अथावेगः—

आवेगः संभ्रमोऽस्मिन्नभिमरजनिते874शस्त्रणागाभियोगो वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८ ॥

875अभिमरः=राजकलहादिः, तद्धेतुरावेगः । यथा ममैव—

आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
876संरम्भोन्निष्ठितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नाथ स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥
इत्यादि । 877
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ॥

यथा वा—

प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया- मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी सद्यो मुक्तसमाधयो निजबृसीप्वेवोच्चपादं स्थिताः ॥

वातावेगो यथा—वाताहतं वसनमाकुलमुत्तरीयम् इत्यादि ।

वर्षजो यथा—

देवे 878वर्षत्यशनपचनव्यापृता वह्निहेतो- र्गेहाद् गेहं फलकनिचितैः सेतुभिः पङ्कभीताः ।
191
निम्नप्रान्तानविरलजलान् पाणिभिस्ताडयित्वा शूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥

उत्पातजो यथा—

पौलस्त्यपीनभुजसंपदुदस्यमान- कैलाससंभ्रमविलोलदृशः प्रियायाः ।
श्रेयांसि वो दिशतु निह्नुतकोपचिह्न- मालिङ्गनोत्पुलकमासितमिन्दुमौलेः ॥

अहितकृतस्त्वनिष्टदर्शनश्रवणाभ्याम् । तद्यथोदात्तराघवे—

चित्रमायः
ससंभ्रमम्

भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् ।

इत्याकुलतां नाटयति
इत्यादि । पुनः
चित्रमायः
मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसानेन लक्ष्मणो युधि संशयम् ॥
रामः
वत्सस्याभयवारिधेः प्रतिभयं 879शङ्के कथं राक्षसात् त्रस्तश्चैष मुनिर्विरौति मनसश्चास्त्येव मे संभ्रमः ।
मा हासीर्जनकात्मजामिति मुहुः स्नेहाद् गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥
इत्यन्तेनानिष्टप्राप्तिकृतसंभ्रमः ।

इष्टप्राप्तिकृतो यथात्रैव—

प्रविश्य पटाक्षेपेण संभ्रान्तो वानरः
वानरः

880महाराअ, एदं खु पवणणंदणागमणेण पहरिस

इत्यादि 881देवस्स हिअआणंदजणणं विअलिदं महुवणं । इत्यन्तम् ।

192 यथा वा वीरचरिते—

एह्येहि वत्स रवुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥882

वह्निजो यथामरुशतके—

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥883

यथा वा रत्नावल्याम्—

विरम विरम वह्ने मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् ।
विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥884

करिजो यथा रवुवंशे885—

स च्छिन्नबन्वद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः886।

  1. abhimara is the reading in A.T.A. and in B.M.’s, who explains it thus: abhimaraḥ = śatruśastra-prahāraḥ, and Karijam anuasdviradajanitam āveśam anu = paścāt bhayādayo ’nubhāvā bhavanti. N.S.P. reads abhisara.

    ↩
  2. N.S.P. abhisaraḥ = rājavidravādiḥ. Of the following yathā mamaiva, mamaiva is missing in A.T.A.

    ↩
  3. N.S.P. saṃrambhonnidritānām for saṃrambhonniṣṭhitānām, and vādaḥ for nātha.

    ↩
  4. The verse tanutrāṇam tanutrāṇam is missing in A.T.A.

    ↩
  5. N.S.P. pavana and nīdhra for pacana and nimna.

    ↩
  6. N.S.P. manye for śaṅke.

    ↩
  7. ‘महाराज, एतत् खलु पवननन्दनागमनेन प्रहर्ष’—इति च्छाया.

    ↩
  8. ‘देवस्य हृदयानन्दजननं विदलितं मधुवनम्’—इति च्छाया.

    ↩
  9. १ । ५५↩
  10. श्लो॰ २↩
  11. ४ । १६↩
  12. ५ । ४९↩
  13. After vyākhyātāḥ the following is found in A.T.A. yathā mālatī—are re saṃkarūravāsiṇā jana ity ādi.

    ↩