अथ भेदः—

भेदः प्रोत्साहनाद् भवेत्208 ॥ २९ ॥

यथा वेणीसंहारे—

द्रौपदी

209210णाह, मा क्खु जण्णसेणीपरिभवुद्दीविदकोवा अणवेक्खिदसरीरा परिक्कमिस्सध । जदो अप्पमत्त संचरणीयाइं सुणीयंति रिउबलाइं ।

भीमः

अयि सुक्षत्रिये,

अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के211 मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ ।
28
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥212
इत्यनेन विषण्णाया द्रौपद्याः क्रोधोत्साहबीजानुगुण्येनैव प्रोत्साहनाद् भेद इति ।

एतानि च द्वादश मुखसंधेरङ्गानि213 बीजारम्भद्योतकानि साक्षात् पारंपर्येण वा विधेयानि । एतेषामुपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामवश्यंभावितेति ।

  1. N.S.P. protsāhanā matā, and Bahurūpamiśra protsāhanā bhavet.

  2. N.S.P. omits Draupadī.

  3. ‘नाथ, मा खलु याज्ञसेनीपरिभवोद्दीपितकोपा अनवेक्षितशरीराः परिक्रमिष्यथ । यतोऽप्रमत्तसंचरणीयानि श्रूयन्ते रिपुबलानि ।’ इति च्छाया.

  4. A.T.A. vasāmāṃsa-.

  5. १।२७
  6. N.S.P. mukhāṅgāni.