II.142

प्रकृतविचारस्य शब्दप्रामाण्योपयोगित्वम्


योऽपि व्याघ्र आयातः इत्युक्ते शूरकातरनराधिकरणनानाकार
कार्योत्पादः—स बाह्येऽर्थे व्याघ्रागमानादौ प्रतिपन्ने वासनानुसारेण भवन्
न प्रतिभामात्रहेतुको भवति । तस्य हि ज्ञायमानोऽर्थः करणम्,
न तद्ज्ञानमात्रम् । अर्थस्तदानीं795 नास्तीति चेत्—विप्रलम्भवाक्यमिदं
असत्यार्थं भविष्यति, न त्वबाह्यविषयं तत् । यथाऽवस्थिते वनितात्मनि
बाह्येऽर्थे वासनानुसारेण कुणप इति, कामिनीति, भक्ष्यमिति प्रतिभा
भवन्ति—तथाशब्दार्थेऽपि व्याघ्रागमनेऽवगते शूराणामुत्साहः, कातराण
भयमित्यादि कार्यं भवति । न त्वेतावता प्रतिभा शब्दार्थो भवितुमर्हति ।
तस्मात् वाक्यप्रयोजनत्वेन वा यदि प्रतिभा वाक्यार्थः कय्यते; कथ्यतां
नाम, न त्वसौ शब्दस्याभिधेया । अनभिधेयाऽपि संसर्गवत् वाक्यार्थ
इति चेत्—तत्राप्युक्तम् । संसृष्टा वाक्यार्थः, न संसर्गः । एवमिहापि
प्रतिभावन्तोऽर्था वाक्यार्थः, न प्रतिभेति ॥


शब्दस्य च प्रत्यक्षवत् वर्तमानार्थनिष्ठत्वाभावात् अनागताद्यर्थाभि
धायिनोऽर्थासन्निधानेन प्रतिभापरत्वं यदुच्यते—तदप्ययुक्तम्—अनागता
दिविषयत्वेऽपि तस्यार्थविषयत्वं प्रसाधितमिति कृतं विस्तरेण ॥


वाक्यार्थः परमार्थ एव तदयं नो कल्पनानिर्मितः

तद्वानप्युदितः पदस्य विषयस्तेनार्थसंस्पर्शिना ।

अप्रामाण्यमतश्च बाह्यविषयाभावेन यद्वर्ण्यते

तत्, शब्दस्य निरस्तमित्यकलुषं प्रामाण्यमस्य स्थितम् ॥

इति श्रीजयन्तभट्टकृतौ न्यायमञ्जर्यां पञ्चममाह्निकम्


  1. तदानीं—शब्दोच्चारणकाले ॥