अथ मरणम्—

मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।

यथा—

संप्राप्तेऽवधिवासरे क्षणमनु त्वद्वर्त्मवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररीं सास्रं सखीभ्यः शिशो- र्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥
इत्यादिवच्छृङ्गाराश्रयत्वेन861 मरणे व्यवसायमात्रमुपनिबन्धनीयम् । अन्यत्र कामचारः । यथा वीरचरिते—

पश्यन्तु भवन्तस्ताटकाम्—

हृन्मर्मभेदिपतदुत्कटकङ्कपत्रसंवेगतत्क्षणकृतस्फुरदङ्गभङ्गा ।
नासाकुटीरकुहरद्वयतुल्यनिर्यदुदुद्बुदध्वनदसृक्प्रसरा मृतैव ॥862

186 मरणावचनस्य हेतुमुक्त्वा शृङ्गारे मरणव्यवसायमात्रं निबन्धनीयम्, अन्यत्र वीरादौ मरणस्यैव निबन्धनेऽपि न दोष इत्याह शृङ्गाराश्रयत्वेनेति863 ।

  1. N.S.P. śṛṅgārāśrayālambanatvena.

  2. वी॰ च॰ १।३९
  3. The reading of the Avaloka in N.S.P. is śṛṅgārārayālambanatvena, which does not seem to be correct according to Bh.Nṛ.