(१) कालनिरासः—

नन्वेकमपि व्यापित्वादनेकदेशादियोगि यदि को विरोधः । न (।) अनेककालयोगस्य
द्रष्टुमशक्यत्वात् । नहि पूर्व्वापरकालव्यापिता प्रत्यक्षत उपलभ्यते । पूर्व्वापरभावस्य
कल्पनाविषयत्वात् । यस्यातीतं दर्शनं स पूर्व्वकालो यस्यानागतं स उत्तरकालः । न च
तत्कालदृश्यपदार्थव्यतिरेकेणापरः कालः ।

ननु कालाभावात्कथं पूर्व्वापरव्यवहारः । तथा दिगभावात् । कालेपि सति कथं
पूर्व्वापरव्यवहारः । नहि कालसङ्गत इत्येव पूर्व्वादिव्यवहारविषयो वर्त्तमानेपि प्रसङ्गात् ।
कालभेदादिति चेत् । तथाहि ।

पूर्व्वकालादियोगी यः स पूर्व्वाद्यपदेशभाक् । पूर्व्वापरत्वं तस्यापि स्वरूपादेव नान्यतः ।। ३० ।।

पूर्वकालभावी पूर्व्वः । तथा परकालभावी पर इत्यादि । काल एव कथं पूर्व्व इति
चेत् । स्वरूपत एव कालस्य पूर्व्वादित्वं । तथा दिशः ।

तदेतदसत्त्यं । यतः ।

नित्त्यताव्यापिता या हि पूर्व्वादित्वं कथन्तयोः । सहचारितथात्वाच्चेदन्योन्याश्रयता भवेत् ।। ३१ ।।

सहचारिणां हि रागादीनां पूर्व्वादित्वाद्व्यापिनोरपि दिक्कालयोस्तथात्वमिति का
व्याहतिः । न खलु सहचारिणा कश्चिन्न व्यपदिश्यते । मञ्चाः क्रोशन्तीति यथा । तथा
त्रापि गतः स काल इति व्यपदेशः । तदत्रेतरेतराश्रयदोषस्त्वरितं भवन्तमनुधावति ।

सहचारिणां (तु) पुर्व्वत्वं पूर्व्वकालसमागमात् । कालस्य पूर्व्वादित्वञ्च सहचार्यवियोगतः ।। ३२ ।।
प्रागप्रसिद्धावेकस्य कथमन्यतरस्थितिः । सहभावे द्वयोर्न्न स्यादन्यान्यकृतपूर्व्वता ।। ३३ ।।

न यावत्कालस्य पूर्व्वादित्वं न तावत्सहचारिणामित्यप्रसिद्धिः समीहितस्य । अथ
द्वयोरपि समानकालापूर्व्वादिता (।) तथा सति समानकालयोः1134 परस्परव्यापाराप्रतिपत्तेर्न्न परस्य
रकृतत्वमिति स्वहेतुसमुत्थः स स्वभाव इति पदार्थानामेव स पूर्व्वादिताभाव इति व्यर्थिका
कालपरिकल्पना । तथाहि । यदतीतं वस्तु तत्पूर्व्वमुच्यते । यदनागतं तत्परं यत्सत्तद्वर्त्तमानं ।

ननु (च) कालाभावादेतदेव कथं । कालसद्भावेपि कथमित्येतदपि प्रतिपादितमेवेति
नोत्तरं । किञ्च ।

हेतुभावादभावाच्च कार्यं सदसदित्यतः । पूर्व्वापरव्यवस्थापि किमदृष्टस्य कल्पना ।। ३४ ।।

पूर्व्वापरमध्यभावो हि सहसद्वयवस्थया । सा च कारणभावाभावाभ्यां । तदपि
कारणं स्वकारणादेव भावाभाववदिति नादृष्टस्य कल्पना युक्तिमती ।

477

अथ चिरक्षिप्रादिरूपपरिच्छेदहेतुरनादिनिधनः काल इष्यते । तदपि यत्किञ्चित् ।
यतः ।

अनादिनिधनात्कालात्कथं क्षिप्रादिबुद्धयः । चिरक्षिप्रादिबुद्धिनां ग्राह्यः कालो यदीष्यते ।। ३५ ।।

यद्येता बुद्ध्यः कालस्वरूपोग्राहिण्यस्तदा स एवानादिनिधनतया व्यापितया च
गृह्यतामन्येन चिरादित्वेन तथाभूतस्य ग्रहणासम्भवात् ।

यदेव गृह्यते रूपं तदेवार्थस्य युक्तिभाक् । नैवान्येन प्रकारेण पदार्थस्थितिरिष्यते ।। ३६ ।।
चिरक्षिप्रादिरूपाणां परस्परविभेवतः । कालस्यापि प्रसक्तोयमिति व्याप्येकते कथम् ।। ३७ ।।
चिरकालः पदार्थोयमिति स्थितिविवेकतः । चिराचिरादिभेदानां कालरूपानुगामिता ।। ३८ ।।

चिरक्षिप्रादयो हि कालरूपानुगमनेन1135 प्रतीयन्ते । न पदार्थरूपानुप्रवेशेनेति व्यापि
कालव्यवस्थितिः । तथाहि । योयेनानुगतः प्रतीयते स तद्योगी तद्यथा शावलेयः प्रतीयमानो
गोरूपेण तद्योगीति कालस्यापि तथा व्यवस्था । एवं तर्हि (।)

चिरक्षिप्रादिभेदानां कालरूपानुयायिनां । कालत्वं नाम सामान्यमिति कालो न सिध्यति ।। ३९ ।।

कालत्वं नाम सामान्यमिति कालो न सिध्यति ।

द्रव्यपदार्थमध्ये हि काल इष्यते न सामान्यं तस्य पदार्थान्तरत्वात् । न च चिरादि
रूपव्यतिरिक्तो वेद्यते कालः । काल इति (तु) संज्ञामात्रं तेषामेव लाघवार्थं केनचिन्निवेशितं ।

चिरादयोपि नैवामी क्रियातोव्यतिरेकिणः । चिरं कृतमितीत्थं हि क्रियारूपप्रवेशतः ।। ४० ।।

चिरं करोतीति हि क्रियासामानाधिकरण्येन प्रतीतेः क्रियारूपानुपातिन एव तत्त्व
तश्चिरादयः ।

  1. १ B कालः

  2. १ B ॰गमेन ।