अथ व्यायोगः—

ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः ॥ ६० ॥
हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद् रसाः ।
अस्त्रीनिमित्तसंग्रामो जामदग्न्यजये यथा ॥ ६१ ॥
एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैः ।

व्यायुञ्जतेऽस्मिन् बहवः पुरुषा इति व्यायोगः । तत्र डिमवद् रसाः षट् हास्यशृङ्गाररहिताः । 780वृत्त्यात्मकत्वाच्च रसानामवचनेऽपि कैशिकीरहितेतरवृत्तित्वं रसवदेव लभ्यते । अस्त्रीनिमित्तश्चात्र संग्रामः । यथा परशुरामेण पितृवधकोपात् सहस्रबाह्वर्जुनवधः कृतः । शेषं स्पष्टम् ।

व्यायोगे तु प्रख्यातमितिवृत्तम् । प्रख्यात उद्धतश्च नायकः । डिमवद् दीप्ताः षड् रसाः । कैशिकीरहितास्तिस्रो वृत्तयः । गर्भावमर्शरहितास्त्रयः162 संधयः । अङ्कस्त्वेकः । अस्त्रीनिमित्तः संग्रामः । यथा जामदग्न्यजय इति । तथा दर्शयति ख्यातेतिवृत्तेत्यादिना ।781

  1. A.T.A. rasavṛttyātmakatvāc ca.

  2. The protion on vyāyoga is missing in T.MS. and Gr.MS.