विषयैक्यप्रसक्तं पौनरुक्त्यं परिहरति—

व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।
तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ ५ ॥

व्याकीर्णे विक्षिप्ते 38विस्तृते च शास्त्रे अल्पबुद्धीनां व्यामोहो भवति पुंसाम् । तेन तस्य नाट्यवेदस्यार्थस्तत्पदैरेव संक्षिप्य ऋजुवृत्त्या क्रियत इति ।

स्वकृतेरेव विषयकथनपरतया प्रतिभासमानस्योत्तरस्य श्लोकस्य39 तात्पर्यमाह विषयैक्येति । 40एकवक्तृकत्वेऽपि विषयैक्यमेव पौनरुक्त्यप्रयोजकम् । तस्यैव41 वक्तुर्भिन्नार्थवाक्यकथने पौनरुक्त्याभावात् । पुनःशब्दोऽप्युक्ता5 पेक्षया संगच्छते । ततः शास्त्रेण 42सह विषयैक्यप्रसक्तं पौनरुक्त्यमुत्तरश्लोकेन परिहरतीत्यर्थः । ननु शास्त्रेणोक्तस्य त्वयापि 43कथने किं प्रयोजनम् । अत आह व्याकीर्ण इति । यद्यपि शास्त्रेणोक्तोऽयमर्थः, तथापि तेन विक्षेपाद् विस्तरतश्चोक्तमर्थमहं44 संक्षेपेणार्जवेन च वदामीत्यर्थः । 45उत्तरोक्तपरिहारद्वयकटाक्षेण व्याचष्टे व्याकीर्णे विक्षिप्ते विस्तृते चेति । बुद्धेर्मान्द्यं नाम 46न विषयाणामग्रहः । किं तु अल्पविषयत्वम् । तेनाह अल्पबुद्धीनामिति । अल्पस्य बुद्धिरल्पबुद्धिः । अल्पविषया बुद्धिरित्यर्थः । विक्षिप्ते विभ्रमो भवति । विस्तीर्णे विस्मरणम्47 । उभयसंग्रहार्थं व्यामोह इत्युक्तम् । तस्येत्यत्र तद्वृत्तेन48 नाट्यवेदः परामृश्यते इत्याह तस्य नाट्यवेदस्येति । यद्यप्ययमर्थः विक्षिप्ते विभ्रमो भवतीति पूर्वश्लोकेनैव सूचितः, तथापि विक्षेपे विस्तरे च दर्शिते सति परिहारापेक्षा भवतीत्ययमेव परिहारः ।

  1. MSS. of Avaloka read vistīrṇe instead of vistṛte and matimoho instead of vyāmoho. N.S.P. vistīrṇe ca rasaśāstre mandabuddhīnāṃ puṃsāṃ matimoho bhavati.

  2. T.MS. omits ślokasya.

  3. Tri.MS. gives this reading. M.G.T. reads ekavaktṛivo ’pi. T.MS. reads ekavaktṛkaraṇatve ’pi.

  4. Here M.G.T. is corrupt.

  5. T. MS. omits saha.

  6. M.G.T. reads vacane, Tri. MS. vivacane.

  7. M.G.T. omits aham.

  8. M.G.T. reads uttarottaraparihāra- etc.

  9. T. MS. omits na.

  10. M.G.T. and Tri.MS. give vistāraṇam.

  11. tadvṛttam means tacchabdaḥ (vibhaktyantaḥ), just as yadvṛttaṃ means yacchabdaḥ, and kiṃvṛttaṃ kiṃśabdaḥ. See the kārikā about uddeśya and vidheya:

    yadvṛttayogaḥ prāthamyam ityādy uddeśyalakṣaṇam |
    tadvṛttayogaḥ paścāttvaṃ syād vidheyasya lakṣaṇam ||
    also quoted by Nāgeśa in his Laghumañjūṣā (C.S.S. 1925, pp. 1434–5), and Pāṇini’s rules yadvṛttān nityam, and kiṃvṛtte lipsāyām, and Kāśikā and Kaumudī thereon. See also Note 247b to L.Ṭ., and the L.Ṭ.