अथ विचलनम्—

विकत्थना विचलनम्

यथा वेणीसंहारे—

अर्जुनः

तात, अम्ब—388

सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥
भीमः
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भड्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥389
इत्यनेन विजयबीजानुगतस्वगुणाविष्करणाद् विचलनमिति ।

यथा च रत्नावल्याम्—

यौगंधरायणः
देव्या मद्वचनात् तथाभ्युपगतः पत्युर्वियोगस्तया सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता ।
तस्याः प्रीतिमयं करिप्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥390
इत्यनेनान्यपरेणापि यौगंधरायणेन मया जगत्स्वामित्वानुबन्धी कन्यालाभो वत्सराजस्य कृत इति स्वगुणानुकीर्तनाद् विचलनमिति ।

  1. ५।२७
  2. वे॰ सं॰ ५।२८
  3. ४।२०