II.646 साधर्म्यवैधर्म्याभ्यामित्यसमासकरणेन1656 दिक्प्रदर्शनस्य सूचनात् । साध
र्म्येण वैधम्यैण वा, कथमेष हेतुः हेतुर्भवतीति वा, किमनेन क्रियते इति
वा यदेवंप्रकारं प्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते, सा जातिः
इत्युच्यमाने भविष्यति सकलविशेषसङ्ग्रहः । त्रैकाल्यसमादिष्वपि वा
यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्यः योजयितुं शक्यत्वात् । न
ह्युदाहरणसाधर्म्यं साध्यसाधनमिह विवक्षितम्, तद्वैधर्म्यं वा; साधर्म्या
दिमात्रं तु । तत्रापि नात्यन्ताय दुरवगममिति यथाश्रुतमेव साधर्म्यवै
धर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् ॥


जातिविभागः, लक्षणानि च


अथ भेदवत्त्वाज्जातेः चतुर्विशतिधा विभागमाह—


साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्ति
प्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषो
पपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥ ५-१-१ ॥


अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निदर्शस्य, जात्यपेक्षया स्त्री
निर्देशो वा प्रतिषेधापेक्षया पुंन्निर्देशो वा वर्णनीयः । विशेषलक्षणसूत्रेषु पुनः
प्रायेण पुल्लिङ्गनिर्देशो दृश्यते । स तु प्रतिषेधापेक्षया तेषु व्याख्येय इति
तद्व्याख्यानावसर एव वक्ष्यामः ॥


जात्युपदेशाक्षेपः


ननु ! आस्तां तावद्विशेषलक्षणवर्णनम् । इदमेव त्वादौ चिन्त्यताम् ।
किमर्थमेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते । एवंप्रकाराणां च धूलि

  1. असमासकरणं—प्रत्यवस्थानपदेन ॥