३. परार्थानुमानपरिच्छेदः
१. दिग्नागीयं परार्थानुमान-लक्षणम्
१. स्वदृष्टग्रहणफलम्
स्वार्थनुमानानन्तरं परार्थानुमानमुच्यते । स्वार्थानुमानपूर्व्वकत्वात्परार्थानुमानस्य ।
तत्र परार्थानुमानन्तु स्वद्ष्टार्थप्रकाशनम् । स्वेन दृष्टं स्वदृष्टम्वादिप्रतिवादिभ्यां प्रतिपाद्य
प्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः । यदि प्राश्निकास्तेषामपि तेषामधिकारात् । विप्रतिपत्ति
निरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोर्थः परं प्रति । तच्च कायवाग्वि
ज्ञप्तिरूपं । तत्र स्वदृष्टोऽर्थस्त्ररूपं लिङ्गम् ।
ननु त्रिरूपं लिङ्गमिति च कुतः । स्वदृष्टार्थग्रहणस्य सर्व्वार्थप्रतिपादनसम्भवात् ।
ततोनुमेयस्य परोक्षरूपस्य सकलस्य प्रकाशनं परं प्रत्यनुमानं परार्थमिति प्राप्तम् ।
अत्रोच्यते ।
प्रकाशितो ह्यसावुच्यते यत्र परस्य संप्रतिपत्तिः । अत एव प्रकर्षाभिधायी प्रशब्दः ।
प्रमाणप्रतिपन्ने च परस्य संप्रतिपत्तिः । यदि चानुमेयमपि प्रमाणप्रतिपन्नं तदाऽविवाद1108 एव
त्रिरूपलिङ्गं प्रकाशनद्वारेण तु विवादास्पदीभूतानुमेयप्रतिपत्तिरिति न वचनस्य व्यर्थता ।
ततोनुमानमुदेतीति तदप्यनुमानमुपचारात् । यद्यनुमानोत्पादनाद्वचनमनुमानं प्रत्यक्षोत्पादना
त्प्रत्यक्षमपि परार्थं1109 भवेत् । नेदं चतुरस्त्रं ।
न वचनमात्रादध्यक्षं परस्योदेति ।
ननु पश्य मृगो धावतीति दृश्यते दर्शनोदयः । न । तत्राप्यनुमानस्यानन्तरत्वात् ।
तथा हि(।)
अभिमुखीभव मृगदर्शन इति नियोगवचनमेतत् । अभिमुखीभावश्च यथा मम तथा
तवापि । तत एवमभिमुखीभवने हेतूनां व्यापार इति स्मरन् प्रवर्तत इत्यनुमानमेव । ततो
नुमानात्प्रत्यक्षसम्भवमालोच्य प्रवर्त्तते । एवन्तर्हि प्रत्यक्षविषये प्रवर्तते सम्भवानुमानं स्वभाव
हेतुः । कार्यहेतुर्न वचनात्प्रकाशते३ साक्षात् (।) तथाहि ।
ततः त्रिरुपलिङ्गाख्यानं परार्थानुमानमिति प्रमाणसमुच्चयवृत्तिर्व्विरुध्यते ।
नेदमुपपन्नं । यतः(।)
उक्तमेतद् (।)
विदुषां वाच्यो हेतुरेव हि केवलः ।
तथा प्रतिबन्धोपि केवल इत्यपि द्रष्टव्यम् । अथवा तत्रापि भ्रान्तिव्युदासार्थं धूमो
यमिति परवचनमपेक्ष्यत१ एव । तथाहि (।)
अयमर्थो वचसः । न तत्र प्रत्यक्ष दृष्टोर्थोऽन्यस्मै वचनेन ख्याप्यतेऽपि1111 त्वनुमानमेव
तत्परार्थ तत्कारणत्वात्1112 । धूम एवायन्नान्यथा द्रष्टव्यं यः प्राग् धूम उपलब्धस्ततोन्यथा
न भवत्ययं । सामर्थ्यादिदमुक्तम्भवति तल्लक्षणत्वात् । तस्मादनुमानवृत्तमेवे शब्देन
ख्याप्यते । न कदाचित् प्रत्यक्षे शब्दस्य व्यापारः । अत्यन्ताभ्यासात्तु नानुमानप्रपञ्चन
मिति लोकस्यान्यथा प्रतिभाति । तस्माद्वचनमनुमानकारणतामेव स्वीकर्त्तुमलं । स्वभावानु
मानमेव तर्हि वचनं । तत्कारणत्वान्न कारणानुमानमत्र धूम इति । स्वभावानुमा
नत्वाद्वचनस्य ।
तदसत् । स्वार्थानुमानेपि हि धूमरूपे स्वभावहेतुः प्रती1113 तोऽन्तराले । तत्रापि
न भ्रान्तिनिवृत्तिरस्ति स्वभावहेतोर्व्विरहाद्विवेक्तुः । अत्राह ।
स्वार्थानुमाने कार्यहेतुरस्त्येवेति एतावति विवक्षिते व्यवधानोपदर्शनं क्वोपयोगि ।
परार्थानुमाने तु कार्यहेतुरेव न सम्भवति । साक्षात्स्वभावहेतौ धूमादिवचनस्य व्यापारात् ।
ततोस्त्यनुमानेन परार्थमनुमानं ।
नैतदस्ति ।
अथवा यत्र भ्रान्तिर्न्नास्ति तत्र स्वार्थानुमानेऽव्यवहित एव कार्यहेतुः । परार्थानुमा
नेपि सैव गतिरिति साक्षादेवास्त्यनुमानस्य शब्दादुदयः । भ्रान्त्या विना किं वचनेनेप्ति
चेति । प्रतिबन्धप्रदर्शनायेति न दोषः । त्रिरूपलिङ्गाख्यानन्तु यथासम्भवमिति संप्रत्ये
वोक्तं । किञ्च ।
य आह । कथं प्रत्यक्षानुमानयोरेव प्रामाण्यम्वचनस्यापि व्यवहारहेतुत्वान्न वचन
मन्तरेण परिपूर्ण्णो लोकव्यवहारः ।
अत्रोच्यते ।
परिदृष्टपूर्व्वमर्थ स्मृत्वापि प्रत्यक्षादिकमन्तरेण किन्न प्रवर्तते । किमिदानीं स्मरणमपि
प्रमाणं । अथ तदप्रमाणमेव । वचनमपि तथार्थं न प्रमाणमिति समानं । यत्र तु प्रमाण
न्तत्रानुमानकारणत्वेनैव नान्यथा । एतावन्मात्रमत्र विवक्षितं न तु सर्व्व वचनं सर्व्वानुमान
कारणं वचनस्यानुमानत्वमेव न स्वातन्त्र्येण प्रमाणत्वं । सर्व्वानुमानत्वप्रदिपादनन्तु नोप
योगि । तस्मात् त्रिरूपलिङ्गाख्यानमेव वचनं ।
वेदवचनस्य तर्हि कथं प्रमाणता । तत्रापि प्रत्यक्षानुमानार्थकथनादेव प्रमाणता ।
द्वादश मासा इत्यादौ । अन्यत्राप्रमाणतैव यथा पुरुषवचसि । अपौरुषेयत्वादेव प्रमाणतेति
चेत् । न(।) अप्रत्ययत्वात् । न हि वचनमात्रात्कस्यचित् संप्रत्ययः । यदि प्रत्यक्षवद्वेदः
किं न सर्व्वः प्रत्येति । क्षणिकत्वाद्यनुमानादपि न सर्व्वः प्रत्येति । भ्रान्त्या चेत् । अत्रापि
भ्रान्तिः । तज्जातीयानुमानेन सप्रत्ययस्थानेन निवर्त्त्यतेऽनुमाने । वेदे तु न तज्जातीयवचन
त्वेनेत्यसमानमेतत्
अथवा । अयमर्थः । वचनं त्रिरूपलिङ्गाख्यानरूपमेव परार्थानुमानं । न वेदवचनं ।
तस्य त्रैरूप्याभावात् । तस्य हि सत्त्यत्वान्वयो न दृष्टो न पक्षधर्मत्वं । तथा हि ।
अपौरुषेयत्वेनासत्त्यत्वाद् व्याख्या (?) तं1116 सत्तयन्वेन तु नास्त्यन्वयः । अथ द्वादश मासा इत्य
न्वयः । अत्रोच्यते ।
कदाचिदपौरुषेयमध्ये केनचिदेतत् पातितं भवेत् । श्रूयते च क्वचिच्छाखान्तरे
कृतत्वं । स्मरणे सति तथा व्यवहार इति चेत् । न(।) अप्रत्ययत्वात् । अन्यत्रापि
प्रसङ्गात् । एतच्च सकलं प्रतिपादितमेव प्रागिति न प्रपञ्चितमिहेत्यास्तां ।
यदि त्रिरूपं लिङ्गमेव स्वदृष्टशब्देनोच्यते । त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति
वक्तव्यं । किं स्वदृष्टार्थग्रहणेन । नान्यार्थत्वात् । तथा हि ।
नहि परार्थानुमाने स्वप्रतिपत्यधिकारः (।) परस्यैव प्रतिपाद्यत्वात् । परस्य चेत्तत्प्रसिद्धं
लिङ्गं परः प्रतिपद्यत एव । वादिप्रतिपत्त्या विना कथं परः प्रतिपत्तिमानिति न वाच्यं ।
न तावदसौ वादिनोऽत्र प्रतिपत्तिरिति संप्रत्येति । अपि तु मया एवमेव प्रतिपन्नमिति
स्वप्रत्ययात् । अनेन तु ज्ञात्वा प्रकाशितमन्यथा वेति किमनेन विचारेणातिरिच्यमानप्रपञ्चेन ।
अतोभिप्रायात् स्वयमप्रतीतमपि परैः प्रतीतमिष्यते लिङगम् । तस्याभिप्रायस्य प्रतिक्षेपार्थ
स्वदृष्टवचनं । यद्येवं स्वेनैव दृष्टमिति परदृष्टव्यच्छेदादनर्थान्तरमापतितं । न(।) उभयदृष्ट
प्रतिपादनार्थत्वात् । यथावस्थितलक्षणमेतत् । तेन च विप्रतिपत्तिरपि निराकृता ।
अत1117 दर्थमेवेति स्यात् न(।) यदर्थश्चायमारम्भः स च शब्दसमुच्िचत इति युक्तं । न हि
स्वयमप्रतीतं परस्य प्रतीतमिति शक्यं वक्तुं ।
२. अनुमाने नागमप्रामाण्यम्
ननु परस्य प्रतीतं तदस्तु । परेण तु प्रतिपन्नमिति परिज्ञानं नोपयोगि । स्वप्रतीति
मात्रकेण परस्य परिसमाप्तार्थत्वात् । कथन्तर्हि स्वयमज्ञातस्योपन्यासः । परप्रसिद्ध्या चेत् ।
परस्य प्रसिद्धमिति तदेतर्ह्यायातं । ततः स्वयमप्रतीतेः कथमेतत् । नहि परस्य प्रतीति
मर्व्वाग्दर्शी प्रत्यक्षयति । अनुमानमपि स्वप्रतीतिमपेक्षते । तेन परप्रतीतमिति निश्चितं
स्वप्रतीतमपि । अथागमात्परेण प्रतिपन्नं स्वयमपि तत् प्रतिपन्नमेव । किन्तु तस्यागमस्य
वादिनाऽनभ्युपगमान्न स्वप्रतिपन्नमिति व्यपदेशः । तेनागमात् (यत्) परेण प्रतिपन्नं न स्वयन्तदपि
साधनमेव । अत्रोच्यते ।
स आगमः प्रमाणमप्रमाणम्वा । प्रमाणञ्चेदुभयसिद्धत्वं । अन्यप्रमाणदृष्टवत् ।
अप्रमाणत्वे न कस्य चिदपि । अभ्युपगमात्परस्यैव सिद्धमिति चित् । न(।) अनुमानविषयेऽ
भ्युपगमेनागमः प्रमाणम् । परीक्षितस्याभ्युपगमात् । प्रत्यक्षानुमानाविषये च प्रमाणं न
तद्विषये । सर्वत्र प्रामाण्ये किमनुमानेन वचनमात्रेणार्थसिद्धेः । तथा हि । अचेतना(ः)
सुखादय उत्पत्तेरनित्यत्वाद्वा रूपादिवदिति सांख्यस्य परप्रसिद्धमभिमतं । न स्वयं सांख्यस्य
उत्पत्तिमत्त्वमनित्त्यत्वम्वा प्रसिद्धं । तत्र च यदि वचनप्रामाण्यात्प्रसिद्धिः सांख्यवचनमपि
प्रमाणमेवेति तत एवाचेतनत्वं बुद्धिसुखादीनां प्रसिद्धं किमनुमानेन । अथानित्त्यत्वादिसाधनं
बौद्धं वचस्तदा तेन बुद्ध्यादेः सचेतनत्वं सिद्धमिति नानुमानेन विपर्ययप्रसिद्धिरिति
व्यर्थकमेवानुमानं ।
अथानुमानस्यापि प्रामाण्यात्तद्विपर्ययस्य सिद्धिस्तथा सति न प्रमाणमित्याह ।
यदैवानुमानेन विपर्ययसाधनारम्भस्तदा तद्वचनमप्रमाणमेव । परीक्षाक्षमत्वात् ।
अभ्युपगमस्य (अपि) शिथिलीभावात् । अभ्युगमकृतप्रमाणभावे हि स आगमस्तस्य शैथिल्ये
तस्य प्रामाण्यमपि तथा भवेत् । ततस्तत्प्रसिद्धहेतुशैथिल्यात्साध्यसिद्धेरपि शैथिल्यं । न खलु
तदधीनसर्व्वात्मकं तन्नानुवर्त्ततेऽतदधीनत्वप्रसङ्गात् । हेतुसिद्धौ प्रमाणं न चेतनत्वस्येति
चेत् । न (।) क्वचिद् व्यभिचारदर्शनेन सर्व्वत्रानाश्वासप्रसङ्गात् ।
अथ प्रमाणसम्वादी स वचनैकदेशस्तदा तर्हि स हेतुरुभयवादिप्रसिद्धिमध्यासीत् ।
अथ प्रमाणप्रसिद्धमपि प्रमाणवृत्तानभिज्ञत्वात्परप्रसिद्धमेव सांख्यस्य ।
तदप्ययुक्तं । एवं हि स सांख्यः स्वकौपीनमेव विवृणुयात् तथापि को दोषः ।
नहि हेतुं साधयितुमशक्त इति साध्यसाधनेपि तस्याशक्तिः । न तावत्तद्धेतोः(स्व)
प्रतिपन्नसाध्यः स्वसिद्धहेतुसद्भावात् । अथासौ निर्मुखयितुं शक्य इति प्रौढवादी ।
तदप्ययुक्तं । सिद्धो हि हेतुः साध्यं साधयितुं किमपरेण (।) तथाहि ।
साध्यवद्धेतुरपि मयैव साधयितव्य इति किमियं राजाज्ञा । नहि सर्व्वाज्ञः प्रतिपा
दयितुं शक्यः । अथ स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया साधनमुच्यत इति न्याया
दयुक्तमेतत् ।
तदपि न सम्यक् । तथा हि ।
निश्चयमात्रेण हि परस्यार्थिता न तु तत्रापरेणानुपयोगिना विशेषणेन । न ह्यनुपयोगि
विशेषणं प्रेक्षावताभ्युपगम्यते ।
अत्रोच्यते ।
न मयायम्वञ्चितः संप्रतिपत्तिरेवास्येति स्वयमप्रतियतः कथं प्रतीतिः । अथापि स्यात्
(।) किमनेन प्रतिपत्तिमात्रकं परस्य भवतु तावता चरितार्थं वादिवचनमिति क इवात्र दोषः ।
एवन्तर्हि इदमपि भवेदुत्तरं ।
यं कञ्चित्साधनाभासं प्रपञ्चेनामिधाय मया त्वं प्रतिपादित इति यदा ब्रवीति तदा
तस्य किमुत्तरम्वक्तव्यं । तत्र दूषणं वक्तव्यमिति चेत् । न(।) दूषणेन वादिनो प्रतिपत्तिर्व्वि
धातव्या । स च वादी तदेदमुत्तरं दद्यान्मम प्रतिपत्त्या किम्भवतः प्रयोजनमिति प्रमाप्येवम
प्रतिपत्तिरिति चेत् ब्रूयात् । परस्मै तर्हि दूषणन्न निवेदनीयम् । अप्रतिपत्तिर्ममात्रेत्येतावदेव
वक्तव्यम् । न सोपपत्तिकाऽप्रतिपत्तिरिति दर्शनार्थं दूषणमपि वक्तव्यमेव । एवन्तर्हि ।
यथा ममात्रैवं प्रतिपत्त्यभाव इति सोपपत्तिकं प्रतिवादिना कथयितव्यं । तथा वादि
नापि सोपपत्तिकं साधनमन्यथा यथा ममात्राप्रतिपत्तिस्तथा परस्यापि कदाचिदिति शङ्का
नापगच्छेत् । नहि परार्थवृत्तिः परार्थप्रसिद्धिनिःश्रयमकृत्वा परितोषभागी । न च विजि
गीषुतामात्रेण पण्डिताः प्रवर्त्तन्ते शास्त्राणि वा तदर्थानि तत्त्वावतारार्थत्वात् । तस्मात्
स्वपप्रतिपन्न एवं भवत्यनेन प्रतिपन्नमेतत् अप्रतिपन्नं1118 त्वस्यासत्त्यवचनमेव स्वप्रतिपत्तिमन्तरेण
तु यदि परो नाभ्युपगच्छेत् न प्रतिपादयिता वादी स्यात् । को हि भङ्गमात्मन इच्छेत् ।
स्वप्रतीते तु प्रमाणेनानभ्युपगमेपि प्रतीयतेऽसत्त्यवादिता परस्य ।
अथ स्वप्रतीतेपि परेण प्रतिपन्नमिति कथं प्रतिपत्तिः । यदि नाम प्रतिवादिनो प्रतीतिः
प्राश्निकाः प्रत्येष्यन्ति । प्राश्निकैः प्रतिपन्नं तेन यदि न प्रतीयते तदा तस्य सामग्री नास्ति न
वादिनो दोषः ।
नान्धाय दुग्धाकथने प्रतिपादकताक्षयः । चक्षुर्न्न वादिना देयं केनचित्प्रतिवादिने ।। २१।।
सितं दुग्धमिति कथने यदि न प्रत्येति चक्षुर्वैकल्यात् प्रतिवादिन एवान्धस्य दोषः । कथमत्र
दोषः प्रतिपादयितुः । प्राश्निकैः प्रतिपन्नं भवतु तावता चरितार्थम्वादिवचनम् । अथाप्युच्येत ।
नहि स्वपरितोषमात्रकं परार्थकारिणामभिमतं (।) परव्यामोहव्यावर्त्तनं तु तेषाम
र्थोऽभिमतः । तत्र (प्रतिवादि) प्रतिपादनाया बद्धपरिकरः प्राश्निकमात्रप्रतिपादनेन परितुष्य
तीति क्वास्थाः क्व निपतिताः । क्व प्रतिवादिप्रतिपादनायारम्भः क्वप्राश्निकमात्रप्रतिपादनेन
परिसमाप्तिः । किञ्च ।
अत्रोच्यते ।
करुणावानपि योग्ये विधातुमर्थं विभवति1119 ।
अयोग्ये हि शक्तिर्व्याघातो न करुणायाः । न ह्यसावकारुणिकं इति प्रतीतिः ।
प्राश्निकानान्तु पक्षपातित्वे प्रतिवादितैवेत्यवश्यं प्राश्निकान्तरापेक्षणम् । न च सर्व एव
विप्रवदन्ते प्रयोजनाभावात् परस्परापेक्षतो वा । अथ तेषामपि परस्परं वादिप्रतिवादिता ।
एवं सति सकलव्यवहारोच्छेदः । न च दृश्यते । तस्मा(त्) प्राश्निकप्रतिबोधनमेव वाद
परिसमाप्तिः । इदं पुनरकृपत्वमेव यदग्रहणादिविधानेन पराजयः परेषाम् । तस्मात्स्व
प्रतिपत्तिं प्राश्निकादिभ्यो निवेद्य प्रतिपादनशक्तिरात्मसात्कर्त्तव्या । तस्मादागमसिद्धमेव
न । परसिद्धं ।
ननु सोप्यागमो यदा परेण प्रमाण्येनाभ्युपगतः तदा तत्सिद्धपक्षधर्मतः स्वयमसौ प्रति
पद्यत एव । न बाधितैकदेशस्य तथाभ्युपगमायोगात् । अत एवाह ।
यद्यप्रमाणमनभ्युपगतश्च परेण तदा कस्य क आगमः । यद्यनभ्युप(ग) मेपि तदाग
मवत्ता सां ख्यस्यापीत्युभयसिद्धिरेव । अथानभ्युपगमान्नैवं न कस्यचिदपि तदागमवत्तेति
न कस्यचित्सिद्धं । आगमोप्यसौ नैव भवति प्रमाणेन बाधनादागमाभासः स भवेत् ।
प्रमाणाभासतः प्रतिपत्तौ व्यामूढ एवासाविति न व्यामोहनिवर्तनं परस्य तेनेति न वादी
भवेत् । प्रमाणाभासतामजानानः परो न व्यामूढः कथं । न च न जानाति । तथाहि ।
यदैवासौ तद्विरुद्धमभ्यूपगच्छति तदैव तदागमस्यासत्त्यतामपि प्रतिबुध्यते तन्नान्तरी
यकत्वाद्विरुद्धाभ्युपगमस्य । मूढत्वाददोष इति चेत् । न मूढतायामप्रतिपादकत्वमित्युक्तं ।
व्यामोहमाधायासावपसारित इति सिद्धं वादिनः कार्यं । न । विषादिदानस्यापि प्रसङ्गात् ।
वाग्मितया व्यामोहनं वादित्वमिति चेत् । न (।) परिशुद्धवस्तु परिस्फुटप्रत्यायनस्य
वाग्मित्वात् । तथा हि ।
जिगीषुणापसारयितव्य एव यथाकथञ्चित्पर इति चेत् । न (।) यथाकथञ्चिदप
सारणेनोपहासास्पदताप्राप्तेः । यदा तर्हि परिशुद्धवस्तुवचनेनापि1120
परव्यामोहस्तथा
कथम्वादितोदिता । प्राश्निकप्रतिपादनेन पर्याप्तत्वात् (।) नान्धस्यादर्शने सवितुरप्रकाश
कता । तथाहि ।
यदि परिस्फुटवचनादपि न प्रत्येपि कास्य प्रतिवादित्वे श्रद्धा । सिद्धमात्रिकापाठ
कोपाध्यायशालाप्रवेश एव तस्य1121
युक्तः । अथापि स्यान्न विदग्धेष्वेवंभूत1122
साधनोपन्यासः ।
अविदग्धप्रतिवादिनं प्रत्युपन्यासात् । यतः सोपि दूषणमसम्बद्धमेव दद्यात् । तथा हि ।
मूल्ये मूल्ये तथाभूत एव पुटिकाबन्धः । तदिदं तौतोपाख्यानमायातं । ममानेन भिक्षा
पात्रे मद्यपानं कृतं मया त्वस्य1123
मूत्रपानं कर्तव्यम् । अपि च ।
नहि स्वयं साध्यं परप्रसिद्धसाधनादवगन्तं युक्तं । ततः स्वसिद्धेन साधनेनास्य तदर्थ
साधनकारिणा भाव्यं1124 । अस्त्येव तदिति चेत् । एवं तर्हि ।
तदेव स्वप्रसिद्धिनिमित्तं साधनं किन्नोपन्यस्तम् । किमपरेणाकाशचर्वणप्रयासेन ।
नहि परिस्फुटस्वरूपे सम्भवति हेतौ कष्टकल्पनाप्रयासः साधीयान् । आगमात् सांख्यस्य
तत्सिद्धमिति न स्वप्रतीतसाधनोपन्यासः ।
ननु स आगमः परस्यापि साधक एव । न । परं प्रत्यप्रमाणत्वात् । अप्रमाणात्
स्वयमपि कथं प्रतीतिः तं प्रति प्रमाणत्वात् । यदि प्रमाणं किन्न सर्व्वस्य । अभ्युपगमा-
474
भावात् । सांख्यस्यापि कथमस्मादभ्युपगमः । तेन परीक्षितत्वात्1126 । यद्येवं परस्यापि
स्यात् । यतः ।
यथा युक्त्या परीक्षित आगमः सांख्यस्य प्रमाणतयाभिमतः । बौद्धस्यापि किमसौ न
युक्तिः । तेनानभ्युपगमादिति चेत् । एवन्तर्हि अनित्यत्त्वादचेतना इत्यपि युक्तिं कथमभ्युप
गच्छेत् । न्यायप्राप्तमवश्यमभ्युपगन्तव्यमिति समानं शास्त्रोपगमेपि । तथा चोभयसिद्धे
सम्भवति साधके1128 कः साधनान्तरोपन्यासप्रयासमात्मनो विदधीत । योगिगम्योयमर्थः तेन
परः साधनेन येन केन चि1129त्प्रत्याय्यः ।
ननु योगिगम्यमेतदिति परोपि स्वसाध्ये वक्तुं समर्थ एव । न च तद्योगिनि न
प्रमाणमिति शक्यं । तथा हि ।
नहि योगी कश्चित् स्वभावसिद्ध आस्ते प्रमाणाभावात् । तथा च प्रत्यपादि प्राक् ।
अनित्त्येप्यप्रमाणतेति । तस्मात् प्राकृतस्य सतः पश्चादुपायानुष्ठानाद् योगिता न स्वस्ति
साधनेन । तथा च । यैः साधनैः तत्साधनोपायप्रतिपत्तिस्तदपायानुष्ठानादक्षसम्भवः
तदर्थप्रतिपत्तिरूपं प्रत्यक्षमेव (उक्त) अथवा । तादृक् प्रतिपत्तिसाधनमुक्तं । तानि तत्साध
नान्यर्थस्योपायभूतस्य तदक्षसाधनस्य शक्तेः । सामर्थ्यस्य ज्ञाने समर्थान्येव । तद्योगि
प्रतिपन्नार्थोपगमे ततः किमसत्साधनोपन्यासेन । यथा सौगतैर्योगिसाधनमुक्तं तथा परैरपि
वक्तुं युक्तं । अथ योगिसम्भवद्वारेणापि न तत्साधनमुपादातुं शक्यं । तदाऽवचनमेवात्र
प्राप्तं । यतः ।
योह्यर्थः साधनेनानुगन्तुं शक्यः सामान्येनैव सामान्यविशेषेण वा । तत्र साध्य
साधनचिन्ता क्रियेत । तत्र सामान्येन चिन्ता । योगी तावत्सम्भवत्यस्माकमिति । तेन
दृष्टोयमर्थ इतीदमपि (सं)भवति । अथवायमेवार्थः सम्भवतीति विशेषेण । ये तु पुनः
सर्व्वथाऽननुगमेन सामान्येनापि विषयीकर्तुमशक्यास्तथाभूतेषु वस्तुषु न काचित्साध्यसाधना
धिकरणा चिन्ता । आस्तान्तावत्प्रमाणचिन्ता । आगमैकसमधिगम्योप्यसौ नार्थः ततस्तत्र
प्रमाणमवतारयन् प्रमाणविषयानभिज्ञतामेवात्मनो दुरात्मा प्रकाशयति ।
अथ यावदसौ न व्युत्पत्तिमान् तावत्साधनाभासतां न जानाति । ततस्तदभिप्रायात्सा
धनमेव । यदा तु साधनमेतन्न भवतीति प्रतिबुध्यते तदा साधनन्न भविष्यतीति क इवात्र दोषः ।
तदप्यसद्यतः ।
475पुरुषाभिप्रायमात्रं हि हेतावप्यहेतुतान्दद्यादहेतावपि हेतुतामिति हेतुतदाभासव्यवस्था
न वास्तवी भवेत् । भवन्ती वा पुंसामभिप्रायमपहस्तयति । तस्मान्न परोपगतं साधनं ।
अपि चापरीक्षितादागमाज्ज्ञानमात्रमेवोत्पत्तिमन्न वस्तुनिश्चयः । न च ज्ञानमात्राद्वस्तु
सिध्यति । यतः ।
सन्नेवार्थोन्यस्य साधको नासन् । असतः सिद्धिरित्यहेतुकता । असति ज्ञानमस्ति
ततः सिद्धिरिति चेत् । तदसत्त्वे तस्य तज्ज्ञानमिति कुतः । ज्ञानमेव साक्षात्साधकमिति
चेत् । न (।) प्रत्यक्षत्वप्रसङ्गात् । अतो नासति ज्ञानात्सिद्धिः ।
नन्वस्ति तावज्ज्ञानमात्रादपि गतिर्यथा कथञ्चिदारोपितार्थात् । न । सवस्तुकस्या
रोपस्य वस्तुद्वारेणैव गतिः । यदि तु गतिरप्यसौ वस्तुभूतं लिङ्गम्विना तदा गत्याभास
एवासौ । हेत्वाभासादुदयात् ।
अपि च । स्वार्थानुमानपरिच्छेदे निर्ण्णीतमेतत् । लिङ्गत्रयमेवार्थस्य साधकं
नापरं । ततश्च ।
यदि साध्यस्वभावं वस्तुतः प्रसिद्धं प्रमाणप्रसिद्धत्वात् तदा किमात्मनः सांख्यस्या
प्रसिद्धं । प्रमाप्रसिद्धिरुभयस्यापि प्रमाणस्य साधारणत्वात् । अथ प्रमाणन्नास्ति तदा ।
यथैव हि सांख्यः प्रतिपादयत्यनित्यत्वादिको हेतुस्तव सिद्धस्ततः प्रतिपद्यस्वेति ।
तथा परोपि तव प्रसिद्धमेतत्प्रमाणात्सिद्धादेव हेतोर्यथा तव प्रतिपत्तिस्तथान्यस्यापि प्रेक्षावतः ।
अन्यथा सांख्यस्य प्रेक्षापूर्वकारितैव न स्यात् । नह्यहमेवैको विदग्धः परस्तु न तथेति
सचेतनप्रतीतिः । तस्मान्न परोपगममात्रेण साधनप्रयोगो विद्वत्सु युक्तः । कथन्तर्हि
पूर्व्वाचार्यैर्भवता च परप्रसिद्धसाधनैः साध्यसिद्धिः समीहिता ।
तदसत् । यतः ।
प्रसङ्ग साधनं तत् (।) न तु ततः साध्यनिश्चयः । नहि परोपगति मात्रकात्साध्य
निश्चयः । किमर्थस्तर्हि तदेकस्य प्रसक्तस्याभावेऽन्या भावसाधनार्थं । नहि साध्याभावे
साधनसम्भवः । इदञ्च तत्प्रसङ्गसाधनं । देशकालावस्थाविशेषनियतैक (व्यक्ति)संसर्गव्य
वच्छिन्नस्वभावान्तरविरहादनेकवृत्तेरेकस्य न देशादिविशेषवताऽन्येन योगः । तथाऽभेदात्सर्व्व
रागोऽवयवरागेपीत्यादि । यतस्तथाभूतस्वभावस्य विरोधांद्भिन्नदेशादियोगेन ।
(१) कालनिरासः—
नन्वेकमपि व्यापित्वादनेकदेशादियोगि यदि को विरोधः । न (।) अनेककालयोगस्य
द्रष्टुमशक्यत्वात् । नहि पूर्व्वापरकालव्यापिता प्रत्यक्षत उपलभ्यते । पूर्व्वापरभावस्य
कल्पनाविषयत्वात् । यस्यातीतं दर्शनं स पूर्व्वकालो यस्यानागतं स उत्तरकालः । न च
तत्कालदृश्यपदार्थव्यतिरेकेणापरः कालः ।
ननु कालाभावात्कथं पूर्व्वापरव्यवहारः । तथा दिगभावात् । कालेपि सति कथं
पूर्व्वापरव्यवहारः । नहि कालसङ्गत इत्येव पूर्व्वादिव्यवहारविषयो वर्त्तमानेपि प्रसङ्गात् ।
कालभेदादिति चेत् । तथाहि ।
पूर्वकालभावी पूर्व्वः । तथा परकालभावी पर इत्यादि । काल एव कथं पूर्व्व इति
चेत् । स्वरूपत एव कालस्य पूर्व्वादित्वं । तथा दिशः ।
तदेतदसत्त्यं । यतः ।
सहचारिणां हि रागादीनां पूर्व्वादित्वाद्व्यापिनोरपि दिक्कालयोस्तथात्वमिति का
व्याहतिः । न खलु सहचारिणा कश्चिन्न व्यपदिश्यते । मञ्चाः क्रोशन्तीति यथा । तथा
त्रापि गतः स काल इति व्यपदेशः । तदत्रेतरेतराश्रयदोषस्त्वरितं भवन्तमनुधावति ।
न यावत्कालस्य पूर्व्वादित्वं न तावत्सहचारिणामित्यप्रसिद्धिः समीहितस्य । अथ
द्वयोरपि समानकालापूर्व्वादिता (।) तथा सति समानकालयोः1134 परस्परव्यापाराप्रतिपत्तेर्न्न परस्य
रकृतत्वमिति स्वहेतुसमुत्थः स स्वभाव इति पदार्थानामेव स पूर्व्वादिताभाव इति व्यर्थिका
कालपरिकल्पना । तथाहि । यदतीतं वस्तु तत्पूर्व्वमुच्यते । यदनागतं तत्परं यत्सत्तद्वर्त्तमानं ।
ननु (च) कालाभावादेतदेव कथं । कालसद्भावेपि कथमित्येतदपि प्रतिपादितमेवेति
नोत्तरं । किञ्च ।
पूर्व्वापरमध्यभावो हि सहसद्वयवस्थया । सा च कारणभावाभावाभ्यां । तदपि
कारणं स्वकारणादेव भावाभाववदिति नादृष्टस्य कल्पना युक्तिमती ।
अथ चिरक्षिप्रादिरूपपरिच्छेदहेतुरनादिनिधनः काल इष्यते । तदपि यत्किञ्चित् ।
यतः ।
यद्येता बुद्ध्यः कालस्वरूपोग्राहिण्यस्तदा स एवानादिनिधनतया व्यापितया च
गृह्यतामन्येन चिरादित्वेन तथाभूतस्य ग्रहणासम्भवात् ।
चिरक्षिप्रादयो हि कालरूपानुगमनेन1135 प्रतीयन्ते । न पदार्थरूपानुप्रवेशेनेति व्यापि
कालव्यवस्थितिः । तथाहि । योयेनानुगतः प्रतीयते स तद्योगी तद्यथा शावलेयः प्रतीयमानो
गोरूपेण तद्योगीति कालस्यापि तथा व्यवस्था । एवं तर्हि (।)
कालत्वं नाम सामान्यमिति कालो न सिध्यति ।
द्रव्यपदार्थमध्ये हि काल इष्यते न सामान्यं तस्य पदार्थान्तरत्वात् । न च चिरादि
रूपव्यतिरिक्तो वेद्यते कालः । काल इति (तु) संज्ञामात्रं तेषामेव लाघवार्थं केनचिन्निवेशितं ।
चिरं करोतीति हि क्रियासामानाधिकरण्येन प्रतीतेः क्रियारूपानुपातिन एव तत्त्व
तश्चिरादयः ।
(२) क्रियानिरासः—
न च क्रियापि कर्मकर्त्तृपदार्थ व्यतिरिक्ता । तथाहि ।
नहि कर्मकरः करोति कटमिति कटकर्मकरविशेषत्यतिरिक्ता क्रिथोपलभ्यते
प्रत्यक्षतः । तदभावादनुमानतोपीत्यसत्त्वमेव क्रियायाः । तथाहि ।
अन्वयव्यतिरेकाभ्यां हि भेदमुपरचय्यानादिवासनासनाथीकृतसन्तानशिथिलीकृत
पदार्थतत्त्वाभिनिवेशो हि पृथग्जन/?/ जानाति भेदविपर्ययेपि भेदमिति विपर्यासमात्रकमेवेदं
क्रियाभेदाध्यवसानं । यतः ।
एतच्च प्रागेव प्रतिपादितं । न चान्वयव्यतिरेकयोः प्रत्यक्षगम्यतान्यत्रानादिवासना
जनितमानसप्रत्ययगम्यत्वात्1137 ।
अथ क्रिया नामेयमसत्त्वभूता तेन न प्रत्यक्षत उपलभ्यते । ननु यदि नामासत्त्वभूता
तथापि लिङ्गादियोगो मा भूत् । पदार्थव्यतिरिक्तत्वे तु प्रत्यक्षत उपलम्भको विरोधः ।
ततः कल्पितक्रियाविशेष एव चिरक्षिप्रादयो न तात्त्विकाः ।
कथमेवमित्याद्यर्थवत् । तथा हि ।
यदि यो य एव विकल्प उदयवान् तदर्थरूपः स एव पदार्थः कल्पनाविषयः पारमार्थिकः
तदैवमादयोपि पदार्थाः स्युः चेत्क्वान्तर्भाव्यंताम् । नहि कालादयस्तन्निबन्धनमिष्यन्ते ।
नापि प्रतीयन्ते । अथ ते क्रियाविशेषा एव तथा सति चिरादयोपीति व्यर्थकः कालादिकल्पना
प्रयासः ।
तस्मात्पूर्व्वापरकालभूतपदार्थग्रहणाभावात्प्रत्यक्षेणाग्रहणमेव व्यापिनः ।
(३) सामान्यनिरासः—
अथ कालव्याप्तेरग्रहणेपि देशव्याप्तिग्रहणमविरोधीति मतिः । न (।) तत्रापि तदा
धारव्यतिरेकेण सामान्यादेरनुपलम्भात् । तथाभूतस्वभावस्य विरोधाद्भिन्नदेशादियोगेन ।
न हि तत्रानुप्रविष्टमन्यत्रापि तदा1138 भवति भेदाभावेन सर्व्वानुप्रवेश एकपिण्डता स्यात् । न
हि तदाधाराननुप्रवेशे तदनुप्रविष्टानुप्रवेशः ।
अथ समानमेतद् द्वयमिति धीरुदेति ततः सामान्यं भिन्नाभिन्नं । अत्रोच्यते ।
अनुगताकारा धीरुदयमासादयतीति कोस्य भाषितस्यार्थः । नहि वचनमविवेचितार्थमेव
यथाकथञ्चित् प्रतीयमानार्थमर्थस्य सत्त्यतां विदधाति । विवेचनञ्च समानकारा धीरिति
शब्दस्यार्थस्य प्रकारद्वित्वेन । कदाचित् स्वरूपसमानत्वात्समानाकारार्थाकारसमानत्वाद्वा
प्रकारान्तरासम्भवात् । स्वरूपसमानाकारत्वे स्वरूपमेव तद्भवेत् नार्थः समानाकारयोगीति
सामान्यमर्थः । स च बुद्ध्याकारः स्वलक्षणमेव न तत् सामान्यं । बुद्ध्यन्तरस्य तदभावा
दर्थगतत्वाभावाच्च ।
अथार्थाकार एव समान इति तदाकारा धीरिति वचः । तदप्यसत्त्यं । आकारद्वय
प्रतिभासनप्रसङ्गात् । प्रतिभासत एव तदाकारद्वयमिति चेत् । न (।) यतः ।
ततः समानाकारा धीरिति व्याकुलेयं धीरधियः । अतो न सामान्यं ।
अथ सास्नादिमत्त्वेन समानाकारता तदव्यतिरिक्तलक्षणं सामान्यं देशकालविनियत
व्यक्त्यन्तरेण युक्तमिति न दोषः । असदेतत् । यतः ।
एकत्वादाकृतेरेकाकृतिग्रहणेपि सर्व्वाकृतिमदर्थपरिग्रहप्रसङ्गः । अथ गृह्यत एवाकृति
राकृतिमतस्तु ग्रहणासम्भवः तद्भेदात् । नहि भिन्नं ग्रहीतुं शक्यमन्यत्तु तादात्म्यादेव गृह्यते ।
तदप्यसत् ।
तदात्मा नामा1141 कृत्यन्तरेणाकृत्यन्तरस्य तादात्म्यं । तदाकृत्यन्तरमाकृतिमता तदात्मक
मिति तदात्मकाकृतिमद्ग्रहणं । यदि1142 चाकृतिमतस्तदभिन्नस्य न ग्रहणं आकृत्यन्तरग्रहणेपि
तदन्तरग्रहणन्न भवेत् न ह्यभेदो ग्रहणनिबन्धनमाकृतिमदग्रहणात् ।
अथ तद्भेदादाकृत्यन्तरमेव तन्न भवति । एवन्तर्ह्याकृत्यभेदादाकृतिमदन्तरमपि न1143 भवेत् ।
एतेना भाष्यकारवचनं निरस्तं । न ह्येकत्रोत्सन्ना सर्व्वत्रोत्सन्ना भवति । व्यक्त्यन्त
रन्नो1144 पलभ्यते । न ह्याकृत्यभेदात्तदभिन्नं व्यक्त्यन्तरं भवत्याकृत्यन्तरवदेव ।
अथाकृतिमदन्तरमेव भवति कार्ष्ण्यादिभेदात् । नाकृत्यन्तरं (।) तदसत् ।
यदि कृष्णत्वादिकमन्यदेवाकृतिमतः कथन्तद्भेदाद्भेदः । न ह्यन्यद्भिन्नमन्यद्भिनत्ति ।
कारणत्वेन भिनत्येवं चेत् । न । कारणत्वाभावात् । नहि गुणा एव द्रव्यस्य कारणं
तदेकयोगक्षेमतयोदयात् । कारणत्वे वा तस्मादपरो भिन्न उदेति तस्याप्यपरेण संसर्गिणा
भेदकेन भवितव्यं । न च कारणमेव संसर्गि । अन्यथाऽग्निरपि धूमस्य संसर्गी भवेत् ।
नैवमदृष्टेरिति चेत् । संसर्गिणोपि तर्हि कारणत्वं न दृष्टमिति न कारणत्वं कल्पनीयं ।
आकृतिमतो (ऽ) भिन्नं कार्ष्ण्यादिकं ततो भिन्नादभिन्नं यत्तदपि भिन्नमित्याकृतिमतो
भेदः । आकृतेरपि तर्हि तदभेदाद्भेदप्रसङ्गः । आकृतिरपि नाकृतिमतो भिद्यते । ततश्च
भिन्नादभिन्ना भिन्ना भवत्याकृतिमदन्तरादाकृतेश्च । आकृतिरभिन्नैव चेत् । न ह्याकृतेर्ग्गु
णभूताया गुणेन कृष्णत्वादिना संसर्गः । गुणानां परस्परमसमवायात् । गुणवति समवायस्तु
गुणानामिति समयः । न युक्तमेतत् ।
तत्रापि दोषस्य दृशा पुनः पूर्व्वसमाश्रयात्
तस्मान्न सामान्यमाकृति लक्षणमपि ।
एतेन प्रधानलक्षणमपि प्रत्युक्तं । तस्याप्यन्वये सकलतदवस्थाग्रहात् सर्व्वस्य
सर्व्वदर्शित्वप्रसङ्गः । तदवस्थानां प्रधानरूपादतत्त्वान्तरत्वात् ।
अथ परमार्थतः सर्व्वमेव प्रतिभासितं भ्रान्त्या त्वप्रतिभास इति विभ्रमः । तदप्ययुक्तं ।
यतः ।
इदमत्र विरुद्धं । यदुच्यते ।
यतः ।
तस्मात्प्रधानलक्षणमपि न सामान्यं ।
अथापि स्याद्यद्यपि न सामान्यं कालभेदभिन्नव्यक्तिव्यापि गृह्यते । पूर्व्वापरभावे
प्रत्यक्षस्या (प्र)वृत्तेः । समानकालभिन्नदेशव्यक्तिव्यापि तु गृह्यत एव ।
तदप्यसत् । यस्मात् ।
श्वेतच्छागमालभेतेति पूर्व्वदृष्टालम्भनस्य तदेवेदमिति जात्यन्वयादालम्बनार्थं तद्व्यव
हारार्थिभिः सामान्यमिष्यते (।) युगपद् दृष्टयोश्च न तद्व्यवहारोपयोगिता । द्वयोरपि
पूर्व्वनुसारेण तज्जातितया प्रतीतेः । न च पूर्व्वापरयोरपि पूर्व्वोत्तरव्यक्तिस्पष्टेतराकारव्यति
रेकादपरं सामान्यमीक्ष्यते । तथ समानकालयोरपि स्पष्टद्वयाकारात् । कथन्तर्हि समाना
वेताविति प्रत्ययः । अयं प्रत्ययः पूर्व्वोत्तरकालभाविनोरपि समानः । तथा हि ।
तत्र नास्ति समाना (? समा)कारः प्रत्यक्षेण समीक्षितः ।
समानकालव्यक्तीनामपि नेक्षणमक्षतः ।
साम (ा) न्यस्येति वाक्यशेषः । न समानाकारता पूर्व्वापरव्यक्तिवत्समानकालानामपि
निरूप्यते व्यतिरेकिणी । प्रत्यय एवायं केवलः प्रतीयमानस्यादृष्टेः । नहि प्रतीयमानाकार
विनाकृतः प्रत्ययः प्रत्येति किञ्चित् ।
प्रत्ययः समानाकारः स निरालम्बनोदयः (।)
यः समानाकारः स सकलो1146 निरालम्बनः प्रत्ययः । तत्र ग्राह्याप्रतिभासात् । तद्यथा
भिन्नकालव्यक्तिसामान्यालम्बनाभिमतः अप्रतिभासमानसामान्याकारश्च समानकालव्यक्ति
सामान्यविषयोपि प्रत्यय इति स्वभावहेतुः ।
अथ स प्रत्ययः समानतामन्तरेण सर्व्वस्य विलक्षणत्वात् कथमुदयी । तदपि यत्किञ्चित् ।
481नाहेतुको नियम इति हेतुरेव परिकल्पनामर्हति1147 । सामान्यस्य तु किमायातं । अथवा
तदन्यव्यावृत्तिमात्रमेवास्तु सामान्यमिति न क्षतिः । सा चारूपेति प्रतिपादितं । अपि च ।
व्यवहारमात्रमविचारितततत्त्वयापि जात्या सम्पद्यत एव किमपरः परत्र1148 प्रयास
आस्थीयते ।
धर्मादिसाधनत्वं हि जातेः स्वरूपेण प्रसिद्धादपि1149 न विवेकेन गम्यते जात्यन्तरा
दभेदात् । न च तथाऽप्रसिद्धा सती कार्योपयोगिनीति व्यर्थ एव जातिग्रहः ।
अथवा तथाभूतप्रत्ययविशेषोपलक्षितव्यक्तीनामेव धर्मादिसाधनत्वमिति तदेव सामान्यं
अथ यदि सामान्यं नित्त्यं व्यापि न भवेत्समानाकार एव व्यापी न भवेत् प्रत्ययः ।
तदयुक्तं ।
न च समानाकारप्रमेयानुभवः । तथा च प्राक् प्रतिपादितं । तस्मात् प्रत्यक्षतोऽ
ननुभवादभाव एव सामान्यस्य । दृश्यमानस्यापि रूपस्य तदपरसाधारणत्वेनाननुभवात्
(अ) सामान्यं ।
नन्वेकव्यक्तिनिष्ठत्वात्सामान्यस्य धर्मिणोऽभावाद् भवतो धर्मिणोऽसिद्धत्वादाश्रया
सिद्धता ।
न सदेतत् ।
यद्येवमेकव्यक्तिनिष्टत्वं तदा न देशविशेषवतान्येन योगः । न चोभयमिति स्यात् ।
ननु यद्यन्येनयोग एकव्यक्तिनिष्ठत्वं न स्यात् सिद्धसाव्यता नैकस्यां व्यक्तौ स्थितिः
सर्व्वव्यक्तिव्यापित्वात् । नैकस्यामेव व्यक्तौ स्थितं सामान्यमिष्यते । नैष दोषः ।
यदि व्यापि सामान्यं व्यापितयैवाध्यक्षणे प्रमाणेन गृह्येत । न खलु विपरीतग्रहणं
प्रमाणम् । यदि च व्यापिता प्रतीयते सकलव्यक्तिप्रतीतिरेव भवेत् । व्याप्यग्रहणे व्यापकताया
अप्रतीतेः । न च प्रतीयते ततो न तथारूपं । तेन सामान्यमेव नास्तीत्युभयधर्मनिवृत्तिः ।
यद्ययं स्थितपक्षः स्याद्भवेद्धर्म्यसिद्धिदोषः परस्परविरोधप्रकटनपरमेवैतत् । न वयमेव
म्भूतमर्थं प्रतिपत्तुं क्षमाः । एवम्भूतस्यापरस्यादर्शनात् । अनुमानञ्च न दृष्टान्तम्वि
नावतरति ।
अथ सामान्यमन्यथानुपपत्त्या प्रतीयमानं सकलापरपदार्थविलक्षणमेव न तस्यान्य-
482धर्मविरोधेन विरोध उद्भावनीयः । न ह्यन्यधर्मोन्यस्य युक्तः । नहि मूर्त्तपदार्थधर्मा
अमूर्त्ते सामान्ये योजनीयाः । नैतदस्ति । यतः ।
येपि खल्वमूर्त्तिसङ्गता अन्त्या विशेषास्तेपि प्रतिनियताधिष्ठाना न व्यापिनः । तथा
सामान्यमपि नामूर्त्तदव्यापितामतिक्रामेत् ।
अथ सविशेषोऽमूर्त्तत्वेप्यव्यापी तत्त्वादेव । न तर्हि मूर्त्तेतरस्वभावकृतोयं विभागः ।
सामान्यविशेषभाव एव तर्हि व्यापितेतरत्वे निबन्धनम्भवतु को दोष इति चेत् । नन्वसिद्धिरेव ।
ननु सामान्यं सिद्धमेव त्वयापि धर्मितयोपादानात् । नैतदस्ति । यतः ।
गृह्यत इति वाक्यशेषः (।) स्वरूपेण हि गृह्यमाणं सामान्यं व्यपितयेतरथा वा गृह्येत ।
अथ व्यक्तयो न गृह्यन्ते । तथा तर्हि सामान्यमेकव्यक्तिसमन्वितं गृह्यमाणं कथं
व्यापितया गृहीतं । एकव्यक्तिविशेषणत्वे तद्व्यक्तिविशेषणं विशेषवदसामान्यं भवेत् ।
अथ पर्यायान्तरेण व्यक्त्यन्तरविशेषणताग्रहणमपि । तथा सति तदेवेदं सामान्यमिति कथं
गतिः । तदेवेदमिति प्रतीतिर्न्नाध्यक्षेति विचारितं । तस्मादसिद्धमेव सामान्यरूपत्वं कथं
व्यापितासाधनं । तस्मात् ।
नामूर्त्तत्वान्न सामान्याद्व्यापितासाधनं क्वचित् ।
यदि सामान्यमसिद्धं कथम्भवता सामान्यविषयव्यापित्वं साध्यते । धर्मित्वेन
सामान्यस्योपादाने तत्र धर्मस्यं कस्यचित्साधनं नान्यथा ।
न सदेतत् । यतः । उक्तमेतत् । प्रसङ्गसाधनमेतत् । न त्वयं मौलो हेतुः ।
यदि त्वया सामान्यं व्याप्यभ्युपगम्यते प्रमाणेन तत्प्रतिपत्तव्यं । प्रत्यक्षस्य तदादिना1151 प्रमाण
निबन्धनत्वादभ्युपगमस्य । देशकालावच्छिन्नैकव्यक्तिसंसर्गावच्छिन्नस्वभावान्तरविरहतया
च प्रतीयमानं कथं व्यापि तदिति अभ्युपगन्तुं युक्तं । प्रत्यक्षेण चानेकवस्तुग्रहणेन तद्व्य
तिरिक्तं अन्यथा वा प्रतीयत इति नाप्रतीयमानाभ्युपगमो युक्तः । आकृतिरेव सामान्यमुपल
भ्यमानेति चेत् । न (।) आकृतेर्व्यापित्वाभावात् । व्यापित्वेनोपलम्भे सकलव्यक्त्युपलम्भः
स्यात् । तथा च देशकालभिन्नसकलव्यक्तिप्रतीतिप्रसङ्गः । एकव्यक्तिनिष्ठत्वे चाकृतेर (प्य)
यापिता साधने धर्म्यसिद्धिरपि परिहृतैव । कथन्तर्हि प्रसङ्गसाधनमेतत् । परेणाकृतिरेवसामा
न्यमभ्युपगतं अन्येनान्यदिति प्रसङ्ग(ा)साधनता ।
अथवा व्यापित्वात् नैकव्यक्तिनिष्ठतयोपलम्भः स्यादिति प्रसङ्गार्थः । विपर्यस्तु
मौलो हेतुः । प्रसङ्गस्तु मौलस्तु हेतोर्व्याप्तिसाधनार्थ एव । अन्ये तु विरहादिति मौलो हेतुः ।
प्रसङ्गस्तन्नीयमान एव । मौलनिष्ठताञ्च दर्शयितुमेवमुपन्यासः । विरहादिति च हेतुः
प्रसज्य प्रतिषेधरूपः । स चाभावेपि सामान्यस्य सिद्ध एव । न ह्यभावे हेतौ वस्तुरूपो
धर्म्यभ्युपगम्यते ।
तदभावाच्च तन्नेति वचना (द) पि तद्गतेः ।
तदसदेव ।
विरहमात्रकस्य हेतुत्वे तस्य केनचिदसम्बन्धात्कथं साध्यसाधनं । अथ व्यक्त्यन्तर
संसर्ग्गविरहस्तदापि कस्यासाविति निरूप्यमेव । तस्मान्नियमेन परोक्तेन सामान्येन बुद्धिस्थेन
भवितव्यम् । न च पक्षधर्मोपसंहारमन्तरेण हेतुः समर्थः साध्यसाधनाय ।
अथान्यापोहलक्षणं सामान्यं सिद्धं सौगतानां तथासति परस्येष्टमेव । पराभ्युप
गतस्य तेनापि दूषयितुमभिप्रेतत्वात् । अपि चान्यापोहलक्षणस्य सामान्यस्य व्यापितेष्यत
एव । तथाहि । व्यावृत्त्यापि समानता ।
अथ सामान्यस्याविद्यमानस्यापि विरहलक्षणो हेतुरस्त्येवेति ।
तदप्यसत् । अविद्यमानस्य हेतुत्वायोगात् । अविद्यमाने साध्ये योग एवेति चेत् ।
न । प्रतिबन्धे सत्येकाभावोन्याभावं गमयेत् । प्रतिबन्धश्चान्वयेन गृह्यते । अतस्तत्साम
र्थ्याद्यत्र व्यापको नास्ति तत्र व्याप्याभाव इति विपक्षेऽभावमात्रमादर्श्यते । न स मौलो हेतुः ।
अथ व्यापकतानुपलब्धिरपि प्रतिनियतवस्तुविषयाभावसाधनायोपादीयते । तथा सति
नात्र शिंशपेति न्यायादन्येन धर्मिणा भवितव्यं प्रमाणप्रसिद्धेन । अथात्रापि भावाभावसाधारणं
धर्मींत्युपादीयते ।
तदप्ययुक्तं । भावाभावसाधारणस्यापरस्याभावात् । विकल्पप्रतिभास एवोभयधर्मः
साधारण इति चेत् । एवं तर्हि (।)
तस्मिन्भावानुपादाने साध्येऽस्यानुपलम्भनं ।
अन्य एव हेतुरिति यत्किञ्चिदेतत् । तस्मान्नात्र मौलो हेतुः । सामान्यस्य धर्मिणः
सिद्धेरभावात् ।
रूपादय एव सामान्यमिति पक्षे नेदं प्रसङ्गसाधनं । प्रत्यक्षेण तेषामव्यापिताप्रतीतेः ।
तस्मादुभयवादिसिद्धि एव हेतुर्न्न त्वन्यतरस्य प्रतिवादिन एव ।
३. अर्थग्रहणफलम्
ननु य उभयसिद्धः सोऽर्थ एव किमर्थमर्थग्रहणं । नैतदस्ति । यतः ।
तत उभयसिद्धत्वेपि पक्षसपक्षान्यतरत्वादेरर्थत्वाभावादहेतुत्वं यतः ।
यदर्थग्रहणं स्वदृष्टग्रहणविशेष्यं तच्छद्बकल्पनामात्रघटितात्मनामहेतुताप्रतिपादनार्थ ।
अर्थस्यैव गमकत्वसम्भवात्1152 ।
नन्वसिद्धविरुद्धानैकान्तिकलक्षण एव हेतुरप्रतिन्नार्थप्रतिपादने1153 । यदि चास्य
त्रैरुप्यमस्ति कथमहेतुरथ त्रैरूप्याभावस्तदा स्वार्थानुमानलक्षणादेव निवृत्तिः किमर्थग्रहणेन ।
त्रिरूपलिङ्गाख्यानं हि परार्थानुमानं । न । स्वार्थानुमानेपि कल्पनारोपितं त्रैरूप्यं प्राप्तमेव
हेतुलक्षणम् । कथन्ततो निवृत्तिः । नात्र तर्हि तदर्थग्रहणं कर्त्तव्यं1154 । स्वार्थानुमान एव
कर्त्तव्यताप्राप्तेः ।
अत्रोच्यते1155 । स्वनिश्चयवदन्येषामिति वचनादत्र कृतं तत्रामि भविष्यतीत्यदोषः । तत्रैव
कस्मान्नेति चेत् । तत्र वा क्रियतामात्रवेति को विरोधः । अस्ति चात्र प्रयोजनं । तथाहि (।)
किञ्च । परार्थ एव यत्न परः कार्य इति चात्रैव महान् यत्नो विधेयो महात्मनेत्यर्थ
ग्रहणमत्र । परमार्थतस्तु कल्पनारोपितो हेतुरनैकान्तिक एव । तथाहि ।
न खलु कल्पनासमारोपितस्य साध्यवस्तुप्रतिबन्धः । वासनामात्रप्रवर्त्तितत्वात् ।
यद्येवमप्रतिबन्धादेव न हेतुः । न । प्रतिबन्धस्यात एवाक्षेपात् । नहि साक्षात्प्रतिबन्ध
प्रतिपादनमस्ति । ततोर्थग्रहणं । न हि पक्षसपक्षान्तरत्वं नित्त्यानित्त्ययोरेकत्र नियतं यो यः
पक्षीक्रियते तदपेक्षया तत्र तत्र सञ्चारात् । न चेदृशी वस्तुसिद्धिर्विवक्षान्तरेन्यस्य साधनात् ।
-
१ B. तदविवाद ।
↩ -
२ B. वचनमपि परार्थम्प्रत्यक्ष॰।
↩ -
३ B. प्रकाश्यते
↩ -
२ B. स्वभावानुमानकारणत्वात्—बहिः
↩ -
३ B. द्रष्टव्यः ।
↩ -
४ B. पतितो
↩ -
५ B. बहिः—बौद्धशंकिते प्रथमपादद्वयेन द्वितीयाभ्यां सिद्धान्तयति । एतेन स्वर्थानुमानं समर्थितं ।
↩ -
१ B. पेक्षत ।
↩ -
१ B. व्यावृत्तं
↩ -
१ B अथ त॰ ।
↩ -
१ B. अप्रतिपत्तिप्रतिपादनं ।
↩ -
१ B. प्रभवति
↩ -
१ B. प्रतिपादनेन ।
↩ -
२ B. विध ।
↩ -
३ B. भवितव्यं ।
↩ -
४ B. अस्य ।
↩ -
५ B. तस्या ।
↩ -
६ M. तत्कस्मात् साधनं नोक्तं
↩ -
१ B. अनभ्युपगमात्
↩ -
२ M. परस्यापि च
↩ -
३ B. साधने ।
↩ -
४ B. सम्भवैः—हे. पुस्तके च
↩ -
१ B. M. वस्त्व॰
↩ -
२ M. वस्त्वसंश्लिष्टा॰
↩ - Verse number in edition duplicated?↩
-
३ M. प्रसङ्गो—हे.
↩ -
१ B कालः
↩ -
१ B ॰गमेन ।
↩ -
२ B. बाधतो । T. गन्तृतः
↩ -
३ T. प्रथमाह्निकं (समाप्तम्)
↩ -
१ B. तथा
↩ -
२ B. अर्थाद्भेदेन ।
↩ -
३ B मात्र
↩ -
१ B तदात्मना
↩ -
२ B यदि नामाकृ॰
↩ -
३ B मेव तन्न
↩ -
४ B रस्थो॰
↩ -
५ B क्वचित्
↩ -
१ B. सर्वो
↩ -
१ B. परिकल्पनामत्रार्हति
↩ -
२ B. पुनरत्र
↩ -
३ प्रतीतिवपि
↩ -
१ B. ग्रहः
↩ -
२ B. प्रत्यक्षतदादिना
↩ -
१ T. अर्थाभ्यां गम॰
↩ -
२ T. प्रतिपादनेन न भवति
↩ -
३ T. कथं ततो निवृत्तिर्न्नात्र तर्हि तद्ग्रहणं कर्त्तव्यम् ।
↩ -
४ T. स्वनिश्चयवदन्यस्य वचनमपि साधनमिष्यते ऽयुक्तवादिनस्त इति प्रतिपादितं भवति ।
↩
स्वनिश्चयवदिति यावद् वचनमपि साधनमिति न लभ्यते भाषान्तरे, मध्ये चतुर्दशी
कारिकाऽपि लुप्ता । -
५ B. कल्पिता—इत्यपि पाठस्तत्रैव ।
↩