अनैकान्तिकश्चायं हेतुः, भारतेऽप्येवमभिधातुं शक्यत्वात् ।
भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकम्, भारताध्ययनवाच्यत्वात्,
इदानींतनभारताध्ययनवत् इति ॥
वेदस्यापौरुषेयत्वे भारतादेरप्यपौरुषेयत्वप्रसङ्गः
ननु ! भारते कर्तृस्मृतिरविगीता विद्यते; यद्येवं वेदेऽपि
प्रजापतिः कर्ता 12 स्मर्यत एव ॥
13 अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापतिकर्तृत्वस्मृतिः;
प्रजापतिना चत्वारो वेदा असृज्यन्त, चत्वारो वर्णाः चत्वार
आश्रमाः इति तत्र पाठादिति—उच्यते—हन्त तर्हि भारतेऽपि
तत्रत्यवचनमूलैव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ॥
पौरुषेयत्वापौरुषेयत्वयोः वेदभारतयोस्तौल्यम्
-
स्मर्यते । तथा च प्रदर्शयिष्यत्युत्तरत्र ॥
↩ -
अथेति । मन्त्राणामर्थवादानां च न स्वप्रतिपाद्यार्थे प्रामाण्यम् । अपि च मन्वादिस्मृतयो हि वेदानुसारादेव प्रमाणानि । वेदस्तु स्वविषये स्वयं कथं प्रमाणं भवेत् । न हि विप्रतिपत्तिस्थले विप्रतिपन्नवाक्यमेव प्रमाणीकर्तुं शक्यमिति भावः ॥
तत्रत्येति । भारतस्थेत्यर्थः ॥
↩