२. सत्त्यद्वयचिन्ता

अर्थक्रियासमर्थं यत्तदत्र परमार्थसत् !
अन्यत्सम्वृतिसत् प्रोक्तन्ते स्वसामान्यलक्षणे ।। ३ ।।

—इत्यन्तरश्लोकः ।

ननु न किञ्चिदर्थंक्रियासमर्थं कथमर्थक्रियासामर्थ्यं परमार्थसल्लक्षणं । तथाहि ।

अर्थक्रियासमर्थत्वङ्कस्य केन प्रतीयते । नहि मानस्य मेयस्य627 प्रतीतेः सम्भवस्तथा ।। ५० ।।

न नित्यस्य नानित्यस्य । न ज्ञेयस्य न ज्ञानस्यार्थक्रियाकारित्वम्प्रतीयते628 प्रत्यक्षे
णानुमानेन वा । तथा हि ।

नित्यस्यास्ति न सामर्थ्यम्व्यतिरेकाप्रसिद्धितः । नानित्यस्यास्ति सामर्थ्यमन्वयस्याप्रसिद्धितः ।। ५१ ।।
अन्वयव्यतिरेकाभ्याम्व्याप्तं सामर्थ्यमीक्ष्यते629 । तयोरुभयथासिद्धौ कथं सामर्थ्यमुच्यते ।। ५२ ।।

न खलु नित्यस्य सर्वदेशव्यापिनः क्वचित्कार्ये व्यापारविरहिणः सामर्थ्यन्नाम ।
मा भूद्व्यापिनो अव्यापिनो भविष्यति । मा भूत्सदास्थायिनः कालान्तरस्थायिनो भविष्य
तीति चेत् । तदसत् ।

देशाव्याप्तिः कुतस्तस्याप्रतीतेर्नित्यता कुतः ।

यथा न व्यापिता तस्य तथा नास्त्यस्य नित्यता ।। ५३ ।।

अनित्यस्यापि भावस्य क्षणिकत्वात्क्रिया630 कुतः ।

क्षणिकस्य हि भावस्य भावमात्रे व्यवस्थितिः ।। ५४ ।।
अथानन्तरमस्यान्यदिति सामर्थमुच्यते । तदनन्तरमन्यस्याप्यतस्तस्यापितत्क्रिया ।। ५५ ।।
सर्वभावक्षणानां हि सर्वापेक्षैव पूर्वता । तदभावेपि तद्भाव इति चेत्क्षणिके कथं ।। ५६ ।।

न खलु क्षणिकस्य कार्यस्य तदभावेपि पुनर्भवनसम्भवः । तदैव तस्य भावात् । अन्यदा
कदाचिदप्यभावात् । अथ सन्तानः कार्यं कारणञ्च ततोऽयमदोषः । न (।) सन्तानस्य
176 तद्‌व्यतिरेकिणो भावात् । भावे वा तस्यैव स कार्यकारणभावः क्षणानामसामर्थ्यादसत्त्वप्रसङ्गः ।
तत्सम्बन्धिनः कार्यकारणत्वे तेषामपि स कार्यकारणभाव631 इति चेत् । न । व्यतिरेकिणोः
कार्यकारणभावादपरस्य सम्बन्धस्याभावात् । सन्तानः सर्वक्षणानन्तरभावीति सर्वस्य सन्तानो
भवेत् । तस्य च नित्यताक्षणिकत्वयोः प्राग्भाव्येव दोषः । आह च632 ।

सन्तानस्य ततोऽन्यत्त्वे सामर्थ्ये च स एव सन् ।
क्षणानां स्यादसामर्थ्यादसत्त्वङ्कल्पना वृथा ।। ५७ ।।
तत्सम्बन्धिनि सामर्थ्यात्सामर्थ्यङ्कल्प्यते यदि । मुख्यसामर्थ्यविरहाद्भूषायाचितकेन सा ।। ५८ ।।
कार्यकारणसम्बन्धः सन्तानेतरयोर्भवेत् । त्रैलोक्यस्य क्षणानां हि स्यात्सन्तानस्तथा सति ।। ५९ ।।
सन्तानस्य च सामर्थ्यात् सत्त्वं कार्यक्रिया ततः । नित्यत्वेतरयोर्दोषः पक्षयोः स्यात्स एव वः ।। ६० ।।
सन्तानान्तरसञ्चारे भवेदेवानवस्थितिः । सन्तानस्यापि कार्यत्वे क्षणिकत्वे न कार्यता ।। ६१ ।।
सन्तानान्तरमत्रापि यतः कार्यत्वकारकं । ततोऽनवस्थाव्याघ्रोणाघ्राता(सा)कार्यता मतिः ।। ६२ ।।

अपि च ।

ज्ञानादन्येन कार्येण सत्ता हेतोर्भवेद्यदि । कार्यस्यापि न सत्ता स्याद्विना कार्यान्तरोदयं ।। ६३ ।।
ततोऽनवस्थितेः सत्वन्न मूलस्यापि विद्यते । ज्ञानकार्येण सर्वस्य तत्स्यात्सत्त्वमबाधितं ।। ६४ ।।
अत्रापि ज्ञानकार्येण633 ज्ञेययोगस्य वित् कुतः ।
ज्ञानेन ज्ञेययोः कार्यकारणत्वम्प्रतीयते ।
पुरो व्यवस्थिततत्त्वेन द्वयोरप्यवभासनात् ।। ६५ ।।
ज्ञानस्य तु न कार्यत्वन्तेनान्येनाथवक्ष्यते ।
न प्रत्यक्षेण634 तेनैव तस्य प्रागप्रवृत्तितः ।। ६६ ।।
प्रवृत्तौ तु न कार्यत्वं पुनः पूर्वं प्रवर्तते ।
तथाऽपर्यवसानत्वं कुतः स्यात् कार्यतागतिः ।। ६७ ।।
समानकालयोरेव यदि स्यात्कार्यहेतुता ।
अविशेषाद् भवेदेवं युगपत्स्तम्भकुम्भयोः ।। ६८ ।।
दृष्टयोरन्यथाभावे635 प्रकृतेपि न सिध्यति ।636
केवलस्यापि कुम्भस्य यदि दृष्टेर्न कार्यता ।। ६९ ।।
ज्ञानस्यापि न किन्तेन विना दृष्टेः प्रवर्तनं ।
अन्यदेव637 हि तज्ज्ञानमतो न व्यभिचारिता ।। ७० ।।
स्तम्भोंपि न किमन्योऽसौ प्रत्यभिज्ञोदयस्य नः ।
नित्यता च भवेदेवम्प्रत्यभिज्ञा न च प्रमा ।। ७१ ।।
नहि पूर्व्वापरं रूपमेः कस्यैव प्रतीयते ।
पूर्व्वापरप्रत्ययाभ्याम्प्रत्येकमनवग्रहात् ।। ७२ ।।
स्मरणस्य द्वयोर्वृत्तिर्न चास्यास्ति प्रमाणता ।
पूर्वापरप्रत्यययोः परस्परममिश्रणं ।। ७३ ।।
स्मरणन्तत उत्पन्नमेकत्वस्य न वेदकम् ।
आत्मा यद्यपि नामैकः कथन्तेनापि वेदनं ।। ७४ ।।
प्रत्यक्षादिप्रमाणेन सोप्यर्थमवगच्छति ।
नह्यात्माश्रितमित्येव ज्ञानम्मानत्वमृच्छति ।। ७५ ।।
विनाप्यात्माश्रितत्वेनाविसम्वादात्प्रमाणता ।
दृष्टस्य पश्चात्प्राप्तौ हि प्रमाणस्य प्रमाणता ।। ७६ ।।

638
177
विनात्मानमिदम्वस्तु नानिlत्येनावगम्यते639 ।
सद्भावेप्यात्मनो नास्ति प्रामाण्यं यस्य कस्यचित् ।। ७७ ।।
प्रत्यक्षानुमयोरेवप्रत्यक्षान्‌मयोरेव तत्राप्यस्ति प्रमाणता ।
न पूर्वापररूपत्वमात्मनोऽन्यस्य वेक्ष्यते ।। ७८ ।।
आत्मनान्येन वा तेन न नित्यस्यास्ति सम्भवः । तस्माज्ज्ञानस्य नार्थस्य कार्यत्वं सभ्प्रतीयते ।। ७९ ।।
ज्ञानमात्मविदात्मानम्वेत्ति तद्वेद्यमेव च । पूर्वापरत्वेनाध्यक्षं वर्त्तते कार्यकारणे ।। ८० ।।
अथानुमानतः कार्यात्पूर्वङ्कारणवेदने । तस्माज्ज्ञानमिदञ्जातमिति जानाति कार्यतां ।। ८१ ।।

तस्यापि नानुमानस्य प्रत्यक्षेणाप्रवेदनें । वस्तुनोर्वृत्तिरस्तीति640 पूर्वमेवोपपादितं ।। ८२ ।।

पूर्वाध्यक्षाप्रमाणत्वे नानुमानम्भवेत्प्रमा । तत्राप्यस्त्यनुमानम्प्रागिति स्यादनवस्थितिः ।। ८३ ।।
आस्तान्तावत्कार्यतादिप्रमेयं यस्य स्यात्तत्तस्य नास्ति प्रतीतिः ।
मूलाभावादुत्तरन्नेति सिद्धन्धर्म्मः सिद्धो धर्म्मिणोयं न युक्तः ।। ८४ ।।

सालम्बनतायां ज्ञानस्य वस्तुप्रसिद्धिः यदा तु वस्त्वेव न सिद्धन्तदा कस्य कार्य
कारणभावः । सालम्बनत्वस्य कथमसिद्धिरिति चेत् । उच्यते ।।

कारणमेवालम्बनमिह जगति न दृष्टिमात्रेण641 ।
प्रतिभासमात्रकेण तु तैमिरिकधियोपि तत्प्राप्तं ।। ८५ ।।
यस्य यत्कारणम्वस्तु न तत्कारणतो विना । चक्षुरादिधियाम्प्राप्ता न विनालम्बनं स्थितिः ।। ८६ ।।

विनापि वालम्बनेन चक्षुरादिवेदने नीशीथिनीनाथद्वयाकारमुपजायमानमीक्ष्यते ।
तत आलम्बनकारणमन्तरेणाप्युपजायमानम्व्यभिचारतो नालम्बनकारणकार्यम्विज्ञानमिति
युक्तं । एष हि कार्यकारणभावः परस्परं भेदे सति व्याप्यव्यापकभावो यः । कारणमन्तरेण
कार्यस्य भावे न तत्तस्य कार्यन्नापि कारणन्ततो निरालम्बनत्वात्सकलवस्त्वसिद्धिः कुत एव
कार्यकारणभावः ।

अथापि स्यात् ।

न कारणत्वेनालम्बनमपि तु ग्राह्यत्वेन्, तदप्ययुक्तं । यतः ।।

न नीलाद्यतिरेकेण ग्राह्यत्वमपरंङ्क्वचित्642 । नीलादिता च विभ्रान्तविज्ञानेप्यवभासात् ।। ८७ ।।
पुरः स्फुटावभासित्वं भ्रान्तेर्वा न किमीक्ष्यते । तस्मान्न किञ्चिद्‌ग्राह्यत्वं यद्भ्रान्तादतिरिच्यते ।। ८८ ।।

अथापि स्याद् भ्रान्तमेव सकलं सम्वेदनमिति । नास्त्येतत् । यतः ।।

नैवार्थकारिता काचिद् भ्रान्तचित्तावभासिनः । ततोऽसद्विषयम्भ्रान्तमपरत्र विपर्ययः ।। ८९ ।।

अत्राप्युच्यते ।

अर्थक्रियाकिमर्थात्मा तत्सम्वेद्यात्परात्मना । अथ सम्वेदनं तद्वा सर्वमप्यसता यतः ।। ९० ।।
अर्थान्तरं तत्क्रिया चेत्तदभावादसन्न सः । असत्त्वे हि न कार्यस्य कारणस्यापि नास्तिता ।। ९१ ।।

यदि कार्यमर्थक्रियाभिमतन्नास्ति तदेवासत्कारणमप्यसीदिति कुतः । नान्यस्यासत्त्वेऽन्य
दसदतिप्रसङ्गात् । यदि नाम कार्यस्याभावे कार्यकारणसामर्थ्यमेव643 न भवति । न तु
स्वरूपमसत् । अथ ज्ञानमर्थक्रिया । तत्रापि द्वयी गतिः । तद्वा ज्ञानमपरम्वा । तदेव
644 178 ज्ञानं पुनरुत्पद्यमानमर्थक्रिया चेत् । भ्रान्तेपि पुनः पुनरुत्पद्यत एव भ्रान्तविज्ञानन्न ह्येक
क्षणभाव्येव भ्रान्तम्विज्ञानं । अथ स्पर्शादि विज्ञानं । तदप्यसत् ।

यदि नामापरोत्पत्तिः स एव विषयोस्तु सन् । अपरस्य तु सद्भावः कथमन्यस्य वेदने ।। ९२ ।।
स्ववेदनेप्यनाश्वासः का वार्ता परवेदने । तद्वेदनेप्यसत्यत्वङ्कथन्नाम न शङ्क्यते ।। ९३ ।।
चक्षुस्सम्वेदनात्स्पर्शसम्वित्केन विशिष्यते । तत्रार्थपरितोषश्चेत् परितोषः कुतो नु सः ।। ९४ ।।

यथा खलु चक्षुर्विज्ञाने निरालम्बनता तथा स्पर्शविज्ञानेपि, द्वयोरपीन्द्रियज्ञानत्वा
विशेषात् । तिमिराद्युपघातसम्भावना द्वयोरपि समानोभयत्र दर्शनात् । (अ)पितु ज्वरोप
धातादुष्णसम्वेदनात्परितोषादिता चेत् । हिमसमयेपि तु ज्वरोपघातादुष्णसम्वेदननेपि
किन्न परितोषः । अपि च ।

सम्वेदनप्रमाणञ्चेत्परितोषः किमर्थकः । सम्वेदनम्प्रमा नोचेत्परितोषः किमर्थकः ।। ९५ ।।

यदि सम्वेदनम्प्रमाणन्तत एवार्थसिद्धिः किमपरम्परितोषः करिष्यति ।

सम्वेदनान्न सिद्धं यत्परितोषशतैरपि । कथन्तत्साध्यमन्यो हि परितोषो न साधनं ।। ९६ ।।

सम्वेदनादपरस्य परितोषस्य क उपयोगः । अथ साधनञ्चेत्कथमन्येनान्यस्य सिद्धिः ।
सम्बन्धाच्चेत् । सम्बन्धः केन सिद्धः । परितोषतश्चेत् तत्रापि सम्बन्धसिद्धिरपेक्षणीयेत्यन
वस्था । सम्वेदनाच्चेत्तत एवार्थसिद्धिरिति वृथा परितोषः । तत्र च स एव दोषः । यदि
सम्वेदनादर्थसिद्धिः किन्न पूर्वसम्वेदनात् । अनेनार्थाधिमुक्तिरपि प्रत्युक्ता । तथाहि ।

अर्थाधिमुक्तिः सम्वित्तेरन्या नार्थस्य साधिका ।

सम्विदेवाधिमुक्तिश्चेत्सम्वित्सर्वार्थसाधिका ।। ९७ ।।

अनेनाभिलाषस्मृतीच्छाद्वेषादयोपि व्याख्याताः । किञ्च । सम्वेदनादभिलाषादयो
न तेभ्यः सम्वेदनमिति यत्किञ्चिदेतत् ।

अथापि स्यात् । भवतु645 सर्वसम्वेदनानां सालम्बनता न काचिन्नः क्षतिः । प्रमाणा
प्रमाणविभागः कथमिति चेत् ।

लौकिकालौकिकत्वेन प्रमाणेतरसंस्थितिः । विभागः स कथं ज्ञातो बाधकेतरसङ्गमात् ।। ९८ ।।
बाधकेतरयोः केन लौकिकेतरता स्थितिः । बाधकेतरसद्भावादनवस्था प्रसज्यते ।। ९९ ।।

असाधारणमलौकिकमितरदन्यथा चेत् यत्किञ्चिदेतत् । तथाहि ।

तयोस्सम्वेदनन्नास्ति न प्रत्यक्षानुमे यतः । प्रत्यक्षेण हि सम्वित्तिः सम्वेद्येनापरत्र सा ।। १०० ।।

ममैतत्प्रतिभाति परस्य वेति नात्रावतारः प्रत्यक्षस्य । अनुमानात्सम्वेदनमिति चेत् ।

सम्बन्धग्रहणाभावेऽनुमानस्योदयः कुतः ।

रोमाञ्चादिक्रियादृष्टेः स्वदृष्टेस्त्यनुमा न हि ।। १०१ ।।
धूमकार्यदृशा नाग्निः स एवात्र प्रसिध्यति । सामान्यविषयं यस्मादनुमानन्न भेदवित् ।। १०२ ।।
तत्र धूमस्य भेदाच्चेद्रोमाञ्चेपि किमेकता । एकत्वाभिनिवेशोपि न ज्ञानादपरः सवित् ।। १०३ ।।
179

यत्र मया चक्षुर्निवेशितन्तत्रैवानेनेति व्यवहारादेकतेति चेत् । तैमिरिकोपलब्धके
शादावपि समानमेतत् । तत्रापि तैमिरिकयोरेकार्थाभिनिवेशः समानः । किञ्च । यथा
तैमिरिकोपलब्धे केनचित्संवेदनं । तथापरत्रापि सर्वेण सम्वेदनञ्चेत् स्तम्भादौ646 नात्र प्रमाणं ।
न च तैमिरिकेन स्तम्भस्य वेदनं । उपहतेन्द्रियत्वादसम्वेदनेपि647 न दोष इति चेत् । ननूप
हतेन्द्रियत्वङ्कुतो ज्ञायते । असत्यार्थसम्वेदनादिति चेत् । सोऽयमितरेतराश्रयदोषः ।
सत्युपघातेऽसत्त्यत्वमसत्त्यत्वे चोपघातः । तस्मात्परेण न किञ्चिदुपलभ्यते ।

ननु नोपलभ्यत इत्यपि नास्त्येवाप्रत्क्षेणैवान्योपलभ्यरूपविविक्तोपलम्भात्मना परो
पलभ्यमानताप्रतिषेधः । तथा विषयत्वात्तस्य648 परप्रत्यक्षस्य न प्रतिषेधः । कथन्तर्हि
तेनोपलभ्यते परोपलभ्यरूपं । अथोपलभ्यते तद्रपम्परेणोपलभ्यमानता नोपलभ्यत इति
चेत्(।) किन्तद्रूपादपरापरोपलभ्यमानता । अथ तद्रूपमेव । तद्रूपत्वे कथमनुपलम्भः ।
पररूपत्वे कथम्परेण तदुपलभ्यतेत्युपलभ्यमानता । परेणोपलभ्यते न स पदार्थ इति कथमसौ
परेणोपलब्धः । यस्य ह्युपलभ्यमानतोपलभ्यते स एवानुपलब्धः । तथा च स पदार्थः न
केनचिदुपलब्धः । स्वस्वोपलभ्यमानतया एव परस्परव्यावृत्ततायाः स्वपराभ्यामुपलम्भ इति
न साधारणता नामोपलभ्यस्य कस्यचित् । न चोपलभ्यमानताव्यतिरेकेण पदार्थ इति
स्वसम्वेदनाग्रहाकारवत्सम्वेदनमात्रकं । न बाह्यपदार्थोनाम । यस्य सामर्थ्यलक्षणं सत्त्व
ञ्िचंत्यते ।

649 अथ सम्वेदनानामेव परस्परङ्कार्यकारणभावात्सामर्थ्यलक्षणम्परमार्थसत्त्वम्प्रतिपाद्यते ।
तदप्यसत् ।

स्वसम्बेदनमात्रत्वे प्रत्यक्षत्वेनुमा कुतः650 । कार्यकारणभावेपि ज्ञानयोर्गृह्यते कथं ।। १०४ ।।
विद्‌द्वयेन न तेनैव स्वमात्रस्य प्रवेदनात् । यदा कारणविज्ञानन्तदा कार्याप्रवेदनात् ।। १०५ ।।
कारणत्वङ्कथन्तस्य गृह्यते कार्यवेदने । कार्यकालेपि तन्नास्ति कार्यत्वङ्गृह्यतां कथं ।। १०६ ।।
अनुमानात्परिज्ञानङ्कारणस्य यदीष्यते । तदाऽनुमानान्न ज्ञातमिदानीं ज्ञायते कथं ।। १०७ ।।
पूर्वं प्रत्यक्षतो ज्ञातमिदानीमनुमानतः । इदानीन्नास्ति तज्ज्ञानमनुमानेन वित्कथं ।। १०८ ।।
पूर्वत्वे नानुमानञ्चेन्न प्रत्यक्षेण वेदनाद् । पूर्वत्वमधिकन्तस्यानुमानेन चेदसत् ।। १०९ ।।
पूर्वत्वन्नाम नैवास्ति प्रत्यक्षेणास्य बाधनात् । तस्मात्पूर्वस्यरूपस्य न सम्वित्तिः कथञ्चन ।। ११० ।।
स्मृतिमात्रं हितन्नास्ति न प्रमा तत्स्ववेदनात् । स्वसम्वेदनमात्रञ्च प्रत्यक्षन्तत्स्व वेदनात् ।। १११ ।।
ततस्तस्य न सम्वित्तिरन्यकार्यतया तया । तस्मात्सामर्थ्यसंसिद्धिः ज्ञाने ज्ञेये न विद्यते ।। ११२ ।।

किञ्च ।

कार्यकारणभावोयं सदसत्त्वे न विद्यते । नासतः कारणङ्कि/?/ञ्चिदश्वशृङ्गस्य विद्यते ।। ११३ ।।
अत्यन्ताभावतस्तस्य कारणन्नेति चिन्मतिः । प्रागभावि तु न कार्यमेतदप्यसदुत्तरम् ।। ११४ ।।
प्रागभावः कथं सत्त्वेऽसत्वेप्यस्य कथम्मतः । असतः खरशृङ्गस्य651 प्रागभावो न विद्यते ।। ११५ ।।

180
दर्शने प्रागभावश्चेदितरेतरसंश्रयः । न यावत्प्रगभावित्वन्तावदस्य न भाविता ।। ११६ ।।

यावदस्य प्रागभावेन सम्बन्धो नास्ति न तावदुत्पत्तिः । यावच्च नोत्पत्तिस्ताव
त्प्रागभावस्य तत्त्वन्नास्ति । कारणस्य कार्यशून्यता प्रगभाव इति चेत्तदप्यसत् ।।

शून्यता सा किमन्यस्याकारणस्य न विद्यते । ततस्तेनापि सम्बन्धे तस्य कार्यम्भवेदसौ ।। ११७ ।।

प्रागभावेन सम्बन्धे हि कार्यता । स च प्रागभावः कार्यशून्यम्पदार्थान्तरं । तच्च
कारणाभिमतादन्यदपि प्रगभावस्वभावम्भवेत् । तेन च सम्बन्धे तत्कार्यतापि भावस्य
कार्यभूतस्य स्यात् । तदन्वयव्यतिरेकाभावान्नेति चेत् । उक्तमत्रोत्तरं । न च
प्रागभावो नाम प्रत्यक्षादिप्रमाणग्राह्यः । स्वरूपमात्रमेव कार्यकारणयोर्गृह्यते । कारणस्व
रूपमेव प्रागभाव इति चेत् । कार्यस्यापि स्वरूपन्तथा स्यात् । भवत्येव तस्यापि कार्या
न्तरापेक्षया चेत् । कारणाभिमतापेक्षयापि किन्न भवति । तथा प्रतीत्यभावादिति चेत् ।
अनपेक्षितवस्तुनः प्रतीतिमात्रात्कः सम्प्रत्ययः ।

तस्माद्वस्तुस्वरूपेण ग्रृह्यते सा न सम्भवा । नीलादिना न कार्यादित्वस्य तत्र ग्रहोऽपरः ।। ११८ ।।

न खलु नीलादिना कार्यत्वेन च वस्तु ग्रृह्यते केनचित् । नीलादिव्यतिरेकिणः
कार्यत्वस्याप्रतिपत्तेः । पूर्वापरभावे च प्रत्यक्षस्याप्रवृत्तेः कुतः प्रागभावादिग्रहणं ।

अथापि स्यात् । सत एव कार्यत्वं कारणानां हि सति कार्ये व्यापारस्य सम्भवात् । असति
तु निर्विषयः कथम्व्यापारः । अत्रोच्यते ।।

दृष्ट्वा श्रुत्वाऽथ विज्ञाय हेतुः कार्यङ्करोति किं ।

जडत्वात् कारणाधीनः स्वभावः652 स तथा मतः ।। ११९ ।।

ईश्वरस्य च हेतुत्वे स हेतूनान्नियोजकः653 । न चासतो न विज्ञानं स ह्यध्यक्षधियो654 यतः ।। १२० ।।

तत्र सत्कार्यवादः किङ्िक/?/म्वा कारणमीश्वरः ।

किं सांख्यमतमवलम्व्य सर्वं सर्वत्र विद्यते ।। १२१ ।। इति

सदेव दृश्यते न कार्यकारणभावो नाम । किम्वाऽसदेवोपलभ्य कारणेन जगतामी
श्वरेण कारणानाम्प्रतिनियमेन नियोगः । सत्सकलञ्चेत् सर्वदोपलभ्यत इत्याकुला जगतः
स्थितिः स्यात् उपलम्भकानाम्प्रतिनियमान्नैवमित्यपि यत्किञ्चित् । उपलम्भकानामपि सर्वत्र
सर्वदा भाव इति कः प्रतिनियमो नाम । किञ्च ।

कारणादसतः कार्यं कार्यंकिम्वासतो भवेत् ।
असतः कारणात्कार्यमिति साध्वी व्यवस्थितिः ।। १२२ ।।

कोहि प्रध्वंसाभावात्यन्ताभावयोर्विशेषः । आसीत्तेन655 हेतुरिति चेत् । यदासीत्तदा
न हेतुरन्यदा हेतुरिति सुभाषितं । यत एवमपि स्यात् ।

असतो हेतुतां प्राप्तौ ये सन्तस्तेन हेतवः । नहि व्यापारसद्भावस्तेषामेषाञ्च दृश्यते ।। १२३ ।।

व्यापारेण च हेतुत्वे स व्यापारः कुतो भवेत् ।

व्यापारवत्पदार्थाच्चेत् व्यापारस्तत्र किम्परः ।। १२४ ।।

181

व्यापारो यदि तत्रापि सोऽर्थो व्यवहितो भवेत् ।

व्यापारादेव कार्यञ्चेन्मृते कार्योदयो भवेत् ।। १२५ ।।

तथा च चिरनष्टेपि तस्मिङ्कार्योदयो न किम् ।

दीर्घा व्यापारमालेयमेतावत्कस्य जीवितम् ।। १२६ ।।
अथ स्वरूपव्यापारस्तदा कार्यम्भविष्यति । व्यापारकाले कार्यञ्चेत समकालम्प्रसज्यते ।। १२७ ।।
भावकाले न कार्यस्य कारणस्यास्तिता यदि । चिरानन्तरनष्टस्य को विशेषस्तथा सति ।। १२८ ।।
उपत्तिकाले सत्ता चेत्तदनन्तरभाविनः । उत्पत्तिः कार्यतो नान्या ततोऽस्य समकालता ।। १२९ ।।
स्याद्वाददूषणात्पश्चाद् द्वयपक्षनिराक्रिया । इदानीम्बहुवक्तव्यमिति तस्माद्विरम्यते ।। १३० ।।

अथापि स्यात् । ज्ञानस्यार्थः कारणमिति प्रागनुमानेन प्रतीयते । तदप्यसत् ।

अनुमानात्प्रतीतस्य प्रागध्यक्षावभासिनः । कथन्तत्कार्यतावित्तिरपरस्परमिश्रणे ।। १३१ ।।

यद्यपि नामानुमानेन प्रतीतस्य प्रागभाविता गतिः । प्रत्यक्षस्य सम्वेदनस्य तत्कारण
मिति केन प्रतीयते । नह्यनुमानमिदन्तत्प्रत्यक्षदृष्टं वस्तु प्रत्यक्षस्य कारणमिति प्रतीतिमत् ।
न खलु सम्वेद्यमाने एवानुमानम्प्रवर्तते । परोक्षविषयत्वादस्य । नापि प्रत्यक्षमनुमेये प्रवर्ततेऽ
परोक्षविषयत्वात् । न च प्रतीयमानमेव परोक्षं । प्रतीयमानमेव परोक्षतया परोक्षमिति चेत् ।
नैतदस्ति । यतः ।

स्वरूपेण प्रतीतिश्चेदन्या का सौ परोक्षता । अस्पष्टाकारभासश्चेत्प्रत्यक्षः स न किम्मतः ।। १३२ ।।
द्वयरूपस्य वित्तौ हि द्वयम्प्रत्यक्षमिष्यते ।
यथाऽर्वाक् पररूपेणस्तम्भादेर्वेदनङ्क्रमात् ।। १३३ ।।

यदि656 स पदार्थः स्पष्टास्पष्टद्वयरूपः । तदा तस्य प्रत्यक्षानुमानाभ्याम्वेदनेपि प्रत्यक्ष
रूपतैव भवेत्स्तम्भादेरर्वाक्‌परभागग्रहणवत् । अथ स्पष्टास्पष्टते उपाधिवशान्नीलतैव
पदार्थस्वरूपं ।

उपाधिभेदादन्येन रूपेण यदि वेदनं । सर्वदाऽध्यक्षता न स्यात्स्वरूपस्याप्रवेदनात् ।। १३४ ।।

अथ नीलादिसम्वित्तिरिति प्रत्यक्षतोच्यते ।

प्रत्यक्षमनुमापि स्यात्स्वस्य रूपस्य वित्तितः ।। १३५ ।।
इन्द्रियेण वियोगाच्चेदध्यक्षन्नानुमा मता । इन्द्रियेणापि संयोगोऽनुमया किन्न मीयते ।। १३६ ।।

इन्द्रियवियोग एव हि न सिध्यति । तस्यानुमानेन स्वरूपस्य वेदनात् । अर्थाभावा
न्नेन्द्रियसंयोगः । कथम्प्रतीयमानमप्यस्तु स्वरूपग्राहिणानुमानेनासत् । असच्चेत्कथम्वस्तु
स्वरूपग्रहणमनुमानात् । अथ नानुमीयत एवेन्द्रियसम्बन्धः ।

व्यर्थतैवानुमानस्य न चानेन प्रवर्तनं । न द्रष्टव्यं न च स्पृश्यम्वृथा तत्र प्रवर्तनं ।। १३७ ।।

उपयोगार्थी हि पदार्थेंऽनुमिते प्रवर्तते । प्रवर्तकञ्च प्रमाणमतोऽप्रवर्तकतायामप्रमाण
मेव स्यात् । अथ पश्चाद्‌भाविनोऽनुमानमिन्द्रियसम्बन्धस्य तेन तदानीमिन्द्रियसम्बन्धाभावाद
प्रत्यक्षता । तदसत् ।

भाविसम्बन्धमाने हि पूर्वं रूपाप्रतीतितः । कारणत्वन्न गम्येतानुमानम्व्यर्थकम्भवेत् ।। १३८ ।।
तदैव मीयमानस्य स्वरूपेण न भाविता । तदैव मीयमानत्वम्वर्तमानत्वमुच्यते ।। १३९ ।।
182

न खलु वर्तमानत्वमन्यदेव तदा स्वरूपेण प्रतिभासात् । स्वरूपप्रतिभासमानतैव वर्त
मानता । अतीतादिरूपतया657 प्रतिभासमानत्वादवर्त्तमानतेति चेत् । नन्वतीतरूपताऽनुमानेन
कथम्प्रतीयते प्रत्यक्षप्रतिपन्नेऽनुमानप्रवत्तेः । प्रत्यक्षञ्च नातीतरूपतायाम्प्रवृत्तं । न यदासौ
प्रत्यक्षेण दृश्यते तदाऽतीतरूपता प्रतीयते । इदानीमतीतरूपतेति चेत् । अन्यदेव तर्हि जातं । तत्र
च न प्रत्यक्षमिति कथमनुमानं । यदपि पश्चात्प्रत्यक्षम्भविष्यति तस्यापि न भाविरूपता प्रत्यक्षे
तेनानुमानावतारस्तत्रेति समानं ।

नन्वेतदुभयोरपि समानं । परस्यापि न प्रत्यक्षतस्तथा प्रतीतिरिति कथन्तदुल्लेखतः
प्रख्या । न, तस्य वासनाबलायातस्तथा प्रत्ययस्ततश्च ।

अर्थाश्रयेणोद्‌भवतस्तद्रूपमनुकुर्व्वतः । तस्य केनचिदंशेन परतोपि भिदाभवेद् ।। १४० ।।

इति वक्ष्यते । न पारम्पर्येण तत् ज्ञानमर्थादुत्पन्नं वासनासमागमतोऽन्यथा कारणमपि
यथा भवति द्विचन्द्रादिदशनं तिमिरादेः । तेनातीतकालरूपादागतं ज्ञानमतीताध्यवसायन्ततोऽ
तीतकालतया ग्रहणादतीतमेव (?) तन्नत्वस्ति । नहि तस्येदानीन्तनत्वे प्रमाणं ।

कथन्तर्हि तस्य प्राप्तिः । अस्तित्वादेव । कथमस्तित्वं(।) तेन दृश्यमानेन लिङ्गेन
व्यवस्थापनात् । तद्‌द्वारेण ज्ञानमपि तत्र प्रवर्तकमिति समाप्तो व्यवहारः ।

ननु ज्ञानमर्थमप्रतियत्कथम्प्रवर्तकं । अव्यभिचारादेव । ननु केवलोपि धमो व्यवस्था
पकः स्यात् यथा व्यवस्थापको दृष्टस्तथा व्यवस्थापयति नान्यथेति कस्योपालम्भः । किञ्च ।

ज्ञानन्तद्रूपतासङ्गात्प्रवर्तयति नापरं । तत्रार्थाध्यवसायञ्च नियतो वासनाबलात् ।। १४१ ।।

तस्मात्पूर्वरूपतया प्रतीयमानमिदानीमस्ति तदिति न ज्ञानेन प्रतीयते । इदानीन्तद्रु
पमस्ति तन्न दृश्यत एवातोऽदृश्यमानमेव परोक्षं । अप्रतीतिरेव परोक्षताप्रतीतिः परोक्षमे
तदिति ।

परोक्षता चेदर्थस्य स्वभावोऽध्यक्ष एव सः । नानुमावम्भवेदत्र न च सन्देहसङ्गतिः ।। १४२ ।।
विनष्टे न भवेदेव तस्माज्ज्ञानन्तथाविधं । ज्ञानार्थयोर्न चैकत्वं तस्मात्सोऽर्थो न वेद्यते ।। १४३ ।।

तस्माद्यनुमानमर्थग्रहणरूपरूपञ्चक्षुरादिसम्बन्धोप्यनुमीयमानोस्त्येवेत्यध्यक्षतैवार्थस्यानु
मेयस्येति प्राप्तं ।

  1. २ T. ज्ञानस्य ज्ञायस्य

  2. ३ T. ज्ञेयस्य युक्तः । अर्थक्रियाकारित्वं अर्थकारित्वं वा न प्रतीयते

  3. ४ T. सामर्थ्य प्रतीयते ।

  4. ५ T. कार्यं

  5. १ T. स कार्यंकारणभाव—इति पाठो नेह

  6. २ . तस्य च ॰प्रागुक्तो दोषः

  7. ३ T. तत्सम्बन्धेन

  8. ५ T. न तेन ज्ञातेन अर्थस्य कारणप्रतीतिः समकालत्वाभावात् । प्रवृत्तः । अभूता प्राग
    प्रवृत्तितः । ततोपि प्रागभूता भवतीति चेत् । ../?/तेन निरर्थः

  9. ६ T. स्तम्भकुम्भयोरतिप्रसङ्गंनिराकुर्व्वता । अन्यथाभावे एक भावेंऽपरस्य न कार्यत्वं
    सिद्धान्तः । एवंतर्हि ज्ञानज्ञेययोरपि समानं । अमुमेवार्थं स्फुटयति केवलेत्यादि ।

  10. ७ T. तत्रोत्पन्नस्तथा न चेत् तन्तुतैव न सिध्यति—इत्यधिकः

  11. ८ . नान्यदेव

  12. ४ T. ज्ञानकार्यवता

  13. १ T. न नित्येन॰

  14. २ T. वस्तुन्यवृत्ति॰

  15. ३ T. प्रतिभासमात्रेण

  16. ४ T. दानशीलस्य—इति पुस्तकस्वामिनोत्र हस्तलेखः ।

  17. ६ T. कार्याभावस्य सामर्थ्यमेव

  18. ५ T. तदेतत्—इत्यधिकः पाठः

  19. १ T. मीमांसा—तत्रैव

  20. १ T. घटादौ विज्ञानवादे कस्माच्चित् नीलादिज्ञानात् रक्तज्ञानादि न भवत्यपि कस्मात् ततो .....एवं तत्र साधारणमनुष्मानात्—बहिः

  21. २ T. उपहतेन्द्रियत्वात् संवेदनेऽपि

  22. ३ T. तदविषयत्वात्तस्य

  23. ४ T. योगाचारः—तत्रैव

  24. ५ T. प्रत्यक्षेऽपरोक्षज्ञानं भवति न यतोऽनुमा—अधिकः

  25. ६ T. शशश्रृंगस्य

  26. १ T. सिद्धान्तो नातिप्रसंगः नियतत्वात्—बहिः

  27. २ T. हेतूनां नियोजकः

  28. ३ T. स ह्यत्यक्ष॰

  29. ४ T. प्रागासीत् तेन

  30. १ T. यदा

  31. १ T. रूपप्रतिभासतया