349

एकत्त्वारोपेण प्रवर्त्तत इति । तदनुरोधात्क्रियाकारकव्यवस्था न परमार्थतः । एवमाकारोपि
न फलाधिगतिव्यापकः । अधिगतिस्तु सकलाकारव्यापिका । ततो भेदव्यवस्था प्रमिति
प्रमाणयोः । परमार्थतस्त्वाकार एव प्रकाशमानः प्रमितिः । तस्मादाकारः प्रमाणमर्थसम्वेदनं
फलमव्यतिरिक्तमेव फलं प्रमाणात्ततो वा प्रमाणमिति । तथा चोक्तं ।

सव्यापार प्रतीतत्त्वात्प्रमाणं फलमेव सत् ।

२. स्वसंवेदनफलम्

अथवा स्वसम्वित्तिः फलञ्चात्र । उभयाभासस्य विज्ञानस्य स्वसंवेदनमेव फलं ।
नन्वर्थसम्वेदनं फलमर्थार्थी लोत इति । अत्रोच्यते ।

लोकस्यार्थार्थिताऽयुक्ता यदानार्थस्य वेदनं । न जातु चिददृष्टेर्थे लोकस्यार्थित्त्वसम्भवः ।। ६२५ ।।

श्रुतो हि परम्परया दृष्ट एव ।

७.९. विज्ञप्तिमात्रता

(१) अर्थसंवेदनचिन्ता
(क) अर्थसंविद्-

ननु नीलादिरर्थः सम्वेद्यत एव । कथमसम्विदर्थस्य । अत्र पर्यनुयोगः ।

कार्थ संम्विद्; यदेवेदं प्रत्यक्षं प्रतिवेदनम् ।
तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ।। ३२१ ।।

यदि प्रतिनियतम्वेदनं914 प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमेव
केवलं । नत्वर्थस्य वेदनं सिध्यति ।

अथ ताद्रूप्यादेवार्थस्य वेदनन्तथाभूतमर्थमन्तरेण ताद्रूप्यस्याभावात् । न । व्यभि
चारात् केशमशकादिषु ।

अथ सोनुभवः क्वास्य; तदेवेदं विचार्यते ।

यद्यर्थसम्बन्धो नास्ति तदा कोसावनुभवः अनुभूयमाननिष्ठत्वादनुभवस्य । कथं
केशाद्यनुभवस्तैमिरिकस्य ।

ननु कश्चिदर्थनिष्ठ एव दृश्यते तदेवेदम्विचार्यते । दृश्यतामर्थस्येति च न दृश्यते ।
अर्थस्यादर्शनात् (।) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेः915 (।)
तथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा916 चक्षुरपि तद्वेदनं तदेव तदाकारं कल्प्यतां । बहिर्देशा-


  1. १ B. टि—प्रतिनियतं वेदनं प्रतिविदितम्वा वेदनं विदितयोर्मध्यपदलोपाः ।

  2. २ B. टि—अनेनास्माकं मतेऽर्थस्यज्ञानं नास्ति भिन्नार्थाकाराज्ञानादर्थानुमाना ।

  3. ३ B. टि—तथा कार्यात् चक्षुरपि कारणमनुमीयते यस्याकारः तस्य कारणस्यानुमान
    मिति चेत् चक्षुरपि नीलाकारं क... ।