I.169
वक्राङ्गलिः प्रविरलाङ्गुलिरेष पाणिः

इस्यस्ति धीः तमसि मीलितचक्षुषो वा ।

नेयं त्वगिन्द्रियकृता, न हि तत्करस्थं

तत्रैव हि प्रमितिमिन्द्रियमादधाति ॥ २१५ ॥

दूरात्करोति निशि दीपशिखा च दृष्टा

पर्यन्तदेशविसृतासु मतिं प्रभासु ।

धत्ते धियं पवनकम्पितपुण्डरीक-

षण्डेऽनुवातभुवि दूरगतेऽपि गन्धे ॥ २१६ ॥

स एवंप्रायसंवित्तिसमुत्प्रेक्षणपण्डितः ।

रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः ॥ २१७ ॥

वक्राङ्गुलिरित्यादि । चाक्षुषप्रत्यक्षानुपजीव्यत्वबोधनाय—तमसि
मीलितचक्षुषो वा इति । वाकारः किं तमःपर्यन्तानुधावनेन इति
धार्ष्ट्यार्थः । अस्तु धीः, किं तेन ? इत्यत्राह नेयमिति । अत्र हेतुमाह—न
हीति । तत्करस्थं इन्द्रियं तत्रैव प्रमितिं न ह्यादधाति—इत्यन्वयः । एतदुक्तं
भवति—निमीलितचक्षुषामप्यस्माकं मम अङ्गुलिः बक्रः, ममाङ्गुली विरलौ
इत्यादिप्रतीतिरनुभवसिद्धा । दण्डादिषु हि हस्तस्पर्शवशात् वक्रत्वादिकं
त्वगिन्द्रियग्राह्यं भवेदपि । अङ्गुलिः स्वगतं वक्रत्वं कथं स्वयं गृह्णीयात् । न हि
चक्षुरिन्द्रियं आत्मन आश्रयं गोलकं गृह्णाति । अत इयं प्रतीतिर्दुर्निरूपैव ।
एवं विरलौ अङ्गुली इत्यत्रापि । वैरल्यं च हस्तान्तरेण स्पर्शमन्तराऽपि
स्वयमेव भासत एव । एतदपि दुर्निरूपमेवेति ॥


एवं निशि दूरात् दृष्टा दीपशिखा च पर्यन्तदेशविसृतासु प्रभासु—
विषयसप्तमी, मतिं करोति अहो पर्यन्तप्रसृमरप्रभाभासुरेयं दीपशिखा
इति । तत्र पर्यन्तदेशस्य आकाशरूपस्य दूरादग्रहणेऽपि तत्र प्रसृमरत्वं तु
तदैव गृह्यते । इयं च प्रतीतिः नानुमानरूपा; हेतुज्ञानादीनामदर्शनात् ।
अत इदमपि विलक्षणं प्रत्यक्षम् । एवं गन्धे घ्राणेन्द्रियेण गृहीते दूरगतेऽपि
वाय्वनुकूलप्रदेशवर्तिनि पवनकम्पितपुण्डरीकवने—तद्विषये धियं धत्ते, पुरुष
इति शेषः । न ह्यत्र घ्राणेन पुण्डरीकवनग्रहणं संभवीत्यर्थः । सुरभि