अथ कलहान्तरिता—

कलहान्तरितामर्षाद् 600विधूतेऽनुशयार्तियुक् ।

यथा—

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥601

  1. ‘विधुते’ इति पाठः.
  2. अमरु॰ श्लो० ९२