134
चेष्टागुणोदाहृतसत्त्वभावान् विशेषतो नेतृदशाविभिन्नान् ।
को वक्तुमीशो भरतो न यो वा यो वा न देवः शशिखण्डमौलिः ॥ ७२ ॥
इति धनंजयविरचिते दशरूपके द्वितीयः प्रकाशः

दिङ्मात्रं दर्शितमित्यर्थः । चेष्टाः=लीलाद्याः, गुणाः=विनयाद्याः, सत्त्वं=निर्विकारात्मकं मनः, भावः=सत्त्वस्य प्रथमो विकारः, तेन हावादयो ह्युपलक्षिताः ।

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके नेतृप्रकाशो नाम द्वितीयः प्रकाशः समाप्तः

चेष्टागुणेति । चेष्टया गुणैश्च उदाहृतम्690 उन्नीतम् सत्त्वं भावश्च येषां तान् 691विशेषतो नायकदशायां धीरप्रशान्तादिभेदेन भिन्नान् नायकान् न केवलमहमेव अन्योऽपि को वक्तुमीशः यो भरतो न भवति । यो वा देवः शशिखण्डमौलिर्न भवतीत्यर्थः । तर्हि कथं त्वयोच्यते । तत्राह दिङ्मात्रमिति ।

  1. N.S.P. gives udāhṛti in the kārikā, and in the Avaloka as udāhṛtayaḥ saṃskṛtaprākṛtādyā uktayaḥ.

  2. All MSS. read viśeṣato. N.S.P. reads aśeṣato.