अथानन्दः—

आनन्दो वाञ्छितावाप्तिः

यथा रत्नावल्याम्—

राजा

यथाह देवी ।

रत्नावलीं गृह्णाति
419

60 यथा च वेणीसंहारे—

द्रौपदी

420णाध, विसुमरिदम्हि एदं वावारं । णाधस्स पसादेण पुणो सिक्खित्सं ।

केशान् बध्नाति
421
इत्याभ्यां प्रार्थितरत्नावलीकेशसंयमनयोर्वत्सराजद्रौपदीभ्यां प्राप्तत्वादानन्दः ।

  1. पृ॰ १८१
  2. ‘नाथ, विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनः शिक्षिष्ये ।’ इति च्छाया.

  3. पृ॰ २०२