अथावेगः—

आवेगः संभ्रमोऽस्मिन्नभिमरजनिते874शस्त्रणागाभियोगो वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८ ॥

875अभिमरः=राजकलहादिः, तद्धेतुरावेगः । यथा ममैव—

आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
876संरम्भोन्निष्ठितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नाथ स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥
इत्यादि । 877
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ॥

यथा वा—

प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया- मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी सद्यो मुक्तसमाधयो निजबृसीप्वेवोच्चपादं स्थिताः ॥

वातावेगो यथा—वाताहतं वसनमाकुलमुत्तरीयम् इत्यादि ।

वर्षजो यथा—

देवे 878वर्षत्यशनपचनव्यापृता वह्निहेतो- र्गेहाद् गेहं फलकनिचितैः सेतुभिः पङ्कभीताः ।
191
निम्नप्रान्तानविरलजलान् पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥

उत्पातजो यथा—

पौलस्त्यपीनभुजसंपदुदस्यमान- कैलाससंभ्रमविलोलदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न- मालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥

अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तद्यथोदात्तराघवे—

चित्रमायः
ससंभ्रमम्

भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् ।

इत्याकुलतां नाटयति
इत्यादि । पुनः
चित्रमायः
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः
वत्सस्याभयवारिधेः प्रतिभयं 879शङ्के कथं राक्षसात् त्रस्तश्चैष मुनिर्विरौति मनसश्चास्त्येव मे संभ्रमः ।
मा हासीर्जनकात्मजामिति मुहुः स्नेहाद् गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।

इष्टप्राप्तिकृतो यथात्रैव—

प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः
वानरः

880महाराअ, एदं खु पवणणंदणागमणेण पहरिस

इत्यादि 881देवस्स हिअआणंदजणणं विअलिदं महुवणं । इत्यन्तम् ।

192 यथा वा वीरचरिते—

एह्येहि वत्स रवुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥882

वह्निजो यथामरुशतके—

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥883

यथा वा रत्नावल्याम्—

विरम विरम वह्ने मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥884

करिजो यथा रवुवंशे885

स च्छिन्नबन्वद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः886

  1. abhimara is the reading in A.T.A. and in B.M.’s, who explains it thus: abhimaraḥ = śatruśastra-prahāraḥ, and Karijam anuasdviradajanitam āveśam anu = paścāt bhayādayo ’nubhāvā bhavanti. N.S.P. reads abhisara.

  2. N.S.P. abhisaraḥ = rājavidravādiḥ. Of the following yathā mamaiva, mamaiva is missing in A.T.A.

  3. N.S.P. saṃrambhonnidritānām for saṃrambhonniṣṭhitānām, and vādaḥ for nātha.

  4. The verse tanutrāṇam tanutrāṇam is missing in A.T.A.

  5. N.S.P. pavana and nīdhra for pacana and nimna.

  6. N.S.P. manye for śaṅke.

  7. ‘महाराज, एतत् खलु पवननन्दनागमनेन प्रहर्ष’—इति च्छाया.

  8. ‘देवस्य हृदयानन्दजननं विदलितं मधुवनम्’—इति च्छाया.

  9. १ । ५५
  10. श्लो॰ २
  11. ४ । १६
  12. ५ । ४९
  13. After vyākhyātāḥ the following is found in A.T.A. yathā mālatī—are re saṃkarūravāsiṇā jana ity ādi.