२. अनुमाने नागमप्रामाण्यम्

ननु परस्य प्रतीतं तदस्तु । परेण तु प्रतिपन्नमिति परिज्ञानं नोपयोगि । स्वप्रतीति
मात्रकेण परस्य परिसमाप्तार्थत्वात् । कथन्तर्हि स्वयमज्ञातस्योपन्यासः । परप्रसिद्ध्या चेत् ।
परस्य प्रसिद्धमिति तदेतर्ह्यायातं । ततः स्वयमप्रतीतेः कथमेतत् । नहि परस्य प्रतीति
मर्व्वाग्दर्शी प्रत्यक्षयति । अनुमानमपि स्वप्रतीतिमपेक्षते । तेन परप्रतीतमिति निश्चितं
स्वप्रतीतमपि । अथागमात्परेण प्रतिपन्नं स्वयमपि तत् प्रतिपन्नमेव । किन्तु तस्यागमस्य
वादिनाऽनभ्युपगमान्न स्वप्रतिपन्नमिति व्यपदेशः । तेनागमात् (यत्) परेण प्रतिपन्नं न स्वयन्तदपि
साधनमेव । अत्रोच्यते ।

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्त्तते ।। २ ।।

स आगमः प्रमाणमप्रमाणम्वा । प्रमाणञ्चेदुभयसिद्धत्वं । अन्यप्रमाणदृष्टवत् ।
अप्रमाणत्वे न कस्य चिदपि । अभ्युपगमात्परस्यैव सिद्धमिति चित् । न(।) अनुमानविषयेऽ
भ्युपगमेनागमः प्रमाणम् । परीक्षितस्याभ्युपगमात् । प्रत्यक्षानुमानाविषये च प्रमाणं न
तद्विषये । सर्वत्र प्रामाण्ये किमनुमानेन वचनमात्रेणार्थसिद्धेः । तथा हि । अचेतना(ः)
सुखादय उत्पत्तेरनित्यत्वाद्वा रूपादिवदिति सांख्यस्य परप्रसिद्धमभिमतं । न स्वयं सांख्यस्य
उत्पत्तिमत्त्वमनित्त्यत्वम्वा प्रसिद्धं । तत्र च यदि वचनप्रामाण्यात्प्रसिद्धिः सांख्यवचनमपि
प्रमाणमेवेति तत एवाचेतनत्वं बुद्धिसुखादीनां प्रसिद्धं किमनुमानेन । अथानित्त्यत्वादिसाधनं
बौद्धं वचस्तदा तेन बुद्ध्यादेः सचेतनत्वं सिद्धमिति नानुमानेन विपर्ययप्रसिद्धिरिति
व्यर्थकमेवानुमानं ।

अथानुमानस्यापि प्रामाण्यात्तद्विपर्ययस्य सिद्धिस्तथा सति न प्रमाणमित्याह ।

बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोऽप्रमाणन्तदा(ऽ)सिद्धं तत्सिद्धमखिलन्ततः ।। ३ ।।

यदैवानुमानेन विपर्ययसाधनारम्भस्तदा तद्वचनमप्रमाणमेव । परीक्षाक्षमत्वात् ।
अभ्युपगमस्य (अपि) शिथिलीभावात् । अभ्युगमकृतप्रमाणभावे हि स आगमस्तस्य शैथिल्ये
तस्य प्रामाण्यमपि तथा भवेत् । ततस्तत्प्रसिद्धहेतुशैथिल्यात्साध्यसिद्धेरपि शैथिल्यं । न खलु
तदधीनसर्व्वात्मकं तन्नानुवर्त्ततेऽतदधीनत्वप्रसङ्गात् । हेतुसिद्धौ प्रमाणं न चेतनत्वस्येति
चेत् । न (।) क्वचिद् व्यभिचारदर्शनेन सर्व्वत्रानाश्वासप्रसङ्गात् ।

471

अथ प्रमाणसम्वादी स वचनैकदेशस्तदा तर्हि स हेतुरुभयवादिप्रसिद्धिमध्यासीत् ।
अथ प्रमाणप्रसिद्धमपि प्रमाणवृत्तानभिज्ञत्वात्परप्रसिद्धमेव सांख्यस्य ।

तदप्ययुक्तं । एवं हि स सांख्यः स्वकौपीनमेव विवृणुयात् तथापि को दोषः ।

स्वसिद्धेन हि लिङ्गेन तेनासौ प्रतिपादितः । नान्यत्राज्ञानमात्रेण सर्वत्राज्ञानमर्हति ।। १५ ।।

नहि हेतुं साधयितुमशक्त इति साध्यसाधनेपि तस्याशक्तिः । न तावत्तद्धेतोः(स्व)
प्रतिपन्नसाध्यः स्वसिद्धहेतुसद्भावात् । अथासौ निर्मुखयितुं शक्य इति प्रौढवादी ।

तदप्ययुक्तं । सिद्धो हि हेतुः साध्यं साधयितुं किमपरेण (।) तथाहि ।

तवतावत्प्रसिद्धोयमस्मत्सिद्ध्या तु को गुणः । सर्व्वो मयैव व्यापारः कर्त्तव्य इति को विधिः ।। १६ ।।

साध्यवद्धेतुरपि मयैव साधयितव्य इति किमियं राजाज्ञा । नहि सर्व्वाज्ञः प्रतिपा
दयितुं शक्यः । अथ स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया साधनमुच्यत इति न्याया
दयुक्तमेतत् ।

तदपि न सम्यक् । तथा हि ।

निश्चयोत्पादमात्रेण परस्यात्र प्रयोजनं । स्वनिश्चयवदित्येतद्विशेषणमनर्थकं ।। १७ ।।

निश्चयमात्रेण हि परस्यार्थिता न तु तत्रापरेणानुपयोगिना विशेषणेन । न ह्यनुपयोगि
विशेषणं प्रेक्षावताभ्युपगम्यते ।

अत्रोच्यते ।

प्रतिपतिं न जानाति यः परस्य विवेकतः । प्रतिपन्नमनेनेति कथमस्य मतिर्भवेत् ।। १८ ।।

न मयायम्वञ्चितः संप्रतिपत्तिरेवास्येति स्वयमप्रतियतः कथं प्रतीतिः । अथापि स्यात्
(।) किमनेन प्रतिपत्तिमात्रकं परस्य भवतु तावता चरितार्थं वादिवचनमिति क इवात्र दोषः ।
एवन्तर्हि इदमपि भवेदुत्तरं ।

विप्रलप्यापि यत्किञ्चिन्मया त्वं प्रतिबोधितः । मम प्रतीत्या भवतः किमत्रान्यत्प्रयोजनम् ।। १९ ।।

यं कञ्चित्साधनाभासं प्रपञ्चेनामिधाय मया त्वं प्रतिपादित इति यदा ब्रवीति तदा
तस्य किमुत्तरम्वक्तव्यं । तत्र दूषणं वक्तव्यमिति चेत् । न(।) दूषणेन वादिनो प्रतिपत्तिर्व्वि
धातव्या । स च वादी तदेदमुत्तरं दद्यान्मम प्रतिपत्त्या किम्भवतः प्रयोजनमिति प्रमाप्येवम
प्रतिपत्तिरिति चेत् ब्रूयात् । परस्मै तर्हि दूषणन्न निवेदनीयम् । अप्रतिपत्तिर्ममात्रेत्येतावदेव
वक्तव्यम् । न सोपपत्तिकाऽप्रतिपत्तिरिति दर्शनार्थं दूषणमपि वक्तव्यमेव । एवन्तर्हि ।

परेण यदि वक्तव्यं दूषणं सोपपत्तिकं । वादिनापि हि वक्तव्यं साधनं सोपपत्तिकं ।। २० ।।

यथा ममात्रैवं प्रतिपत्त्यभाव इति सोपपत्तिकं प्रतिवादिना कथयितव्यं । तथा वादि
नापि सोपपत्तिकं साधनमन्यथा यथा ममात्राप्रतिपत्तिस्तथा परस्यापि कदाचिदिति शङ्का
नापगच्छेत् । नहि परार्थवृत्तिः परार्थप्रसिद्धिनिःश्रयमकृत्वा परितोषभागी । न च विजि
गीषुतामात्रेण पण्डिताः प्रवर्त्तन्ते शास्त्राणि वा तदर्थानि तत्त्वावतारार्थत्वात् । तस्मात्
स्वपप्रतिपन्न एवं भवत्यनेन प्रतिपन्नमेतत् अप्रतिपन्नं1118 त्वस्यासत्त्यवचनमेव स्वप्रतिपत्तिमन्तरेण

472

तु यदि परो नाभ्युपगच्छेत् न प्रतिपादयिता वादी स्यात् । को हि भङ्गमात्मन इच्छेत् ।
स्वप्रतीते तु प्रमाणेनानभ्युपगमेपि प्रतीयतेऽसत्त्यवादिता परस्य ।

अथ स्वप्रतीतेपि परेण प्रतिपन्नमिति कथं प्रतिपत्तिः । यदि नाम प्रतिवादिनो प्रतीतिः
प्राश्निकाः प्रत्येष्यन्ति । प्राश्निकैः प्रतिपन्नं तेन यदि न प्रतीयते तदा तस्य सामग्री नास्ति न
वादिनो दोषः ।

नान्धाय दुग्धाकथने प्रतिपादकताक्षयः । चक्षुर्न्न वादिना देयं केनचित्प्रतिवादिने ।। २१।।

सितं दुग्धमिति कथने यदि न प्रत्येति चक्षुर्वैकल्यात् प्रतिवादिन एवान्धस्य दोषः । कथमत्र
दोषः प्रतिपादयितुः । प्राश्निकैः प्रतिपन्नं भवतु तावता चरितार्थम्वादिवचनम् । अथाप्युच्येत ।

परार्थकारिणामेतत्करुणाकृष्टचेतसां । प्राश्निकप्रतिपन्मात्राद् दूष्यत्वं संगतं कथम् ।। २२ ।।

नहि स्वपरितोषमात्रकं परार्थकारिणामभिमतं (।) परव्यामोहव्यावर्त्तनं तु तेषाम
र्थोऽभिमतः । तत्र (प्रतिवादि) प्रतिपादनाया बद्धपरिकरः प्राश्निकमात्रप्रतिपादनेन परितुष्य
तीति क्वास्थाः क्व निपतिताः । क्व प्रतिवादिप्रतिपादनायारम्भः क्वप्राश्निकमात्रप्रतिपादनेन
परिसमाप्तिः । किञ्च ।

तत्पक्षपातोपहतः प्राश्निको विवदेद्यदि । तत्रापि च पुनर्मृग्यं वादिनां प्राश्निकान्तरम् ।। २३ ।।
प्राश्निकान्तरसञ्चारे प्राश्निके प्रतिवादिनि । अनवस्था ततो वादी कस्या स्यात्प्रतिपादकः ।। २४ ।।
अथ प्राश्निकलोकस्य वादिन्यप्यनुरक्तता । तथापि पक्षपातान्न प्राश्निकत्वं परिस्फुटम् ।। २५ ।।

अत्रोच्यते ।

परार्थकारी नामायं किमयोग्येंप्यसौ तथा । अतिक्रम्य (न्) न सामर्थ्यमकृतावकृपात्मकः ।। २६ ।।

करुणावानपि योग्ये विधातुमर्थं विभवति1119 ।

अयोग्ये हि शक्तिर्व्याघातो न करुणायाः । न ह्यसावकारुणिकं इति प्रतीतिः ।
प्राश्निकानान्तु पक्षपातित्वे प्रतिवादितैवेत्यवश्यं प्राश्निकान्तरापेक्षणम् । न च सर्व एव
विप्रवदन्ते प्रयोजनाभावात् परस्परापेक्षतो वा । अथ तेषामपि परस्परं वादिप्रतिवादिता ।
एवं सति सकलव्यवहारोच्छेदः । न च दृश्यते । तस्मा(त्) प्राश्निकप्रतिबोधनमेव वाद
परिसमाप्तिः । इदं पुनरकृपत्वमेव यदग्रहणादिविधानेन पराजयः परेषाम् । तस्मात्स्व
प्रतिपत्तिं प्राश्निकादिभ्यो निवेद्य प्रतिपादनशक्तिरात्मसात्कर्त्तव्या । तस्मादागमसिद्धमेव
न । परसिद्धं ।

ननु सोप्यागमो यदा परेण प्रमाण्येनाभ्युपगतः तदा तत्सिद्धपक्षधर्मतः स्वयमसौ प्रति
पद्यत एव । न बाधितैकदेशस्य तथाभ्युपगमायोगात् । अत एवाह ।

तदागमवतः सिद्धं यदि कस्य क आग(म): ।
बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ।। ४ ।।

यद्यप्रमाणमनभ्युपगतश्च परेण तदा कस्य क आगमः । यद्यनभ्युप(ग) मेपि तदाग
मवत्ता सां ख्यस्यापीत्युभयसिद्धिरेव । अथानभ्युपगमान्नैवं न कस्यचिदपि तदागमवत्तेति

473

न कस्यचित्सिद्धं । आगमोप्यसौ नैव भवति प्रमाणेन बाधनादागमाभासः स भवेत् ।
प्रमाणाभासतः प्रतिपत्तौ व्यामूढ एवासाविति न व्यामोहनिवर्तनं परस्य तेनेति न वादी
भवेत् । प्रमाणाभासतामजानानः परो न व्यामूढः कथं । न च न जानाति । तथाहि ।

तद्विरुद्धाभ्युपगमस्तेनैव च कथम्भवेत् ।
तदन्योपगमे तस्य त्यागाङ्गस्याप्रमाणता ।। ५ ।।

यदैवासौ तद्विरुद्धमभ्यूपगच्छति तदैव तदागमस्यासत्त्यतामपि प्रतिबुध्यते तन्नान्तरी
यकत्वाद्विरुद्धाभ्युपगमस्य । मूढत्वाददोष इति चेत् । न मूढतायामप्रतिपादकत्वमित्युक्तं ।
व्यामोहमाधायासावपसारित इति सिद्धं वादिनः कार्यं । न । विषादिदानस्यापि प्रसङ्गात् ।
वाग्मितया व्यामोहनं वादित्वमिति चेत् । न (।) परिशुद्धवस्तु परिस्फुटप्रत्यायनस्य
वाग्मित्वात् । तथा हि ।

समासव्यासरूपेण प्रमोपेतस्य वस्तुनः । प्रकाशनेन वाग्मित्वमिष्यते तत्त्ववेदिभिः ।। २७ ।।

जिगीषुणापसारयितव्य एव यथाकथञ्चित्पर इति चेत् । न (।) यथाकथञ्चिदप
सारणेनोपहासास्पदताप्राप्तेः । यदा तर्हि परिशुद्धवस्तुवचनेनापि1120 परव्यामोहस्तथा
कथम्वादितोदिता । प्राश्निकप्रतिपादनेन पर्याप्तत्वात् (।) नान्धस्यादर्शने सवितुरप्रकाश
कता । तथाहि ।

प्रतिपादयितुर्दोषो भेवदप्रतिपादने । योग्योपि न विजातीयाद्यद्यर्थं वचनात्ततः ।। २८ ।।

यदि परिस्फुटवचनादपि न प्रत्येपि कास्य प्रतिवादित्वे श्रद्धा । सिद्धमात्रिकापाठ
कोपाध्यायशालाप्रवेश एव तस्य1121 युक्तः । अथापि स्यान्न विदग्धेष्वेवंभूत1122 साधनोपन्यासः ।
अविदग्धप्रतिवादिनं प्रत्युपन्यासात् । यतः सोपि दूषणमसम्बद्धमेव दद्यात् । तथा हि ।
मूल्ये मूल्ये तथाभूत एव पुटिकाबन्धः । तदिदं तौतोपाख्यानमायातं । ममानेन भिक्षा
पात्रे मद्यपानं कृतं मया त्वस्य1123 मूत्रपानं कर्तव्यम् । अपि च ।

नाचैतन्यं स्वयं सांख्योनित्यत्वादवगच्छति । ततः स्ववित्तौ सांख्यस्य प्रमाणमपरं भवेत् ।। २९ ।।

नहि स्वयं साध्यं परप्रसिद्धसाधनादवगन्तं युक्तं । ततः स्वसिद्धेन साधनेनास्य तदर्थ
साधनकारिणा भाव्यं1124 । अस्त्येव तदिति चेत् । एवं तर्हि ।

तत्किन्न साधनं प्रोक्तं1125 स्वप्रतीतिर्यदुद्भवा ।

तदेव स्वप्रसिद्धिनिमित्तं साधनं किन्नोपन्यस्तम् । किमपरेणाकाशचर्वणप्रयासेन ।
नहि परिस्फुटस्वरूपे सम्भवति हेतौ कष्टकल्पनाप्रयासः साधीयान् । आगमात् सांख्यस्य तत्सिद्धमिति न स्वप्रतीतसाधनोपन्यासः ।

ननु स आगमः परस्यापि साधक एव । न । परं प्रत्यप्रमाणत्वात् । अप्रमाणात्
स्वयमपि कथं प्रतीतिः तं प्रति प्रमाणत्वात् । यदि प्रमाणं किन्न सर्व्वस्य । अभ्युपगमा-


474

भावात् । सांख्यस्यापि कथमस्मादभ्युपगमः । तेन परीक्षितत्वात्1126 । यद्येवं परस्यापि
स्यात् । यतः ।

युक्त्या ययागमो ग्राह्यो ग्राहिकास्यापि1127 सा न किं ।। ६ ।।

यथा युक्त्या परीक्षित आगमः सांख्यस्य प्रमाणतयाभिमतः । बौद्धस्यापि किमसौ न
युक्तिः । तेनानभ्युपगमादिति चेत् । एवन्तर्हि अनित्यत्त्वादचेतना इत्यपि युक्तिं कथमभ्युप
गच्छेत् । न्यायप्राप्तमवश्यमभ्युपगन्तव्यमिति समानं शास्त्रोपगमेपि । तथा चोभयसिद्धे
सम्भवति साधके1128 कः साधनान्तरोपन्यासप्रयासमात्मनो विदधीत । योगिगम्योयमर्थः तेन
परः साधनेन येन केन चि1129त्प्रत्याय्यः ।

ननु योगिगम्यमेतदिति परोपि स्वसाध्ये वक्तुं समर्थ एव । न च तद्योगिनि न
प्रमाणमिति शक्यं । तथा हि ।

प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्ष सम्भवौ ।
साधनैः साधनान्यर्थशक्तिज्ञानेस्य तान्यलं ।। ७ ।।

नहि योगी कश्चित् स्वभावसिद्ध आस्ते प्रमाणाभावात् । तथा च प्रत्यपादि प्राक् ।
अनित्त्येप्यप्रमाणतेति । तस्मात् प्राकृतस्य सतः पश्चादुपायानुष्ठानाद् योगिता न स्वस्ति
साधनेन । तथा च । यैः साधनैः तत्साधनोपायप्रतिपत्तिस्तदपायानुष्ठानादक्षसम्भवः
तदर्थप्रतिपत्तिरूपं प्रत्यक्षमेव (उक्त) अथवा । तादृक् प्रतिपत्तिसाधनमुक्तं । तानि तत्साध
नान्यर्थस्योपायभूतस्य तदक्षसाधनस्य शक्तेः । सामर्थ्यस्य ज्ञाने समर्थान्येव । तद्योगि
प्रतिपन्नार्थोपगमे ततः किमसत्साधनोपन्यासेन । यथा सौगतैर्योगिसाधनमुक्तं तथा परैरपि
वक्तुं युक्तं । अथ योगिसम्भवद्वारेणापि न तत्साधनमुपादातुं शक्यं । तदाऽवचनमेवात्र
प्राप्तं । यतः ।

विच्छिन्नानुगमा ये च सामान्येनाप्यगोचराः ।
साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ।। ८ ।।

योह्यर्थः साधनेनानुगन्तुं शक्यः सामान्येनैव सामान्यविशेषेण वा । तत्र साध्य
साधनचिन्ता क्रियेत । तत्र सामान्येन चिन्ता । योगी तावत्सम्भवत्यस्माकमिति । तेन
दृष्टोयमर्थ इतीदमपि (सं)भवति । अथवायमेवार्थः सम्भवतीति विशेषेण । ये तु पुनः
सर्व्वथाऽननुगमेन सामान्येनापि विषयीकर्तुमशक्यास्तथाभूतेषु वस्तुषु न काचित्साध्यसाधना
धिकरणा चिन्ता । आस्तान्तावत्प्रमाणचिन्ता । आगमैकसमधिगम्योप्यसौ नार्थः ततस्तत्र
प्रमाणमवतारयन् प्रमाणविषयानभिज्ञतामेवात्मनो दुरात्मा प्रकाशयति ।

अथ यावदसौ न व्युत्पत्तिमान् तावत्साधनाभासतां न जानाति । ततस्तदभिप्रायात्सा
धनमेव । यदा तु साधनमेतन्न भवतीति प्रतिबुध्यते तदा साधनन्न भविष्यतीति क इवात्र दोषः ।

तदप्यसद्यतः ।

475
पुंसामभिप्रायवशात्तत्त्वातत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्तु1130 समाश्रयात् ।। ९ ।।

पुरुषाभिप्रायमात्रं हि हेतावप्यहेतुतान्दद्यादहेतावपि हेतुतामिति हेतुतदाभासव्यवस्था
न वास्तवी भवेत् । भवन्ती वा पुंसामभिप्रायमपहस्तयति । तस्मान्न परोपगतं साधनं ।
अपि चापरीक्षितादागमाज्ज्ञानमात्रमेवोत्पत्तिमन्न वस्तुनिश्चयः । न च ज्ञानमात्राद्वस्तु
सिध्यति । यतः ।

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतोपि वस्तुसंश्लिष्टा(ऽ)सङ्गत्या1131 सदृशी गतिः ।। १० ।।

सन्नेवार्थोन्यस्य साधको नासन् । असतः सिद्धिरित्यहेतुकता । असति ज्ञानमस्ति
ततः सिद्धिरिति चेत् । तदसत्त्वे तस्य तज्ज्ञानमिति कुतः । ज्ञानमेव साक्षात्साधकमिति
चेत् । न (।) प्रत्यक्षत्वप्रसङ्गात् । अतो नासति ज्ञानात्सिद्धिः ।

नन्वस्ति तावज्ज्ञानमात्रादपि गतिर्यथा कथञ्चिदारोपितार्थात् । न । सवस्तुकस्या
रोपस्य वस्तुद्वारेणैव गतिः । यदि तु गतिरप्यसौ वस्तुभूतं लिङ्गम्विना तदा गत्याभास
एवासौ । हेत्वाभासादुदयात् ।

नाधूमे धूमसम्वित्तेर्गतिः सत्त्यास्ति पावके । विपरीतः समारोपी नहि साध्यस्य साधकः ।। २९ ।।
1132

अपि च । स्वार्थानुमानपरिच्छेदे निर्ण्णीतमेतत् । लिङ्गत्रयमेवार्थस्य साधकं
नापरं । ततश्च ।

लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतः सिद्धं तदसिद्धं किमात्मनः ।। ११ ।।

यदि साध्यस्वभावं वस्तुतः प्रसिद्धं प्रमाणप्रसिद्धत्वात् तदा किमात्मनः सांख्यस्या
प्रसिद्धं । प्रमाप्रसिद्धिरुभयस्यापि प्रमाणस्य साधारणत्वात् । अथ प्रमाणन्नास्ति तदा ।

परेणाप्यन्यतो गन्तुमयुक्तं;

यथैव हि सांख्यः प्रतिपादयत्यनित्यत्वादिको हेतुस्तव सिद्धस्ततः प्रतिपद्यस्वेति ।
तथा परोपि तव प्रसिद्धमेतत्प्रमाणात्सिद्धादेव हेतोर्यथा तव प्रतिपत्तिस्तथान्यस्यापि प्रेक्षावतः ।
अन्यथा सांख्यस्य प्रेक्षापूर्वकारितैव न स्यात् । नह्यहमेवैको विदग्धः परस्तु न तथेति
सचेतनप्रतीतिः । तस्मान्न परोपगममात्रेण साधनप्रयोगो विद्वत्सु युक्तः । कथन्तर्हि
पूर्व्वाचार्यैर्भवता च परप्रसिद्धसाधनैः साध्यसिद्धिः समीहिता ।

तदसत् । यतः ।

परकल्पितैः ।
प्रसङ्गे1133 द्वयसम्बन्धादेकाभावेन्यहानये ।। १२ ।।

प्रसङ्ग साधनं तत् (।) न तु ततः साध्यनिश्चयः । नहि परोपगति मात्रकात्साध्य
निश्चयः । किमर्थस्तर्हि तदेकस्य प्रसक्तस्याभावेऽन्या भावसाधनार्थं । नहि साध्याभावे

476

साधनसम्भवः । इदञ्च तत्प्रसङ्गसाधनं । देशकालावस्थाविशेषनियतैक (व्यक्ति)संसर्गव्य
वच्छिन्नस्वभावान्तरविरहादनेकवृत्तेरेकस्य न देशादिविशेषवताऽन्येन योगः । तथाऽभेदात्सर्व्व
रागोऽवयवरागेपीत्यादि । यतस्तथाभूतस्वभावस्य विरोधांद्भिन्नदेशादियोगेन ।

  1. १ B. अप्रतिपत्तिप्रतिपादनं ।

  2. १ B. प्रभवति

  3. १ B. प्रतिपादनेन ।

  4. २ B. विध ।

  5. ३ B. भवितव्यं ।

  6. ४ B. अस्य ।

  7. ५ B. तस्या ।

  8. ६ M. तत्कस्मात् साधनं नोक्तं

  9. १ B. अनभ्युपगमात्

  10. २ M. परस्यापि च

  11. ३ B. साधने ।

  12. ४ B. सम्भवैः—हे. पुस्तके च

  13. १ B. M. वस्त्व॰

  14. २ M. वस्त्वसंश्लिष्टा॰

  15. Verse number in edition duplicated?
  16. ३ M. प्रसङ्गो—हे.