुखदुःखादिविषयग्राहिणा स्मृत्यादिक्रियाकारिणा च करणेन
भवितव्यमिति तत्रात्मसंज्ञा भवेत्, आत्मनि च कर्तरि मनस्संज्ञेति ॥
बाह्यान्तरकरणयोरावश्यकता
II.293
आत्मसाधने हेत्वन्तराणि
II.294
मनसः ज्ञानसामान्यकरणत्वम्, अनात्मत्वं च
आत्मनित्यत्वावश्यकता
II.295
आत्मलक्षणज्ञानस्य फलम्
विज्ञानात्मवादोपक्षेपः
II.296
इच्छादीनां ज्ञानरूपत्वम्
क्षणिकविज्ञानवादे स्मरणाद्युपपत्तिः
सत्यपि परलोके कथमकृताभ्यागमकृतविप्रणाशौ पराक्रियेते ? येन
हि ज्ञानेन चैत्यवन्दनादि कर्म कृतं, तस्य विनाशात् न तत्फलोपभोगः ।
यस्य च फलोपभोगः तेन न तत्कर्म कृतमिति—नैषदोषः—कार्यकारण
भावस्य नियामकत्वात् । अनादिप्रबन्धप्रवृत्तो हि ज्ञानानां हेतुफलभाव
II.297
प्रवाहः । एष एव च सन्तान इत्युच्यते । तत्कृतश्चायं अनुसन्धानादि
कार्यनियमः । सन्तानानादित्वात्, तदविच्छेदाच्च परलोकोऽपि न
क्लिष्टकल्पनः ॥
सन्तानसांकर्यनिरासः
यद्यपि सन्तत्यन्तरपतितज्ञानजन्यमपि सन्तत्यन्तरे ज्ञानं 1098दृश्यते,
तथापि न तादृशकार्यकारणभावेन सन्तानव्यवहारः प्रतिसन्धानादिकार्य
निर्वाहो वा; किन्तु उपादानरूपतद्विशेषनिबन्धन एवैष निर्वहति नियमः ।
तस्मिन्नेव सति स्वरूपसन्तानविभागोऽवकल्पते ॥
आह च—
यथा यस्मिन्नेव हि कार्पसबीजे वर्णः रक्तताख्यः कृतः, तस्यैव
कुसुममपि रक्तम्, नान्यस्येति; तथा यस्मिन्नेव ज्ञानसन्ताने यादृशी
कर्मवासना, तादृशं फलं तस्मिन्नेव सन्ताने भवति, नान्यस्मिन् ज्ञान
इत्यर्थः । तथा च कृतहानाकृताभ्यागमदोषनिरासः ॥
आत्मनः नित्यत्वासंभवः
नित्यस्त्वात्माऽभ्युपगम्यमानः यदि सुखादिजन्मना विकृतिमनुभवति
तदयं अनित्य एव चर्मादिवदुक्तः स्यात् । निर्विकारत्वे तु सताऽ
II.298
सता वा सुखदुःखादिना कर्मफलेन कस्तस्य विशेष इति कर्मवैफल्यमेव ।
तदुक्तम्—
तस्मादुत्सृज्यतामेषः मूर्धाभिषिक्तः प्रथमो मोहः आत्मग्रहो नाम ।
तन्निवृत्त्या चात्मीयग्रहोऽपि विरंस्यति अहमेव न, किं मम इति1099 ।
तदिदमहंकारममकारग्रन्थिप्रहाणेन नैरात्म्यदर्शनमेव 1100निर्वाणद्वार
मबलम्ब्यताम् ॥
क्षणिकवादोपक्षेपः
तस्य च मार्गः क्षणिकपदार्थनिश्चयः । क्षणिकेषु हि सर्वभावेषु
निराश्रयेषु ज्ञानस्याप्याश्रयविरहात् कुतस्त्यमात्मकल्पनमिति ॥
कथं पुनरेषः सकलप्रमाणातीतः क्षणिकपदार्थवादः शक्यते शाक्यै
रभ्युपगन्तुम् ॥
II.299
क्षणिकत्वसाधनम्
उच्यते—प्रत्यक्षगम्यं क्षणिकत्वं भवति, न भवतीत्येषं करिष्यते
विचारः । अनुमानं तु संप्रत्येवाभिधीयते—सत्त्वात् क्षणिकाः पदार्था
इति । सत्त्वं तावदर्थक्रियाकारित्वमुच्यते । यथोक्तम् प्र. वा. 1-3-2—
सत्त्वस्वरूपं किम्
सत्प्रत्ययगम्यत्वे हि सत्त्वे, केशोण्ड्रकादेरपि1101 सत्त्वप्रसङ्गः । सत्ता
सम्बन्धित्वे तु सत्त्वे, सामान्यादीनां तदसम्बन्धादसत्त्वं स्यात् । अर्थ
क्रियासामर्थ्यसत्त्वानुवर्ती च लौकिको व्यवहारः । सत्यपि पुत्रे तत्कार्या
दर्शनात्—अपुत्रा वयम् इति व्यपदिशन्ति लौकिका । पुत्रादन्यस्मि
न्नपि तत्कार्यकारिणि सति सपुत्रा वयम् इति च ब्रुवते । तस्मादर्थ
क्रियाकारित्वमेव सत्त्वम् ॥
सत्त्वस्य क्षणिकत्वसाधकत्वम्
भवत्वेवं, तस्य तु कुत्र कथं वा क्षणिकत्वेन व्याप्तिग्रहणम् ? कुत्रेति
यत् पृच्छसि, यत्र रोचते महाभागाय घटे, पटे वा गृह्यतां व्याप्तिः ॥
किं साध्यधर्मिण्येव व्याप्तिग्रहणमुपपद्यते ?
धीमन् ! कोऽत्र प्रमादः ? न हि दैवनिर्मितः कश्चित् साध्यधर्मी
नाम । ग्रहीतुं शक्यते चेद्व्याप्तिः, यत्र तत्र सा गृह्यतामिति ॥
II.300
सत्त्वक्षणिकत्वयोः व्याप्तिः
यत्तु कथमस्या ग्रहणमिति—तदुच्यते—भावानां हि सत्त्वं क्रम
यौगपद्याभ्यां व्याप्तम् ॥
किमिदं रजतं, उत शुक्तिकेति विशेषांशे संशेरतां नाम प्रमातारः;
न तु सामर्थ्यं प्रति 1104दोला काचित् संभवति—किमिदं ज्ञानं समर्थेन
जनितम् ? उत तदितरेण ? इति । असमर्थस्य जनकत्वानुपपत्तेः ।
व्यापकानुपलम्भस्यापि व्याप्तिग्राहिणः स्वत एव प्रामाण्यम् । संशय
विपर्ययोस्तत्राप्यभावात् ॥
II.301
नित्यपदार्थस्यासंभवः
कथं पुनर्नित्येषु पदार्थेषु सत्त्वव्यापकयोः क्रमयौगपद्ययोरनुपलम्भः ?
उच्यते—नित्यो हि भावः क्रमेण वा कार्यं कुर्यात्, यौगपद्येन वा ? पर
स्परपरिहारव्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेः ॥
क्रमशः कार्योत्पत्तिपक्षदूषणम्
न तावत् क्रमेण, स हि समर्थो वा स्यात् ? असमर्थो वा स्यात् ।
समर्थश्चेत् किं क्रमेण ? समर्थस्य कालक्षेपायोगात् । असमर्थस्तु
असमर्थत्वादेव न करोति किंचिदिति तस्यापि किं क्रमेण ?
सहकारिसान्निध्याद्यनुपपत्तिः
सहकार्यपेक्षया करोतीति चेत्—न—असमर्थस्य सहकारिणाऽपि
सामर्थ्याधानानुपपत्तेः । समर्थस्य स्वत एव सामर्थ्ये सति सहकारि
वैयर्थ्यात् ॥
सहकारिसन्निधानेऽपि चास्य स्वरूपेण वा कर्तृत्वं स्यात्, पररूपेण
वा ? स्वरूपस्य च प्रागपि भावात्, तस्य च 1105कारकत्वात्, किं सह
कारिणा । पररूपेण कर्तृत्वे—पूर्वरूपपरित्यागात्, तद्रूपान्तरापत्तेश्च
क्षणिकत्वमापद्यते ॥
सहकारित्वमपि दुर्वचम्
एवं सहकार्यपि समर्थासमर्थतया विकल्पनीयः । स्वतोऽस्य सामर्थ्ये
किं परोपकारानुसरणदैन्येन ? असमर्थस्तु सचिवः किमागत्यापि तपस्वी
करिष्यति ॥
II.302
किंच किंचित्करो वा सहकारी स्यात्, अकिंचित्करो वा ? अकिंचि
त्करपक्षे सर्वः सर्वस्य सर्वत्र कार्ये साचिव्यमुपगच्छेत् । किंचित्करश्चेत्
वक्तव्यं, किं करोतीति ॥
उपकारमिति चेत्, स उपक्रियमाणात् भिन्नः, अभिन्नो वा ? अभिन्न
श्चेत्, स एव कृतः स्यात्1106 । भेदे तस्य किमायातम्, यदसौ न पूर्व
वदास्ते ॥
1107कार्यादपि भेदाभेदाभ्यां चिन्त्य उपकारः । न कार्याद्भिन्नः,
अनुपलम्भात् । द्वयकरणाभावाच्च । कार्यादव्यतिरेके तूपकारे सह
कारिणा क्रियमाणे कार्यमेव तेन कृतं स्यादिति मूलकारणानर्थक्यम् ॥
एकैकस्य कारकत्वासंभवः
ननु च एक एव भावः कारकः । स एव हि समर्थः । तदितर
पदार्थसन्निधानं तु स्वहेतुवशादुपनीतमिति नोपालम्भमर्हति—नैतद्युक्तम्
—एकस्य कदाचिदपि कारकत्वानुपलब्धेः तत्सामर्थ्यस्य दुरधिगमत्वात् ।
एवं ह्यसौ समर्थं उच्यते, यद्येकः कदाचित् कार्यमुत्पादयन् दृश्येत, न तु
विस्मृत्यापि दृश्यते ॥
अथ कार्यस्यायं स्वभावः, यदेकस्मान्नोत्पद्यते, कारणं तु शक्तमे
वेति—तदप्ययुक्तम्—कार्यस्वभावपराधीनत्वेन1108 कारणस्य सामर्थ्य
विरहप्रसङ्गात् । एवं ह्यसौ समर्थः कथ्येत, यदि कार्यस्वभावमनादृत्य
स्वतन्त्र एक एव प्रसह्य कार्यं जनयेत् । न चैवं दृश्यते इति यत्किं
चिदेतत् ॥
II.303
कारणे सामर्थ्यं दुरुपपादम्
अथ समर्थमेव कारणम् । तस्य त्वयं स्वभावः, यत् सहसैव कार्यं
न करोति, कतिपयक्षणव्यवधाने तु कार्यं करोतीति । यद्येवं न कदा
चित् कार्योत्पादः स्यात् । कार्यीत्पादसमयेऽपि कतिपयक्षणव्यवहित
कार्यजननस्वभावानपयात् पुनः कतिपयक्षणावेक्षणं स्यात् । तेष्वपि
कतिपयेषु क्षणेष्वतिक्रान्तेषु स एवास्य स्वभावस्तदवस्थ इति पुनरप्येवं
भवेदिति कदा नाम—कार्यं जनयेत् । तदेवमादिदोषोपहतत्वात् न
क्रमेण भावानामर्थक्रियासामर्थ्यम् ॥
यौगपद्यपक्षदूषणम्
नापि युगपत्; लोके तथा व्यवहारादर्शनात् । युगपत् कृतकार्य
स्यापि स्थिरस्य पुनरकरणे हेत्वभावः1109 । पुनश्च कुर्वन्नपि भावः कार्यं
न तदेव कुर्यात्, कृतस्य करणायोगात् । कार्यान्तरकरणे तु स एवायं
पुनः क्रमपक्ष आपतेदित्येवं क्रमयौगपद्ये नित्येभ्यः पदार्थेभ्यः निवर्तेते ।
ते च निवर्तमाने सत्त्वस्य व्यापके इति सत्त्वं तेभ्य आदावेव निवर्तते ।
तेभ्यः प्रच्युतं सत्त्वं गत्यन्तरविरहात् क्षणिकेष्वेव निविशते ॥
सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहणम्
अतो यद्यपि कार्यहेतौ धूमाग्न्योरिव, स्वभावहेतावपि वा क्वचित्
वृक्षत्वर्शिशपात्वयोरिव पूर्वमिह साध्यसाधनधर्मयोर्ग्रहणं धर्म्मन्तरे न
वृत्तम्—तथापि 1110साध्यधर्मिण्येव व्याप्तिग्रहणमुपपत्स्यते, विपक्षव्यावृत्तेः
II.304
सुपरिनिश्चितत्वात् । सैव च विपक्षाद्व्यावृत्तिः । स एव चास्य हेतोः
स्वसाध्येनान्वयः । न ह्येवं सम्भवति, नित्येभ्यश्च व्यावृत्तं सत्त्वं, क्षणि
केषु च न निविष्टमिति; तृतीयराश्यभावात् । निराश्रयत्वानुपपत्तेश्च ॥
तदेवं क्वचिद्धर्मिणि व्याप्तौ गृहीताय—यदि स एव कदाचित् परं
प्रति दृष्टान्तीक्रियते, तदैवं नाम भवतु, को दोष इति ॥
क्षणिकत्वानुमानेऽनवस्थापरिहारः
ननु व्यापकानुपलब्धिः अनुमानम् । अनुमानेन चानुमानस्य व्याप्ति
ग्रहणेऽनवस्था ॥
नानवस्था, तावत्येव पर्यवसानात् । न हि व्यापकानुपलष्धेः
अनुमानान्तरात् व्याप्तिनिश्चयः, किन्तु प्रत्यक्षविकल्पादेव । तदनया
व्याप्तिनिश्चयात् सिद्धमेतत्—यत् सत्, तत् क्षणिकमिति ॥
क्षणिकत्वसाधकव्याप्तिग्रहणे पक्षान्तरम्
अन्ये तु रीत्यन्तरेण व्याप्तिनिश्चयमाचक्षते । विरुद्धयोरेकपरि
च्छेदेऽन्यतरनिवृत्तिरवश्यंभाविनी, विरुद्धत्वादेव । विरुद्धे च 1111सत्त्व
नित्यत्वे पूर्वोक्तयैव नीत्या । सत्त्वं च विस्पष्टमुपलभ्यते भावानाम्—
इति तदुपलम्भान्नित्यत्वनिवृत्तिः । नित्यत्वनिवृत्तिरेव क्षणिकत्व
निश्चयः, प्रकारान्तराभावात् ॥
नित्यत्वाग्रहणेऽपि व्यावृत्तिसिद्धिः
ननु ! शीतोष्णयोः पृथगुपलम्भात् विरोधनिश्चये युक्त एकग्रहणे
द्वितीयव्युदासः । इह तु सत्त्वमेवोपलभ्यते, न नित्यत्वमिति कथं तद्वि
II.305
रोधादितरव्यावृत्तिः—नैषदोषः—फृथगुभयानुपलम्भेऽपि सत्त्वसिद्ध्यैव
नित्यत्वनिराससिद्धेः ॥
सत्त्वज्ञानस्य क्षणिकत्वे प्रमाणत्वम्
कथमन्यषिया बुद्धिः अन्यमुदस्यति—उच्यते—
तस्मात् सत्त्वप्रतीतिरेव नित्यत्वनिवृत्तिः, सैव च क्षणिकत्वव्याप्ति
रिति सिद्धं सत्त्वात् क्षणिकत्वम् ॥
कारकत्वमेव क्षणिकत्वपर्यवसायि
अपि च सर्वदा कार्यानुत्पादात् कारकावस्था नूनमेकक्षणस्थायिनी
भावानामुपगन्तव्या । व्यापारावेशवशेन वा 1112श्रोत्रियादिपक्षे, सहकार्या
दिसन्निधनासादनेन वा नैयायिकपक्षे । कारकत्वं नाम वस्तुनः रूपं
एकक्षणवृत्त्येव, कार्योत्पत्त्येव तत्कल्पनात् । ततः पूर्वमुत्तरकालं वा
कारकत्वयोगात् । कारकत्वमेव परमार्थसत्, अकारकस्य ज्ञानजनकत्वा
भावात् अस्तित्वमपि दुर्वचम् । अतश्च सर्ववादिभिरेव प्रायेण क्षणि
II.306
कत्वमिदमभ्युपगतमिति यश एव केवलं सौगताः पीतवन्तः । तस्मात्
सिद्धं यत् कारकं, यच्च सत्, तत् क्षणिकमिति ॥
ध्वंसस्य हेत्वनपेक्षत्ववादः
अतश्च—क्षणभङ्गिनो भावाः, प्रलयं प्रति हेत्वनपेक्षत्वात् । भावो
हि स्वतो नश्वरात्मा भवेत्, तद्विपरीतो वा ?
क्व तर्हि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः ॥
अभावस्तु 1114तज्जन्यो न संभवत्येव, प्रमाणविरुद्धत्वात् । भावो हि
स्वरूपेण न भवति, न त्वभावोऽप्यस्य भवतीति । स्वरूपं तु 1115तस्य
भवनात्मकं चेत्, सर्वदैव भवेदेव, न न भवेत् । अभवनात्मकं तु
तदेव न भवेत्, परापेक्षाया अभावात् । न हि मुद्गरादिकारणान्तर
सापेक्षः कुम्भादेर्विनाशो भवितुमर्हति; उत्पत्ताविव नाशेऽपि समर्था
समर्थभिन्नाभिन्नोपकारकारिसहकार्यादिविकल्पकलापानपायात् ॥
विनाशस्य विलम्बासहत्वम्
अथ कतिपयक्षणव्यवहितविनाशस्वभावो भावः इष्यते—तर्हि
प्राक्तननयेन कदाचिदपि न विनश्येत् । विनाशसमयेऽपि तत्स्वभावान
पायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात् ॥
II.307
अपि च यदाऽपि तेन नष्टव्यं, तदाऽप्यस्य न स्वरूपादतिरिक्तः
कश्चन विनाशहेतुरवतरति । तच्च स्वरूपं आद्येऽपि क्षणे तस्य तादृश
मेवेति तदैव वा नश्येत्, न कदाचिद्वा ॥
न चैवमभ्युपगम्यते । तस्मात् 1116आत्मलाभाविनाभावी भावानां
विनाश इति सिद्धः क्षणभङ्गः ॥
प्रत्यभिज्ञायाः क्षणिकवादप्रतिकूलत्वनिरासः
यदपि क्षणभङ्गसाधकस्य पदार्थस्थैर्यावसायि प्रत्यभिज्ञानविज्ञानं
अनुमानस्य बाधकमभिधीयते—तदपि न पेशलम्—अशिथिलप्रतिबन्धहेतौ
बाधकस्य निरवकाशत्वात् । उक्तं हि—बाधाविनाभावयोर्विरोधान्नैकत्र
समावेशः इति ॥
अनुष्णस्तेजस्वी, कृतकत्वात् इत्यत्रापि प्रतिबन्धवैधुर्यमेव साध्य
सिद्धिं निरुणद्धि, नाध्यक्षबाध्यत्वम् ॥
अथवा किमनेन निर्बन्धेन ?
प्रत्यभिज्ञायाः अन्यथासिद्धत्वम्
प्रत्यभिज्ञायाः क्षणभङ्गपक्षेऽपि सदृशपरापरक्षणगणप्रसवप्रतारित
मतीनां उपपद्यमानत्वात् । एवंच सति—
II.308
न चेत्थं प्रत्यभिज्ञैव व्याप्तिविप्लवकारणम्, इतरेतराश्रयप्रसङ्गात् ।
व्याप्तिविप्लवेनानुमाने न्यग्भूते प्रत्यभिज्ञा प्रमाणं भवति,—तस्यां च
प्रमाणीभूतायां व्याप्तिवैधुर्यादनुमानाप्रामाण्यम् ॥
अनुमानप्रामाण्येऽपि समानो दोष1118 इति चेत्—न—तस्य प्रतिबन्ध
महिम्नैव प्रामाण्यसिद्धेः । न हि तस्य प्रत्यभिज्ञादौर्बल्यनिबन्धन
प्रामाण्यम् ॥
प्रत्यभिज्ञास्वरूपविमर्शः
अपि च केयं प्रत्यभिज्ञा नामेति नैपुण्येन निरूपयितुमर्हन्ति अत्र
भवन्तः । किं स एवायं स्तम्भः इत्येकं ज्ञानम्, उत द्वे एते स्मृत्यनु
भवज्ञाने ?
यद्येकं, तदस्य कारणं वाच्यम्, यत उत्पद्यते । नेन्द्रियम्, सः
इत्यस्मिन्नंशे तस्यासामर्थ्यात् । न च संस्कारः, तस्यापि अयं इत्यंशे
कौशलाभावात् ॥
संस्कारस्य स्मृतिरेव कार्यम्, इन्द्रियस्यानुभव एव । सम्भूय तु
न ताभ्यामेकं कार्यमारभ्यते1119 । न हि मृत्पिण्डतन्तुनिर्वत्येमेकं घटपटरूप
II.309
कार्यमुपलब्धम् । न चेन्द्रियं केवलमीदृशि कार्ये समर्थम् । यथासन्नि
हिताकारमात्रग्राह्यविषयकमिन्द्रियं प्रत्यभिज्ञानमातनोतीति विस्मयः ।
तस्मात् द्वे एते ज्ञाने, स इति स्मरणम्, अयमित्यनुभवः ॥
प्रत्यभिज्ञायाः ज्ञानद्वयरूपत्वम्
प्रत्यभिज्ञाया एकज्ञानत्वेऽपि नेष्टसिद्धिः
II.310
वर्तमानमात्रग्रहणे क्षणिकत्वसिद्धिः
यथा हि—
तद्वदिहापि—
प्रत्यभिज्ञायाः अधिकविषयत्वाभावः
एतेन पूर्वज्ञानविशिष्टार्थग्राहित्वं प्रत्यभिज्ञायाः प्रत्युक्तम् । पूर्व
ज्ञानस्येदानीमसत्त्वेन विशेषणत्वानुपपत्तेः । अगृहीतविशेषणायाश्च
विशिष्टबुद्धेरभावात् ॥
अथ उपजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते—
तदप्ययुक्तम्—वर्तमानैकनिष्ठतायाः प्रदर्शितत्वात् । भावानां च विनाश
जन्मनोः वर्तमानो वा कालः—स्यात्, अन्यो वा ? तदन्यस्तावत् ग्रहीतु
मशक्य इत्युक्तम् । वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणा
त्तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम् ॥
II.311
प्रत्यभिज्ञायाः सादृश्यादिविषयकत्वम्
अपि च लूनपुनर्जातकेशनखादिषु सादृश्यात् दृश्यमाना प्रत्यभिज्ञा
स्तम्भादिष्वपि तद्वदेव न स्थिरतामुपपादयेत् । तत्र बाधकयोगादिति
चेत्—इहाप्युक्त एव बाधकः परस्परविरोधिभूतादिकालसमावेशस्यैकत्र
र्घटत्वादिति । तस्मात् प्रत्यभिज्ञाप्रत्ययस्य बाधकस्याभावात् सिद्ध
मानुमानिकं भावानां क्षणिकत्वम् ॥
क्षणिकत्वस्य प्रत्यक्षगम्यत्वपक्षः
अपरे पुनः प्रत्यक्षगम्यमेव क्षणिकत्वमाचक्षते ॥
यदि च वर्तमानताव्यतिरिक्तग्राहि प्रत्यक्षमिष्यते तद्वक्तव्यम्—1123किं
पूर्वविज्ञानमनागतकालावच्छिन्नपदार्थग्रहणनिपुणम्, उत उत्तरविज्ञान
मतीतकालालिङ्गितभावाकलनकुशलमिति ॥
तत्र आद्यविज्ञानसमुपजननसमये तत्क्षणातिरिक्तभाविकालासन्नि
धानात् न तेन तद्ग्रहणम्, अनागतग्रहणे वा कथमागामिजन्मग्रहणं
स्यात् ?
उत्तरविज्ञानप्रसवसमयेऽपि भूतकालस्य भूतत्वादेव न सन्निधानम्,
असन्निहितभूतकालग्रहणे वा पूर्वजन्मग्रहणप्रसङ्गः1124 ॥
II.312
वर्तमानकालस्य तत्क्षणमात्ररूपत्वम्
अथ वर्तमानानुप्रवेशेन1125 भूतभाविनोः कालयोः ग्रहणं मन्यसे—
तर्हि वर्तमानानुप्रवेशात् वर्तमान एव स कालः गृहीतः स्यात्, न
भूतः भावी वा ॥
अथ न कश्चिदेव कालः क्वचिद्गृह्यते, अर्थ एव केवलः प्रकाशत
इति—तदयुक्तम्—तदनवच्छिन्नभावग्रहणस्य भवद्गृहे चानभ्युपग
मात्1126 ॥
प्रत्यक्षस्य वर्तमानविषयकत्वम्
ननु कोऽयं कालो नाम शाक्यानां ? न कश्चित् वास्तवः, किन्तु
काल्पनिक एव तद्व्यवहारः ॥
वर्तमानश्च कियान् कालः ? एक एव क्षणस्ततः । पूर्वः क्षणोऽतीततां
स्पृशति, उत्तरस्त्वनागतताम् ॥
वर्तमानकालस्य न विततत्वम्
ननु च पचति, पठतीति वर्तमानोऽपि हि वितत एव कालः प्रतीयते
—नैतत्सारम्—
II.313
क्षणसमुदायात्मकत्वे तु नानारूपत्वमेव तस्य भवेत् । अतीताना
गतक्षणानुप्रवेशात् । तस्मादेकक्षणो वर्तमानः, स चात्यन्तमल्पीयानि
त्येवमेकक्षणपरीतार्थदर्शि चाक्षुषं ततः पूर्वमूर्ध्वं वा न पदार्थसत्तां
गृह्णातीति क्षणिका एव भावाः ॥
प्रत्यक्षेण क्षणिकत्वग्रहणोपपादनम्
ननु च वर्तमानक्षणात् पूर्वमूर्ध्वं वा तदस्तित्ववत् नास्तित्व
मपि न गृहीतमेवेति कथं क्षणिकत्वम् ॥
क एवमाह ? न गृहीतं नास्तित्वम् ? अनुपलब्धेरेव नास्तित्व
व्यवहारात् । उपलम्भो हि भावानां सत्ता, अनुपलम्भश्च
नास्तित्वम् । दर्शनादर्शने एव सदसत्त्वयोर्लक्षणम् । तस्मात् क्षणान्तरे
तदनुपलम्भात् नास्तित्वमेवेत्येवं क्षणिकत्वग्राहि प्रत्यक्षमिति स्थितम् ॥
प्रत्यभिज्ञाया विततकालाविषयकत्वम्
II.314
पूर्वं हि ज्ञानं तत्कालमेव, उत्तरमपि स्वकालमेव वस्तु गृह्णाति;
तु नास्त्येव ग्रहणम् । अग्रहणमेव हि मध्यमाहुः ॥
धारावाहिज्ञानस्याप्रामाणिकता
नैतदेवम्—तत्राप्येकक्षणवृत्तित्वात् ज्ञानस्य । क्षणान्तरे तु ज्ञान
मेव नास्ति तत्1129 । तत् कस्याविच्छिन्नसत्ता ? कस्य त्रुटितसत्ता ? कस्य
वा बाधकम् ?
ननु अस्त्येव क्षणान्तरे विज्ञानम्, अविच्छिन्नत्वाद्दृष्टेरिति चेत्—
मैवम्—बुद्धेरदीर्घकालत्वात् ज्ञानान्तरोत्पाद एवासावित्यवधारयत्वायु
ष्मान् ॥
ज्ञानस्य स्थिरत्वेऽपि न वस्तुस्थैर्यग्रहणम्
सोऽयं अविच्छिन्नदृष्टीनां अत्रुटितपदार्थसत्ताग्रहणाभिमान इत्थ
मुत्थितः ॥
II.315
साऽपि हि स्वसंवेद्यत्वात् एकक्षणपरीतैव प्रकाशत इति । तस्मात्
क्षणिकग्राहि प्रत्यक्षमिति सिद्धम् ॥
क्षणिकवादं प्रत्यनुमानं न प्रतिकूलम्
न—अनुपलम्भव्यतिरिक्तस्य हेतुमतः विनाशस्यानुपलब्धेः1132 । उप
लम्भ एवास्तित्वं भावानाम्, अनुपलम्भश्च नास्तित्वम् । न च घटानु
पलब्धिः मुद्गरादिकार्या, ततः प्रागपि भावात् ॥
घटकालेऽपि घटानुपलंभः
ननु दृश्यानुपलब्धेः असत्त्वनिश्चयः । स च कपालकाल एव घट
स्यावकल्पते । मध्ये त्वदर्शनं 1133अन्यथाऽपि स्यादिति नादर्शनमात्रमेव
II.316
नास्तित्वम्—मैवम्—त्वदभिमते मध्येऽपि दृश्यस्यैव 1134घटस्यानुपलम्भ
इति तदाऽप्यस्य नास्तित्वमेव ॥
अनुभवस्सर्वेषां नैकरूपः
यदहं न वेद्मि, तत् परोऽपि न वेदेति चेत्; तर्हि मध्येऽपि घटं सर्व
एव न पश्येयुरिति नास्त्येवासौ कपालीभूतघटवत् । अपि च—
तदलं ते परगृहवृत्तान्तचिन्तया । यत् पश्यसि तदस्तीति जानीहि
यन्न पश्यसि तन्नास्तीति विद्धि । एवमनुपलम्भ एव भावानां विनाश इति
न तस्य मुद्गरादिकार्यत्वम् । अतोऽनुमानमपि न स्थैर्यसाधकम् । तस्मा
द्यथोक्तक्रमेण प्रत्यक्षमेव क्षणिकपदार्थपरिच्छेदीति स्थितम् ॥
क्षणिकवादे दोषोद्धारः
II.317
क्षणभङ्गनिरासोपक्रमः
सत्त्वं नार्थक्रियाकारित्वम्
क्षणिकस्यार्थक्रियाकारित्वासंभवः
II.318
क्षणिकवादस्य दुर्वचत्वम्
क्षणिकवादे कार्यानुपपत्तिः
अपि च—क्षणिकत्वपक्षे किमेकस्मादेकोत्पादः ? उत बहुभ्य
एकोत्पत्तिः ? अथैकस्मादनेकनिष्पत्तिः ? आहोस्वित् बहुभ्यो बहु
सम्भवः ? इति परीक्षणीयम् ॥
न तावदेकस्मादेकोत्पत्तिः, अलौकिकत्वात् । एकस्मादप्यग्नेः भस्म
धूमेन्धनविकाराद्यनेकप्रकारकार्यकलापोत्पाददर्शनात् । कार्यसिद्धये च
सर्वत्र सहकारिसन्निधापनप्रयत्नदर्शनात्, न वै किंचिदेकं जनकम् इति
ग्रन्थविरोधाच्च ॥
एकस्मात्कारणादनेककार्यासंभवः
एतेन तृतीयः पक्षः निरस्तः एकस्मादनेकोत्पत्तिरिति । एकश्च
नैकं जनयत् क्रमेण जनयेत्, युगपद्वा ? न क्रमेण, स्थेर्यप्रसङ्गात् ॥
II.319
न यगपत्, अदृष्टत्वात् । एकस्य चानेककार्यकरणशक्तियोगेन तद्भे
दान्नानात्वप्रसङ्गः ॥
बहुभिः कारणैरेकाकार्यस्याप्यसंभवः
अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते—तद्वक्तव्यम्—किं
तदेकं कार्यम् ? कैर्वा बहुभिरुत्पाद्यते इति । न ह्यस्माकमिव भवतां अने
कोपायनिबहनिर्मितं अवयविस्वरूपं कार्यमस्ति; संचितैः संचिता
एव जन्यन्त इत्यभ्युपगमात्1139 ॥
यदि चानेककारणकार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभाव
नानात्वयोगात् एकत्वमेव तावद्विरुध्यते । अन्यथात्वे हि न कारणा
धीनं भावानां रूपमित्याकस्मिकत्वप्रसङ्गः । कारणभेदापादितनाना
त्वस्यापि यदि चैकत्वं, तदैकस्य नानाकालयोगिनोऽप्येकत्वं स्यात् ।
असत्त्वं वा भिन्नस्वभावस्य वस्तुन इति पूर्ववत् वक्तव्यम् ॥
बौद्धमते ग्राह्यग्राहकभावानुपपत्तिः
लोचनालोक1140मनस्कारादिकारणभेदे कार्यमप्येकरूपं ज्ञानं इति चेन्न—
तस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात् । निराकारज्ञान
वादिनो हि बौद्धस्य प्रतिकर्मव्यवस्था न सिध्यति, जनकस्य कर्मणः
II.320
प्रतिभासे स्थैर्यप्रसङ्गात्, एकसामग्र्यधीनत्वपक्षस्य चासम्भवात्1141 ।
सम्भवेऽपि वा ग्राह्यनियमनिमित्ताभावादिति1142 ॥
बहुभ्यो बहुसंभवदूषणम्
अथोच्यते—किमनभ्युपगतपक्षोपमर्दनेन । बहुभ्यो बहुसंभव
इत्येष एव नः पक्षः । सन्तानवृत्त्या वर्तमाना पूर्वसामग्री सरूपामुत्तर
सामग्रीमारभते । विजातीयकारणानुप्रवेशे तु विरूपामिति ॥
अथ केयं सामग्री नाम ? न समग्रेभ्यो भिन्ना, पृथगनुपलम्भात् ।
अव्यतिरेके तु समग्र एव सामग्री । तत्र पूर्वसमुदायेन उत्तरसमुदायारम्भे
तदन्तर्गतं समुदायिनमेकमेक एवोत्पादयेत्, एकं वा सर्वे संभूयेति ॥
तत्र आद्ये पक्षे सैवेयमेकस्मादेकोत्पत्तिरुक्ता स्यात् । सा च
प्रतिषिद्धा ॥
कार्यसांकर्यप्रसंगस्तन्मते
अथैकैकसमुदायिनिष्पत्तौ सर्वसमुदायिनां व्यापारः—स तु क्रमेण
वा, यैगपद्येन वा ? तत्र क्रमपक्षे क्षणिकत्वहानिः । ये हि तत्र पंचषास्स
मुदायिनः क्षणाः वर्तन्ते, ते एकं तमुत्पाद्य पुनरपरमारभेरन्, पुनरन्य
मिति तावत्कालप्रतीक्षणादक्षणिकत्वम् ॥
अथ युगपदेव सर्वनिष्पत्तौ सर्वे व्याप्रियन्ते, तर्हि निकुरुम्बरूपमेव
कार्यं निकुरुम्बरूपादेव कारणादुत्पन्नमिति, कारणविवेकनियमाभावात्
रूपरसादिप्रविभागो न स्यात् । इदं रूपं, एष रसः इति कथं निश्ची
II.321
यते ? चित्रेण चित्रमुत्पादितमिति सर्वं रूपं स्यात् । सर्वो वा रसः ।
यद्वा न रूपं, न रसः, अन्यदेव किंचद्वस्त्वन्तरं तत् स्यात् ॥
कारणेषु वैलक्षण्यमपि तन्मते दुर्वचम्
अथोच्यते—यद्यपि रूपरसादिसामग्री तत्सामग्र्या एव जनिका1143,
तथापि क्वचित् किंचिदुपादानकारणं, इतरत्सहकारि कारणम् । तत्र रूप
क्षणनिष्पत्तौ रूपस्योपादानकारणत्वात् इतरेषां च सहकारिकारणत्वात् न
पदार्थसङ्कर इति—तदयुक्तम्—सर्वथा कारणत्वानपायात् ॥
अस्मिन् पक्षे स्थैर्यापत्तिः
अपि च येन स्वरूपेण रूपस्य रूपं प्रत्युपादानकारणता, तेनैव यदि
रसं प्रति सहकारिकारणता तदा पुनरपि रूपरसयोरविशेषः । अथान्येन
रूपेण रूपस्य रूपोपादानता, अन्येन च रससहकारितेति, तर्हि स्वभाव
भेदान्नानात्वम्, नानत्वे च स्थैर्यम्, असत्त्वं वेत्युक्तम्—
भावानां परस्परपरिहारव्यवस्थितरुपत्वादस्त्येवैषां 1145लक्षणिको
विरोधः ॥
II.322
क्षणिकवादे कारणविशेषव्यवस्थापनं दुकरम्
अपि च क्षणिकत्वे पदार्थानां, इदमत्रोपादानकारणं, इदं सहकारि
कारणमिति विशेषोऽपि दुरवगमः । तथा हि—किमिदमुपादानं नाम ?
किं स्वसन्तानविनाशेन बीजादिवत् कार्यजनकमुपादानम्, उत
स्वविशेषसमर्पणेनोत्पादकमिति । यदि पूर्वः पक्षः, परलोकचर्चा
चार्वाकवदुपेक्षिता स्यात्1146 । ज्ञानसन्तानविनाशेन ज्ञानान्तरारम्भप्र
सङ्गात् ॥
स्वविशेषार्पणपक्षेऽपि सर्वविशेषार्पणं वा स्यात्, कतिपयविशेषार्पणं
वा ? सर्वविशेषार्पणे निर्विकल्पज्ञानं सविकल्पकस्य नोपादानकारणं
स्यात्1147 ॥
क्षणिकवादे हेतुदर्शनं व्याप्तिस्मारकं न स्यात्
सन्तान1148भूयस्त्वाद्भविष्यतीति चेत्—न—एकप्रमात्रधीनप्रतिसन्धानौ
पनिबन्धनव्यवहारप्रतिबन्धविप्लवप्रसङ्गात् । नित्यमेकमात्मानमन्तरेण
सन्तानैकतायामपि तावदसौ व्यवहारो नावकल्पते । किमुतैकत्रैव देव
दत्तसन्तानभूयस्त्वे सतीति ॥
II.323
कतिपयविशेषार्पणेन तु यद्युपादानता, तदानीं रूपमपि ज्ञानोपादान
कारणतां प्रतिपद्येत । तस्मान्नोपादानकारणं नाम किंचित् । तन्निरासेन
च तद्वैलक्षण्यलक्ष्यमाणस्वरूपस्य सहकारिणोऽपि व्युदासो वेदितव्यः ॥
सहकार्यधीनत्वे स्थैर्यसिद्धिः
अपि च—
क्षणिकावादे कार्यकरणभावासिद्धिः
अथवा—तिष्ठतु तावदुपादानसहकारिकारणविवेकः ! कार्यकारण
भाव एषः भदन्तसिद्धान्ते दुरुपपादः । परोत्पत्तावव्याप्रियमाणमेव
यदि कारणमुच्यते सर्वं सर्वस्य कारणं स्यात् ॥
II.324
आनन्तर्यमात्रं न कारणत्वगमकम्
अथ ब्रूयात्—इदं प्रतीत्य इदं प्रतीयते इति इदंप्रत्ययतामात्रमेव1151
कार्यकारणभाव इति—तथापि लब्धात्मनः क्षणस्य प्रतीतिरिति द्वितीय
क्षणावस्थानमपरिहार्यमेव ॥
तुलादृष्टान्तवैरूप्यम्
अथ मन्येथा यथा तुलान्तयोर्नामोन्नामौ भवतः1153, एवं पूर्वोत्तरयोः
क्षणयोः नाशोत्पादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिवृत्तेः इयतैव
तौ कार्यकारणभावमश्नुवीयातामिति—एतदप्यमनोरमम्—न ह्ययमायु
ष्मता सम्यगवधृतस्तुलादृष्टान्तः ॥
इह हि न पूर्वेण क्षणेन, नापि तद्विनाशेनोत्तरः क्षण उत्पद्यते । न
च हेमस्थानीयमिहान्यदस्तीत्यनुत्पाद एवावशिष्यते ॥
II.325
सत्त्वं क्षणिकत्वविरुद्धस्यैव साधकम्
अथवा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रियमाणत्वेन कार
कत्वावधारणात्, द्वित्रक्षणस्थायित्वमवश्यमनन्तरनीत्या भवेदिति प्रत्युत
सत्त्वादक्षणिकत्वसिद्धेः विरुद्धोऽयं हेतुः ॥
अतश्चैवं, नित्यानामेवार्थक्रियाकारित्वोपपत्तेः समवाय्यसमवायि
निमित्तभेदेन त्रिविधा कार्यकारणसामग्री परस्परसंसर्गमागत्य यथा
सन्निधानं कार्यं प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः । यदैवा
विकलसंसर्गा सामग्री तदैव कार्योत्पत्तिः ॥
कार्याणां क्रमादेवोत्पत्तिः
न च समग्रव्यतिरेकाव्यतिरेकविकल्पः अस्मत्पक्षे सामग्रीं अपबा
धते; समग्रधर्मत्वात् सामग्र्याः । समग्रापेक्षया च सामग्र्या एव च
तमबर्थातिशययोगात् करणमिति प्रमाणसामान्यलक्षणे वर्णितमेतत् ॥
II.326
कारणानां प्रत्येकसामर्थ्यप्रश्नोऽपि व्यर्थः
तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्,
तावदभ्युपगतमेव तदपेक्षस्य सामग्र्याः साधकतमत्वस्य निर्वहणात् । न
हि भवति कृष्णाच्छुक्लतर1156 इति ॥
अविकलं तु सामग्र्या एव सामर्थ्यं, यदनन्तरं कार्यनिष्पत्तिरिति
कार्यनिष्पत्तिदर्शनादेवावगम्यते ॥
कारकत्वं न क्षणिकम्
यदपि एकक्षणस्थायि कारकं स्यादित्युद्धोषितं परैः—तदप्यसत्—
कार्यनिष्पत्तिपर्यन्तत्वादवस्थानस्य । एकेन च क्षणैन कार्यनिष्पत्तेर
घटमानत्वात् । कार्यनिष्पत्तेरूर्ध्वं तु सामग्री विप्लवते1157 न समग्राणिः
तेषामेकैकशः क्वचित्क्वचिदुपलम्भात् चक्रसूत्रदण्डादीनाम् । इत्थं
स्थिराणामेव पदार्थानां अर्थक्रियासामर्थ्यः समर्थिसमिति न ततः क्षण
भङ्गसिद्धिः ॥
एवंच सत्त्वनित्यत्वयोः विरोधात्—सत्त्वप्रतीत्यैव एकचन्द्रबुद्धि
वत् तदितरनिराकरणमित्यादि यत् प्रलपितं तत् प्रतिक्षिप्तं भवति ॥
II.327
ध्वंसस्यानपेक्षत्वनिराकरणम्
यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति—तदपि
यत्किंचित्—दण्डादिव्यवहारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटा
द्यभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् । प्रध्वं
साभावश्च विनाश इत्युच्यते ॥
मुद्गरादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डादिसामग्र्या
किमस्य क्रियते ? आत्मलाभ इति चेत्, अनयाऽप्यात्महानं करिष्यते ॥
भावाभावयोरुभयोरपि हेत्वधीनत्वम्
ननु ! 1159नश्वरश्चेत् तत्कारणमफलम्, अनश्वरत्वे त्वशक्तमिति—
उत्पत्तावपि तुल्योऽयं प्रलापः । भवनस्वभावश्चेत् घटः स्वत एव भवति,
किं दण्डादिकारकसामग्र्या ? अभवनस्वभावस्तु कर्तुमशक्यः, खर
विषाणवदिति ॥
कारकव्यापारकार्यत्वदर्शनात् अपर्यनुयोग एष इति चेत्, विनाशे
च समः समाधिः, उत्पत्तिवत् विनाशस्यापि कारकान्वयव्यतिरेकानु
विधायित्वात् ॥
II.328
घटादीनां नित्यत्वापादनपरिहारः
ननु ! सापेक्षाणां 1160भावानां नावश्यंभाविता भवेदिति घटस्य
विनाशहेतुर्नोपनिपतेदपि कदाचित्—1161इत्येवमसौ किं नित्य एव भवत्विति
—अहो ! महान् प्रमादः, उत्सन्नाः प्रजाः, पतितो महान् वज्राशनिः,
दुष्परिहरोऽयं दोष उत्थितः । यदि घटो नित्यो भवेत्, एष कालाग्नि
रुद्र इव त्रिभुवनमपि भस्मीकुर्यात् ॥
घटादीनां सावयवत्वेन नाशावश्यंभावः
अपि च, रे मूढ ! सावयवस्य, आश्रितस्य कार्यस्य च नूनमवयव
विभागात्—आश्रयविनाशाद्वा यदा कदाचिद्भवितव्यमेव विनाशेनेति
कस्तन्नित्यत्वशङ्कावसरः ? तथा हि न रामाभिषेककलशमद्य यावदनु
वर्तमानमीश्वरवेश्मन्यपि पश्यति लोक इत्यवश्यंभावी तस्य विनाश
हेतुः । तस्मात् सहेतुको विनाश इति न स्वत एव विनश्वरा भावाः ॥
वस्तुस्थैर्यं प्रत्यक्षसिद्धम्
अपि च प्रत्यज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धान्त
संततिरभङ्गुरमेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशत
II.329
विभागवती 1162सर्वतो जाज्वलीतीति कस्तस्य सत्यं क्षणभङ्गिनो भावा
नभिदध्यात् । यच्च किंचन तस्यामपभाषितं—तत्सर्वमसमंजसम् ॥
प्रत्यभिज्ञाप्रामाण्यम्
यत्तावदिदं विकल्पितं—स एवायमिति किमेकं विज्ञानम्, उत द्बे ?
इति—तत्रोच्यते—सामानाधिकरण्येनैकविषयावद्योतनाप्रवणैकप्रतीति
संवेदनात् केयं द्वित्वाशङ्का ? योऽयमयं सः, यः सः सोऽयमित्येकत्वा
वमर्शिनी खल्वियमेका । स्वतस्तु याऽनेकप्रतीतिरनुभूयते घटोऽयमिति
तन्न निरन्तरोत्पन्नघटज्ञानपटस्मरणवत् भिन्नविषयं बुद्धिद्वयमिति ॥
प्रत्यभिज्ञायाः प्रत्यक्षत्वम्
यत्तु किमेकप्रतीतिजन्मनि करणमिति—
न च कार्यमकारकं भवितुमर्हति, कार्यत्वस्यैवानुपपत्तेः इति भवि
तव्यमेव तत्र कारणेन । अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः
कारणं पृथक् । कार्यताऽपि तयोर्दर्शनादेव1164 गभ्यते । तदिह सन्निहित
योरेककार्यजन्मनि व्यापारात् तदपि किमिति नेष्यते । मृत्तन्तुकार्यमेक
मदर्शनादेवानभ्युपगतम् । इदं तु दृष्टत्वाद्दुरपह्नवम् ॥
II.330
1165क्वचित्तु केवलेन्द्रियव्यापारादपि—कार्यादर्शनान्न सर्वत्र तथाविध
स्यैव तस्य कार्यकारित्वं, सहकार्यपेक्षेण कार्यान्तरजननात् ॥
प्रत्यभिज्ञाविषयनिर्णयः
यत्तु उक्तं—कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति—तत्रैते वादिनः
शतकृत्वो दत्तोत्तरा अपि यत्पुनरस्माननुयुंजते, तेन बलवदुद्विग्नाः स्मः ।
उक्तमत्र प्रमितयः प्रष्टव्याः, न तु वादिन इति । अतीतकालविशिष्टो
वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते ॥
एकस्य कालद्वयसंबन्धः न विरुद्धः
नैतदेवम्—केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभदात् ।
अवयव्यस्ति, नास्तीति परीक्षणं वादान्तरगमनम् । अपवर्गाह्निके च
विस्तरेणावयवी साधयिष्यत इत्यास्तामेतत् ॥
कुण्डलादीनामविरोधादिति1166 चेत्—न—लाक्षणिकविरोधाभ्युपगमात्1167 ।
परस्परपरिहारव्यवस्थितात्मनो हि सर्वे भावा इति भणद्भिर्भवद्भिरभ्यु
पेयत एषां विरोधः ॥
II.331
एकस्य कालद्वयसंबन्धो न विरुद्धः
ननु ! केयूरादीनां विरोधेऽपि तदाऽवस्थानादेकदेवदत्तसंबन्धित्वम
भ्युपपद्येतापि । भूतवर्तमानयोस्तु 1168युगपदसन्निधानात् कथं तद्वि
शिष्टता स्तम्भादेरुच्यते—प्रतीयते च द्वौ कालौ, न च सन्निहिताविति
चित्रम् ॥
किं भूतोऽपि काल इदानीमस्ति—मैवम्—नासावस्तीत्युच्यते, अपि
त्वासीदिति । अस्तीत्युच्यमानः वर्तमान एव स्यात्, न भूतः ॥
हन्त तर्हि भूतः भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते ? भूत
त्वेनैवेति ब्रूमः । भूतः कालो भूततयैव गृह्यते, वर्तमानोऽपि वर्तमान
तयैव, अर्थस्तूभयानुगत एक एव, तथा ग्रहणात् ॥
भूतकालस्येदानीं भानसंभवः
ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्—न—
धर्मिणस्तदवच्छिन्नस्य ज्ञानजनकस्य भावात् । भूतः कथमवच्छेदक
इति चेत्, तथा प्रतिभासात् । प्रतीतिमवमृशतु भवान् स एवायम्
इति । यः पूर्वमासीत्, स इदानीमप्यस्तीति । सोऽयमतीतकाल
विशिष्टोऽर्थ एतस्यां बुद्धाववभासते ॥
प्रत्यभिज्ञाया इन्द्रियजत्वम्
ननु । असता भूतकालेन विशेषितमर्थं कथमिन्द्रियजा प्रतीतिरा
लम्बनीकुर्यात् ? उच्यते—
II.332
अविद्यमानस्यापि विशेषणतया भानसंभवः
संख्येयाः पदातयः सन्ति, अतीतकालस्तु नास्तीति चेत्—कपि
त्थेषु भक्ष्यमाणेषु किं वक्ष्यति देवानां प्रियः ? शतं कपित्थानां भक्षि
तवान् वाहीक इति प्रतीतिदर्शनात् । न च नवनवतावनुपयुक्तेषु
कपित्थेषु 1170एकत्रैव शतं मया भक्षितम् इति मतिः । अतः यथा
तत्रातिक्रान्तान्यपि नवनवतिकपित्थानि शतप्रतीतिहेतुतामुपयान्ति, प्रति
भासोपारूढत्वात्; एवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञा
माधास्यतीति ॥
विकल्पानां प्रामाण्यम्
विकल्पमात्रं शतप्रत्यय इति चेत्, भो महात्मन् ! किं वा तव न
विकल्पमात्रम् । किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः ॥
इत्यलं कथान्तराक्षेपेण ॥
II.333
प्रत्यभिज्ञायां गतकालस्य विषयत्वम्
ननु ! अतिक्रान्तग्राहि प्रत्यभिज्ञानं, इन्द्रियार्थसन्निकर्षजं चेति नः
कौतुकमिदम् । किं तत्कौतुकम् ? अर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव
जनकः स्तम्भादिः ॥
ननु ! अस्ति, स तु वर्तमानकाल एव—न केवलं, वर्तमानकाल
योगिनाऽर्थेन तत्प्रत्ययजननात्, तस्य वर्तमान इवातीतोऽपि कालः
अवच्छेदकतां प्रतिपद्यते । स च तदवच्छिन्नोऽर्थः इदं च ज्ञानमादधाती
त्यर्थजमेतत् इन्द्रियजमपि भवति, तद्भावाभावानुविधानात् ॥
अतीतविषयकस्यापीन्द्रियजन्यत्वम्
ननु ! अतीतेऽर्थे कथमिन्द्रियं प्रवर्तते ?
कस्यैष पर्यनुयोगः ? नेन्द्रियस्य, अचेतनत्वात् । पुरुषस्तु अवि
ष्फारिताक्षस्तु लभत इति सोऽप्यननुयोज्यः ॥
प्रत्यभिज्ञाया अबाधितत्वम्
ननु ! अतीतग्राहित्वात् अप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेः,
नेन्द्रियस्यातीतेऽपि सामर्थ्यं दृष्टपूर्वमिति—मैवम्—अप्रामाण्यं नाम
बाधकप्रत्ययात् कल्प्यते, न चासावस्ति प्रत्यभिज्ञायाम् । अनुमानं तु
बाधकं प्रतिक्षिप्तम् ॥
प्रत्यभिज्ञाया अप्रामाण्ये हेतुर्नास्ति
ननु ! कारणदोषादपि कल्प्यत एवाप्रामाण्यम् ॥
आयुष्मन् ! सोऽप्युच्यताम् ॥
1172 II.334
उक्त एवेन्द्रियस्यातीतग्रहणविषये सामर्थ्यविरहः । वत्स ! न
सम्यगुक्तवानसि । नायमिन्द्रियस्य तिमिरादिरिव दोषः । अतीते
काले स्वतन्त्रे तस्यासामर्थ्यम्, न तद्ग्राह्यवर्तमानवस्तुविशेषणीभूते ।
संस्कारसचिवस्य चास्य सामर्थ्यम्, न केवलस्येत्युक्तम् । तस्मादतीतकाल
विशेषितपुरोवर्तिवर्तमानस्तम्भादिपदार्थविषयमिन्द्रियार्थसन्निकर्षोत्पन्नमे
वेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम् ॥
प्रत्यभिज्ञाया मानसत्वं वा
यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तदविषयगन्धविशेषिते बाह्ये
न्द्रियद्वारकं ग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानं, एवं
पूर्वविज्ञानविशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी
प्रत्यभिज्ञा । पूर्वप्रवृत्तबाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि
II.335
चान्तःकरणेऽभ्युपगम्यमाने सति नान्धाद्यभावप्रसङ्ग1174 इति बहुशः
कथितम् ॥
ननु ! कुन्दादेर्विशेषणं वर्तमानमस्ति सौरभम् । इह त्वतीतं पूर्व
विज्ञानमिति कथं विशेषणम् ?—उक्तमत्र । किं तेन सता करिष्यसि ?
शतादिबुद्धिष्वतिक्रान्तस्यापि कपित्थादेः कारणत्वदर्शनादिति ॥
तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्यमवस्थाप्यत एव
भावानाम् ॥
वस्तुस्थैर्यवादः
तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकम् । इह तु न
किंचिदस्ति ॥
अत एव शब्दे तदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता
प्रत्यभिज्ञा1176 स्थास्नुतामुपस्थापयितुमसमर्थेत्युक्तम् ॥
ज्वालादावपि तैलवर्तिक्षयाद्यनुमानबाधितत्वात् भ्रान्ता प्रत्यभिज्ञा,
न तु तथा स्तम्भादावनुमानमपि बाधकमस्ति । सत्त्वानुमानं तु
निरस्तमेव ॥
II.336
अनुमानेन प्रत्यक्षबाधेऽपि नात्र तद्युक्तम्
यद्यपि नैष नियमः—प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय इति,
त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्य अनुमानबाध्यत्व
दर्शनादिति—तथापि प्रकृतं क्षणिकत्वानुमानं अन्यथासिद्धं, अनन्यथा
सिद्धं तु प्रत्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकम् ॥
न चेतरेतराश्रयत्वम्, अनुमानमिथ्यात्वनिबन्धनप्रत्यभिज्ञाप्रत्यक्ष
प्रामाण्यानभ्युपगमात् । स्वहेतुबलवत्तयैव प्रत्यभिज्ञाप्रत्यक्षं प्रमाणम् ।
न तस्येदं दैन्यम्, यदनुमानमिथ्यात्वे सति 1177तत्प्रमाणी
भविष्यतीति ॥
ज्ञानस्य क्षणिकत्वासंभवः
तुल्यसामग्र्यधीनत्वस्य निराकृतत्वात्, निराकारत्वस्य निराकरिष्य
माणत्वात्, अन्वयव्यतिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकत्वस्य चार्थ
स्यावभास्यत्वनिश्चयात्, उत्पन्नोऽर्थो ज्ञानं जनयति, जातेन च तेन ज्ञानेन
गृह्यत इति बलात् द्वित्रक्षणावस्थायित्वमस्यापद्यत1178 इति कुतः
क्षणिकत्वम् ?
II.337
घटादीनां स्थिरत्वम्
रविगुप्तपक्षनिरासः
तथा हि—वर्तमानवस्तु 1180विग्रहग्राहिविज्ञानं अनन्तरोक्तनयेन स्वजन
कार्थप्रतिभासनात् द्विक्षणस्थायितामर्थस्य गमयतीत्युक्तम् । आद्यं च
किंचिद्विज्ञानं अनागतकालस्पर्शि1181 भवति । यथाऽऽह भट्टः—
इति । उत्तरमपि प्रत्यभिज्ञानं अतीतकालावच्छिन्नमर्थमवद्योतय
तीति दर्शितम् ॥
II.338
अतीतकालग्रहणेऽप्युत्पत्तेरग्रहणम्
न चातीतानागतजन्मग्रहणमाशङ्कनीयम्, इयति कारणसामर्थ्य
नियमात् । न ह्यतीतानागतजन्मग्रहणमशक्यक्रियमिति यदपि दृश्य
मानं ग्रहणं, तदप्यपह्नोतुं युक्तम् ॥
न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामा
न्यतोदृष्टेन अदृष्टमप्यतीतानागतज्ञानं कल्प्यम् । यथादर्शनं हि
वस्तूनि व्यवस्थाप्यन्ते, न तु किंचिद्दृष्टवाऽन्यदपि कल्प्यते, दृष्टमपि वा
निह्नूयते इति ॥
वस्तूनां स्थिरत्वं प्रत्यभिज्ञाग्राह्यम्
अपि च अनिमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुप
पद्यते । तत् कथं क्षणिकग्राहि कथ्यते ॥
यच्च तत्र विकल्पितं—अतीतानागतक्षणयोः असन्निहितत्वेन प्रत्यक्ष
ग्राह्यताऽनुपपत्तेः वर्तमानक्षणस्य चातिसूक्ष्मत्वात् तत्कालग्राहिणा प्रत्यक्षेण
क्षणिकत्वमेव गृहीतं भवतीति—तदुपपन्नम्1182—मा नामाभूदतीतानागत
कालग्रहणं, वर्तवान एव तु तत्रानिमेषदर्शने कियान् काल इति चिन्त्य
ताम् । निमेषकृतस्यापि दर्शनविच्छेदस्यानवकाशात् । यावद्धि दर्शनं
न विच्छिन्नं, तावान् वर्तमानः काल इति तद्ग्रहणेन स्थैर्यं गृहीतं भवति,
न क्षणिकत्वम् ॥
II.339
वर्तमानकालस्य न क्षणरूपत्वम्
ननु ! तावानसौ कालः क्षणसमुदायो भवति, न क्षणः । क्षणश्चैक
एव वर्तमानो भवति । अतः पूर्वापरौ क्षणावतीतानागतौ भवतः । तयोश्च
न ग्रहणमित्युक्तम् ॥
भो महात्मन् ! सिद्धे क्षणकत्व एव एवं शक्यते वक्तुम्, न तत्साध
नावसरे । कालो ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम् ।
न तु क्षणसमुदायात्मा कालः । कालस्य तु भेदाः क्रियोपजननविनाशाद्यु
पाधिनिबन्धनाः कल्प्यन्त इत्यपि तत्रैव परीक्षितम् । तदयमनिमेषदृष्टेः1183
दर्शनविच्छेदानुपग्रहात् तावानेकः कालः स इति वर्तवान एव भवति1184
नानाक्षणसमुदायः । क्षणसमुदायात्मकेऽपि वा काले दर्शनविच्छेदानव
धारणात् क्षणसमुदाय एव वर्तमानीभवतु ॥
कालस्याप्रामाणिकत्वेऽपि न क्षणिकत्वसिद्धिः
ननु ! कालो नाम न कश्चित् पारमार्थिकः पदार्थ एव परिदृश्यमानः
वर्तमानादिव्यवहारहेतुः । स च न चिरमनुभूयत इति क्षणिक
उच्यते—
भिक्षो ! अलमवान्तरगमनेन । मा भूत् कालः । पदार्थ
स्त्वनिमेषदृष्ट्यविच्छेदान्न नश्यन् दृश्यत इति न क्षणिकग्राहि
प्रत्यक्षम् ॥
II.340
ज्ञानस्यास्थिरत्वेऽपि वस्तुस्थैर्योपपत्तिः
ननु ! भवद्भिरपि न स्थिरं ज्ञानमिष्यते । क्षीणे च ज्ञाने सोऽर्थो
द्वितीयक्षणे केन गृह्येत ? ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को
निश्चयः ?
अनिमेषदृष्टेर्ज्ञानं न क्षीयत एवेत्येके ॥
अथवा किं न एतेन । न हि विषयप्रतिभासकाले ज्ञानमवभासत1185
इति असकृदुक्तं, वक्ष्यते च । तेन तत्कीदृशमिति कुतो वयं विद्मः ।
अर्थस्त्वविच्छिन्नसत्ताक एव गृह्यते । ज्ञानं तु वर्तमानकालमप्यतीता
नागतकालग्राहि भवति; स्मरणमिव, भूतभविष्यद्वृष्ट्यनुमानमिव ॥
इन्द्रियस्य, सन्निकर्षस्य, अर्थस्य च स्थिरत्वम्
ननु ! इन्द्रियव्यापारो न क्षणान्तरस्थायीति तस्मिन्नसति कुतोऽ
र्थस्य विततकालताग्रहणम् ?
भदन्त ! भवतु, श्रान्तोऽसि । लज्जस्वैवंब्रुवाणः । निमेष
कृतोऽपि विच्छेदोऽस्य नास्ति । अथ च न स्थिरः इन्द्रियव्यापार इति
ग्राहिकतामात्रम् । सन्निकर्षश्चास्य विषयग्रहणे व्यापारः । 1186स च स्थिर
एव । तस्माद्विततकालस्य वस्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् ॥
II.341
ध्वंसस्य हेतुजन्यत्वाद्वस्तुस्थैर्यसिद्धिः
एवंच स्थिते न स्वरूपमात्रनिबन्धन एव भावानां विनाशः, किंतु
हेत्वन्तरनिबन्धनो भवति । ततश्च आविनाशहेतूपनिपातात् अवस्थानमेव
भावानाम् । अविद्यमानविनाशकारणानां 1187च नित्यत्वमेव व्योमादीना
मिति सिद्धम् ॥
सत्त्वासत्त्वयोर्दर्शनादर्शनरूपत्वाभावः
यत्पुनरभाणि—दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति—तदपि
व्यामूढभाषितम् । दर्शनादर्शनाभ्यां भावाभावयोः परिच्छेदः, न पुनः
दर्शनादर्शने एव भावाभावौ ॥
अभावश्च विस्तरतः प्राक् प्रसाधितः । स च सहेतुक इति न स्वत
एव विशरारवो भावाः ॥
क्षणिकवादे व्यवहारानुपपत्तिः
एवं त्वनिष्यमाणे पदार्थस्थैर्यपक्षे—ज्ञानजनकस्य नियतस्य वस्तुनो
दर्शनम्, दर्शनविषयीकृतेऽस्य प्रवृत्तिः, प्रवृत्तिविषयीकृतस्य प्राप्तिरिति
व्यवहारो न स्यात्, अर्थक्षणनानात्वात् ॥
क्षणिकवादे बाध्यबाधकभावानुपपत्तिः
बाध्यबाधकभावश्च क्वचित् ज्ञानानां दृष्टः । स च न स्यात्;
पूर्वावगतरजतादिविषयाभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलितश्वधटा
भावज्ञानवत् बाधकत्वानुपपत्तेः ॥
II.342
पूर्वदृष्टस्य स्मरणं, स्मृतस्य कस्य चित् प्रत्यभिज्ञानं, प्रत्यभिज्ञातस्य
च गृहादेरेवार्धकृतस्य समापनं इत्यादयश्च व्यवहारा विलुप्येरन् ॥
क्षणिकवादनिराससंग्रहः
क्षणिकवादे प्रमाणाभावः
II.343
क्षणिकवादे पारलौकिकविलोपः
II.344
क्षणिकवादे कृतहानादिरनिवार्यां
ज्ञानसन्तानस्याविच्छेदोऽपि दुर्वचः
II.345
सन्तानानां सौसादृश्यमपि दुर्वचम्
जननमरणाद्युपपादनमपि क्षणिकवादे दुर्घटम्
II.346
आत्मनः ज्ञानसुखाद्युपपत्तिः
अवस्थावादः
II.347
आत्मनः स्थिरत्वज्ञानेन लाभः
क्षणिकवादिनां क्रियावैरूप्यम्
II.348
अर्वाचीनचार्वाकमतम्
अत्र सुशिक्षितचार्वाक आह—यावच्छारीरमवस्थितमेकं प्रमातृतत्त्वं
अनुसन्धानादिव्यवहारसमर्थमस्तु नाम, कस्तत्र कलहायते । शरीरादूर्ध्वं
तु तदस्तीति किमत्र प्रमाणम् ? न च पूर्वशरीरमपहाय शरीरान्तरं
संक्रमति प्रमाता ॥
पारलौकिकात्मा नास्ति
यदि ह्येवं भवेत्, तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवत्
अतीतजन्मानुभूतपदार्थस्मरणमपि तस्य भवेत् । न हि तस्य नित्यत्वा
विशेषे च, शरीरभेदाविशेषे च स्मरणविशेषे कारणविशेषमुत्पश्यामः,
यदिह जन्मन्येवानुभूतं स्मरति, नान्यजन्मानुभूतमिति । तस्मादूर्ध्वं
देहात् नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकौरुकुचीमपास्य
यथासुखमास्यताम् ॥ यथाऽऽह—
आत्मनः स्थिरत्वस्यौत्सर्गिकत्वम्
अत्रोच्यते—न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्य
चातुर्यम् । यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि
तन्न विस्मर्तुमर्हसि1198 । न चास्तित्वाविनाभावी भावानां विनाशः स्वाभा
विकः, किन्तु हेत्वन्तरनिमित्तक इति सौगतैस्सह कलहमतिमात्रमधुनैव
II.349
कृत्वा समर्थितोऽयमर्थः । न च विनाशहेतुः प्रमातुरतिचिरमपि विचार्य
माणः कश्चित् कुतश्चित् अवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं
पार्यते ॥
आत्मनो विनाशहेतुर्नास्ति
न ह्यात्मा पटदिरिव सावयव उपलभ्यते, यदवयवविभागादिना
नङ्क्ष्यतीसि गम्यते । उत्पत्तिरपि नात्मनो दृष्टा, यतस्तदविना
भाविनः निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयते । न चैष कस्य
यिदात्मागुणः, यैनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमा
सादयेत् ॥
न चैवं शक्यते वक्तुम्—किं विनाशहेत्वनुमानेन ? प्रत्यक्ष एवास्य
विनाशो दृश्यत इति । यतो न शरीरवदसौ दह्यमानः, शकुनिभि1199रव
लुप्यमानो वा कदाचिदुलब्ध इति । तस्माद्विनाशादर्शनात् विनाशहेत्वनु
मानासंभवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् ॥
तस्मात् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलाप
परितोषालम्बनयत्किंचित्कारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितुम् ।
आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनो
रथाः । भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव । तस्मादस्ति नित्यः
परलोकी प्रमातेति ॥
नित्यत्वे सति पूर्वदेहसंबन्धः, भविष्यद्देहान्तरसंबन्धश्चास्य न
दुरुपपादः ॥
II.350
आत्मनः विभुत्वेऽपि शरीरान्तरप्राप्त्यादि युज्यते
शरीरान्तरसंचारस्त्वस्य नास्तीति यदुक्तं—तद्युक्तमेव । व्यापिनः
सर्वत्र विद्यमानस्यात्मनः कः संचारार्थः ?
व्यापित्व एव किं प्रमाणमिति चेत्—सर्वत्रैव कार्योपलम्भः प्रमाणम् ।
इतो वाराणसीमपि गतस्य मे भदत्येव स्मरणेच्छादिकार्ययोगः । स
चात्मैकप्रभवः । आत्मनश्च शरीरस्येव न तत्र गमनम्, अमूर्तत्वात् । न
शरीरगुणवत्, 1200तदनाश्रितत्वात् । न प्राणादिवत्, अन्तश्शरीरवृत्तित्वा
भावात् ॥
आत्मनः न शरीरान्तर्वर्तित्वम्
अन्तश्शरीरवृत्तित्वाभाव एव किं प्रमाणमिति चेत्—उच्यते—अन्त
श्शरीरवृत्तित्वे हि द्वयी गतीः, एकदेशवृत्तित्वं, सर्वशरीरापूरकत्वं वा ॥
तत्र सर्वशरीरापूरकत्वे शरीरपरिमाणानुविधायित्वात् बालयुव
स्थाविरशरीरवत् पूर्वनीत्या परिमाणान्यत्वेन तदन्यत्वात् पुनरपि प्रति
सन्धानादिकार्यवैधुर्यप्रसङ्गः । करिमशकशरीरयोगे च कर्मपरिणामो
पनते तस्य संकोचविकासौ प्राप्नुतः । तौ च नित्यस्य विरुध्येते ॥
एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामनात्मकत्वात् मृत
शरीरावयवत् अयथेष्टविनियोज्यता—काष्ठीभावः स्यात् ॥
आत्मनो न स्वज्ञानेन सर्वशरीरव्यापकत्वं
प्रदोपवदेकदेशवृत्तेरप्यात्मनः सकलशरीराधिष्ठातृत्वमिति चेत्—
वर्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशेषचैतन्यसंवित्तिः
स्यात् ॥
II.351
अस्त्येव हृदयदेशे तदतिशय इति चेत्—न—अनुपलम्भात् । दहन
हिमकृपाणादिस्पर्शेषु न हृदयस्य, प्रदेशान्तरस्य वा शरीरे वेदनाविशेषं
पश्यामः । तस्मान्न हृत्पुण्डरीके दीपवदवस्थानमात्मनः ॥
आत्मनोऽविभुत्वपरवचनगतिः
अत एव—
इति व्यासवचनमनेवंपर1201मवगन्तव्यम् ॥
यदि तु मनोवदेकदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृ
त्वमात्मनः कथ्यते—तथापि सहसैव चिरप्रोषितागतदयितजनदर्शनोद्भ
तसकलशरीरव्यापिस्वेदरोमांचादिदर्शनं विरुध्यते । न च द्वयोरण्वोरात्म
मनसोः कर्तृकरणव्यवस्थाऽपि निर्वहतीति । तस्मान्नाणुरात्मा, न च
शरीरमात्रपरिमाण इति व्यापक एवावशिष्यते । तदेवं वाराणस्या
मपि अयमात्मा विद्यत एवेति तत्र तत्कार्यदर्शनमवकल्पते, नान्येन गमना
दिप्रकारेणेति ॥
ऐकात्म्यवादनिरासः
ननु ! सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात् सर्वप्राणिनामेक एवात्मा
भवेत्—न—सुखदुःखव्यवस्थादर्शनात्, बन्धमुक्तव्यवस्थोपपत्तेश्चात्म
भेदस्य दर्शयिष्यमाणत्वात् ॥
II.352
विभोरपि कर्तृत्वोपपत्तिः
व्यापिनः तथं कर्तृत्वमिति चेत्1202, ज्ञानचिकीर्षाप्रयत्नसमवाय
एवास्य कर्तृत्वम्, न व्यापारयोग इति निर्णीतमेतत् ॥
ननु ! व्यापिन्यात्मनि कथं शरीराद्बहिरण्वपि तत्कार्यं न दृश्यते—
कर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः ।
स कथं ततो बहिर्भवेत् इति ॥
आत्मनः देहातिरिक्तत्वे हेत्वन्तराणि
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् । सद्यो
जातस्य बालस्य 1203वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तोवदस्ति ।
युवशरीरादौ रोदनादि शोकादिकारणकमवगतम् । आननविकासादि
हर्षहेतुकम् । एवं शिशोरपि तन्निबन्धनः तदुत्पादः । तौ च हर्षशोकौ
सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणकौ भवितुमर्हतः, तथा दृष्ट
त्वात् । इह चास्य न सुखदुःखसाधनपदार्थानुभवस्तादनीमस्ति—इति
तदनुस्मरणमेव हर्षशोकहेतुर्भवेत् ॥
तदनुस्मरणपि तदनुभवप्रभवम् । अनुभवश्चेह जन्मनि सद्यो
जातस्य न समस्तीति जन्मान्तरानुभूतसुखदुःखसाधनानुस्मरणनिमित्तक
एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमान्नित्य आत्मा ॥
II.353
शिशोस्सुखदुःखानुस्मरणम्
ननु ! अभिनवजीवलोकावलोकनाह्लादनिबन्धन एवास्य मुख
विकासः, तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य तस्य रोदन
मिति न जन्मान्तरानुभूतस्मरणं कल्पयितुं युक्तम्, अतिप्रसङ्गात्—मैवम्—
सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव1204 हर्षशोकदर्शनात् ॥
शिशोर्मुखविकासादेरहेतुकत्वनिरासः
ननु ! कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविका
सादिकार्यं स्यात्—स्वाभाविकं नाम किमुच्यते, किमहेतुकम्, अविज्ञात
हेतुकम्, अनियतहेतुकं वा ?
न तावदहेतुकं कार्यं संभवति, कार्यत्वहानिप्रसङ्गात् ॥
नाप्यविज्ञातहेतुकं तद्भवितुं युक्तम्—कार्यमुपलभ्यते । तद्धेतु
परिज्ञाने यततां भवान्; किमुदास्ते ? न चासौ ज्ञातुमशक्यः, कार्यस्यैव
तत्र ज्ञापकत्वात् ॥
नाप्यनियतहेतुकं कार्यं किंचिदस्ति । कार्योत्पादननियमेनैव हेतु
नियमसिद्धेः । अत एव तत्कार्यमुपपादयितुकामाः तन्नियतमेव कारण
मुपाददते लौकिकाः ॥
गोमयवृश्चिकादेरुपपत्तिप्रदर्शनम्
II.354
तदेव कारणनियमोऽपि कार्यविशेषदर्शनाद्दुरपह्नव इति मुख
विकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात् ॥
अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरि
ष्वङ्गाद्युपलब्धमिति तदपि न स्वाभाविकम् ॥
जन्मान्तरानुभूतानां न सर्वेषां स्मरणम्
ननु ! शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः—न—
यावत्कार्यं कारणकल्पनात् । न हि सर्वदा सर्वानुस्मरणं संवेद्यते ।
न च तत्कल्पनायां कारणमुपलभ्यते । न चैकदर्शनात् सर्वं कल्प्यं, दृष्ट
मपि वा निह्नोतव्यमिति परीक्षकाणामुचित एष पन्था इत्यसकृदुक्तम्1206 ॥
शिशोस्तन्यपानप्रवृत्त्या जन्मान्तरसिद्धिः
अपि च पयसस्तृप्तिहेतुतामनुस्मरन् बालकः स्तन्याभिलाषेण मातु
स्तनतटे दृष्टिं निदधाति । न चाद्य तेन तस्य तत्साधनत्वमवगतमिति
जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे ॥
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेव तत् बालकस्य कुच
कलशनिकटोपसर्पणमिति वक्तुमुचितम्, अनन्तरमेव निरस्तत्वात् ॥
गर्भस्थशिशोः पोषणकारणम्
ननु च गर्भशय्याशायिनोऽपि परिपोषदर्शनात् तत्साधनोपादाने
तदनुस्मरणमेव प्राप्नोति—यदि कार्यमवगम्यते तत्रापि तत्कारणमवगम्य
II.355
ताम्, को दोषः ? तत्र तु जनयित्रीजठरपतितान्नपानपरिपाकसंक्रान्त्या
तत्परिपोषमायुर्वेदविदो वदन्तीति कथं तत्र स्मतणादिकल्पना ॥
कल्पनायां वा प्रथमं निषेकानन्तरमेव कललादिशुक्रशोणितविकार
संभवात् तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः । न च तत्कल्पनायामपि
काचिदस्माकं क्षतिः1207 । अयं तु स्तन्याभिलाषेण कुचक्षीरकलशावलो
कनोपसर्पणादरो दारकस्य तदनुस्मरणकृत एवेति सर्वथा जन्मान्तर
संबन्धानुमानान्नित्योऽयमात्मेति ॥
जन्मान्तरसमर्थकहेत्वन्तरम्
अतश्चैवं—
वीतरागजन्मादर्शनात् ॥ ३-१-२५ ॥
रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन अपरित्य
ज्यमानाः सरागा एव जन्तवो जायन्ते । न खलु लोके कश्चन तादृशो
दृश्यते प्राणी, यो जातो वीतरागश्चेति । स एष सरागो जायमानः पूर्वो
पचितां रागादिवासनामनुसरतीति सिद्धो जन्मान्तरसंबन्धः ॥
जगद्वैचित्र्यहेतुतया कर्मपरंपरासिद्धिः
II.356
जगद्वैचित्र्यकारणस्य न भौतिकत्वम्
II.357
कर्मणां शक्तिवैचित्र्यम्
कार्यकारणभावपरंपरायां नानवस्था दोषः
II.358
स्थिरस्यात्मनः आवश्यकत्वम्
आत्मानित्यत्ववचनगमनिका
II.359
जन्मान्तरज्ञानप्रयोजनम्
॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां सप्तममाह्निकम् ॥
-
पद्यते—गम्यते इति पदं—मोक्षः ॥
↩ -
भवान् परीक्षते—इत्यन्वयः ॥
↩ -
सम्यक् ज्ञातं मोक्षाय, असम्यग्वा ज्ञातं भवाय वा—इत्यन्वयः ॥
↩ -
ध्यानं—चिन्तनम् । हेयोपादेययोश्चिन्तनं हानाय, उपादानाय च ॥
↩ -
एतत्कृतं—जननमरणावृत्तिरूपप्रेत्यभावकृतम् ॥
↩ -
परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः इति योगसूत्रम् 2-76 ॥
↩ -
यद्यपि तदत्यन्तविमोक्षोऽपवर्गः न्या-सू इति आत्यन्तिकदुःखनिवृत्तिरेव मोक्ष इत्युक्तम् । परन्तु दुःखास्यन्ताभावस्य स्वतः पुरुषार्थत्वासंभवात् तद्विशिष्ट आत्मैव परमपुरुषार्थः । सूत्रं तु प्राप्ताप्राप्तविवेकन्यायेन प्रवृत्तम् ॥
↩ -
अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतिः ॥
↩ -
मारवं—मरुसंबन्धि ॥
↩ -
अहं सुखी इत्यत्रापि शरीरमेव भासत इत्याशयः ॥
↩ -
उपवर्षः पूर्वोत्तरमीमांसावृत्तिकारः । भगवतोपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्यामः इत्युद्धारः कृतः इति शाङ्करब्रह्मसूत्रभाष्यम् 3-3-53 ॥
↩ -
प्रत्येकसमुदायादिविकल्पैरसंभवादिति हेतुः ॥
↩ -
एतस्मिन् प्रत्यये प्रत्यभिज्ञायां न केवलं पूर्वज्ञानक्षणस्य, न केवलं उत्तरस्य तस्य, न द्वयोः ज्ञानक्षणयोस्सन्तानस्य च अवभासनं अस्ति । एतदेवोपपादयति अनन्तरवाक्यैः । न वास्तवः, अतिरिक्तसन्तानानङ्गीकारादिति हेतुः ॥
↩ -
प्रत्यभिज्ञाऽहं प्रत्ययः—प्रत्यभिज्ञारूपः अहंप्रत्ययः ॥
↩ -
मिथ्येति—न चासौ कायः इत्याद्युक्तहेतुनेति शेषः ॥
↩ - भाक्तः विषय इत्यर्थः ॥↩
-
आत्मा अहंप्रत्ययगम्यश्चेत्, तत्प्रत्ययविषयोऽप्यात्मा, तादृशप्रत्ययाश्रयोऽप्यात्मेति एकस्यैव कर्तृत्वकरणत्वे विरुद्धे स्याताम् ।
↩ -
तथा चात्मनः घटादिवत् पराक्त्वमेव स्यात् ॥
↩ - विषयगतः उपाधिः । स चानुपदं प्रदर्शितः ॥↩
-
न ह्यात्मनः घटावच्छिन्नत्वं, तदनवच्छिन्नत्वं च कदापि वक्तुं शक्यम् ॥
↩ -
आत्मनः—इति शेषः ॥
↩ -
अपरसाधनं—साधनान्तरानधीनप्रकाशम् ॥
↩ -
अस्वयंप्रकाशस्यात्मत्वे चैतन्याश्रयत्वे च घटस्यापि चैतन्याश्रयत्वमस्त्वित्यापादने नोत्तरं वक्तुं शक्यमित्यर्थः ॥
↩ -
स्वं प्रतीति शेषः ॥
↩ -
द्वैरूप्यं—कतृत्वं, कर्मत्वं च ॥
↩ -
संवित्—आत्मधर्मभूता ॥
↩ -
आत्मनः ज्ञानरूपत्वात्, ज्ञानस्य च सविषयत्वनियमात् ॥
↩ -
चेतयते इति क्रियाः ॥
↩ -
कर्म—घटादिः ॥
↩ -
रूपं—आकारः ॥
↩ -
न्यायभाष्यम् 3-1-15 ॥
↩ -
न इच्छन्ति—इत्यन्वयः ॥
↩ -
In the print edition there is a footnote reference, but no corresponding note.
↩ - धर्मिणी—पक्षः ॥↩
- शरीरादिषु बाधकोत्पत्तौ सत्यां इति विशेषणरहिते कार्यत्वे ॥↩
- विशेषं—प्रयोगविशेषम् ॥↩
-
शरीरस्य सर्वैरपि अनित्यत्वाङ्गीकारात् ॥
↩ -
प्रथमेति—पूर्वसंजातेत्यर्थः । दर्शनविशेषणम् ॥
↩ -
आगमिकी—वेदसिद्धा ॥
↩ -
कुत्रचित् जिज्ञासापूर्वकत्वात् ज्ञानस्य, इच्छैवादौ सूत्रकारैरुपात्तेत्यर्थः ॥
↩ - जल्पादिकथायां खलु द्वितीयहेतुप्रयोगे हेत्वन्तररूपं निग्रहस्थानम् ॥↩
- शरीरस्य क्षणिकत्वेन प्रतिसन्धानासंभवात् ॥↩
-
तद्भेदेन—कालभेदेन ॥
↩ -
सत्त्वस्य इति शेषः ॥
↩ -
स्वापरसन्तनविवेकाभावादिति हेतुः ॥
↩ -
प्रकृत्य—प्रारभ्य ॥
↩ -
सा—प्रत्यभिज्ञा । एवं च प्रत्यभिज्ञाऽप्रामाण्ये स्तम्भादेरपि स्थिरत्वं न सिद्धयेत् ॥
↩ -
अन्यथा—शरीरपरिणामाभावे ॥
↩ -
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्चिके इत्यमरः ॥
↩ -
केचित्—पीलुपाकवादिनः ॥
↩ -
पिठरपाकवादे ॥
↩ -
पूर्वस्थितसंख्यासमानसंख्यावत्वात् ऐक्यमिति न । सूक्ष्मावयवविश्लोषस्य ज्ञातुमशक्यत्वात् । तत्रावयविनाशाङ्गीकारात् ॥
↩ -
अवयविनः सच्छिद्रत्वे युक्तिमाह—दृश्यत इत्यादि ॥
↩ -
पिठरः स्थाल्युखा कुण्डम् इत्यमरः । अवयवीति यावत् ॥
↩ -
शरीरस्येति शेषः ॥
↩ -
अनुगमकतया खलु गोत्वादिसिद्धिः ॥
↩ -
तत्—शरीरम् । शरीरप्रेरणादौ शरीरान्तरानपेक्षणात् प्रायेण इति ॥
↩ -
पूतना—इति क्रिकृमिसंज्ञा ॥
↩ -
ज्ञानादेः कार्यस्य—ज्ञानादिरूपकार्यस्य ॥
↩ -
स्वतन्त्रेषु—द्रव्यरूपेषु । यदि रूपं द्रव्यवत् स्वतन्त्रं स्यात् दृष्टमेवस्पृशामि इति न स्यात् ॥
↩ -
कथितं—तुल्यव्यायातिदेशात् ॥
↩ -
सूत्रगतविकारपदस्य भाष्योक्तं विवरणं—दन्तोदकसंप्लवः इति । दन्तोदकं—लालाजलमिति यावत् ॥
↩ -
रूपादिसाक्षात्कारकरणतयैव चक्षुरादीनां सिद्धेः ॥
↩ -
इदमेव आत्मा इन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् इत्युक्तम् ॥
↩ -
प्राप्तिविसर्गै—उपादानहाने ॥
↩ -
कार्यसामान्यं करणजन्यमिति, तच्च करणं ज्ञानप्रयत्नादिमांस्तु न शरीरादिः, किन्त्वतिरिक्तः कश्चित् । स एवात्मा ॥
↩ -
तत्संगिनं—इच्छाद्वेषप्रयत्नादिमन्तम् । अशेषविशेषगुणोच्छोदो हि मोक्षः सिद्धान्ते ॥
↩ -
ज्ञानमात्रेण—न तु ज्ञानाश्रयेण ॥
↩ -
रूपविज्ञानवेदनासंज्ञासंस्काररूपपञ्चस्कन्धात्मको जीवः । तत्र विज्ञानमप्येकः ॥
↩ -
मातापितृवासनायाः पुत्रे संक्रमणम्, गुरोः ज्ञानस्य शिष्ये संक्रमणं च दृश्यते । परन्त्वत्र सहकारित्वमेव, न तूपादानत्वम् ॥
↩ -
उच्यते किल अहमेव न किञ्चिच्चेद्भयं कस्य भविष्यति इति ॥
↩ -
नैरात्म्यदर्शनं—अहमर्थक्षये सति जायमानः अनुभवः ॥
↩ -
तत्रापि किल अस्ति इति प्रतीतिस्समाना ॥
↩ -
व्यापकं—अर्थक्रियाकारित्वम् ॥
↩ -
तृतीयः राशिः—क्रममौगपद्यातिरिक्तः कल्पः ॥
↩ -
दोला—डोला, संदेहः ॥
↩ -
समर्थत्वेन इत्यादिः ॥
↩ -
उपकारस्य वस्तुस्वरूपत्वापत्येति हेतुः ॥
↩ -
कार्यं—प्रकृतं फलम् ॥
↩ -
कार्यस्यायं स्वभावः इति खलूक्तम् ॥
↩ -
वस्तुस्वरूपस्य तदानीमपि सत्त्वात् ॥
↩ -
साध्यधर्मिणि—साध्यरूपधर्मिणि ॥
↩ -
सत्त्वनित्यत्वे—अर्थक्रियाकारित्वं, स्थिरत्वं च ॥
↩ -
श्रोत्रियपक्षे—अतिरिक्तशक्त्यङ्गीकारपक्षे ॥
↩ -
एतेन नाशस्य कारणापेक्षा निराकृता ॥
↩ -
तज्जन्यः—मुद्गरादिजन्यः । भावस्य स्वरूपच्युतिः अभावः । तथा चात्रैव मुद्गरादिव्यापारः । न त्वभावोत्पत्तौ ॥
↩ -
तस्य—अभावस्य ॥
↩ -
वस्तुनः स्वरूपलाभे, तदविनाभावी विनाशः ॥
↩ -
पक्षद्वयेऽपि प्रत्यभिज्ञाया अप्रमाणत्वात् ॥
↩ -
दोषः—अन्योन्याश्रयः ॥
↩ -
स्मृतित्वानुभवत्वयोः कदापि सामानाधिकरण्यासंभवात् ॥
↩ -
इयं परिहासोक्तिः । वर्तमानमात्रविषयकत्वे क्षणिकत्वमेव हि सिद्ध्येत् ॥
↩ -
तदभावः—वर्तमानाभावः ॥
↩ -
तद्ग्राहितां—स्थिरत्वविषयकत्वम् ॥
↩ - कालद्वयविशिष्टवस्तुग्रहणे स्थिरत्वं सिद्ध्यति । तन्न संभवति । पूर्वकालविषयकस्योत्तरकालाविषयकत्वात् । उत्तरकालविषयकस्य पूर्वकालाधिकविषयकत्वात् ॥↩
- न चेष्टापत्तिः, ग्रहणस्मरणयोरवैलक्षण्यप्रसंगात् ॥↩
-
वर्तमानदिवसप्रतीतौ अनेकक्षणानां पूर्वापरभावापन्नानां एकस्मिन् दिवसे भानात् एवमुक्तम् ॥
↩ -
सर्वत्र प्रतीतिषु कालस्य विशेषणतया भानाङ्गीकारात् ॥
↩ -
निरवयवद्रव्यं किल कालः ॥
↩ -
न हि भातीत्यन्वयः ॥
↩ -
क्षणिकत्वात् ज्ञानानाम् ॥
↩ -
तस्याः—बुद्धेः चिरं स्थितिरपि न इत्यन्वयः ॥
↩ -
तदागमात्—मुद्गरादिनिपातात् ॥
↩ -
अनुपदमेव विनाशस्य हेतुज न्यत्वनिरासात् ॥
↩ -
अन्यथा—देशान्तरनयनादिना, आलोकाद्यभावेन वा ॥
↩ -
पूर्वापरेति शेषः ॥
↩ -
यदि न मन्यते—इत्यन्वयः । भवता ज्ञातमपि अन्यो जानीयात् । भवता ज्ञातमपि अन्यः न जानीयाच्च ॥
↩ -
सत्यहेमकूटहेमयोरुभयोरपि एकरूपज्ञानजनकत्वात् सत्त्वं स्यात् p. 300 ॥
↩ -
बाह्यार्थशून्यवादिनः किल ते ॥
↩ -
तथा च वस्तुनां स्थिरत्वसिद्धिः ॥
↩ -
अयमेव प्रतीत्यसमुदयवादः तदिष्टः ॥
↩ -
चित्तामोगो मनस्कारः इत्यमरः ॥
↩ -
तस्यानुपदमेव दूषितत्वात् ॥
↩ -
क्षणिकवादे नियामकत्वस्य दुर्वचत्वात् ॥
↩ -
न तु कार्यस्येति शेषः । अतश्च कार्ये सांकार्यं नापादयितुं शक्यमित्यभिमानः ॥
↩ -
करणाकरणादिविरुद्धधर्मयोगाद्धि क्षणिकत्वं साध्यते ॥
↩ -
लाक्षणिकः—तत्तदसाधारणधर्मविशेषकृतः ॥
↩ -
आत्मस्थानापन्नस्य नाशाङ्गीकारात् ॥
↩ -
निर्विशेषणकं हि ज्ञानं निर्विकल्पकम् । तथा च निर्विकल्पापेक्षयाऽतिरिक्तविषयकत्वं न स्यात् ॥
↩ -
भूयस्त्वम्—एकोपादानकानेकविज्ञानपरम्परारूपम् ॥
↩ -
बौद्धानां मन्त्रदिसिद्ध पहासोऽयम् ॥
↩ -
आत्मा—स्वरूपम् । स्वयं लब्धस्वरूपं चेत्, अनन्तरमन्यमुत्पादयेत् । अतश्चान्ततः क्षणद्वयसिद्धिरनिवार्या ॥
↩ -
पूर्वापरभावमात्रं कार्यकारणभावप्रयोजकम् ॥
↩ -
अन्यथासिद्धवस्तुषु इदं संमतम् ॥
↩ -
अन्यतरस्य नमनं अन्यतरस्योन्नमनहेतुः ॥
↩ -
अत एव—कार्यस्य सामग्रीमेलनाधीनत्वादेव ॥
↩ -
कर्मविपाकः—धर्माधर्मौ कार्यसामान्यकारणभूतौ ॥
↩ -
कृष्णात् कृष्णतरो भवती । प्रत्येकमल्पशक्तित्वेऽपि सामग्रीदशायां मिलिता शक्ततरा भवति सामग्री ॥
↩ -
विप्लवते—रिक्तसामर्थ्या भवति । अन्ततः अदृष्टविशेषस्य गलितत्वात् ॥
↩ -
भावानां स्वरूपलाभः यथा सामग्र्यधीनः, तथैव तेषां स्वरूपच्युतिरपि सामग्र्यधीना ॥
↩ -
घटः इति शेषः । यदि घटः नश्वरस्वभाववान् तर्हि कारकवैयर्थ्यम् । अनश्वरत्वे कारकाणि तदुत्पादनसामर्थ्यशून्यानि भवेयुः ॥
↩ -
भावानां—पदार्थानाम् । परापेक्षत्वमेव हेतुः । यथा घटादिः दण्डचक्राद्यपेक्षः, कदाचित् सामग्रीवैकल्यान्न भवत्यपि, एवं ध्वंसोऽपि कदाचिन्न भवत्यपि । ततश्च एकोऽपि वा घटः नित्यः स्यादित्याक्षेपः ॥
↩ -
इत्येवमित्यादि आशयोद्धाटनम् । उपहसति—अहो इत्यादि ॥
↩ -
सूर्यालोकरहितसमयेऽपि हि प्रत्यभिज्ञा भवति ॥
↩ -
उच्यतां यत्किञ्चित्कारणम्, आवश्यकत्वात् ॥
↩ -
दर्शनं—अन्वयव्यतिरेकानुभवौ ॥
↩ -
ननु तर्हि इन्द्रियजन्यं सर्वमपि प्रत्यभिज्ञा स्यादिस्यत्राह—क्वचिदित्यादि ॥
↩ -
भूतभविष्यत्त्वयोस्तु विरोधः स्पष्टः ॥
↩ -
न हि कुण्डलविशिष्टवेषेण केयूरविशिष्टत्वं संभवति ॥
↩ -
यद्यपि सिद्धान्ते युगपत्सन्निधानं न; किन्त्वेकवस्तुनि । परन्तु क्षणिकवाददृष्ट्याऽयमाक्षेपः ॥
↩ -
शतादिगणनवेलायां अन्तिममेव वस्तु इन्द्रियसन्निकृष्टम् । अथापि शतपदात्यादिज्ञानं प्रत्यक्षमेवेति सर्वे वदन्ति । तद्वदिहापि ॥
↩ -
एकत्रैव—हठात् एकक्षणे ॥
↩ -
अनेकव्यक्त्यनुगतसामान्यग्रहणन्यायेनैव, अनेककालानुगतव्यक्तेरपि ग्रहण मुपपादनीयमिति भावः ॥
↩ -
तथाचार्थजन्यत्वात्तस्य प्रत्यक्षत्वम् ॥
↩ -
इदमत्र तत्त्वम्—लौकिकसन्निकर्षद्वयजन्यमेकं ज्ञानमिव, संस्कार-इन्द्रियजन्यं सुरभि कुसुमम् इत्यादिज्ञानमपि सर्वसंमतम् । कुसुमं तु चाक्षुषम्, सौरभं तु घ्राणग्राह्यम् । इन्द्रियद्वयं तु युगपन्न प्रसरति । संस्कारस्य इन्द्रियसहकारित्वात् निरंशत्वाच्च प्रत्यभिज्ञायाः प्रत्यक्षमेव तत् । अथवा संस्कारजन्यस्मृत्युपस्थापितं विशेषणं भासते । इयमेव ज्ञानलक्षणेत्युच्यते । तथा च लौकिकालौकिकसन्निकर्षद्वय जन्यं ज्ञानं प्रत्यभिज्ञेति न दोषः । ग्रन्थकारस्तु अलौकिकं सन्निकर्ष नाङ्गीकरोतीति मानसं तदिति वदति । मानसत्वे बाह्यत्वेनानुभवस्यास्वारस्यापत्त्या अनन्तरकालिकैः अलौकिकस्सन्निकर्षः अङ्गीक्रियत इति ज्ञेयम् ॥
↩ -
मनसः बाह्ये विषयेऽप्रवृत्त्येति हेतुः । मनः बाह्ये नैव प्रवर्तत इति न । स्वातन्त्र्येण न प्रवर्तते इत्येव ॥
↩ -
लूनपुनर्जातकेशादीत्यर्थः ॥
↩ -
प्रत्यभिज्ञा—स एवायं गकारः इत्यादीति शेषः ॥
↩ -
अनुमानमिथ्यात्वाधीनं न प्रत्यक्षप्रामाण्यम्, किन्तु स्वकारणादेव ॥
↩ -
अयं घटः इति खलु निषयाभिमुखोऽनुभवः । स च पूर्वं विषयस्य ज्ञानाभिमुखत्वकृतः । विषयस्य ज्ञानाभिमुख्यमेव विषयीकरणम् । अतः अन्ततः क्षणद्वयावस्थानं ज्ञानानामावश्यकम् ॥
↩ -
अन्ततः ज्ञानस्य द्विक्षणावस्थानमावश्मकमित्युक्तम् । घटादौ तु वैलक्षण्यात् स्थित्वस्य सिद्धिः ॥
↩ -
विग्रहः—स्वरूपम् ॥
↩ -
न हि समनन्तरे क्षणे सर्वं नङ्क्ष्यतीति कस्यापि प्रतीतिः ॥
↩ -
कालस्यातीन्द्रियत्वेन अंशतस्सत्यत्वात् ॥
↩ -
अनिमेषदृष्टिः—परमात्मा ॥
↩ -
तत्तद्वस्तुदृष्टयेति शेषः । तावन्निमेषाः दिनानि वा यत् एवं वर्तते, तावनेक एव सः कालस्तस्य भवति ॥
↩ -
ज्ञानं तु अनुव्यवसायेन मानसेन गृह्यते ॥
↩ -
सः—विषयः । इदमत्र तत्त्वम्—कालः अतीन्द्रियः, नित्यः, व्यापकश्च । परन्तु उपाधिवशात्तत्तद्व्यवहारः । उपाधीनां घटादीनां प्रत्यक्षत्वात् प्रत्यक्षत्वेन व्यवहारः । जन्यमात्रत्य कालोपाधित्वात्, घटः यावत्कालं वर्तते, तावान् एकः घटकाल इत्युच्यते । क्षणोपाधिदृष्ट्या घटस्य नानाकालसंबन्धेऽपि घटस्य स्वकालदृष्ट्या न नानाकालसंबन्धः, किन्तु एक एव स काल इति न कश्चन विरोधः ॥
↩ -
विनाशकारणानि—असमवायिकारणनाशादीनि ॥
↩ -
अतश्च सन्तानिनः अतिरिक्तत्वे, सत्यत्वे च स्थिरत्वसिद्धिः । अयमर्थः समनन्तरश्लोके स्पष्टः ॥
↩ -
कथञ्चित्कर्मानुवृत्तावपि सुखदुःखानुभवस्यान्तिमक्षण एव संभवेन, अन्यः कर्ता, अन्यो भोक्ता इत्यनिवार्यमेव ॥
↩ -
कललं—गर्भपिण्डावस्थाभेदः ॥
↩ -
अन्यथा घटादीनामपि तथैवानादित्वं स्यात् ॥
↩ -
आतिवाहिकदेहः—अन्तराभवदेहः ॥
↩ -
कौरुकुची—निर्वक्तुमशक्यः उद्वेगविशेषः । शब्दानुकरणमिदम् ॥
↩ -
सिद्धान्ते आकाशस्य तुच्छत्वानङ्गीकारात्, विशिष्टरूपेण विकारित्वेऽपि स्वरूपप्रच्युतेरभावाच्च न हानिः ॥
↩ -
तथोक्तं भट्टेन—विक्रियामात्रवाचित्वे न युच्छेदोऽस्ति तावता इति ॥
↩ -
नित्योऽप्यात्मा सुखदुःखभोगे तद्धेतुभूतं कर्म न हि विमृशति । अतः किं लाभ इत्याक्षेपः । विमृशत्येव, कार्यसामान्यस्य सहेतुकत्वज्ञानादिति समाधानम् ॥
↩ -
अनेन—पूर्वोक्तज्ञानेन । कार्यस्य निरोद्धुमशक्यत्वादिति हेतुः । उत्तरस्वप्रवृत्तिशिक्षणं भविष्यतीति न वैफल्यमिति सारम् ॥
↩ -
यावच्छरीरमवस्थितिरङ्गीकृता चेत्, तेनैव न्यायेन निस्यत्वमिति भवेदेव ॥
↩ -
शकुनिः—मांसादनः गृघ्रादिः ॥
↩ -
तत्—शरीरम् ॥
↩ -
औपाधिकपरिमितत्वपरमित्यर्थः । अन्यथा परमात्मनोऽपि तथाश्रवणात् विभुत्वं न स्यात् ॥
↩ -
विभोश्चलनाद्यसंभवादिति हेतुः ॥
↩ -
निद्रादिष्वपीति शेषः ॥
↩ -
सुषुप्त्यादौ इति शेषः ॥
↩ -
अन्यथा मृदः कुतो न वृश्चिकोत्पत्तिरिति प्रश्नः दुरुत्तरः स्यात् ॥
↩ -
एतज्जन्मन्यप्यनुभूतं सर्वं न हि स्मर्यते । अदृष्टमेवात्र नियामकम् ॥
↩ -
जन्मान्तरसिद्धेरिति शेषः ॥
↩ -
सेवा—गुरुसेवा । गुरुसेवादीनां समानत्वेऽपि शिष्ययोः ज्ञानसंपत्तौ दृश्यते तारतम्यम् ॥
↩ -
अत्तश्चादृष्टस्य भूतधर्मत्वे तस्य प्रत्यक्षत्वापत्तिः ॥
↩ -
साध्वीयमपदाग्यां कारणान्तरनिराकरणम् ॥
↩ -
अनवस्थाप्रसङ्गो हेतुः । यत्र कुत्रचित् स्वभाववादस्यावश्यकत्वादादावेव तच्छरणीक्रियतामिति भावः । समाधत्ते—कर्मणामित्यादिना ॥
↩ -
सा—विचित्रफलशक्तता । आयुर्वेददास्त्रवाक्येषु हरीतक्यादौ सा दृष्टा ॥
↩ -
संस्कारः—अतिशयः ॥
↩ -
बृहदारण्यकोपनिषदि ६ अध्याये द्रष्टव्यम् ॥
↩ -
अविनाशी वा अरे अयमात्मा इति श्रतिः ॥
↩ -
परलोकपदेन एतल्लोकमपि क्रोडीकर्तुं व्याख्याति—देहेत्यादि ॥
↩ -
मांस्पाकाः—मांसपाकाः ॥
↩