II.523 प्रतिपादकम् । समानानेकधर्मोपपत्तेः, विप्रतिपत्तेः, उपलब्ध्यनुपलब्ध्य
व्यवस्थातश्चेति विभागसूत्रम् । पुनश्च समानधर्मोपपत्तेः उपलब्ध्यनुप
लब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इत्येतदेव सूत्रं प्रथमस्य
संशयस्य विशेषलक्षणप्रतिपादकमिति ॥


सूत्रस्य सामान्यविशेषलक्षणपरत्वम्


ननु ! एतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदयमन्यूनानति
रिक्तं विशेषलक्षणार्थमिति कथमेतत्—उच्यते—1494विशेषस्मरणकारणभूत
साधारणधर्मग्रहणात्, विशेषाग्रहणात्, विशेषास्मृतेश्च संशयो भवतीति
प्रत्यात्मवेदनीयं तावदेतत् । सूत्रे विशेषापेक्ष इत्यनेन पदेन विशेष
स्मरणमुपदिष्टम् । उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहण
मितीयत्तावत् द्वयोरणि सामान्यविशेषलक्षणयोः तुल्यम् । समानशब्द
स्त्वाक्षिप्तसामान्यवचनः सन् तत्सामान्यलक्षणमाह । अनुगतसामान्य
त्रचनस्तु विशेषलक्षणमिति ॥


सामान्यविशेषलक्षणप्रतिपादनप्रकारः


कथं पुनरयमेवाक्षिप्तसामान्यवचनः, कथंचानुगतसामान्यवचन इति
—उच्यते—संशयोत्पत्त्यैव समानधर्यमात्रमाक्षिप्यते, यद्गृह्यमाणं विशेष
स्मरणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते, तद्व्यतिरेकेण संशयानु
त्पादात् ॥


तथा हि—विरुद्धविशेषावमर्शस्वभावस्तावत्संशयः । न च विरुद्ध
विशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानाम् अवमर्शनम्, विरुद्ध

  1. विशेषाः—स्थाणुत्वपुरुषत्वादयः ॥