नवममाह्निकम्—प्रमेयपरीक्षा
अपवर्गपरीक्षा
एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते, यदर्थ एतदुपदेशः यत्प
रमुपादेयं प्रमेयं, यदर्थः शास्त्रारम्भः तमपवर्गं लक्षयितुमाह—
तदत्यन्तविमोक्षोऽपवर्गः ॥ १-१-२२ ॥
तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधना
स्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव । तेन दुःखेन
वियोगोऽपवर्गः ॥
अस्ति 1333प्रलयवेलायामप्यात्मनो दुःखवियोगः । स त्वपवर्गो न भवति,
सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसंबन्धे सति दुखसंभवात् ।
अतः तद्व्यावृत्त्यर्थमत्यन्तग्रहणम् ॥
अशेषविशेषगुणोच्छेद एव मोक्षः
आत्यन्तिकी दुःखनिवृत्तिरपवर्गः, न सावधिका । द्विविधदुःखाव
मर्शिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात्, अत्यन्तग्रहणेन च
सर्वात्मना तद्वियोगाभिधानात् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेष
प्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदः अपवर्ग इत्युक्तं भवति ॥
II.431
विशेषगुणानां मुक्तौ नाशस्यावश्यकता
तदेवं नवानामात्मविशेषगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते,
तदेवेदमुक्तं भवति तदत्यन्तविमोक्षोऽपवर्ग इति ॥
मुक्तिकालिकात्मस्वरूपम्
वेदान्तिसंमतमोक्षनिरासः
अत्र तावत् वेदान्तिन आहुः—नायमिदृशो मोक्षः प्रेक्षावतां प्रयत्न
भूमिर्भवितुमर्हति । को हि नाम शिलाशकलकल्पं अपगतसकलसुख
II.432
1335संवेदनसंस्पर्शं आत्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमिता
नन्दनिष्यन्दात् स्वर्गादप्यधिकं अनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरं
अपरिम्लानतत्संवेदनसामर्थ्यं चतुर्थं पुरुषार्थमाचक्षन्ते विचक्षणाः ॥
मुक्तेरपि संसार एव वरम्
यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, ।
तत्कृतं अपवर्गेण ! संसार एव वरमस्तु ! यत्र तावदन्तराऽन्तराऽपि
दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं, किम
ल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव । तस्मान्नित्यसुखमात्मनो
महत्त्ववदस्तीति आगमप्रामाण्यादभ्युपगम्यताम् । तच्च संसारदशायां
अविद्यावरणवशेन नानुभूयते । तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तरा
विद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति ॥
सिद्धान्ते मुक्तौ सुखाभावे प्रमाणम्
तदिदमनुपपन्नम्—आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् ।
प्रत्यक्षं तावन्नास्मदादीनामन्येषां वा केषांचिदस्मिन्नर्थे प्रभविष्यतीति
केयं कथा ? अनुमानमपि न संभवति, लिङ्गलेशानवलोकनादिति ॥
नित्यसुखसद्भावे अनुमानं न प्रमाणम्
ननु ! उक्तमेवानुमानमपवर्गाय, यत्र प्रेक्षावतां प्रयत्नः । सुख
सिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति । तदयं इष्टा
धिगमार्थः मुमुक्षोः प्रयत्नः, प्रेक्षापूर्वकारिप्रयत्नत्वात्, कृष्यादिप्रयत्न
वदिति ॥
II.433
अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तः न
निष्प्रयोजनप्रयत्ना भवन्तीति अनैकान्तिको हेतुः ॥
नित्यसुखसद्भावे आगमाः न प्रमाणम्
अथ आगमादवगम्यते—बिभुत्वेनेव, नित्येन सुखेनाविनाकृतः स्वा
त्मेति । तथा च पठ्यते—विज्ञानमानन्दं ब्रह्म इति—
स्यादेतदेवम्—यद्येतदेव केवलं आगमवचनमश्रोष्यत । वचनान्त
रमपि तु श्रूयते—न ह वै सशरीरस्य सतः प्रियाप्रिययोरुपहतिरस्ति ।
अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः इति ॥
आगमवाक्यानामन्यथासिद्धत्वम्
ननु ! भवत्पठितमागमवचनं अन्यथापि व्याख्यातुं शक्यते । सशरी
रस्य इति प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलंभसंभवे
तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः ॥
हन्त ! तर्हि त्वदधीतमपि वेदवचनं आनन्दं ब्रह्म इति संसारदुःख
परिहारप्रकरणादेव तद्दुःखापायविषयं व्याख्यास्यते । न खलु व्याख्या
नस्य भगवतः काचिदभूमिरस्ति । दृष्टाश्च दुःखोपरमे सुखशब्दप्रयोगाः ॥
II.434
मुक्तौ शरीरादीनामप्यङ्गीकारप्रसङ्गः
यदि च आनन्दम् इति वचनात् नित्यं सुखमात्मन इष्यते, तर्हि
ब्रह्म इति वचनात् व्यापकत्वमिव, विज्ञानम्1337 इति वचनात् ज्ञानमपि
नित्यमस्याभ्युपगन्तव्यम् । अतश्च सुखवत् ज्ञानस्यापि नित्यत्वात् संसारेऽपि
नित्यसुखोपलब्धिः स्यात् । ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य
नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च—
अथ कार्यं 1338सुखज्ञानम्, हेतुस्तस्य विचिन्तनीयः—यत उत्पद्यत
इति । धर्माच्चेत्, सोऽपि किंप्रभव इति वाच्यम् । योगसमाधिज इति
चेत्, तस्य स्वकार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं
स्यात् । अप्रक्षयश्च धर्मस्य निरनुमानकः । न हि योगसमाधिजो धर्मः
न क्षीयत इत्यत्र च किंचिदनुमानमस्ति । विपर्यये तु प्रसिद्धमनुमानम्,
सर्वस्य कृतकस्यानित्यत्वदर्शनादिति । क्षीणे च धर्मे तत्कार्यज्ञानाभावात्
सदपि सुखमनुपलभ्यमानं असतो न विशिष्यते ॥
आत्मसुखस्य स्वप्रकाशत्वनिराकरणम्
स्वप्रकाशं तत् सुखमिति चेत्—न—संसारेऽपि तदुपलब्धिप्रसङ्गात् ।
शरीरादिसंबन्धः प्रतिबन्धहेतुरिति चेत्—न—शरीरादीनामुपभोगार्थत्वात् ।
भोगार्थाः शरीरादयस्ते भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना ॥
II.435
सुखस्यावरणासंभवः
अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्—न—प्रकाशस्य
तुच्छेनावरितुमशक्यत्वात् । न च प्रकाशरूपं पारमार्थिकमात्मनः सुखं
तद्विपरीततुच्छस्वभावेयमविद्या न परीतुमर्हति, मेघादिना दिनकरकिरणा
वरणावधारणात् ॥
तस्मान्न नित्यानन्दत्वमात्मनः सुवचम् ॥
मोक्षस्य नित्यसुखरूपत्वे मुक्त्यसंभवः
अपि च मोक्षे नित्यानन्दस्वभावे तद्रागेण प्रयतमानो मुमुक्षुः न
मोक्षमधिगच्छेत् । न हिरागिणां मोक्षोऽस्तीति मोक्षविदः ॥
दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष
इति चेत्—न—मुमुक्षोर्द्वेषाभावात् । रागद्वेषौ हि संसारकारणमिति च
जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथं संगच्छते ॥
सुखेऽप्यस्य रागो नास्त्येवेति चेत्—न—स्वर्गनिर्विशेषेऽपवर्गे स्वर्गव
द्रागस्य संभाव्यमानत्वात् । दुःखेन तु निर्विण्णस्य मुमुक्षोर्वैराग्यं जायते
न दुःखविषयो द्वेषः । विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति, न दुःखं
द्विषत इति न समानो न्यायः1340 ॥
II.436
केवलदुःखनिवृत्तेरपि पुरुषार्थत्वम्
यदुक्तं तादृशो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति—तदपि
न सांप्रतम्—प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानु
वर्ति प्रमाणं भवितुमर्हति ॥
यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचिरः—कामं मा भूत्—न
त्वप्रमाणकमानन्दं त्वत्र कल्पयितुं शक्नुमः ॥
सुखरहितस्यापि मोक्षस्योपादेयत्वम्
न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः । न च
तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति । दुःखसंस्पर्शशून्यशाश्वतिक
सुखसंभोगासंभवात्, दुःखस्य चावश्यं हातव्यत्वात्, विवेकहानस्य
चाशक्यत्वात्, विषमधुनी इवैकपात्रे पतिते उभे अपि सुखदुःखे त्यज्येता
मिति । अतश्च संसारान्मोक्षः श्रेयान्, यत्रायमियानतिदुस्सहो दुःख
प्रबन्धोऽवलुप्यते, वरमियती कादाचित्की सुखकणिका त्यक्ता, न तस्याः
कृते दुःखभार इयानूढ इति । तस्मान्न सुखोपभोगात्मको मोक्ष1341
इति ॥
जागति सुखमेव नास्तीति बौद्धपक्षः
अन्यस्त्वाह—तिष्ठतु तावन्मोक्षः ! संसारेऽपि न सुखं नाम किंचि
दस्तीति सर्व एवायं दुखाभावमात्रे सुःखव्यवहारः । तथा हि—
II.437
संसारे सुखसद्भावसिद्धान्तः
उच्यते—तदिदमतिकृतकवैराग्यप्रकटनकौरुकुचीकौशलम्, आनन्दा
त्मनः प्रतिप्राणिसंवेद्यस्य सुखस्य निह्नोतुमशक्यत्वात्1342 । अनिवृत्तेऽपि
दुःखे क्वचित् सुखसंवेदनात् न दुःखाभावः सुखम् । निरभिलाषस्याप्य
तर्कितोपनतसुखसाधनविषयसंपर्के सति सुखसंवेददर्शनात् ॥
अभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम् । यस्तु दुःखा
भावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव पूर्वं दर्शितः, स
भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः । मोक्ष
तु नित्यसुखमसंभवत्प्रमाणत्वात् नाभ्युपगम्यते ॥
मोक्षस्य आत्मस्वरूपात्मकत्वम्
अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनो
चितः । स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्र
आत्मस्वरूपमेव कीदृशमिति चिन्त्यम्, न पृथङ्मोक्षस्वरूपम् । आत्म
नश्च सुखदुःखबुध्यादयः आगन्तुका गुणाः, न महत्त्ववत् सांसिद्धिका इति
निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति ॥
आत्मनः चैतन्यरूपत्वनिरासः
अत एव कापिलकथितचितिशक्तिस्वभावत्वमपि न युक्त
मात्मनः ॥
II.438
ज्ञानोत्पत्त्यर्हत्वरूपचैतन्यरूपत्वेऽविरोधः
यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते—तर्हि तथा
विधस्य तस्य कैवल्यस्यास्माकीनमोक्षसदृशत्वमेव । सत्संवित्प्रसवयोग्य
तामात्रसंभवेऽपि दृश्येन्द्रियसंप्रयोगादिसामग्रीवैकल्यात् कैवल्यावस्थाया
II.439
मात्मनो द्रष्टृत्वासंभवात् । दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्त
त्वादिति ॥
बौद्धसंमतमोक्षविमर्शः
जैनसंमतमोक्षविमर्शः
II.440
मोक्षोपायविचारः
आह—भवत्वयमीदृगपवर्गः । स तु कथमधिगम्यत इत्युच्यताम् ।
उक्तमेव भगवता सूत्रकारेण—
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये
तदनन्तरापायादपवर्गः ॥ १-१-२ ॥
दुःखोच्छेदस्तावदपवर्ग इति कथितम् । कार्यत्वाच्च दुःखस्य
कारणोच्छेदात्तदुच्छेदः । कारणं चास्य जन्म । जन्मनि सति हि दुःखं
भवति । जायते इति हि जन्म देहेन्द्रियादिसंबन्धः आत्मनः । तदपि
जन्मकारणोच्छेदादेवोच्छेद्यम् । अतस्तत्कारणं प्रवृत्तिरुच्छेद्या । तस्या
अपि हेतूच्छेदात् उच्छेद इति तद्धेतयो दोषाः उच्छेद्याः । तेषां तु
निमित्तं मिथ्याज्ञानम् । तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना भवन्तीति मिथ्या
ज्ञानमुच्छेद्यम् । तदुच्छेदे च तत्त्वज्ञानमुपायः । प्रसिद्धो ह्ययमर्थः
समर्थितश्च पूर्वं विस्तरतः तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकमिति । तस्मा
तत्त्वज्ञानान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति ॥
तत्त्वज्ञानस्य मिथ्याज्ञाननिवर्तकत्वम्
यद्यपि मिथ्याज्ञानमपि जन्मकार्यम्1349, अशरीरस्यात्मनो मिथ्याज्ञाना
नुपपत्तेः । इतरेतरकार्यकारणभावेन बीजाङ्कुरवदनादिप्रबन्धप्रवृत्तेन
प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्याख्यायते—तथापि—तत्का
रणोच्छेदचिन्तायां कुतः प्रभृत्युच्छेद उपक्रम्यतामिति विचार्यमाणे विशेष
नियमाभावात् यतः कुतश्चिदिति प्राप्ते, मिथ्याज्ञानस्य प्रतिकूलमुच्छेद
II.441
कारणं तत्त्वज्ञानमुपलब्धमिति विशेषे प्रमाणाभवात् तदुच्छद एवोप
क्रम्यते ॥
अत एव मिथ्याज्ञानमूलः संसार उच्यते । तस्मिन् उच्छिन्ने तदु
च्छेदसंभवात्, न ततः प्रभृति संसारः प्रवर्तत इति निपुणमतिभिरपि
निर्धारयितुं शक्यम्, अनादित्वात्तस्येति ॥
तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायः, दोषापाये प्रवृ
त्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःखापायः—स एवापवर्ग
इति । तदिदमुक्तं उत्तरोत्तरापाये तदनन्तरापायात् इति ॥
मोक्षस्य दुरधिगमत्वशंका
आह—विदितोऽयं सूत्रार्थः; किन्त्वघटमानमनोरथविडम्बनामात्र
मिदम् अलीकश्रद्दधानताप्रकटनं वा । दुरधिगमस्तु संकटो मोक्षमार्गः ॥
न तूद्यमसमये1350 तदधिगमसमर्थामुपलभामहे सरणिम्, ऋण
क्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात् ॥
ऋणत्रयस्य दुस्तरत्वम्
ऋणानुबन्धस्तावत्—जायमानो ह वै ब्राह्मणः त्रिभिरृणैरृणवा
। ब्रह्मचर्येण ऋषिभ्यः यज्ञेन देवेभ्यः प्रजया पितृभ्यः इतीदं हि
II.442
वेदे पठ्यते । तत्र प्रथमं ऋषीणामनृणः स्याम् इति ब्रह्मचर्यमाचरति ।
ततः पितृणामनृणः स्याम् इति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यव
हरति । तदनु गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्म
स्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्याम् इति । कोऽस्य मोक्ष
व्यवसायावसरः ?
मोक्षस्य श्रुतिविरुद्धत्वम्
ननु च !
इति मन्वादिस्मरणात् अस्त्येव तदवसरः—न—श्रुतिवाक्यविरोधात् ।
एवं हि श्रूयते 1351जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया
ह वा एष एतस्मान्मुच्यते मृत्युना वा इति । न च कर्मप्रयोगाशक्त्या
कर्मभ्यो विरन्तुं शक्यते; स्वयमशक्तस्य बाह्यशक्त्युपदेशात् । अन्ते
वासी वा जुहुयात, 1352ब्रह्मणा हि स परिक्रीतः । क्रीतो वा जुहुयात्
धनेन हि स परिक्रीतः । अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कथं
शक्तिः ?
रागादीनां अवर्जनीयत्वम्
क्लेशानुबन्धादप्यपवर्गाभावः—
II.443
तथाहि—चिरमपि तपसि नियमितमतिरपि अविजितविषमशर
विकृतिः तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वा
मित्रः कुसुमधन्वनो गत इति श्रूयते ॥
रागविवृद्धिहेतव एवाधिकाः
अलमाख्यायिकया । अद्यत्वेऽप्येवं शतशो दृश्यत इति दुरुच्छेदा
दोषाः । वीतरागजन्मादर्शनात् इति च विचारितमात्मपरीक्षायाम् ।
अवियुक्त एव दोषैर्जन्तुर्जायत इति दोषविवृद्धिहेतवश्च रूपादयो विषयाः ।
ते कथमिव स्वकर्मण्युदासते ॥
अपि च—
इत्येवं 1353निदानानुपशमादपि स्थित एव क्लेशानुबन्धः ॥
प्रवृत्तेरपि दुस्त्यजत्वम्
प्रवृत्त्यनुबन्धः खल्वपि—
II.444
अज्ञाननैरपेक्ष्येण कर्मणां स्वभाव एवैषः, यत् फलाविनाभावि
त्वमिति ॥
II.445
मोक्षस्य दुरधिगमत्वशङ्कानिरासः
अत्राभिधीयते—यत्तावदुक्तं ऋणानुबन्धात् इति—तदयुक्तम्—
विधिपदाश्रवणात् औपचारिकम् ऋणशब्दं जायमानशब्दं च प्रयुज्य कर्म
स्तुतिरियं क्रियते जायमानो ह वै ब्राह्मणः इति । न तद्व्यतिरिक्त
पुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते ॥
तथा हि—ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धः, यत्रोत्तमर्णः
सलाभममुतः प्रतिग्रहीष्यामि इति धनमधमर्णाय प्रयच्छति । अधम
र्णोऽपि सलाभमस्मै प्रदास्यामि इति मत्त्वा गृह्णाति । सोऽयं ऋण
शब्दस्य मुख्यो1356 विषयः इह नास्त्येव ॥
जायमानोऽपि मुख्यः उत्पद्यमानो हि मातुः कुक्षिकुहारान्निस्सरन्नभि
धीयते । न चासौ तपस्वी बालः कर्मभिरभिसंबध्यते । तस्मात् ब्रह्म
चर्यम्, अपत्योत्पादनम्, अध्वरप्रयोग इति त्रितयमिदम्, ऋणवदवश्य
कर्तव्यमिति कर्मस्तुतिरियमौपचारिकपदप्रयोगाद्गम्यते । न चैतावता
मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयि
कस्य दर्शनात् ॥
कर्मणां विरतिः आवश्यकी
ननु ! मरणावधि दर्शपूर्णमासादिधर्मोपदेशात् कथमाश्रमान्तर
ग्रहणम्—न—जरामर्यवादस्थाप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात् ।
II.446
ये चत्वारः पथयो देवयानाः इत्यादयो हि चतुर्थाश्रमशंसिनः भूयांसः
सन्ति मन्त्रार्थवादाः । मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्था
श्रमोचितशौचाचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव
दृश्यन्ते—
इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः
समस्त एव मनुनाऽनुक्रान्तः ॥
सन्यासाश्रमः स्पष्टश्रुतिसिद्धः
जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन 1357प्रतिपदमाश्रमचतुष्टय
मुपदिष्टम् ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी
भूत्वा प्रव्रजेत् इति ॥
अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नूयते ।
अपि च उपनिषदामध्ययनं असति मोक्षोपायप्रयोगसमर्थे चतुर्थाश्रमे
निरर्थकमेव प्राप्नोति । क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डो
पदेशः किंप्रयोजनः स्यात् ॥
चतुर्थाश्रमकालः
तदेवं वर्णवत् आश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्था
श्रमिणां च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसंभवात् सोऽयं
II.447
जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते । जरया ह वा एष एत
स्मान्मुच्यते मृत्युना वा इति च वचनात् जरसा कर्मत्यागानुज्ञानात् स
एव चतुर्थाश्रमावसर इति गम्यते । तदुक्तम्—
म. स्मृ. 6. 2 इति ॥
इतरथा हि मृत्युनैव च तस्मान्मृच्यते इत्यवक्ष्यत, च त्वेवमब्रवीत् ।
तस्मात् वार्धकदशोचितं चतुर्थमाश्रममनुमन्यन्ते ॥
विरक्तस्य सर्वस्य सन्यासाधिकारः
तिष्ठतु वा वार्धकदशा । यूनोऽपि परिपक्वकाष यस्याश्रमचतुष्टय
क्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः । यथोक्यं ब्रह्मचर्यादेव प्रव्रजेत्
इति । अत एव द्विविधो ब्रह्मचारि भवति—उपकुर्वाणः नैष्ठिकश्च ।
तत्र उपकुर्वाणकः यो ब्रह्मचर्यमनुभूय गृहस्थाश्रममनुभवति । स चापरि
पक्वकषायः, अनुषशान्तरागः । तमेव प्रतीदमुच्यते—
म. स्मृ. 6. 37 इति ॥
यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति, न गृहस्था
मं प्रतिपद्यते । गृहस्थोऽपि परिपक्वकषायः वानप्रस्थाश्रममुल्लङ्घ्य
यतित्वेऽधिक्रियते । यथोक्तम्—गृहाद्वा वनाद्वा प्रव्रजेत् इति ॥
II.448
गृहस्थस्यापि मोक्षः
केचित्तु—कर्मफलाभिसन्धिरहितस्य, कर्तव्यमिति कर्म कुर्वतः क्षीण
रागस्यात्मविदः गृहस्थस्यापि 1359मोक्षमाचक्षते । यथाऽऽह याज्ञवल्क्यः—
इति । तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् ॥
क्लेशानां परिहारोपायः
यत्तु क्लेशानुबन्धादिति—तदप्यनध्यवसायमात्रम् । 1360प्रतिपक्ष
भावनादिना क्लेशोपशमस्य सुशकत्वात् । यदि हि दोषा नित्या भवेयुः,
अनित्यत्वेऽप्याकस्मिका वा, सहेतुत्वेऽपि यद्येषां नित्यो हेतुर्भवेत् । कार्यो
ऽपि वा यद्यसौ न ज्ञायेत, ज्ञातस्य वाऽस्य शमनोपायो न ज्ञायेत, ज्ञातोऽपि
वाऽनुष्ठातुमसौ न शक्येत, तदा क एवैनमुच्छिन्द्यात् । किन्तु—
न हि दोषाणां आत्मस्वरूपवन्नित्यत्वं, उपजननापायधर्मकत्वेन
ग्रहणात् मिथ्याज्ञानं च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्,
अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा ॥
II.449
प्रतिपक्षभावनया क्लेशक्षयः
मिथ्याज्ञानस्य च सन्यग्ज्ञानम् प्रतिपक्षभावनाभ्यासेन च समूल
मुन्मीलयितुं शक्यन्ते दोषाः इति नाज्ञातप्रतीकारत्वं तेषाम् । उक्तं च
केन चित् प्र-वा-3-220—
इति । विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति ।
यदा ह्येष चिन्तयति विवेकी—
II.450
एवमहनिशं चिन्तयतो नितान्तं शान्तस्य मनसः समचित्तता
सर्वत्र समुद्भवतीति विलीयन्ते दोषग्रन्थयः ॥
प्रतिपक्षभावनया दोषक्षयः
ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति ।
निम्बाभ्युपयोग इव क्रियमाणे कफधातुरिति—नैतदेवम्—तत्र निम्बोपयो
गवत् तदनुकूलस्यान्नपानादेरुपयोगदर्शनात् । अपि च—
II.451
न च प्रतिपक्षभावनाभ्यासमेकं अस्त्रमपास्य तदुपशमे निमित्तान्तरं
किमपि क्रमते ॥
भोगानां नोपभेगेन क्षयः
न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति । यथाऽऽह—
अन्यत्राप्युक्तम्—भोगाभ्यासमनु विवर्धन्ते रागाः, कौशलानि
चेन्द्रियाणाम् इति ॥
पाराशर्योऽप्याह—
तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिः अन्तःकरणकान्तारे
निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति ।
तदेवं दोषानुबन्धविध्वंसोपायसंभवान्न तत्कृतो मोक्षमार्गनिरोधोऽ
भिधातव्यः ॥
क्लेशाद्यनुबन्धनिवृत्तिमात्रं साध्यम्
अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वात् मलानामागन्तुकत्वात्,
मलनिबर्हणहेतोश्च यथोक्तस्य संभवात्, तदाचरणात्तदपाये सति स्वत
स्सकलपदार्थदर्शनसामर्थ्यस्वभावचित्तत्त्वावस्थानात् सर्वज्ञसिद्धिमदूरवर्ति
नीमेव मन्यन्ते ॥
II.452
सुषुप्त्यादौ शुद्धस्यात्मनो लेशतो भानम्
यदप्युक्तं क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टम्, अनुबन्ध
वृत्तित्वात् क्वेशानामिति—तदप्यसत्यम्—सुषुप्तावस्थायामस्पृष्टस्य दोषै
रात्मनः प्रत्यहमुपलम्भात् । जाग्रतोऽपि का चन तादृशी दृशा दृश्यत एव,
यस्यामसावात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते । यथोक्तं अहरहर्ब्रह्म
लोकं यान्ति इति1364 । तदलमनेन दोषानुबन्धकथानुबन्धेन ॥
प्रवृत्तीनां विरतिसंभवः
यदपि प्रवृत्त्यनुबन्धादिति प्रत्यपादि—तदपि सूत्रकृता समाहितम्
—न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य न्या-सू-4-1-64 इति ।
दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभव
तीति ॥
कर्मक्षयप्रकारवर्णनम्
अत्र केचिदाहुः—ददत्येव कर्माणि, नादत्त्वा शाम्यन्ति; तथापि
बन्धहेतवो न भवन्ति । यतः शमसन्तोषादिजनितं योगिनः सुखमुत्पाद्य
धर्मो विनङ्क्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति ॥
II.453
कर्मणां फलनैयत्येऽपि न हानिरिति पक्षः
ननु ! अमुष्मात्कर्मणः इदं फलं भवतीति1365 कर्मफलानां कार्यकारण
भावनियमात्, कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे
वर्णयन्ति । योगी हि योगर्धिसिद्ध्या विहितनिखिलनिजधर्माधर्मकर्मा
निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि
शरीराणि1366, रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा
सकृदेव सकलकर्मफलमनुभवति प्राप्तैश्वर्य 1367इतीत्थमुपभोगेन कर्मणां
क्षयः ॥
तत्त्वज्ञानेन कर्मणां नाशपक्षः
अन्ये त्वाचक्षते—किमनेन भोगायासेन, अदत्तफलान्येव कर्माणि
योगिनो नङ्क्ष्यन्ति । तत्त्वज्ञानस्यैव भगवत इयान् प्रभावः, यदस्मिन्नु
त्पन्ने चिरसंचितान्यपि कर्माणि सहसैव प्रलयमुपयान्ति । भोगादपि
तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः । तथा तत्प्रामाण्यादेव तत्त्वज्ञाना
दपि तत्प्रक्षयं प्रतिपत्स्यामहे । तथा चाह—
गी. 4-37 इति ॥
न चेदं श्रद्धामात्रम्, वेदविदामग्रण्या व्यासमुनिनैव समभिधानात्,
अवेदार्थं हि नासावभिदधीतेति ॥
II.454
कर्मणां फलजननशक्तिनाशपक्षः
तमन्ये न मन्यन्ते । न सर्वामना कर्मणां दाहः । किन्तु स्वरूपेण
सतामपि सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति, भ्रष्टा
नामिव बीजानामङ्कुरकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका,
न केवलं कारकम् । अतो न कर्माण्येवकेवलानि फलोपभोगयोग्यशरीरे
न्द्रियादिजन्मनिमित्ततामुपयान्ति । किन्तु मिथ्याज्ञानेन दोषैश्च सहि
तानि । तदुक्तं अविद्यातृष्णे धर्माधर्मौ च जन्मकारणम् इति ॥
तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका भवति ।
दोषाणां तु प्रथमे दर्शित एव क्रमः । तदभावे भवन्तावपि धर्माधर्मौ न
बन्धाय कल्पेते । न हि स्वकार्यमङ्कुरादि कुसूलवर्तीनि बीजानि जन
यितुमुत्सहन्ते ॥
भ्रष्टबीजानामपि स्वरूपशक्तिरपि 1368तानवं गता । तद्वत् कर्मणां
स्वरूपशक्तिशैथिल्यं मा नाम भूत् । तथापि कुसूलवर्ति बीजवत् सहकारि
वैधुर्यात् कार्यानारम्भ इति । तदिदसुक्तं 1369न प्रवृत्तिः प्रतिसन्धानाय
हीनक्लेशस्य न्या-सू-4-1-64 इति ॥
धर्माधर्थयोः न संपूर्णनाशः
ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं नवानामात्मगुणानां
निर्मूलोच्छेदोऽपवर्ग इति—नैष दोषः—मनस्संयोगवदकिंचित्करयोरवस्था
नमपि उच्छेदान्न विशिष्यते । मुक्तस्यात्मनः विभुत्वादपरिहार्यो मन
II.455
स्संयोगः । न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते ।
एवं धर्माधर्मौ सन्तावपि फलमनाक्षिपन्तौ किं करिष्यत इति फलत
उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्य
विरुद्धम्1370 ॥
एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः ॥
ज्ञानकर्मसमुच्चयवादः
अपरे पुनराहुः—कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः
शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः,
योगर्द्ध्या च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव संपादयितुमशक्य
त्वात् ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्य
प्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा
कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गात् अवश्यं स्वफ
लोपभोगद्वारक एव कर्मक्षयो वाच्यः ॥
न चानिर्मोक्ष आशङ्कनीयः, ततश्चिरादपि तत्सिद्धिसंभवात् ।
तथा च मुमुक्षुर्नित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत्, अननुतिष्ठन् प्रत्य
वेयादिति तत्कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धं च कर्म स्वर्गनरक
कारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽयं न
कर्मसंचयः प्रवर्तते । तदाह—
II.456
नित्यकाम्यकर्मविभागः
प्राक्तनस्य तु कर्मसंचयस्य भोगादेव क्षयः । आत्मविदश्च मुमु
क्षोरयमनुष्ठानक्रमो भवति, नेतरस्येति स एवेत्थमपवृज्यत इति ।
आह च—
ननु ! नित्यकर्मनुष्ठानपक्षे नास्त्येव मोक्षः । यान्येव हि नित्यानि
दर्शपौर्णमासादिकर्माणि यावज्जीवं दर्शपूर्णमासाभ्यां यजेत इत्यादि
चोदनोपदिष्टानि, तान्येव फलवन्ति श्रूयन्त इति काम्यान्यपि भवितुम
र्हन्ति दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत् अग्निंहोत्रं जुहुयात्स्वर्गकामः
इति—न—फलाभिसन्धानपूर्वकत्वेनाप्रयोगात् । तथाऽऽह—
इति । सोऽयं प्रवृत्तौ विशेषः । प्रयोगेऽपि विशेषः । काम्यं कर्म
सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति न यथाशक्ति तथा तथा
प्रयोक्तव्यमिति । नित्यकर्मणः अकरणात् प्रत्यवाय इति यथाशक्त्यपि
तत् प्रयोक्तव्यम् । अननुष्ठितात् यादृक्, तादृक् अनुष्ठितश्रेयःप्रत्य
वायपरिहारोपपत्तेः ॥
काम्ये तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयात्, मा प्रवर्तिष्ट ।
न ह्यप्रवर्तमानः प्रत्यवेयादिति ॥
II.457
एवंच तदेव दर्शपौर्णमासादिकर्म यावज्जीवं इति चोदनयोपदिष्टं
नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते । क्व सा
स्वर्गसाधनत्वशक्तिः अस्य गतेति चेत्—न—न वयं कर्मणां शक्तिमशक्ति
वा प्रत्यक्षतः प्रपश्यामः । शास्त्रैकशरणास्तु श्रोत्रिया वयम् । चोद
नैव धर्मे प्रमाणमिति नः कुलव्रतमेतत् । सा च चोदना एकत्र कामिनम
धिकारिणमाश्रित्य प्रवृत्ता । तदधिकारश्च फलनिर्वृत्तेर्विना न स्यादिति
फलपर्यन्ततां प्रतिपद्यते ॥
अन्यत्र तु यावत्पदोषबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्त
माना न फलाय प्रभवति । अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय भवति
अधिकृतेन सता शास्त्रार्थस्त्यक्त इति । काम्ये त्वनुत्पन्नकामोऽधिकृत
एव न भवतीति नाधिकृतेन सता विधिस्त्यक्त इति न प्रत्यवैतीति । उप
क्रम्य त्वन्तराले त्यक्तुं न लभत एव । वीतायां फलेच्छायां, आवाप्ते वा
फले तत्कर्मसमापनवदवश्यकर्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा
कथाविस्तरेण ॥
मोक्षस्य दुर्लभत्वम्
ननु ! भोगात् प्राक्तनकर्मक्षयपक्षे दीर्घकालापेक्षणात् अप्रत्यासन्न
इव मोक्षो लक्ष्यते—किं त्वया ज्ञातमधुनैव । हुंकृत्वा1372 निर्विलम्बमेव
मोक्षमाप्नुयादिति । न खलु सुलभोऽयं पुरुषार्थः । किं न श्रुतमिद
मायुष्मता क्यासवचनम्—
II.458
ज्ञानाग्निदाहवचनं तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चया
न्मोक्ष उच्यत इति ॥
ज्ञानकर्मसमुच्चयवादनिरासारम्भः
अत्राभिधीयते—न खलु फलोपभोगद्वारकः कर्मणां परिक्षयः जन्म
कोटिशतैरपि शक्यक्रियः । उक्तं हि—
तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैः मोक्षोपेक्षणमनक्षरमुपदिष्टं
भवतीति । तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् ॥
कर्मनाशस्वरूपनिश्चयः
ननु ! पक्षचतुष्टयेऽपि दोष उक्तः1373—न—चतुर्थपक्षस्य निरवद्य
त्वात् । सहकारिवैकल्यात् कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे
सति न कश्चिद्दोषः । एष एव च तेषां दाहः, यत् कार्यानारम्भक
त्वम् ॥
कर्मणां फलादानम्
ननु ! अविनष्टस्वरूपाणि कुसूलबीजवदेव कदा चिरादारप्स्यन्ते
कार्यम् । तस्माद्वरमुच्छिद्यन्तामेव । किमिदानीं नित्यमात्मानमप्युच्छेत्तुं
II.459
यतामहे । स हि पुरा भोक्ताऽभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्ये
तेति वरमुच्छिद्यन्तामेव ॥
सामग्र्यभावात् कथमसौ पुनः भोक्तृतां गच्छेत् ? इति चेत्—
कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे
रागादयो न सहकारिण इति वक्तुं शक्यते; वीतरागस्य जत्मादर्शनात्
इत्यसकृदुक्तत्वात् । तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः न
प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य इति ॥
ज्ञानकर्मसमुच्चयवादरूण्डनम्
यच्चेदमुच्यते ज्ञानकर्मसमुच्चयान्मोक्ष इति—तत्रेदं वक्तव्यम् ।
कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि तत्साध्यो मोक्षः; स्वर्गा
दिवदनित्यत्वप्रसङ्गात् ॥
अपि च—आत्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते; न चात्मस्वरूपं
कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात् ॥
कर्मणां चित्तकषायनिवर्तकत्वम्
ननु ! नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारो
पायत्वात् कर्मापि मोक्षाङ्गं स्यात्—न—सन्यासविधानस्य प्रत्यक्षोपदेशादि
त्युक्तत्वात् । अपरिपक्वकषायाणां शनैश्शनैस्तत्परिपाकौपयिकत्वेन
कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाऽऽह
मनुः—
II.460
अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डं मन्यन्ते । साक्षात्तु
कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात् कृतकस्य सर्वस्यानित्यत्वात्
तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् ॥
यमनियमादीनामपि ज्ञानाङ्गत्वम्
यदपि यमनियमादिसाध्यमङ्गभूतं कर्मजातम्, तदपि तदङ्गतां
गच्छन्न वार्यते । 1375तत्कार्यत्वेऽपि—यावद्गुणप्रघ्वंसाभावस्वभावत्वात्
मोक्षस्य न क्षयित्वं स्वर्गवत् । अन्यस्तु न मोक्ष इत्युक्तम् ॥
मोक्षहेतुतत्त्वज्ञानस्वरूपविचारः
आह—तत्त्वज्ञानमिदानीं विचिन्त्यताम्—किंविषयं तदपवर्गाय
कल्पते ? कुतो वा तस्य निःश्रेयससाधनत्वमवगतमिति ॥
ननु ! आत्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं
प्रश्नः ?—न—विप्रतिपत्तेः । विप्रवदन्ते ह्यत्र वादिनः ॥
मोक्षहेतुज्ञानविषये पक्षभेदाः
एक एवायम् । अविद्यापरिकल्पितः जीवात्मपरमात्मविभागः ।
परमात्मतत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः ॥
II.461
शब्दाद्वैतनिश्चयादिति वैयाकरणाः ॥
विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः ॥
प्रकृतिपुरुषविवेकविज्ञानादिति पारमर्षाः ॥
ईश्वरप्रणिधानादिति चान्ये1377 ॥
तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षवः इति वाच्यम् ॥
आत्मतत्त्वज्ञानस्यैवापवर्गोपायत्वम्
उच्यते—भिन्नास्तावदात्मान इति गृह्यतामात्मज्ञानमेव निःश्रेय
साङ्गमिति ॥
यत्तु—कुतस्तस्य निःश्रेयससाधनत्वमवगतमिति; अक्षपादवचना
दिति ब्रूमः । अक्षपादस्तावदेवमुपदिष्टवान् आत्मज्ञानान्निःश्रेय
साधिगमः इति । न च निष्प्रमाणकमर्थमेष ऋषिरुपादिशदिति भवित
व्यमत्र प्रमाणेन । तत्तु वैदिकं विधिवाक्यं 1378आत्मा ज्ञातव्यः इति ॥
स एष तावन्न निरधिकारः विधिः; अधिकाररहितस्य च विधेः
प्रयोगयोग्यत्वाभावात् । अधिकारान्वेषणमुपक्रमणीयम् । परप्रकरण
परिपठनविरहाच्च नास्य समिदाधिविधिवत् प्रधानाधिकारनिवेशित्वम् ।
अतः विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिणमिह यावदुपादातु
मध्यवस्यामः, तदैव न स पुनरावर्तते इत्यर्थवादसमर्पितेयमपुनरावृत्ति
रेव हृदयपथमवतरति, रात्रिसत्र इव प्रतिष्ठेति तामेवास्य फलत्वेन
प्रतिपद्यामहे ॥
II.462
आत्मज्ञानस्य न दृष्टफलसंभवः
ननु ! दृष्टप्रयोजनालाभे सति अदृष्टप्रयोजनपरिकल्पनावसरः ।
इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते । नित्ये
नात्मना विना भूतेष्वेवाचेतनेषु श्मशानावधिषु बहुवित्तव्ययायास
साध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य एवात्मा पर
लोकी ज्ञातव्यः । एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति ॥
तदिदमनुपपन्नम्—अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्षप्रत्य
येन 1380जैमिनीयैः, अनुमानमहिम्ना च नैयायिकादिभिः आत्मा नित्य इति
निश्चित एव । किमत्र विधिः करिष्यति । इतिकर्तव्यताकलापोपदेशश्च
तदानीमत्यन्तनिष्प्रयोजनः स्यात् ॥
वेदस्य फलवत्त्वम्
अमी च तथा नामातिमहान्तो वेदग्रन्था इयत्येव पर्यवसन्ना
इति ?—तदिदमुपनतम्—सेयं महतो वंशस्तम्बात् 1381लट्वाऽऽकृष्यत इति ।
तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरबलम्बत
इत्येवं केचित् ॥
II.463
आत्मज्ञानस्य मोक्षसाधनत्वं विधिसिद्धम्
सूक्ष्मदर्शिनस्त्वाहुः—इयमर्पि महती दुर्गतिः, यत् अर्थवादमुखप्रेक्षि
त्वमस्योक्तमधिकारविधेः । विश्वजिति रात्रिसत्रे वा किमन्यत् क्रिय
ताम् । न हि विश्वजिद्रूपपर्यालोचनतः कश्चिदधिकारी लभ्यत इति
बलात् स्वर्गकामादिः कल्प्यते वा, अर्थवादसमर्पितो वाऽबलम्ब्यते । यत्र
तु विधिस्वरूपमहिम्नैव तदुपलम्भः, तत्र किं कल्पनया, किमर्थवाद
वदनावलोकनदैन्येन वा ॥
इह च स्वाध्यायोऽध्येतव्यः इतिवत् अग्नीनादधीत इतिवद्वा
कृत्येन द्वितीयया वा ईप्सिततमत्वनिर्देशात् तन्निष्ठत्वमेवावतिष्ठते ।
तत्र यथाऽग्न्यर्थतयाऽऽधानविधिरवगम्यमानः अग्नीनामनेकविधपुरुषार्थौ
पयिककर्मकलापोपयोगात् तदार्जनेनैव कृतार्थत्वमुपगत इति न फलान्तर
मपेक्षते, यथा वा स्वाध्यायोऽध्येतव्यः इत्यक्षरग्रहणार्थत्वात् अस्य विधेः
अक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्न
तदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम् । न चाध्यापनविध्यङ्गत्वं,
स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात्; एवमिहाप्यपहत
पाप्माद्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन्नस्य
विधेरन्यप्रयोजनतामापादयति ॥
1382कश्चित् किल संस्कारविधिः संस्क्रियमाणनिष्ठोऽपि संस्क्रियमाण
प्रयोजनापेक्षया परमुखप्रेक्षी भवति—ब्रीहीन् प्रोक्षति इतिवत् । कश्चित्तु
संस्क्रियमाणप्रयोजनमलभमानः तदीप्सिततमत्वानिर्वहणात्—संस्कार
विधित्वमेव जहाति सक्तून् जुहोति इतिवत् । यथोक्तम्—
II.464
स्वतः पुरुषार्थानां न फलान्तरम्
यस्य तु संस्कार्यमनर्धमिव रत्नम् अपर्युषितमिवामृतम्, अनस्त
मितविव चन्द्रबिम्बम्, अपरिम्लानमिव शतपत्रमस्ति, कस्तर्हि प्रकरण
पाठापेक्षायां अर्थवादमुखप्रेक्षणेन फलकल्पनायां वाऽभिलाषः ? अत एव
न कामश्रुतिप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययन
स्येति ॥
तस्मात् स्वाध्यायाध्ययनाधानविधिसमानयोगक्षेमत्वात् आत्म
ज्ञानविधेः, तत्कृतमात्मज्ञानमपवर्गार्थमवगम्यते । तथाविधस्वरूप आत्मैव
परोपाधिजनितधर्मरहितः अपवर्ग इत्युच्यते । यतः तदिदमित्थमात्मज्ञान
मेव निःश्रेयससाधनं, अनन्यलभ्यमिति तदेवोपदिष्टवानाचार्योऽक्षपादः ॥
यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं—तत् मिथ्याज्ञानमेवेति न
निःश्रेयससाधनमिति ॥
ब्रह्माद्वैतवादनिरासः
ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् । प्रत्युत द्वैतदर्शनमविद्या
मायाऽपि, मिथ्याज्ञानमिति युक्तम् । तथा हि—प्रत्यक्षमेव तावत् निपुणं
निरूपयतु भवान् । तत्र हि यदन्यानपेक्षतया झगिति पदार्थस्वरूपमव
भासते1383, तत् पारमाथिकम्, इतरत् काल्पनिकमिति गम्यते । सद्रूपमेव च
II.465
च तत्राभिन्नमन्यनिरपेक्षमवभाति । भेदस्त्वन्यापेक्ष1384 इति नाक्षज
विज्ञानविषयतामुपयाति ॥
कारणस्यैव सत्यत्वम्, कार्यस्य मिथ्यात्वम्
तत्र यथा मृद्रूपतातः प्रभृति यावत्कुम्भावस्थेत्यस्मिन्नन्तराळे आवि
र्भवतां तिरोभवतां च घटकपालशकलशर्कराकणादीनां कार्याणां रूप
मपरमार्थसदेव व्यवहारपदवीमवतरति । परमार्थतस्तु मृत्तिकैव ।
यथाऽऽहुः मृत्तिकेत्येव सत्यम् छां. 6-1-4 इति । एवं तदपि मृत्ति
कारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था । तदेव
सल्लक्षणं ब्रह्मेत्याहुः ॥
आगमश्च एकमेवाद्वितीयं छां. 6-2-1 इत्यादिः अभेदमेव दर्श
यति नेह नानास्ति किंचन । मृत्योस्स मृत्युमाप्नोति य इह नानेव
पश्यति इति च ॥
प्रत्यक्षस्य शात्राविरोधित्वम्
न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य । न
ह्यन्यनिषेधे प्रत्यक्षं प्रभवति, स्वरूपमात्रग्रहणे परिसमाप्तव्यापारत्वात् ।
पररूपनिषेधमन्तरेण च भेदस्य दुरुपपादत्वात् भेदे कुण्ठमेव प्रत्यक्षमिति
कथमभेदग्राहिणं आगमं विरुन्ध्यात् । तदुक्तं—
II.466
बन्धमोक्षव्यवस्था
ननु यद्येकमेव ब्रह्म, न द्वितीयं किंचिदस्ति, तर्हि तद्ब्रह्म नित्य
शुद्धबुद्धस्वभावत्वात् मुक्तमेवास्ते । केन तद्बद्धमिति किमर्थोऽयं मुमुक्षुणां
प्रयत्नः । कुतस्त्यो वाऽयं विचित्रजगदवभासः—अविद्योच्छेदार्थो
मुमुक्षुप्रयत्न इति ब्रूमः । ततस्त्य एवायं विचित्रजागदवभासः ॥
अविद्यास्वरूपम्
केयमविद्या ? ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । अव्यतिरेके तु
ब्रह्मैव सा, ततो नान्याऽस्त्येषेति कथमुच्छिद्येत—मैवम्—वस्तुनीदृंशि
कुतार्किकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा, माया, मिथ्याव
भासस्वभावाऽभिधीयते । तत्त्वाग्रहणमविद्या । अग्रहणं च नाम कथं
वस्तुधर्मैः विकल्प्यते ?
अविद्याश्रयः
ननु ! तत्त्वाग्रहणरूपाऽपि कस्येयमविद्या । न हि ब्रह्मणो नित्य
बुद्धस्वभावत्वादविद्या भवति । अन्यस्तु नास्त्येव तदाश्रयः । न च
निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति—उच्यते—1386जीवात्मनामविद्या,
न ब्रह्मणः ॥
ननु ! के ते जीवात्मानः ? तेऽपि ब्रह्मणोऽन्यानन्यतया चिन्त्या एव
आः ! क्षुद्रतार्किक ! सर्वत्रानभिज्ञोऽसि । ब्रह्मैव जीवात्मानः, न ततो
ऽन्ये । न हि दहनपिण्डाद्भेदेनापि भान्तः स्फुलिङ्गाः अग्निस्वरूपा न
भवन्ति ॥
II.467
जीवाज्ञानवादः
तत् किं ब्रह्मण एवाविद्या ?—न च ब्रह्मणोऽविद्या । यथा ह्येकमेव
घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः—पटाकाशं घटाकाश
मिति, तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरण
विरतौ तु गळितकालुष्यमले तत्रैव परमे व्योम्नि लीयते—तथैव जीवा
त्मानोऽपि अविद्याकल्पितभेदाः तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति ।
तदुपरमे च परे ब्रह्मणि लीयन्ते इति ॥
अन्योन्याश्रयपरिहारः
ननु ! एवं सत्यप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः ।
सा च जीवात्मनामविद्येत्युच्यते । तदेतदितरेतराश्रयमापद्यते—अविद्या
कल्पनायां सत्यां जीवात्मानः, जीवात्मसु च सत्सु अविद्येति—भवत्वितरे
तराश्रयम् । अविद्याप्रपंच एवायमशेषः । कस्यैष दोषः ?
यदि वाऽनादित्वमस्य परिहारो बीजाङ्कुरवद्भविष्यति । भव
द्भिरपि चायमनादिरेव संसारोऽभ्युपगतः । अविद्ययैव च संसार इत्यु
च्यते ॥
अविद्यानिवृत्त्युपायः
ननु ! अनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति
1387भूमे रूपस्य । भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ?
ननु ! उपाये सत्यनादिरप्युच्छिद्यते । अद्वैतिनां कस्तदुच्छेदोपायः ?
अविद्यैवेति ब्रूमः । श्रवणमनननिध्यानादिरप्यविद्यैव । सा त्वभ्यस्य
II.468
माना सती अविद्यान्तरमुत्सादयति, स्वयमप्युत्सीदति । यथा पयःपयो
जरयति, स्वयं च जीर्यति । विषं विषान्तरं शमयति, स्वयं च शाम्यति ।
यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽम्भसि तच्चात्मानं संहृत्य
स्वच्छमम्बु करोति । एवमियमविद्यैवाविद्यान्तरमुच्छिन्दन्ती विद्यो
पायतां प्रतिपद्यते ॥
असत्यादपि सत्यसिद्धिः
ननु ! स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते—
रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते । स्वरूपेण
सत्यास्त इति चेत्—किं तेन क्रियते । गकारादित्वेन हि ते प्रति
पादकाः । तच्चैषामसत्यमिति ॥
शुद्धस्यापि ब्रह्मणोऽविद्ययाऽऽवरणम्
ननु ! ब्रह्मणो नित्यशुद्धत्वात् जीवानां च ततोऽनन्यत्वात् कथं
तेष्वविद्याऽवकाशं लभते—परिहृतमेतत् घटाकाशदृष्टान्तोपवर्णनेन ॥
अपि च यथा विशुद्धमपि वदनबिम्बं अम्बुमणिकृपाणदर्पणाद्युपाधि
वशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति, तथा ब्रह्मणस्तद
भावेऽपि जीवेषु तदवकाश इति ॥
II.469
बद्धमुक्तव्यवस्थोपपत्तिः
ननु ! परमात्मनो नित्यत्वात् जीवानामप्यन्योन्यमनन्यत्वमित्येक
स्मिन् बद्धे, मुक्ते वा सर्वे बद्धाः मुक्ता वा स्युः—अयि कुतर्ककलुषितमते
कथं बोध्यमानोऽपि न बुध्यसे । घटाकाशे हि घटभङ्गात् परमाकाश
प्रतिष्ठे जाते, न पटाकाशोऽपि तथा भवति । एकस्यापि जीवात्मनः
उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते—पादे मे वेदना शिरसि मे
वेदना इति । तीव्रतरतरणितापोपनतातनुतरक्लमस्य च यत्रैव च
शरिरावयवे शिशिरहरिचन्दन1389स्थासकमुपरचयति परिजनः, तत्रैव
तद्दुःखोपरमानुभवः नान्यत्रेति, एवमेकस्मिन्नपि परमात्मनि कल्पनामात्र
प्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिद्ध्यत्येवेति एकात्मवाद एवा
यमागमानुगुणः उपगन्तुं युक्तः, नानन्त्यमात्मनाम् ॥
ब्रह्माद्वैतवादनिराकरणम्
अत्राभिधीयते—कपटनाटकरहस्यप्रक्रियाकूर्चोपरचने तदनुगुणदृष्टा
न्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरू
पणे तु तपस्विन एव भवन्तः । तथा हि—भेदस्य प्रमाणबाधितत्वात्
किमयमभेदाभ्युपगमः भवताम्, उत स्वित् अभेदस्यैव प्रमाणसिद्धत्वा
दिति । द्वयमपि नास्ति । प्रत्यक्षादीनि हि सर्वाण्येव भेदप्रतिष्ठानि
प्रमाणानि ॥
II.470
भेदस्य प्रत्यक्षत्वम्
यत्तावत् भेदस्य परापेक्षत्वात् अक्षजज्ञानगम्यता नास्तीति—तद
युक्तम्—अभेदस्य सुतरां परापेक्षत्वात्1390 । मृत्पिण्डात्प्रभृति घटकर्पर
चूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तदभिन्न
रूपत्वमवधार्येत, नान्यथा1391 ॥
1392भिक्षवस्त्वाचक्षते चाक्षुषं व्यावृत्तस्वलक्षणग्राहि, नाभेदविषयं,
अभेदस्य परापेक्षत्वादिति ॥
अभेदस्य भेदाधीनत्वम्
अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्—अयमस्मिन्ननुस्यूत
इतीयमपि परापेक्षैव1393 ॥
तदत्र भवान् भिक्षवश्च द्वावपि दुर्ग्रहोपहतौ । भेदाभेदग्रहणनिपुण
मक्षजमिति परिक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् । अङ्गुलिचतु
ष्टयं हि प्रतिभासमानमितरेतरविविक्तरूपमप्यनुगतरूपमपि प्रकाशत
इत्युक्तम् ॥
1395 II.471
प्रत्यक्षं भेदाभेदोभयविषयकम्
यदप्युक्तं आहुर्विधातृ प्रत्यक्षं, न निषेद्धृ इति—तदप्यसाधु—
विधातृ इति कोऽर्थः ? इदमपि—
अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीता
दिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा । तथा चाह
तत् परिच्छिनत्ति, अन्यद्व्यवच्छिनत्ति इति ॥
भाववदभावमपि गृहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्मा
भिरेवैतत् । तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं
प्रत्यक्षम् ॥
शब्दानुमानयोः भेदाबलम्बनत्वम्
शब्दानुमानयोस्तु संबन्धग्रहणाधीनस्वविषयव्यापारयोः भेदमन्त
रेण1396 स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव । विशेष
विषयत्वाभावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् भेद
विषयमनुमानम् ॥
शब्दस्य तु पदात्मनः तद्वदादिवाच्यभेदरूपस्य तु परस्परोपरक्त
पदार्थपुंजस्वभावः, इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थो
विषय इति पूर्वमेव निरूपितम् । अतः सर्वथा न भेदस्य प्रमाण
बाधितत्वम् ॥
नाप्यभेदग्राहि1397 किंचन प्रमाणमस्ति यथोक्तेनैव न्यायेन ॥
II.472
अभेदे न श्रुतिः प्रमाणम्
यस्तु आगमः पठितः एकमेवाद्वितीयम् नेह नानास्ति किंचन
इत्यादिः—1398तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ॥
अर्थवादानां सर्वेषां न स्वार्थे प्रामाण्यम्
ननु ! सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः—बाढमभ्यु
पगतम् । किन्तु धूम एवाग्नेदिवा ददृशे नार्चिः इत्येवमादीनां प्रत्यक्षा
दिविरुद्धार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या
व्याख्यानमाश्रितम्1399 । एवमिदमपि वचनं इतरप्रमाणविरुद्धमर्थम
भिदधत् अन्यथा व्याख्यायते ॥
ये तु प्रमाणान्तरविरुद्धार्थानुवादिनो न भवन्ति अर्थवादाः, तेषामस्तु
स्वरूपे प्रामाण्यं वायुर्वै क्षेपिष्ठा देवता इत्येवमादीनाम् ॥
तस्मात् सुखदुःखावस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादि
नानात्वेऽपि वा न तस्य नानात्वमित्येवं यथाकथंचिदयमर्थवादो योज
नीयः । अभेदोपदेशी तु तत्परः शब्दः विधिरूप इह नास्त्येव । एव
मागमबलादपि नाद्वैतसिद्धिः ॥
अविद्यास्वरूपाद्यनुपपत्तिः
यत्पुनः अविद्यादिभेदचोद्यमाशङ्क्याशङ्क्यपरिहृतम्—तत्राशङ्का
साधीयसी । समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेय
मविद्येति कोऽर्थः ?
II.473
अस्तित्वे क एनामुच्छिन्द्यादिति चेत्—कातरसन्त्रासोऽयम् । सता
मेव हि वृक्षादीनां उच्छेदो दृश्यते, नासतां शशविषाणादीनाम् । तदि
यमुच्छेद्यत्वादविद्या नित्या मा भूत्, सती तु भवत्येव ॥
अविद्या भावरूपापि
न च तत्त्वाग्रहणमात्रमविद्या, संशयविपर्ययावप्यविद्यैव । तौ
च भावस्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नास
न्निति शक्यते वक्तुम्, अभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासती
अविद्या ॥
सत्त्वे च द्वितीयाया1400 अविद्याया भावान्नाद्वैतम् ॥
जीवस्य कल्पितत्वासंभवः
यत्तु ब्रह्मणः सततप्रबुद्धत्वात् अविद्याक्षेवता नेति जीवानामविद्या
स्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त
II.474
इति च—तदपि न चतुरश्रम्—आकाशावच्छेदहेतोः घटादेर्घटमानत्वात् ।
अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इति विषमो दृष्टान्तः ।
अवच्छेदकाभावाच्च जीवविभागकल्पनाऽपि निरवकाशैव ॥
अदिद्याया अनादित्वासंभवः
यच्च इतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितं अविद्यायाः—तत्र
बीजाङ्कुरवत्, वाद्यन्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव स्यात् ।
अनादिप्रबन्धप्रवृत्तत्वे सत्त्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपा
करणमुचितम् । एकात्मवादिनां तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् ।
यथाऽऽह भट्टः—
श्लो. वा. 1-1-5 संब 86 इति ॥
अविद्याया न बन्धनिवर्तकत्वसंभवः
यत्पुनः अविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतं—
तदपि क्लेशाय, नार्थसिद्धये । सर्वत्रोपायस्य स्वरूपेण सत्त्वात् । असतः
खपुष्पादेरुपायत्वाभावात् । रेखागकारादीनां तु वर्णरूपतया सत्त्वं
यद्यपि नास्ति; तथापि स्वरूपतः सत्त्वं विद्यत एव ॥
II.475
सत्यस्यैव सर्वत्र निवर्तकत्वम्
ननु ! गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशः अर्थप्रत्यायको
भवति, न चासौ तेन रूपेणास्ति—मैवम्—स्वरूपेण सतोऽर्थस्य रूपान्त
रेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च, युक्ता
च1403 । यस्तु स्वरूपत एव नास्ति, न, तस्य स्वात्मना परात्मना वा
व्यवहाराङ्गता समस्ति । रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वे
नासन्नपि तत्कार्याय पर्याप्नुयात् । न त्वयम् अविद्यायां न्यायः, स्वरूपा
सत्त्वात्तस्याः ॥
सर्पादौ तु सर्पादिस्वरूपवत् तद्ज्ञानस्यापि तत्कार्यत्वमवगतम् ॥
अत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति ॥
एवं वनगुहाकुहरदेशादेष निस्सृतः केसरी सरोषमित एवाभिव
र्त्तते इत्यसत्येऽप्युक्ते यद्भीरूणां पलायनादि, शूराणां च सोत्साहमायुधो
द्यमनादि सत्यं कार्यमुपलभ्यते, तत्र सिंहज्ञानस्य तत्कार्यत्वात् नासत
एवोपायत्वम् ॥
एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खङ्गादेः मुखादिकालुष्य
कल्पनाकारणस्य तत्र सद्भावात् । इह तु तदभावादिति ॥
एकात्मवादे बद्धमुक्तादिव्यवस्थानुपपत्तिः
यदपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्—तदप्येवमपा
कृतम्—अवच्छेदकस्य पादादेः तत्र तात्त्विकत्वात् । इह तु भेदकल्पना
बीजमद्वैतवादिनां दुर्घटमिति बहुशः प्रदर्शितम् ॥
II.476
तदत्रायं वस्तुसङ्क्षेपः—अविद्यायामसत्यां सर्व एवायं यथोदाहृतो
व्यवहारप्रकारः तत्कृत इति नावतिष्ठते । सत्यां तु तस्यां नाद्वैत
मिति । अत एवाह सूत्रकारः सङ्ख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनु
पपत्तिभ्याम् न्या. सू. 4-1-4 इति ॥
आत्माद्वैतवादनिराकरणोपसंहारः
यदि तावदद्वैतसिद्धौ प्रमाणमस्तिः तर्हि तदेव द्वितीयमिति नाद्वैतम् ।
अथ नास्ति प्रमाणम्, न तरामद्वैतम्, अप्रामाणिकायाः सिद्धेर
भावादिति ॥
शब्दाद्वैतवादनिराकरणम्
एतेन शब्दाद्वैतवदोऽपि प्रत्युक्तः—
वा. प. 1-1 इति ॥
उच्यते—तत्र अनादिनिधनपदनिवेदितापूर्वापरान्तरहिता वस्तु
सत्ता नित्यत्वम्, ब्रह्मपदप्रतिपादितं च व्यापित्वमित्युभयमपि शब्दस्य
प्रागेव निरस्तम् । निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव ॥
II.477
शब्दविवर्तवादोपन्यासः
यत्तु नित्यं व्यापि च किंचिदुच्यते, तत् शब्दतत्त्वमित्यत्र का
युक्तिः । आह—शब्दोपग्राह्यतया च शब्दतत्त्वम् ॥
तथा हि सर्वप्रत्यय उपजायमानः नानुल्लिखितशब्दः उपजायते ।
तदुल्लेखविरहिणः अनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिर्वि
शेषत्वात् । एवमीदृशमित्यादिपरामर्शप्रमुषितवपुषि वेदने वेदनात्म
कतैव न भवेत् ॥
सर्वप्रत्ययानां शब्दानुविद्धत्वम्
येऽपि वृद्धव्यवहारोपयोगवैधुर्यादनवाप्तशब्दार्थसंबन्धविशेषव्युत्प
त्तयः बालदारकप्रायाः प्रमातारः, तेऽऽपि नूनं यत् सत् तत् किम्
इत्यादिशब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम् । अतः
शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्1405 सर्वप्रत्ययानां शब्दानुविद्धं
बोधकत्वमिति सर्वं शब्दतत्त्वमित्यवधार्यताम् । वा. प. 1. 134 तदाह—
एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व
एवान्धमूकप्रायो लोकः स्यात् । आह च वा. प. 1-125—
अतः क्रमेण तावदेवं बोध्यसे, शब्दाख्यविशेषणानुवेधविशेषा
भवात् सर्वं निर्विकल्पकम् इन्द्रियजं सविकल्पकं वा ज्ञानं शब्दविशिष्ट
II.478
मर्थमवद्योतयति गौः शुक्लो गच्छतीति, जातिगुणक्रियावच्छिन्नविषयाव
भासिनि प्रत्यये शब्दविशिष्ट एवार्थः स्फुरतीति बुध्यस्व ॥
अर्थानां शब्दात्मकत्वसमर्थनम्
एवं चेद्बोद्धुमवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य
स्वरूपं पृष्टः शब्देनैव दर्शयसि, शब्दापरित्यागलब्धप्रकाशस्वरूपयैव
वाऽनुभूत्याऽनुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि । तदेवं
शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते ॥
इत्थमियन्तमध्वानं चेत्प्राप्तोऽपि तदधुना यदुपारूढः शब्दः प्रकाशते,
तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वात् शब्द एव तथा तथा
प्रतिभातीति शब्दविवर्त एवायमर्थः, नान्यः कश्चिदिति प्रतिपत्तुम
र्हसि1406 ॥
यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमः, तथा शाब्देष्वपि
प्रत्ययेषु शब्दविशिष्टो वाऽर्थः प्रविभाति, शब्दो वाऽर्थारूढः, शब्द
एवार्थरूपेण विवर्तत इति गृह्यताम् ॥
अतश्च शब्दब्रह्मेदमेकम् अविद्योपाधिदर्शितविचित्रभेदम्, अवि
द्योपरमे यथावस्थितस्वरूपं प्रकाशत इति युक्तम् ॥
शब्दविवर्तवादनिरासः
अत्राभिधीयते—न खलु1407 प्रकारत्रयमपीदमुपपद्यते, पदपदार्थसंबन्ध
व्युत्पत्तिविरहिणाम् अनवाप्तशब्दयोजनावैरूप्यस्वरूपमात्रप्रतिष्ठ
II.479
विशुद्धवस्तुग्रहणप्रवणेन्द्रियजप्रत्ययदर्शनात् । वृद्धव्यवहारपरिचयाधि
गतशब्दार्थसंबन्धसंस्कृतधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथ
मोदभूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात् । यत्र हि वस्तुनि निविश
मानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने तत्संस्कारप्रबोधात् स
हि स्मृतिपथमेति, नान्यथेति ॥
प्रत्ययानां न शब्दानुविद्धत्वम्
सामान्यशब्देष्वपि यत् तत् किं इत्यादिषु विशेषशब्देष्विव
सैव वार्ता । तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारि विहङ्ग
कूजितादिवदर्थप्रतीतिहेतुत्वानुपपत्तेः ॥
सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचित
मिव कुवलयमवलोकयति लोक इति विस्तरशः प्रत्यक्षलक्षणे परीक्षित
मेतत् । आह च श्लो. वा. प्रत्यक्ष. 172—
अर्थेन साकं शब्दभानासंभवः
संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिसधिरोहति, न तद्वि ।
शिष्टोऽर्थः । तस्य हि न नेत्रेण, न श्रोत्रेण, नोभाभ्यां, न केवलं मनसा
वा ग्रहणमुपपद्यते, अतिप्रसङ्गात् । शब्दो हि अनेकधर्मके धर्मिणि एक
1408
II.480
तरधर्मावधारणाभ्युपायो भवति । न तत्रात्मानमारोपयति । न हि
दीपेन्द्रियप्रभृतयः प्रतीत्युपायाः तदुपेये रूपादावात्मानमारोपयन्ति ।
अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः ॥
अर्थस्य शब्दविवर्तत्वाभावः
अपि च—यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव, कोऽध्यासार्थः ?
अभेदेऽपि शब्दमयमेव विश्वमिति, तत्रापि कोऽध्यासार्थः ? अध्यास
भ्रमस्तु वैयाकरणानां 1409एकाकारनिर्देशदोषनिर्मितः । यथाऽऽह श्लो. वा.
प्रत्यक्ष 182—
इति । कस्त्वया दृष्टोऽर्थः इति पृष्टो वक्ति गौः इति
कीदृशं ते ज्ञानमुत्पन्नम्—गौः इति । कीदृशं शब्दं प्रयुक्तवानसि—
गौः इति । तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्द
ज्ञानार्थाः । तदुक्तम् श्लो. वा. प्रत्यक्ष. 185—
II.481
नानार्थकस्थले शब्दार्थयोरभेदासंभवः
एवं इन्द्रियजेष्विव शाब्देष्वपि प्रत्ययेषु न शब्दस्वरूपमध्यस्यतीति
युक्तम् । यदि च शब्दः स्वरूपेणार्थं प्रतिपादयति, तदा अक्षशब्दस्यै
क्यात् देवन1412विभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात् । न चाक्षशब्दाः1413
भिन्ना इति वक्तव्यम्, स्वरूपप्रत्यभिज्ञानानपायात् । तदुच्चारणे
चार्थत्रव्यां संशयदर्शनात् ॥
भवतिशब्दयोश्च सुप्तिङन्तयोः तुल्यरूपत्वात् । अध्यासपक्षे तुल्या
र्थप्रतीतिहेतुत्वं प्राप्नोति । तथा च 1414सिद्धसाध्यबुद्धिः संवेद्यमानाऽपि
निह्नूयेत । एवमगादित्यश्व इति, अजावय इत्यादावपि द्रष्टव्यम् ॥
शब्दे अर्थाध्यासः विरुद्धश्च
शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमाणायां यजेत
दद्यात् जुहुयात् इत्यादौ न क्वचित् साध्यबुद्धिर्भवेत्, सिद्धाध्या
सेन साध्यबुद्धेरननुरूपत्वात्1415 ॥
जातिगुणक्रियाशब्दाश्च गौः शुक्लो गच्छतीत्यादयः केन कारणेन
नियतमध्यासमनुरुन्धत इति नावगच्छामः । शब्दस्यार्थानपेक्षनिसर्ग
सिद्धवैश्वरूप्यकल्पनाबीजाभावात् । प्रतिनियतशब्दवृत्तेश्च कस्यचि
II.482
ल्लक्षणस्यानुपलक्षणात् । वृक्षप्लक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदा
विशेषात्, अर्थानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दा
ध्यासवादिनो न भवेताम् । न ह्येकत्र वस्तुनि वाच्ये क्वचिदनयोः शब्द
योर्वृत्तिः ॥
एतेन नीलोत्पलमपि प्रत्याख्यातम् ॥
शब्दविवर्तवादे सामानाधिकरण्यासंभवः
तत्रैतत्स्यात्—न नीलगुणविशेषितमिदं उत्पलं नाम किंचिदस्ति
विशेष्यम्, अपि तु तत् निरस्तावयवार्थं अश्वकर्णादिवत् 1416अर्थान्तर
मेवेदं; व्युत्पत्तिप्रकारमात्रं तु विशेषणविशेष्यभाववर्णनमिति—तदेतद
समीचीनम्—अनुभूयमानावयवार्थप्रतीतिनिह्नवनिर्मित्तानुपलम्भात् ।
अश्वकर्णादौ हि युक्तमर्थान्तरत्वं; तत्र हि नाश्वार्थः, न कर्णार्थः ।
निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन ॥
शब्दविवर्तवादे पर्यायपदानां सामानाधिरकरण्यं स्यात्
अथ शब्दद्वयाध्यासमात्रनिबन्धनमेव सामानाधिकरण्यं वृक्षः
प्लक्षः इत्युच्यते—तदपि न चारु—वृक्षस्तरुरितिपर्याययोरपि तत्संभवे
सति सामानाधिकरण्यप्रसङ्गात् ॥
अपि च पर्यायेषु हस्तः करः पाणिः इत्यादिषु शब्दरूपभेदा
ध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति । न चासावस्तीति नाध्यासः ॥
किंच संबन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः
स्वाध्यासेन बुद्धिं विदध्यात् । तदपेक्षायां वा कस्य केन संबन्ध इति न
II.483
बुध्यामहे—शब्दादर्थस्य पृथग्व्यवस्थितात्मनः त्वन्मते दुर्लभत्वात् ।
शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विर
म्यताम् अतो मृगतृष्णानुसरणरणिकात् ॥
शब्दे अर्थाध्यासासंभवः
अपि चाध्यासः क्वचित्सादृश्याद्भवति, शुक्ताविव रजतस्य ।
क्वचि1417दनुरागाद्भवति, लाक्षाया इव स्फटिके । शब्दार्थयोर्मूर्तामूर्ततया
ऽतिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम् । अनुरागोऽपि तत एव
दुर्घटः, पृथग्देशत्वात्, भिन्नेन्द्रियग्राह्यत्वाच्च ॥
शब्दार्थयोर्बिम्बप्रतिबिम्बभावासंभवः
प्रतिबिम्बवर्णनमपि न सुन्दरम्, दूरदेशत्वेन शब्दार्थयोः प्राप्त्य
भावात् । अप्राप्तयोश्च प्रतिबिम्बे द्वारकोद्याननिवासिवासुदेवसुन्दरी
वदनतामरसानि सागरतरङ्गपवनपरिचयचलदलकलतिकालांच्छितानि
स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्प
णेषु प्रतिबिम्बितानि दृश्येरन् ॥
अथ1418 सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्द
सार्थसाधारण्यात् अत्यन्तमध्याससाङ्कर्यम् अनवधार्यमाणविशेषनियम
कारणमापद्यत इत्यलमतिप्रसङ्गेन । सर्वथा न संबद्धः शब्दाध्या
सवादः ॥
II.484
विवर्तवाद एवासमर्थनीयः
विवर्तवादोऽपि न समंजसः । तथा हि—1419विवर्ततेऽर्थभावेन इति
कोऽर्थः ? न तावदर्थात्मना शब्दः परिणाममुपयाति, क्षीरमिव दधि
रूपेण, परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात् ।
तथाभावेऽपि च नाद्वैतसिद्धिः दध्न इव क्षीरविकारस्य, शब्दविकार
स्यार्थस्य ततोऽन्यत्वात् । अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविर
हप्रतीतिसमर्पितभेदत्वात् ॥
अर्थप्रतिभासस्यायथार्थत्वपक्षनिरासः
अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विव
र्तोऽर्थः, सोऽपि न युक्तः । बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः,
वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात् । अवयवव्यादे
श्चादूर एवाग्रे समर्थयिष्यमाणत्वात् । न चेन्द्रजालमायादिवदयथार्थ
तायामिह किमपि कारणमुत्पश्यामः ॥
अर्थानां मिथ्यात्वपक्षनिरासः
अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयाऽवभासत इतीयं
विवर्तवाचो युक्तिः—इयमपि न साधीयसी—शुक्तिका हि रजतव
त्प्रकाशत इति शक्यं वक्तुम्, शुक्तेराकारसारूप्येण तथाऽवभाससम्भ
वात् । इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणान
वधारणात् कथमितररूपेणेतरस्यावभासः । शुक्तिकारजतादिषु च
II.485
बाधकवशात् तथात्वमवगतम् । इह तु न बाधकं किंचिद्भवति,
भविष्यति वेति वर्णितम् ॥
शब्दानुवेधोऽपि न साधीयः
अथ स्वानुवेधमजहत् सत्यामसत्यां वाऽर्थबुद्धिमादधाति शब्द
-त्ययं विवर्तार्थः—एषोऽपि संप्रत्येव प्रतिक्षिप्तः । शब्दानुवेधविरहि
णीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शितत्वात् । न चान्यः कश्चिद्विपश्चि
च्चेतसि विवर्तते विवर्तप्रकारः इत्यवाचकमुच्यते—विवर्ततेऽर्थभावेन
इति ॥
शब्दस्य जगत्स्रष्टृत्वनिरासः
अथ शब्दब्रह्मैव सृजति जगदित्ययं विवर्तप्रकार उच्यते—सोऽपि
न सम्यक्—अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टृत्वानुपपत्तेः । न च
परमाणुवदस्य कारणत्वम्, अवयवसमवायित्वेन1420 पृथिव्यादेः कार्यस्य
ग्रहणात् ॥
अथ विज्ञानमानन्दं ब्रह्म इत्यागमवचनमनुसरता विभुत्वमिव
चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते—तर्हि ईश्वरस्यैव शब्दब्रह्मेति नाम कृतं
स्यात् ॥
ब्रह्मद्वैविध्यनिरासः
यदप्युच्यते—
II.486
इति—तदापि ब्रह्म 1422सुभिक्षमत्यन्तमलौकिकम् । एकतरस्य ब्रह्मणः
काल्पनिकत्वात् । अकाल्पनिकत्वे वा कथमद्वैतवादः1423 । तस्मात् कृत
मनेन शब्दब्रह्मणा । स्वस्ति परस्मै ब्रह्मणे भूयात् ॥
अविद्यामायाविनिर्मितविविधभेदप्रथनकल्पश्च सत्ताद्वैतदूषणावसर
एव निवारित इति शब्दाद्वैतमपि तद्बदसमंजसमिति सिद्धम् ॥
जगतः ब्रह्मोपादानत्वनिरासः
एतेन 1424परमात्मोपादानत्वमपि प्रत्युक्तम् । परमात्मनो निसर्ग
निर्मलस्य एवंप्रायकलुषविकारकारणत्वानुपपत्तेः ॥
असत्यमेव विकारजातं अविद्यातः परमात्मनि विभातीत्येतदपि
दूषितम् । अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ॥
ऐकात्म्यवादेऽनुपपत्तयः
अथ सर्वप्राणिनामेक एवात्मा, न नानात्मानः—इतीदृशमुच्यते—
तदप्यप्रमाणकम्—एकस्मिन् सुखिनि न सर्वे सुखिनः, एकस्मिन् दुःखिते
न सर्वे दुःखिताः इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्व
जनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखदुःखसाधने वस्तुनि
स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्यत्रानुपलम्भात् । एक
स्मिंश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात् ॥
II.487
अहंप्रत्ययस्य प्रत्यगात्मवृत्तेः 1425परत्रासम्भवात् । जगद्वैचित्र्यस्य
च पुरुषभेदनियतधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्ट
सिद्धत्वात् ॥
तप्तलोहस्फुलिङ्कघटाकाश पादवेदनादिदृष्टान्तकदम्बकस्य च निषेधः
कृत एवेति एकात्मवादोऽपि न युक्तिमानित्यलं विस्तरेण ॥
शब्दविवर्तवादोपसंहारः
विज्ञानाद्वैतवादः
सत्यमनुपजननमनपायमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त
एव तदनभ्युपगमः । विज्ञानमेव तु क्षणिकं उपजननापायधर्मकं अनादि
सन्तानप्रबन्धप्रवृतमिदं तथा तथाऽवभातीति न ततोऽद्वितीयमर्थरूपं नाम
किंचिदस्तीति पश्यामः ॥
II.488
विज्ञानाद्वैतसमर्थनम्
ननु ! प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थस्वरूपसंवेदनस्य
दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः ।
ग्राह्यग्रहणं हि नाम विज्ञानं भवति, न 1427ग्रहणग्रहणमिति ॥
उच्यते—इदं तावत्परीक्ष्यताम् । यदेतत् प्रत्यक्षविज्ञानं नीलमिदम्
पीतमिदम् इत्युत्पद्यते, तत्र किमेक आकारः प्रकाशते, उत द्वितय
मिति ॥
आकारद्वयानुपलंभः
यदि द्वितयमवभाति अयमर्थो नीलम्, इदं तज्ज्ञानमिति, तत्
किमत्र विचार्यते, जितं भवद्भिः । जितस्य यदापद्यते तदस्मासु
विधीयताम्1428 ॥
अथ एक एवायमाकारः प्रथते, तर्ह्यस्ति विचारावसरः । कस्या
यमाकारः, किमर्थस्य, किं ज्ञानस्येति । स चैवं विचार्यमाण आकारः
यद्यर्थस्येति तद्भवन्तो जेष्यन्ति । ज्ञानाकारपक्षे तु वयं जेष्याम
इति ॥
ज्ञानस्यावर्जनीयत्वम्
किं तावदत्र युक्तम् । ज्ञानस्यायमाकार इति । कुतः ? कल्पना
तावदिहाल्पीयसीति । अर्थाकारपक्षे हि अर्थस्य जडात्मनः प्रकाशा
II.489
योगात् ग्राह्यत्व1429मन्यथा न स्यादिति ग्राहकान्तरकल्पनाऽवश्यंभाविनीति
कल्पना1430द्वैगुण्यम् ॥
अथार्थ एव ग्राह्यात्मा यः, स एव ग्राहक इति—कथ्यते, स तर्हि
प्रकाश1431 एवेति संज्ञायामेव विवादः स्यात् । बाह्याभ्यन्तरकृतो विशेषं
इति चेत्, अहो विशेषज्ञो देवानांप्रियः । ग्राहकाद्विच्छिन्नता हि
ग्राह्यस्य बाह्यता । न शरीरापेक्षिणो बाह्यता भवति । यदा च ग्राह्या
दर्थात् अव्यतिरिक्त एव ग्राहक इष्यते, तदाऽस्य न ततो विच्छिन्नतेति
अबाह्यत्वात् ज्ञानमेव तदिति कथं न नाम्नि विवादः ॥
उभयसिद्धत्वात् ज्ञानस्य तस्यायमाकारी भवितुमर्हति । ज्ञाने हि
न केचन विवदन्ते । अतस्तस्यैवायमाकार इति युक्तमनेककल्पनातो
ह्येकार्थकल्पना ज्यायसीति ॥
ज्ञानस्यावश्यकत्वे हेत्वन्तरम्
अतश्च ज्ञानस्यायमाकारः । ज्ञानं हि प्रकाशकम् अप्रकाशस्या
र्थस्य भवद्भिरभ्युपगम्यते । ततश्च अर्थात् प्रथमतरमस्य ग्रहणेन भवि
तव्यम् । अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वादर्शनात् । उत्प
न्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद्वा, प्रतिबन्धवैधुर्याद्वा भवत्यग्रह
णम् । ज्ञानस्य तूत्पन्नस्य सतः न किंचिद्ग्रहणे प्रतिबन्धकः । न च
प्रकाशकान्तरापेक्षणम्, स्वत एव दीपवत् प्रकाशस्वभावत्वात्1432 ।
II.490
अतः यदैव तस्योत्पादः, तदैव ग्रहणमवश्यं भवेत् । न चेत् कालान्तरेऽपि
न स्यात् ॥
ज्ञानस्य स्वप्रकाशत्वम्
किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूत्; येन
तत् कालान्तरे ग्रहीष्यते, तदा च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे
तद्ग्रहीष्यत इति चेत्, तदपि केन ग्राहीष्यते ? अन्येनेति चेत्, तदप्यन्ये
नेति कोऽवधिः ? श्रम इति चेत्, कामं श्रान्तो विरंस्यति भावन्, अर्थं तु
न गृहीतवानेव, प्रकाशाग्रहणे तत्प्रकाश्यपरिच्छेदायोगादित्येवं न कदा
चिदर्थग्रहणं स्यात् । तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्या
श्रयणीयम् । यथोक्तं—
प्रथमं ज्ञानस्यैव भानम्
अतश्चैतदेवम्—ज्ञानपृष्ठेन चोत्तरकालभाविप्रत्यवमर्शदर्शनात् ।
ज्ञातो मयाऽयमर्थः इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहण
मनुमोदन्ते । न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्वं
ज्ञानग्रहणमिति सिद्धम् ॥
ज्ञानं च गृह्यमाणं आकाररहितं ग्रहीतुमशक्यमिति बलात् साकार
मेव तत् ग्रहीतव्यम् । साकारे च ज्ञाने गृहीते सति1434 द्वितीयकारणा
भावात् कुतो ज्ञानातिरिक्तो बाह्योऽर्थः ?
II.491
ज्ञानस्य विषयसंबन्धात्साकारत्वम्
इतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानु
पपत्तेः । कल्पयित्वाऽपि बाह्यमर्थम् अवश्यमाकारवत्ता विज्ञानस्य
विषयनियमसिद्धये वक्तव्या । नीलज्ञानं हीदं अनेकसन्निधाने समुप
जायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलालम्बनतामव
लम्बेत ? बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् । प्रवृत्तिरपि
प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनितत्वकृत
एष तदधिगमनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्त
रजनितत्वस्यापि भावेन तद्विषयत्वप्रसङ्गात् । अतो 1435नीलाकारतैव
नीलविषयत्वव्यवस्थाहेतुः न निमित्तान्तरम् । आह च—
ज्ञानस्यैव प्रमाणत्वं फलत्वं च
अत एव आकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साध
कतमं ज्ञानमेव प्रमाणं भविष्यति । अपरथा कारकातिशयदर्शनाभावे
तत्तत्साधकतमत्वस्य दुरुपपादत्वात् । साकारज्ञानसाक्षी च लौकिकोऽपि
दृश्यते व्यवहारः । एवं च वक्तारो भवन्ति लौकिकाः, नीलोऽर्थोऽयं,
यतोऽत्र तदाकारं ज्ञानमुत्पन्नम्, इति । तेन प्रतिकर्मनियमान्यथानु
पपत्तेः अवश्यं 1437साकारमेव ज्ञानम् ॥
II.492
विज्ञानवादिन सौंत्रान्तिकखण्डनम्
ये तु ब्रुवन्ते—ज्ञानस्य स्वतः स्वच्छत्वभावत्वेन नीलपीताद्यव
भासः परोपाधिरेव भवितुमर्हति, स्फटिकस्येव लाक्षादिनाऽरुणिमाद्यनु
वेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासा
न्यथाऽनुपपत्त्याऽनुमीयते । यथोकतं—बाह्यसिद्धिः स्याद्व्यतिरेकतः
1438इति ॥
तदिदमनुपपन्नम्—अन्वयानुपलब्धेः—
लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकशकलावलो
कनात् । इह पुनः—
आकारद्वयं तु अनुभवविरुद्धम्
आकारद्वयप्रतिभासो हि नास्तीत्युक्तम् । अभ्युपगमे वा सुदुस्त
रमनवस्थादूषणम् । अर्थाकारश्च प्रत्यक्षः, तत्कृतश्च ज्ञानाकारः प्रत्यक्षः
II.493
इत्युच्यमाने, अर्थाकारस्तावत् साकारेण ज्ञानेन गृहीतः । स इदानीं
ज्ञानाकारोऽपि ग्राह्यत्वात् साकारज्ञानान्तरं भवेत् । तदपि साकारं
ज्ञानान्तरं तथाभूतज्ञानान्तरग्राह्यमेव स्यादित्यनिष्टम् ॥
अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते, तेन ज्ञानान्तरानपे
क्षणात् नानवस्थेति; तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारान
वभासात् तदेवास्तु, कुतो द्वितीय इदानीमर्थाकारः ॥
विषयमिथ्यात्वेऽपि ज्ञानस्याकारसंभवः
न चान्यथानुपपत्त्या1439ऽपि तत्कल्पना युक्तिमती । न हि राज
शासनमिदं अर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि
भवेत् को दोषः स्यादिति । नीलाद्याकारयोगात् अर्थस्स भवेदिति चेत्,
संज्ञायां विवाद इत्युक्तम् । द्वितीयस्याभावात् स्वच्छत्वात् ज्ञानस्य
कालुष्यमन्यकृतं युक्तमिति चेत्, अविद्यावासनाकृतं तद्भविष्यति । स्वतः
स्वच्छमपि ज्ञानमनाद्यविद्यावासनाविभवोपनतमनेकाकारकालुष्यरूषित
वपुरिव प्रकाशते ॥
ज्ञानवासनाभेदसन्तानयोश्च बीजाङ्कुरवदनादित्वान्नात्र पर्यनुयोग
स्यावसरः—कुतो वासना प्रवृत्ता इति । तस्मादनादिवासनावैचित्र्य
रचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्येनार्थेनेति ज्ञानस्यैवाय
माकार इति सिद्धम् ॥
ज्ञानातिरिक्तार्थनिराकरणम्
अतश्च ज्ञानस्यैवायमाकारः, ज्ञानेन विना हि न क्वचिदर्थरूपमुप
लभ्यते । ज्ञानं त्वर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुप
II.494
लभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च
ज्ञानादर्थः पृथगवस्थितात्मा भवेत्, ज्ञानमन्तरेणाप्यसावुपलभ्येत; न
चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । यदाह—
आकारस्य ज्ञानार्थमेलनकृतत्वनिरासः
न च 1440ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति । यदि हि पृथगर्थ
मनाकारं, पृथक्च ज्ञानमानाकार उपलभ्य, संसृष्टयोर्ज्ञानयोराकारवत्ता
मुपलभेमहि, तत इममाकारं संसर्गधर्मं प्रतिपद्येमहि । न त्वयमस्ति
क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्यु
क्तम् । अतः कथं संसर्गधर्म आकारः ?
अर्थाकाराणां कल्पितत्वमावश्यकम्
अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्ध
लिङ्गसमावेशः ? ॥
परिव्राजककामुककौलेयकानां च कथमेक एव वनितारूपोऽर्थः कुणप
इति कामिनीति भक्ष्यम् इति च प्रतिभासत्रितयविषयतामनुभवेत् ? ॥
दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां
यायात् ? ॥
षण्णगरिति च कथं बहनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च
भवेत् ? ॥
II.495
1441ह्रस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पार
मार्थिकः स्यात् ? ॥
ज्ञानानां तु भिन्नत्वात् विचित्रवासनाभेदसहकारिरूपानुविधानेन
जायमानानां न किंचिदपि विरोधः ॥
तस्मात् ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति, न तद्व्यतिरिक्तो
ऽर्थो नाम किंचिदिति ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः
परिसमाप्यते । तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रामा
णम्, स्वसंवित्तिश्च1442 फलमिति । यथोक्तम्—
तदिदं अनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव
ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते । अविद्याविरतौ तु स्वच्छमेव तत्सं
पद्यते, न किंचिद्वेति ॥
तदुक्तम्—
तथा—
II.496
विज्ञानाद्वैतनिरासः
अत्राभिधीयते—न खल्वेक एव बोधात्मा ग्राह्यग्राहकतयोभय
स्वभावो भवितुमर्हति । ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेन एकत्र
समावेशानुपपत्तेः । तथा हि—नीलज्ञानम्, पीतज्ञानम्, शुक्लज्ञानमिति
नीलपीताद्युपजननापायेऽप्यनुवर्तमानबोधरूपतया नीलादिविलक्षणमन्वय
व्यतिरेकाभ्यामवधार्यते ॥
अपि च ज्ञानम् अहंकारास्पदम् आनन्दादिस्वभावं 1443स्वकर्मणि च
सव्यापारमिव भवद्भिरभ्युपगतम् । अर्थस्तु नैवमात्मक इति कथमन
योरभेदः ॥
प्रतीयमानः आकारः अर्थस्यैव
यद्यपि ज्ञानमिदम्, अयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति,
1444तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश्य एव प्रतिभाति, न
प्रकाशकः । इदं नीलमिति ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते,
न त्वहं नीलमिति तदैक्येनावभासोऽस्ति इति ॥
II.497
अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रह
णम् । बोधस्य तु तद्ग्राहकस्य तदा किंकृतं ग्रहणमिति चिन्त्यम् । न
बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात् । नापि स्वप्रकाशं ज्ञानम्, अहं
नीलमित्यप्रतिभासात् ॥
अर्थस्य प्रकाशसंभवाक्षेपः
ननु ! नैव ग्राह्यग्राहकयोरन्यत्वमिति । योऽयं ग्राह्यावभास इति
भवताऽभ्युपगतः, स एव ग्राहकावभासः । ग्राहकादन्योऽहि ग्राह्यः
जडात्मा1445 भवेत् । ग्राहकस्तु प्रकाशस्वभावः, ग्राहकत्वादेव । द्वय
प्रतिभासश्च नास्तीत्युक्तम् । तत्रान्यतरस्य प्रतिभासने जडप्रकाशयोः
कतरस्यावभासितुं युक्तमिति चिन्तायां, बलात् प्रकाश एव प्रकाशते, न
जडः । निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन् साकारे प्रकाश्य
माने कुतो जडात्मा तदतिरिक्तोऽर्थः स्यात् ॥
अर्थप्रकाशे ज्ञानप्रकाशासंभवप्रदर्शनम्
तदिदमपेशलम्—उपायेनोपेयनिह्नवस्याशक्यकरणीयत्वात् । रूपस्य
हि प्रकाशकं चक्षुः । न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं
शक्यते । तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनः तद्वि
परीतस्वच्छस्वभावं ज्ञानं प्रकाशकम्, न तदेव चक्षुर्वत् तदाऽवभासितु
मर्हति च ॥
ज्ञानानवभासेऽपि अर्थप्रकाशसंभवः
ननु ! चक्षुर्वत् उपायत्वं ज्ञानस्य प्रकाशस्वभावत्वात् । चक्षु
र्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते, न चागृहीतः प्रकाशः प्रकाश्यं
II.498
प्रकाशयतीति—सत्यम्—वक्षुर्जन्यः प्रकाशः ज्ञानमिष्यते । स तु प्रकाशः
रूपादिविषयप्रकाशः, न प्रकाशप्रकाशः । न हि चक्षुषा प्रकाशः
प्रकाश्यते, अपि तु रूपं प्रकाश्यते । तत्र यद्रूपमुच्यते, स विषयो ग्राह्यः;
यत्तत्प्रकाशते इत्युच्यते, स प्रकाशः ज्ञानं ग्राहकम् । 1446तदुत्पत्तिमात्रेण
च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते ॥
ज्ञानप्रकाशे बाह्यविषयानवभासप्रसङ्गः
ननु ! उक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते—
इति—तदयुक्तम्—अप्रत्यक्षोपलम्भस्य च प्रत्युत अर्थदृष्टिः प्रसि
द्ध्यति । उपलम्भोत्पाद एव अर्थदृष्टिः, न पुनरुपलम्भदृष्टिः ॥
ननु ! उपलब्धेरग्रहणे तदुत्पादनुत्पादयोः अविशेषात्, अनुत्पन्नोप
लम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङ्गः—तदिदमतिसुभाषि
तम्—अर्थप्रकाशात्मैव खलूपलम्भः । स कथमुत्पन्नादनुत्पन्नो न
विशिष्येत । तस्मात् अर्थप्रत्यक्षीकरणात्मकत्वात् ज्ञानस्य तदुत्पाद
एवार्थप्रत्यक्षता, न तद्ग्रहणमिति अगृहीतमेव ज्ञानमर्थप्रकाशकमिति
युक्तमं ॥
ज्ञानाग्रहण एवार्थग्रहणम्
यत्तु उपायत्वात् ज्ञानस्य पूर्वं ग्रहणमुच्यते—तत्, चक्षुरादिभिरनै
कान्तिकमित्युक्तम् ॥
II.499
स्वप्रकावस्त्वसंभवः
यदपि प्रकाशत्वात् ज्ञानस्य प्रदीपवत् पूर्वं ग्रहणमुक्तम्—तदपि
व्याख्येयम्—प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशः, तस्य
भावः प्रकाशत्वमिति—तत् चक्षुरादिभिरनैकान्तिकमुक्तमेव ॥
अथ प्रकाशनं प्रकाशः, तर्हि प्रकाशत्वादिति असिद्धो हेतुः । न ह्यर्थ
ग्रहणकाले बुद्धेः प्रकाशनमस्ति ॥
अथ प्रकाशशब्दो बोधपर्याय एव । प्रकाशत्वात् बोधरूपत्वा
दित्यर्थः, तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वा
भावात्1447 । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः, स्वतः प्रकाशस्य कस्य
चिदप्यदृष्टत्वात् ॥
स्वप्रकाशपदार्थस्वरूपम्
ननु ! ज्ञानशब्ददीपाः त्रयः स्वपरप्रकाशा इत्याहुः—तदयुक्तम्—
शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्र्यन्तरसव्यपेक्षत्वात् । शब्दः
II.500
अर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने तु श्रोत्रम् । दीपोऽपि
चक्षुराद्यपेक्ष एव गृह्यते, ग्राहयति चार्थम् ॥
इयांस्तु विशेषः—घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते ।
आलोकग्रहणे तु निरपेक्षमिति । नैतावता दीपस्य स्वप्रकाशता स्यात् ।
1448इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः
स्युः ॥
ज्ञानस्य परप्रकाशकत्वमेव दृश्यते, न स्वप्रकाशकत्वम्, अर्थ
प्रकाशकाले तदप्रकाशस्य दर्शितत्वात् ॥
आत्मप्रत्यक्षवादिनां तु1449 अवस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत
एवेति सर्वथा न स्वप्रकाशं ज्ञानम् ॥
अर्थग्रहणवेलायां न ज्ञानग्रहणसंभवः
यदप्यभिहितं—उत्पद्यमानमेव ज्ञानं अनपेक्षत्वात्, अप्रतिबन्धत्वाच्च
तदैव गृह्यते, न वा कदाचिदिति—तदप्यसांप्रतम्—तदानीं तद्ग्रहण
सामग्र्यभावात् ॥
II.501
न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे । ज्ञातो मया
ऽयमर्थः इति कालान्तरे1451 तद्विशिष्टार्थग्रहणदर्शनात् ॥
न च नित्यपरोक्षा बुद्धिः अनुमातुमपि न शक्यत इति च विचा
रितमेव ॥
तदलमनया कथया । किमिति शाक्यसुत्सृज्य श्रोत्रियमिदानी
मनुयुंज्महे ॥
ज्ञानाग्रहणेऽपि विषयग्रहणम्
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनात् ज्ञानग्रहणपूर्वकमर्थग्रहणमिति
—तन्न सार्वत्रिकम्, अपि तु क्वचिदेव ज्ञानविशिष्टार्थसंवेदनात्
तथाऽभ्युपगम्यते । तस्मात् अर्थग्रहणात् पूर्वं ज्ञानस्यानवभासात् निरा
कारावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरु
णाम्बराणाम् ॥
II.502
अर्थस्य कल्पनीयत्वं न
यत्पुनरभ्यधायि—ज्ञानाकारपक्षे कल्पनाऽल्पीयसीति—तत्र यथोक्त
नीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी । कीदृशं
वा तदल्पत्वम् महत्त्वं वेति ॥
अर्थापलापे ज्ञानस्याप्यपलापः स्यात्
उभयसिद्धत्वमपि यदवादि ज्ञानस्य—तत्र यदि प्रमाणायत्ता वस्तु
स्थितिः, अर्थोऽप्युभयसिद्ध एव । इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितौ
ज्ञानमपि कथमुभयसिद्धं1453 स्यादिति यत्किंचिदेतत् ॥
ज्ञानाकारमन्तरापि प्रतिकर्मव्यवस्थासिद्धिः
यत्पुनरिदमभिहितं—अभ्युपगम्यापि बाह्यमर्थं अप्रत्याख्येयः प्रति
कर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति—तदपि न सांप्रतम्—प्रतिकर्म
व्यवस्थायाः 1454प्रकारान्तरेणाप्युपपत्तेः ॥
यद्यपि अनेकसन्निधाने नीलज्ञानमुपजायते । यद्यपि च बोध
स्वरूपत्वमशेषसाधारणम्, तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति
नीलनिष्ठमेवावतिष्ठते । चक्षुरादिनाऽपि तज्जनितमिति चेत्—सत्यं
जनितम्—न तु कर्मणा सता । नीलेन तु कर्मभूतेन तदुत्पाद्यत इति
तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभावकृत
एव । आकारपक्षेऽपि समानोऽयं पर्यनुयोगः ॥
II.503
यदुच्यते—किमिति नीलमेव कर्मकारकम्, किमिति वा कर्मविषयमेव
ज्ञानमिति—तत्र वस्तुस्वभावैरुत्तरं वाच्यम् ॥
1455आकारमपि च ज्ञानमुपाददानं कर्मकारकस्यैव कथमुपाददीत, न
कारकान्तरस्य ? इत्यत्रापि वस्तुस्वभाव एव शरणमिति ॥
ज्ञानं प्रति विषयस्य कारणत्वम्
अर्थस्य च ज्ञानजनकत्वं अन्वयव्यतिरेकाभ्यामवगम्यते ॥
अनागते देवदत्ते न देवदत्तज्ञानमुदपादि, तस्मिन्नागते च तदुत्पन्न
मिति तद्भावभावित्वात् तज्जन्यं तदवसीयते । इत्थं च तज्जन्यत्वेनैव
तत्र नियमसिद्धेः अलमाकारकल्पनया1456 ॥
एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता । साधकतमत्वं तु
सामग्र्याः प्रमाणसामान्यलक्षणे निर्णीतमेव ॥
यस्तु लोकिको व्यपदेश उदाहृतः सोऽपि व्यभिचरति ।
नीलोऽर्थोऽयम्, यतस्तद्विषयं ज्ञानमुत्पन्नम् इत्यपि न व्यपदिशन्ति
लौकिकाः ? तस्मादर्थे सत्यपि साकारं ज्ञानमेषितव्यमिति यदुक्तं—
तदनुपपन्नम् ॥
II.504
सहोपलंभात् न ज्ञानार्थयोरभेदः
यदप्यवर्णि—
इति—तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः ॥
अथ एकोपलंभनियमात् इति हेत्वर्थो विवक्षितः—तदयमसिद्धो
हेतुः, नीलादिग्राह्यग्रहणसमये 1457तद्ग्राहकानुपलम्भात् । ग्राहकाकारानु
वेधरहिततद्विच्छिन्नबाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिदम्
इत्यादिः दर्शितः ॥
सहोपलंभोऽप्यसिद्धः
क्वचिच्च ग्राह्याकारानुपर्श्लिष्टकेवलग्राहकावमर्शनमर्पि दृश्यते—
न स्मरामि, मया कोऽपि गृहीतोऽर्थस्तदा इति । तदेवमितरेतर
विभक्तज्ञानार्थाकारसंवेदनात् कथम् ॥
इत्युच्यते । नीलतद्धियोः इति वदता भवताऽष्येष भेद एव
निर्दिश्यते ॥
परमतानुवादमात्रमेतदिति चेत्—न—अभेदे पृथङ्निर्देशस्याप्यघट
मानत्वात् । तस्मादपि न ज्ञानस्यायमाकारः ॥
ज्ञानार्थयोः भेदः अनुभवसिद्धः
यदप्युक्तं—असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्या
कारवत्ता दृश्यत इति तस्यैवायमाकारो युक्त इति—तदपि दुराशामात्रम्
—सर्वत्र ज्ञानाद्विच्छिन्नस्व ग्राह्याकारस्य प्रतिभासनात् ॥
II.505
तथा हि—भ्रमज्ञानेषु चतुष्टयी गतिः—आत्मख्यातिः, असत्ख्यातिः,
अख्यातिः, विपरीतख्यातिर्वा1458 ॥
तत्र रजतमिदम् इति सामानाधिकरण्येनैकार्थप्रतिभासात्, तन्मते
च संवित्तेरपरोक्षत्वात् रजताधिगमाभिमानेन तदर्थिनस्तत्र प्रवृत्तेः,
बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावात् न तावदख्या
तिरिति प्रागेव प्र. सं. 456 प्रासाधितमेतत् ॥
असत्ख्यातिनिरासः
असत्ख्यातिरपि नास्ति, एकान्तासतः स्वपुष्पादेः प्रतिभासायोगात् ।
देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतां
भवति, न त्वत्यन्तासदर्थविषयः ॥
सर्वेषां भ्रमाणां सालम्बनत्वम्
तथा हि—द्विविधा भ्रान्तिः—बाह्येन्द्रियजा, मानसी च । तत्र
बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषात्, इन्द्रियदोषाद्वा समुत्पद्यमाने न
क्वचित् निरालम्बनता दृश्यते । भास्वररूपसादृश्येन हि विषयदोषेण1459
शुक्तिका रजतमिति परिस्फुरति । मरुस्थलीपतितोत्फलितं च
सावित्रं तेजः तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि
पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते । तिमिरसीमन्तितनयनवृत्तेः
चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति । 1460तिमिरकणनिकरविवरविरचित
II.506
प्रसृताश्च नयनरश्मय एव सूर्याशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः
प्रतिभान्तीति ॥
मानसविभ्रमाणामपि सालम्बनत्वम्
सोऽपि कश्चित् विषयदोषसहायो भवति । स चालम्बन
एव प्र. सं. 228 ॥
तस्यामपि रागादिवासनाबलोपप्लवमानस्मृत्युपस्थापितदेशकाल
व्यवहितोपलब्धपुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणा
देरिव ॥
प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकार
स्योल्लेखः ॥
II.507
असत्ख्यातिवादे विशेषः
ननु ! तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते ?
देशान्तरे हि सन् असन् वा तत्र तावन्नास्त्येव सोऽर्थः । न च 1463द्वयोरस
त्त्वयोः किंचिद्विशेषः । देशकालावपि किं सन्तावसन्तौ वा प्रतिभासेते
इति विकल्पनायां तथा तयोरपि तुल्यो दोषः—मैवम्—भवतोऽप्यसत्ख्याति
वादिनः किं सर्वत्रैव तदर्थासत्त्वं संमतम्, उत तद्देश एव ? तत्रासन्नि
धानमात्रेण तावत् क इव तव 1464स्वार्थः ? सर्वत्रासतस्तु प्रतिभासे
कुतस्त्य एष नियमः—यत् असत्त्वाविशेषेऽपि रजताद्येवासत् प्रति
भाति, न खरविषाणादीति ॥
अयं तु द्वयोरसत्त्वयोर्विशेषः—देशान्तरादिषु सतोऽर्थस्य स्मरणा
द्युपारोहेण प्रतिभासमानता युज्यते, न त्वेकान्तासत इति । एवं देश
कालयोरपि सदसत्त्वविकल्पचोद्यं परिहर्तव्यम् ॥
अतश्च किंचिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन
सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः ॥
आत्मख्यातिनिरासः
आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिः वर्तते । तत्र च
बहुशः कथितं—ग्राहकाद्विच्छिन्नमेव ग्राह्यमवभासते नीलमिदम् इति, न
तु तदभेदेन नीलमहम् इति । भ्रान्तिज्ञानेषु तदर्थासन्निधानात्
भान्तत्वमस्तु, नात्मतत्त्वग्रहणमिति ॥
II.508
यच्चोच्यते—
इति—सेयं विपरीतख्यातिरेवाङ्गीकृता स्यात् । तद्वरं सैव तप
स्विनी साधीयसी ॥
अर्थस्य ज्ञानरूपत्वासंभवः
अथ कथ्यते—ग्रहकात् 1465सत्यं विच्छिन्नं ग्राह्यं; तत्तु ज्ञानरूपमे
वेति—तत्र विच्छिन्नमिति प्रियमावेदितम् । ज्ञानत्वे तु तस्य का युक्तिः ?
न च 1466ज्ञानयोः युगपदुत्पन्नयोः क्रमभाविनोर्वा ग्राह्यग्राहकभाव उप
पद्यते । यौगपद्ये सव्येतरगोविषाणवत् ग्राह्यग्राहकनियमाभावात् ।
क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राह1467कं चेत्—तदुत्पत्तितद्ग्रहणकालप्रतीक्षणात्
क्षणिकतां जह्यात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तदापि सैव वार्ता ।
तावत्कालमवस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम
सामान्यं ग्राह्यग्राहकयोरनुगतम्, गोत्वमिव शाबलेयादौ, विभाति ।
अतो विच्छिन्नश्चेत् ग्राहकात् ग्राह्यांशः, सोऽर्थ एव भवेदिति न
ज्ञानस्यायमाकारः ॥
आकारस्य संसर्गधर्मत्वाभावः
यत्तु संसर्गधर्मः आकारो न भवतीति भाषितं, तद्युक्तमेव—
II.509
तदेवं शाक्योक्तयुक्तिशकलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभा
सात् ज्ञानस्य स्दतो वैवित्र्यानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् ॥
एकस्मिन्नर्थे न विरुद्धाकारोल्लेखः
यत्तु अर्थाकारपक्षे चोदितं—एकत्रार्थे नक्षत्रं तारका तिष्य
इति परस्परविरूद्धाकारसमावेशो न युक्त इति—तत्रोच्यते—अनुपपन्न
मिति नः क्व संप्रत्ययः, यत् न प्रमाणेनावगतं1468 विरुद्धमपि तदवबुद्ध्या
महे, यदेकत्र निविशमानं न पश्यामः । तदिह यद्यबाधितेन ज्ञानेन
विस्पष्टमाकारत्रयमेकत्र गृह्यते, तत् कथमनुपपन्नं स्यात् ? कथं वा
विरुद्धमिति ॥
नानाकारेष्वन्यतमस्य कल्पितत्वसंभवः
अथैकं सम्यक्प्रमाणपरिनिश्चितरूपं, इतरत् काल्पनिकमिति प्रतीयते
—तदेवमस्तु, को दीषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः । न
चैकत्र विरोधं अविरोधं वा दृष्टवा सर्वत्र तत्कल्पनमुचितम् । अबा
धितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति, न कल्पनानिर्मिताः ॥
शब्दसाधुत्वं व्याकरणाधीनम्
दाराः इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वंहुवं त्व वा विद्यते ।
शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ॥
II.510
सर्वस्य वस्तुनः अनेकरूपस्वम्
प्रतिप्राणिनियतानेकविधवासनाभेदसहकारिसापेक्षो हि तस्य
तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ॥
अर्थानां वासनाकल्पितत्वासंभवः
यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति, किं अर्थकल्प
नया ? अयि साधो ! किमद्यापि न परिहरसौ सुचिरं 1470गुणितां
कल्पनावाचोयुक्तिम् । न ह्यर्थः कल्प्यते, अपि तु प्रतिभासत एव ।
बहुरूपस्य तु तस्य एकतमरूपपरिच्छेदनियमे किमर्पि वासनादि कारणं
क्वचित् कल्प्यते । कस्तावताऽर्थनिह्नवस्यावसरः ॥
II.511
वासनाया दुर्निरूपत्वम्
यच्चोक्तं वासनाभेद एव ज्ञानवैचित्र्यकारणम्, इतरेतरकार्य
कारणभावप्रबन्धश्च बीजाङ्कुरवदनादिः ज्ञानयासनयोरिति—तदप्यघट
मानम्—केयं वासना नाम ? ज्ञानादव्यतिक्ता चेत्, साऽपि
1471स्वच्छरूपत्वात् न ज्ञानकालुष्यकारणं भवेत् । ज्ञानव्यतिरिक्ता
चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ॥
वासनायास्संस्काकाररूपत्वम्
अपि च वासना नाम विषयानुभवसमाहितः संस्कार इति लोके
प्रसिद्धिः । संस्कारश्च यदनुभवघटितः, तत्रैव क्वचिदवसरे स्मरणमुपज
नयति । न पुनरसदेव वैचित्र्यमिदमीदृशमावहति ॥
किंच भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्य
वासकभावोऽपि निराकर्तव्यः । स्थायिनो हि भावास्तिलादयः स्थायि
भिरेव चम्पकादिभिः वास्यन्ते । न तूत्पद्य सपद्येव विनश्यद्भिः ज्ञानैः
तादृंश्येव ज्ञानानीति ॥
वासनावादेऽव्यवस्थापत्तिः
अपि च एकत्र देवदत्तसन्ताने वासनातः सहस्राणि ज्ञानवैचित्र्यका
रीणि भवेयुः1472 । न हि गोवासनातो हस्तिज्ञानमुदेति ॥
II.512
वासनाश्च वासनासन्तानारम्भहेतव एव भवेयुः, न पुन
रनुभवज्ञानमाधातुमुद्यच्छेयुः । सदृशात् सदृशोत्पत्तिरिति हि भवतां
दर्शनम् ॥
वासनाया आश्रयानुपपत्तिः
अपि च न निराधारा वासना आसते । न च भवत्पक्षे तदाधारः
कश्चन संभवति, भङ्गुरत्वेन, ज्ञानस्य तदाश्रयत्वानुपपत्तेः । एकज्ञाना
श्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रया
भेदे तदानन्त्येनानियमश्च शतशाखः ॥
आलयविज्ञानप्रवृत्तिविज्ञानभेदनिरासः
न चालयविज्ञानं नाम किंचिदस्ति । सत्यपि तस्मिन्नशेषवासना
सहस्रसमाश्रये तत्क्षणिकत्वात्, सकृदेव तथाविधवासनाकुसूलज्ञानविनाशः
स्यात् । पुनरुत्पादेऽपि कथं तथाविधं ज्ञानमेव समुत्पाद्येत । त तु
गवाश्वादिज्ञानक्रमनियमो भवेत् इति सर्वथा सङ्कटोऽयं पन्थाः ।
तस्मात् मृगतृष्णिकैषा तपस्विनां वासनात एव लोकयात्रालिद्धेः किं
बाह्येनार्थेनेति1474 ॥
II.513
शून्यवादिभिः अवयवातिरिक्तावयविखण्डनम्
ये तु ब्रुवते—1475तिष्ठतु तावत् प्रमाणमार्गं इति प्रमेयमेव विकल्प
यन्तो न ब्राह्ममर्थं कंचन निरपवादं प्रतिपद्यामहे । तथा हि—न तावदयं
अवयवी घटादिरवकल्पते, अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि
यस्माद्व्यतिरिक्तः, सः तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते,
घटदिव पटः । न चैवमवयवेभ्यः पृथग्देशो दृश्यते अवयवी । तदग्रहणे
च तद्बुध्यभावात् । घटाग्रहणेऽपि पटो गृह्यते, नत्ववयवानुपलब्धाववय
वीति कथं स तेभ्यो भिद्येत ॥
सर्वावयवैर्नेन्द्रियसन्निकर्षः
अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुंमर्वा
ग्भागवर्तिन एव गृह्येरन्, न मध्यपरभागगता इति ॥
बुध्या विभज्यमाने चानुपलम्भात् । यदा हि पटं पाणौ निधाय
बुध्या विविनाक्ति, एष तन्तुः एष तन्तुरिति, तदा प्राच्यादंचलात्प्रभृति
II.514
प्रतिचीनमंचलं यावद्विविंचयन्नसौ तन्तुसन्ततिमेव केवलामुपलभते, न
ततोऽतिरिक्तं पटावयविनम् ॥
अवयिनः वृत्त्यनुपपत्तिः
वृत्त्यनुपपत्तेश्च । नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तदन्येष्व
वृत्तिप्रसङ्गात् । नैकदेशेनवर्तते, स्वारम्भावयवव्यतिरिक्तदेशाभावात् ।
अभ्युपगमे वाऽनवस्थाप्रसङ्गात् । यैरप्येकदेशैरवयवेष्वसौवर्तते, तेष्वपि
कथं वर्तते अन्यैरेकदेशैः तेष्वपि अन्यैरिति नास्त्यन्तः । 1476असंबद्धस्त्वेकदे
शैरवयवीति कथं तद्वारेण स्वारम्भकैरपि संबध्येत । तस्मादभय्यपि
नास्य वृत्तिरवयवेष्विति ॥
धारणाकर्षणादिकं नावयविनः, किन्तु संधातस्यैव
धारणाकर्षणादि तु अनारब्धकार्ये काष्ठमूलककार्पासादावपि1477 दृश्यत
इत्यनैकान्तिकम् । एकाकारातु प्रतीतिविकल्पमात्रम् । एकदेशावस्था
नादिनिमित्तमाश्रित्य करितुरगपदातिप्रभृतिष्विव सेनेति, धवखदिर
पलाशादिष्विव वनमिति, संचितेष्वभवयवेष्वेव घठ इत्यादिबुद्धिर्भविष्यती
त्येवावयवावयवपर्यालोचनयाऽणुसंचयमात्रमेवावशिष्यते, नान्यत् ॥
संघातोऽपिनातिरिक्तः
संचयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येवेत्यणव
एवावशिष्यन्ते । परमाणवोऽपि—
II.515
इत्येवं विकल्प्यमाना विप्लवन्त एव । न च तैरतिसूक्ष्मैरेष व्यव
हारोऽभिनिर्वर्त्यत इति । तस्माद्वाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानु
पपत्तेः विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् ॥
अवयवातिरिक्तावयविसाधनम्
तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः1478 कृपणतरा इव लक्ष्यन्ते ।
अपूर्वं एष तर्कमार्गः, यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः
क्रियन्ते ॥
न च शक्नुयः पदे पदे वयमेभिरभिनवमल्पमपि किंचिदपश्यद्भिः
तदेव पुनःपुनः पृच्छद्भिः शाक्यहतकैस्सह कलहमतिमात्रं कर्तुम् ॥
अवयविनि प्रमाणोपन्यासः
सविकल्पकं प्रत्यक्षं प्रमाणमिति साधितम् । निर्विकल्पकेनापि
शब्दोल्लेखमात्ररहितं सविकल्पकग्राह्यमेव वस्तु गृह्यत इति च दर्शितम् ।
एकाकारविषयव्यतिरेकेण च तद्बुद्धेरेककार्यत्वैकदेशाद्यन्यथासिद्धिनिब
II.516
न्धनत्वमपि न किंचिद्वक्तुं शक्यत इत्यपि वर्णितम् । क्वचिद्वा पृतना
वनादौ बाधकोपनिपातात् एकावगतिमिथ्यात्वात्, न सर्वत्र मिथ्यात्व
कल्पना युक्तेत्यप्युक्तम् । किं वा तदस्ति, यत्सामान्यसमर्थनावमरे
नाकथितम् । तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव, तद्ग्राहिणः
प्रत्यक्षस्य निरपवादत्वात् ॥
अवयविन्याक्षेपानां परिहारः
यत्तु देशभेदेनाग्रहणात्, 1480तदग्रहे तद्बुद्ध्यभावादिति—तत्रावयवा
श्रितत्वमेव निमित्तं, नासत्त्वम् ॥
अवयववविभागो ह्यवयविनो विनाशहेतुः । तस्मिन् बुद्ध्या
समुल्लिख्यमानेऽवयविविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी
तदानीं गम्येत ?
अवयवेषु अवयविनः व्याप्तज्यवर्तमानत्वम्
II.517
तथा चाहुः—वर्तत इति ब्रूमः, अनाश्रितस्यानुपलंभात् ॥
तस्मात् प्रत्यक्षत एवावायववृत्तेरवयविनः उपलब्धेः न तद्वत्तौ
विकल्पानामवसरः ॥
अवयविग्राहकप्रमाणस्यानन्यथासिद्धत्वम्
स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता । तदियमवयविवृत्ति
रपीदृशी दृश्यमाना किमिति निह्नूयते । न चावयविग्राहिणः प्रत्यक्षस्य
कश्चिदपवादः समस्ति ॥
न च सेनावनवदवयविग्रहणं अभिधातुमुचितम्, अबाधितत्वात्,
सेनादौ बाधकसद्भावात् ?
सेनादिवैलक्षण्यं पटादेरवयविनः
अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमान
त्वात्, तत्समवाये सेनावनादिप्रतीतिरुपपद्येतापि । इह तु किंसमुदाय
विषयः पटप्रत्यय इति चिन्त्यम् । तन्तुससुदायालम्बन इति चेत्, तन्तु
1483
II.518
प्रत्यय इदानीं किमालम्बनः ? सोऽपि स्वावयबालम्बन इत्येवमवयवाव
यवनिरूपणे परमाणवः, पत्त्यश्वशमीशिंशपादिस्थानीय वक्तव्याः । तेषां
च तद्वत् ग्रहणमनुपपन्नं, अतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः ।
तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् ॥
परमाणूनां प्रमाणसिद्धत्वम्
परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः
सन्तीति पूर्वमेव समर्थितम् । अतो न षट्कयोगादिना सावयवत्वमेषा
उपपादयितुं पार्यते । मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यते ॥
शून्यवादे प्रमाणाभावः
अतः प्रमेयपर्यालीचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम् । प्रमेय
विचारेऽपि हि प्रमाणवृत्तमेव परीक्ष्यते । अतश्च प्रमाणचर्चातो
विभ्यद्भिः प्रपलाय्य या प्रमेयकथावीथी तथागतैबलम्बिता तस्यामपि
सैव भीषणमुखी प्रमाणचर्चिकैवोपनता1484 ॥
II.519
वैराग्यजननायापि न क्षणिकवादाद्यावश्यकता
अथ 1485अस्थाशैथिल्यजननाय सर्वं शून्यं सर्वं क्षणिकं सर्वं निरा
लम्बनं इत्युपदिश्यते—तर्हि किमनेन मृषोद्येन ! सत्यप्यात्मनि, सत्स्वपि
स्रेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति
तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः । प्रत्युत प्राज्ञो मुमुक्षुः
क्षणिकनैरात्म्यशून्यतादिवचनं युक्तिबाधितमवबुध्यमानः वंचनामयमिव
तदुपदेशमाशङ्कते ॥
अपवर्गपरीक्षोपसंहारः
सांख्योक्तप्रक्रियायाः डपसंहारः
II.520
जैनाद्युक्तप्रक्रियाया उपासंहारः
II.521
पातञ्जलप्रक्रियोपसंहारः
गौतमोक्तप्रक्रियैव साधीयसी
॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां नवममाह्निकम् ॥
-
प्रलयेति सुषुप्त्यादीनामुपलक्षकम् ॥
↩ -
ऊर्मिष्टकमनुपदमुक्तं क्षुत्पिपासालोभमोहशीतातपा इति ॥
↩ -
संवेदनम्—अनुभवः ॥
↩ -
न—इत्यादि समाधानम् । इष्टप्राप्तिवदनिष्टनिवृत्तिरपि पुरुषार्थ एव ॥
↩ -
विज्ञानम्—इत्यर्शाद्यजन्तम् । आनन्दम् इतिपदसमभिव्याहारात् आनन्दपदस्य स्वतः पुंलिङ्गत्वेनार्शाद्यजन्तत्वावश्यकत्वात् ॥
↩ -
सुखज्ञानम्—सुखानुभवः ॥
↩ -
समाधानम्—मेघा इत्यादि । तत्त्वेत्यादि—मिथाभूता सदसदनिर्वचनीया अविद्येति हि तन्मतम् ॥
↩ -
दुःखकारणस्य रागस्य निवृत्त्या दुःखनिवृत्तिः । सुखे रागे तु नैवं वक्तुं शक्यम् ॥
↩ -
अन्यथा स्यात् ॥
↩ -
अन्यथा हि अनुकूलत्वप्रतिकूलत्वादिज्ञानानां भ्रमत्वप्रसङ्गः । सर्वं भ्रम एवेति वादस्तु असकृन्निरस्त एव ॥
↩ -
न हि चेतन—चैतन्यशब्दौ पर्ययरूपौ ॥
↩ -
सुखमहमस्वाप्सम् इति प्रत्यवमर्शः । तदा ज्ञानाभाववचनं तु विषयानवभासादित्याशयः ॥
↩ -
आद्यः माध्यमिकानाम् । अन्यस्तु इतरेषां त्रयाणाम् ॥
↩ -
शरीरानुगुणपरिमाणवानात्मेति हि तन्मतम् ॥
↩ -
सिद्धान्तेऽपि घटाकाशवत् शरीरौपाधिकः परिमाणोऽविरुद्धः ॥
↩ -
सम्यगिति शेषः ॥
↩ -
अयं प्रायोवादः, तत्त्वज्ञानस्यापि शरीराधीनत्वात् ॥
↩ -
अभाववैराग्यवतामुपदिश्यताम्, न तूत्साहवतामित्यर्थः ॥
↩ -
जरामर्यम्—जरामरणावधिकम् ॥
↩ -
ब्रह्म—वेदः ॥
↩ -
निदानम्—विषयवासनाः ॥
↩ -
एकमेव कर्मानेकजन्मारंभकमपि भवति ॥
↩ -
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति हि वचनम् ॥
↩ -
जन्मान्तरी ऋणविषयत्वे लोकव्यवहार याकुली दृढा ॥
↩ -
प्रतिपदम्—स्वपदेनैवेति यावत् ॥
↩ -
पतत्यधः इति प्रसिद्धः पाठः ॥
↩ -
भवेत्सरागस्य तपोवनं गृहं निवृत्तरागस्य गृहं तपोवनम् इति हि प्रसिद्धम् ॥
↩ -
प्रतिपक्षभावनाः—अविद्यादिविरोधिनः ज्ञानाभ्यासादयः प्रतिपक्षभावनाः, अहिंसाप्रतिष्ठायां वैरत्यागः इत्यादियोगशास्त्रोक्ताः ॥
↩ -
द्वन्द्वरूपत्वात् जगति सर्वस्य, तत्तद्विरोधिगुणानामभ्यासात् आस्रवाः— दोषाः हीयेरन् । सात्मीभावः—आत्मना समरसभावः ॥
↩ -
विरोधिदर्शनेऽपि द्वेषाभावाभ्यासायोच्यते—किमित्यादि ॥
↩ -
धर्मी—शरीरम् ॥
↩ -
तर्हि किमर्थो मोक्षार्थप्रयत्नः इति चेत्—जाग्रतः पूर्ववत् क्येशानुवृत्तेरवर्जनीयत्वात् । तदानीमपि पूर्णस्य स्वरूपस्य भानाभावात् ॥
↩ -
न तु शीतातपादिरूपम् ॥
↩ -
परकायप्रवेशादिना । रण्डेत्यादि—तत्स्वाभिनोऽभावात् ॥
↩ -
सौभर्यादिः दृष्टान्तः ॥
↩ -
तानवं—तनुताम् । न तु संपूर्णनाशः ॥
↩ -
हीनक्लेशस्य—नष्टदोषस्य प्रवृत्तिः, प्रतिसन्धानाय—वासनाद्यनुवृत्तये न—न प्रभवति ॥
↩ -
अथमेव सिद्धान्त इति वक्ष्यति । वस्तुतस्तु, फलादानस्य पक्षद्वयेऽपि समानत्वात्, धर्माधर्मयोस्तथैवावस्थानकथनमर्थहीनम् ॥
↩ -
तथा च नाभुक्तम् इत्यादिवचनं प्रारब्धकर्मविषयम् । यथैधांसि इत्यादि संचितकर्मविषयमित्यविरोधः ॥
↩ -
भर्त्सनादिनेति यावत् । नर्मोक्तिरियम् ॥
↩ -
अपरे इत्यादिना 455 पुटे उक्तः । चतुर्थः पक्षः 454 पुटे उक्तः ॥
↩ -
ब्राह्मी—ब्रह्मप्राप्त्यर्हां ॥
↩ -
अङ्गिनः यत् फलम् तदेव किलाङ्गस्यापि ॥
↩ -
In the print edition there is a footnote reference, but no corresponding note.
↩ -
पातञ्जलाः ॥
↩ -
आत्मा वारे द्रष्टव्यः इत्यस्यार्थानुवादोऽयम् ॥
↩ -
रूपं—स्वरूपम् । ध्वंसरूपा हि सा ॥
↩ -
कीदृशं पापं मया जन्मान्तरे कृतम् इत्यादिप्रत्यभिज्ञयेत्यर्थः ॥
↩ -
लट्वा—सूक्ष्मशलाका ॥
↩ -
ब्रीहीणां प्रोक्षणसंस्कृतानां पुरोडाशाद्युपयुक्तत्वात्तथात्वम् । सक्तूनां तु न तथोपयोगः, होमेन भस्मीभावात् ॥
↩ -
परमुखनिरीक्षणं हि स्वप्राधान्यं निवर्तयति ॥
↩ -
प्रतियोगिस्मरणादिसापेक्षः ॥
↩ -
प्रत्यक्षं विधायकम्, न निषेधकम्, प्रतियोगिनः तेन उपस्थापयितुमशक्यत्वात् ॥
↩ -
भामतीकारपक्षोऽयम् । विवरणकारस्तु ब्रह्माज्ञानवादी ॥
↩ -
अनादेः कालात्—मृदि विद्यमानं रूपं पाकान्नश्यति किल ॥
↩ -
प्रलयः—मरणम् ॥
↩ -
स्थासकं—चन्दनादिलेपगम् ॥
↩ -
अभेदो हि भेदनिराकरणरूपः ॥
↩ - स्वरूपेण भासमाना इति यावत् ॥↩
-
भिक्षवः—बौद्धाः ॥
↩ - स्वरूपेण भासमाना इति यावत् ॥↩
- स्वरूपेण भासमाना इति यावत् ॥↩
-
देशान्तरकालान्तरव्यक्तीनां भानस्यावश्यकत्वात् ॥
↩ -
संबन्धः किल व्यक्त्योरेव, न सामान्ययोः ॥
↩ -
अभेदेत्यत्र केवलेत्यादिः ॥
↩ -
जीवे परमात्मतौल्यबोधनायार्थवादः । तौल्यं च स्वतः निर्दुःखत्वादिना ॥
↩ -
पूर्वसंपुटे 676 तमपुटे ॥
↩ -
परब्रह्मापेक्षयेति शेषः ॥
↩ -
सत्येनातपादिना हि सत्यस्य शैत्यादेर्निवृत्तिसंभवः ॥
↩ -
अभ्युपायः—अभ्युपगमः ॥
↩ -
रज्जौ हि सर्पभानम्, न तु शून्ये । तथाङ्गीकारे तु निरधिष्ठानभ्रमवादः स्यात् ॥
↩ -
नेह नानास्ति इत्यादयः मन्त्राः । एकमेवाद्वितीयम् इत्यादयः अर्थवादाः ॥
↩ -
शब्दार्थयोरविनाभावादिति यावत् ॥
↩ - शब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसंभवादिति हेतुः ॥↩
- शब्दस्य सूक्ष्मत्वादन्यथासिद्ध्यसंभवादिति हेतुः ॥↩
- अनादिनिधनंन सोऽस्ति प्रत्ययःवाग्रूपता चेत् इति श्लोकैरुक्तम्, शब्दस्य तत्त्वरूपत्वम्, सर्वप्रत्ययानां शब्दानुविद्धत्वम्, अर्थस्य शब्दविवर्तत्वं च ॥↩
-
गौः इति शब्दः, अर्थः, प्रत्ययश्चेति त्रयमपि हि निर्दिश्यते ॥
↩ -
वाच्यम्, तद्बुद्धिः, वाचकः शब्दश्च ॥
↩ -
मीमांसका अपि निराकारज्ञानवादिन इति चक्रधरः । परं तु निराकारज्ञानवादः अन्यः, अन्यश्च निरालम्बनज्ञानवाद इत्यबधेयम् ॥
↩ -
विभीतकं—फलविशेषः ॥
↩ -
उक्तार्थत्रयवाचिनः इति शेषः ॥
↩ -
तिङन्तत्वे साध्यत्वम्, सुबन्तत्वे सिद्धत्वम् । एवं अगात् इत्यादि सुबन्तं तिङन्तं च ॥
↩ -
न हि तेजसि तमसः, तमसि तेजसो वाऽध्याससंभवः ॥
↩ -
प्रकृते शब्दतत्त्वरूपम् ॥
↩ -
अनुरागः—अनुरञ्जनम् ॥
↩ -
तन्मते शब्दस्यैव ब्रह्मत्वात् ॥
↩ -
वाक्यपदीये हि विवर्ततेऽर्थभावेन यत्तस्य परिणामोऽयम् इति विवर्तपरिणामशब्दौ पर्यायतया बहुलं प्रयुक्तौ ॥
↩ -
न तु शब्दसमवायित्वेन ॥
↩ -
शब्दब्रह्म—अपरं ब्रह्म । परं ब्रह्म—परमात्मा ॥
↩ -
सुभिक्षम्—इति नर्मोक्तिः ॥
↩ -
परं ब्रह्म एकमेवेति नाद्वैतद्दानिः इत्यपि न—तर्हि द्वे ब्रह्मणी इति कथनमयुक्तं स्यात् ॥
↩ -
अयमेव ब्रह्मपरिणामवादः भर्तृप्रपञ्चादिसंमतः शंकराचार्यादिदूषितश्च ॥
↩ -
ऐकात्म्यवादे हि अहमर्थः न आत्मा, किन्तु अन्तःकरणमेव ॥
↩ -
अनेकात्मगर्भ इति भूतसर्गविशेषणम् ॥
↩ -
स्वप्रकाशज्ञानमात्रमिस्यर्थः । निर्विषयस्य कथं ज्ञानत्वमित्यर्थः ॥
↩ -
परन्तु आकारद्वयानुपलंभाव भवतां विजयः ॥
↩ -
अन्यथा—ज्ञानं प्रकाशकमन्तरा ॥
↩ -
ज्ञानस्य, अर्थस्येति द्वितयकल्पना ॥
↩ -
अन्यथा ग्राहकत्वासंभवः ॥
↩ -
प्रकाशकान्तरापेक्षायामनवस्था ॥
↩ - यस्य ज्ञानं न प्रत्यक्षम्, तस्य तद्विषयस्याप्यभानमेव ॥↩
- द्वितीयस्य ग्राह्यस्याभावादिति भावः ॥↩
-
यदा च ज्ञानमेवार्थाकारं जातम्, तर्हि अर्थः प्रत्येकं मा स्तु ॥
↩ -
अनात्मना—ज्ञानातिरिक्तेन ॥
↩ -
यद्यपि बौद्धाः निराकारज्ञानवादिनः, परन्तु अर्थे सति च साकारं निराकारं तदत्यये इत्युक्तेः, सांख्यमतेऽन्तःकरणस्य विषयाकारप्राप्तिवत्, ज्ञानस्य अर्थाकारप्राप्तेः साकारज्ञानवादिनस्ते इत्युच्यते । एवं ज्ञानाकाराङ्गीकारादेव विषयस्यापलापः कर्तुं शक्यते, आकारद्वयानुपलंभादिति । विषयासान्निध्ये तु ज्ञानं निराकारं— निर्विषयम् अवतिष्ठते । ततश्च निराकारज्ञानवादः अन्यः, निरालम्बनज्ञानवादपययिः निर्विषयज्ञानवादश्चान्यः ॥
↩ -
व्यतिरेकतः—अर्थाभावे ज्ञानाकारासिद्धेः, बाह्यार्थसिद्धिः ॥
↩ -
अन्यथानुपपत्त्या—विषयमन्तरा स्वतः ज्ञानस्याकारान्यथानुपपत्त्या ॥
↩ -
ज्ञानस्य, अर्थस्य च यः संसर्गः—परस्पराभिमुखीभवनम्, तत्कृतः आकारः ॥
↩ -
ह्रस्वत्वदीर्घत्वादिकं बुद्धिकृतमिति हि सर्वसंमतम् ॥
↩ -
बौद्धाः किल नैरात्म्यवादिनः । अतः प्रमाता इति विभागः नास्ति
↩ -
स्वकर्मणि—स्वस्य स्वेन विषयीकरणे । स्वप्रकाशं हि ज्ञानम् । स्वप्रकाश मित्युक्ते त्रिपुटीरहितमित्येवार्थः । इतरत्तु व्यावहारिकम् ॥
↩ -
आकारद्वयाप्रतिभासमात्रेण आकारद्वयाभावः न सिद्ध्यति । प्रतीयमानस्त्वाकारः अर्थस्यैव, बाह्यतयाऽनुभवात् । आन्तरं तु ज्ञानम् अनुव्यवसायगम्यम् ॥
↩ -
ग्राहकस्याजडत्वात् ॥
↩ -
मात्रेणेति—स्वरूपसदेव ज्ञानमर्थप्रकाशकम्, न तु ज्ञातं सत्, चक्षुरिन्द्रियवदेव ॥
↩ -
अबोधरूपस्याप्यर्थप्रकाशकत्वं दीपादेदृष्टम् ॥
↩ -
इत्थं च—सामग्रीन्यूनतामात्रेण । मार्जारादीनामालोकापेक्षाया अभावेन, तेषां घटादयोऽपि स्वप्रक्राशा भवेयुः ॥
↩ -
पश्यत्यात्मानमात्मना इत्यादौ हि कर्तृत्वकर्मत्वकरणत्वादिकं उपाधिभेदेन स्पष्टम् ॥
↩ -
अविबन्धः—अप्रतिबन्धः । प्रतिबन्धकाभावमात्रं न हि कार्यजनकम् ॥
↩ -
कालान्तरे—अनुव्यवसायकाले ॥
↩ -
अनुसायः—अनुव्यवसायः ॥
↩ -
शून्यवादिना विवाद इति शेषः । न हि विवादाविषयः कश्चिदर्थो वर्तते ॥
↩ -
प्रकारान्तरेण—विषयीकरणमात्रेण ॥
↩ -
ज्ञानं च आकारम् उपाददानमपि—इत्यन्वयः ॥
↩ -
ज्ञानं हि गुण । न हि द्रव्यस्येव तस्याकारः संभवतीति सारम् ॥
↩ -
तद्ग्राहकस्य—ज्ञानस्य अनुपलंभात् ॥
↩ -
इतरख्यातीनामत्रैवान्तर्भाव इति तात्पर्यम् । वस्तुतस्तु अख्यात्यन्यथाख्यात्योरेव सर्वेषामन्तर्भावः ॥
↩ -
भ्रमहेतुत्वात्तस्य दोषत्वेन कथनम् ॥
↩ -
तिमिरं—नयनदोषविशेषः । न तु तमः ॥
↩ -
महेला—महिला । पुष्पेषुः—कामः ॥
↩ -
जालम्—इन्द्रजालम् ॥
↩ -
द्वयोः—तद्देशासत्त्वदेशान्तरासत्त्वयोः ॥
↩ -
असत्ख्यातिरूपः ॥
↩ - सत्यम्—इत्यर्धाङ्गीकारे ॥↩
-
ग्राह्यकस्य ग्राह्यस्य च उभयोः ज्ञानरूपत्वाङ्गीकारात् ज्ञानयोः इति ॥
↩ - सत्यम्—इत्यर्धाङ्गीकारे ॥↩
-
पदानां तत्तल्लिङ्गकत्वं व्याकरणशास्त्रसिद्धम् । अर्थेषु व्यक्तिभेदेन विरूद्धधर्मवत्त्वं तु भानमात्रम्; न वस्त्वन्वयि ॥
↩ -
अनेककार्यकारित्वादित्यर्थः ॥
↩ -
गुणितां—अभ्यस्ताम् ॥
↩ - ज्ञानादव्य तिरिक्तत्वादेव स्वच्छत्वम् ॥↩
- ज्ञानानि इति कर्तृ ॥↩
-
आरंभे—उत्तरज्ञानोत्पादने ॥
↩ -
वासना अपि बाह्यार्थानालम्ब्यैव हि लब्धस्वरूपाः । वासनापदस्य संस्कारपर्यायत्वे तु न हानिः ॥
↩ -
अतिरिक्तावयविनिराकरणेन सर्वापलापस्सुसाध इति भावः ॥
↩ -
येषु नास्त्यवयवी, तेषां कथं तदवयत्वम्; अतिप्रसङ्गात् ॥
↩ -
न हि कार्पासादि अन्त्यावयवि ॥
↩ -
वैभाषिकाः, माध्यमिका वा ॥
↩ -
एतदेव—अवयवी नास्ति, प्रमाणाभावादिति ॥
↩ -
तदग्रहे—देशभेदाग्रहे ॥
↩ -
तद्देशः—अवयवस्य यो देशः, स एवावयविनोऽपि ॥
↩ -
In the print edition there is a footnote reference, but no corresponding note.
↩ -
व्यक्तिषु जातिवत् ॥
↩ -
प्रमाणं तु अबाधितं साधितम् । तेन प्रमेयमपि सिद्धत्येवेति नावयविनिराकरणसंभवः ॥
↩ -
आस्था—लौकिकवस्तुष्वासक्तिः ॥
↩ -
अद्वैतदृशा—विज्ञानाद्वैत-शब्दाद्वैत-ब्रह्माद्वैत-शून्याद्वैतदर्शनैः ॥
↩ -
कर्तृत्वादिकं सर्वं प्रकृतेरेवेति वर्णनात् ॥
↩ -
पर्वतशिखरगुहादिवासः । उपह्रासोक्तिरियम् ॥
↩ -
खलतयः—शिरोरुहव्याधयः ॥
↩ -
सर्वेषु वैदिकशास्त्रेषु ॥
↩ -
ईश्वरप्रणिधानाद्वा इति योगसूत्रम् । अविकल्पं—निर्वीजसमाधिरूपम् ॥
↩ -
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः इति योगसूत्रम् ॥
↩