II.521

पातञ्जलप्रक्रियोपसंहारः


यदपीह केचिद विकल्प1491मीश्वर—

प्रणिधानमाहुरपवर्ग साधनम् ।

इदमात्मदर्शनमवादि तैरपि

प्रथितो हि पूरषविशेष ईश्वरः1492

गौतमोक्तप्रक्रियैव साधीयसी


दृष्टा वाद्यन्तराणां गतिरियमियती नापवर्गस्य मार्गं

स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति ।

नेदीयानेषु तस्माद्भवमरुपतितैः अक्षपादोपदिष्टः

पन्थाः क्षेमाया मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां नवममाह्निकम् ॥


  1. ईश्वरप्रणिधानाद्वा इति योगसूत्रम् । अविकल्पं—निर्वीजसमाधिरूपम् ॥

  2. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः इति योगसूत्रम् ॥