अथावलगितम्—

यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते ॥ १४ ॥
प्रस्तुतेऽन्यत्र वान्यत् स्यात् तच्चावलगितं द्विधा ।

142 तत्राद्यं यथोत्तरचरिते समुत्पन्नवनविहारगर्भदोहदायाः सीताया दोहदकार्येऽनुप्रविश्य जनापवादादरण्ये त्यागः । द्वितीयं यथा छलितरामे—

रामः

लक्ष्मण, तातवियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्नोमि । तदवतीर्य गच्छामि ।

कोऽपि सिंहासनस्याधः स्थितः पादुकयोः पुरः ।
जटावानक्षमाली च चामरी च विराजते ॥
इति भरतदर्शनकार्यसिद्धिः ।

यत्रैकत्र समावेशादिति । एकत्र एकस्मिन्नुपक्रान्ते कार्ये सति अन्यदुपसंह्रियते यत्र तदवलगितमिति ।721

  1. See Note 113a before. The portion which was missing there is found here in both M.G.T. and Tri.MS.