I.170

चार्वाकमतनिरासः


प्रत्यक्षाद्विरलकराङ्गुलप्रतीतिः

व्यापित्वादकुशलमिन्द्रियं न तस्याम् ।

आनाभेस्तुहिनजलं जनैः पिबद्भिः

तत्स्पर्शः शिशिरतरोऽनुभूयतेऽन्तः ॥ २१८ ॥

संयोगबुद्धिश्च यथा तदुत्था तथैव तज्जा तदभावबुद्धिः ।

क्रियाविशेषग्रहणाच्च तस्मात् आकुञ्चितत्वावगमोऽङ्गुलीनाम् ॥

पद्मामोदविदूरदीपकविभाबुद्धिः पुनर्लैङ्गिकी

व्याप्तिज्ञानकृतेति, का खलु मतिर्मानान्तरापेक्षिणी ।

सङ्ख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकैः

तत्सामर्थ्यविवेकशून्यमतिभिः मिथ्यैव विस्फूर्जितम् ॥ २२० ॥

इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः

प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते ।

अशक्यकरणीयतां कथयता तु तत्त्वं, सतां

समक्षममुनाऽऽत्मनो जडमतित्वमुक्तं भवेत् ॥ २२१ ॥

इति जयन्तभट्टकृतौ न्यायमञ्जर्या प्रथममाह्निकम्


चन्दनम् इत्येवमादिज्ञानानामपीदमुपलक्षणम् । एवञ्च ज्ञानज्ञेययोर्व्यवस्थैव
दुर्वचेति प्रमाणप्रमेयसंङ्ख्यानियमः अशक्यकरणीय एवेति ॥


एतत्सर्वं समाधत्ते—प्रत्यक्षादिति । इन्द्रियं अकुशलं न, किन्तु
समर्थमेवेत्यर्थः । चक्षुरिन्द्रियेण स्वाश्रयगतगुणाद्यग्रहणेऽपि त्वगिन्द्रियं
स्वाश्रयगतजलादिसंयोगं गृह्णातीत्यनुभवसिद्धम् । तच्चेन्द्रियं शरीरव्यापकम् ।
अतश्च अङ्गुलिगतवैरल्यं तद्गतत्वमिन्द्रियं गृहीतुं समर्थमेव । त्वचो व्यापकत्वं
साक्षात्स्वसंयुक्तग्राहकत्वं चोपपादयति—आनाभेरिति ॥


तदुत्था—त्वगिन्द्रियजन्या । येनेन्द्रियेण यो गृह्यते तेनेव तदभावोऽपि
गृह्यते
इति स्वाश्रयगतसंयोगाभावोऽपि त्वचैव गृह्यते । एवं त्वचा स्वाश्रय
गतक्रियाग्रहणस्यापि संभवात् आकुञ्चितत्वग्रहणमपि त्वचैवेत्यर्थः ॥


तत्सामर्थ्यं—प्रमाणसङ्ख्यानियमनिश्चयसामर्थ्यम् ॥


अविलक्षणं—सर्वसम्मतम् । सतां समक्षमित्यन्वयः ॥


इति प्रथममाह्निकम्