एषाम्—

यथोत्तरं गुरुः षड्‏भिरुपायैस्तमुपाचरेत् ।
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥ ६१ ॥
तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ ६२ ॥
सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ ६३ ॥
कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ।

तत्र प्रियवचः साम यथा ममैव—

स्मितज्योत्स्नाभिस्ते धवलयति विश्वं मुखशशी दृशस्ते पीयूषद्रवमिव विमुञ्चन्ति परितः ।
वपुस्ते लावण्यं किरति मधुरं दिक्षु तदिदं कुतस्ते पारुष्यं सुतनु हृदयेनाद्य गुणितम् ॥

236 1113यथा वा—

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं रचितवानुपलेन चेतः ॥

नायिकासखीसमावर्जनभेदो यथा ममैव—

कृतेऽप्याज्ञाभङ्गे कथमिव मयातिप्रणयतो1114 धृतासि त्वं हस्ते विसृजसि रुषं सुभ्रु बुहशः ।
प्रकोपः कोऽप्यन्यः पुनरयमसीमाद्य गुणितो वृथा यत्र स्निग्धाः प्रियसहचरीणामपि गिरः ॥

दानं व्याजेन भूषादेर्यथा माघे—

मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
अधिरजनि गतेन धाम्नि तस्याः शठ कलिरेव महांस्त्वयाद्य दत्तः ॥1115

मुहुरिति । कलिकेत्यत्राल्पार्थे कः । कलिर्विवादः । तथा चाद्य पूर्णः कलिरेव दत्तस्त्वया । किमर्थम् इदानीम् 1116अपूर्णां कलिकां ददासीत्यर्थः ।

  1. yathā vā and the example indīvareṇa, etc. is missing in A.T.A.

  2. A.T.A. gives the above reading. N.S.P. reads mayā te praṇatayo dhṛtāḥ smitvā haste, etc.

  3. ७ । ५५
  4. N.S.P. edition of Śiśupālavadha reads vasatim upagatena (VII. 55) instead of adhirajani gatena. Like Bh.Nṛ., Mallinātha does not seem to explain as apūrṇāṃ kalikām, etc. as he says mahati kalau sthite kiṃ kalyantareṇety arthaḥ. Vallabhadeva seems to explain like Bhaṭṭanṛsiṃha. Perhaps Bh.Nṛ. was earlier than Mallinātha. See the Introduction.