७.९. विज्ञप्तिमात्रता

(१) अर्थसंवेदनचिन्ता
(क) अर्थसंविद्-

ननु नीलादिरर्थः सम्वेद्यत एव । कथमसम्विदर्थस्य । अत्र पर्यनुयोगः ।

कार्थ संम्विद्; यदेवेदं प्रत्यक्षं प्रतिवेदनम् ।
तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत् ।। ३२१ ।।

यदि प्रतिनियतम्वेदनं914 प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमेव
केवलं । नत्वर्थस्य वेदनं सिध्यति ।

अथ ताद्रूप्यादेवार्थस्य वेदनन्तथाभूतमर्थमन्तरेण ताद्रूप्यस्याभावात् । न । व्यभि
चारात् केशमशकादिषु ।

अथ सोनुभवः क्वास्य; तदेवेदं विचार्यते ।

यद्यर्थसम्बन्धो नास्ति तदा कोसावनुभवः अनुभूयमाननिष्ठत्वादनुभवस्य । कथं
केशाद्यनुभवस्तैमिरिकस्य ।

ननु कश्चिदर्थनिष्ठ एव दृश्यते तदेवेदम्विचार्यते । दृश्यतामर्थस्येति च न दृश्यते ।
अर्थस्यादर्शनात् (।) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेः915 (।)
तथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा916 चक्षुरपि तद्वेदनं तदेव तदाकारं कल्प्यतां । बहिर्देशा-


350

कारेण बहिरेव कल्प्यत इति चेत् । किन्दर्पणमुखाकारेण तद्देशस्य मुखस्य कल्पना । ततः
सकलमेवात्मस्थं मुखवत्प्रतिविम्बरूपेण प्रतिभातीति कल्पनीयं ।

सरूपयन्ति तत् केन स्थूलाभासञ्च तेणवः।। ३२२ ।।

अणव एव यदि विषयस्ततः स्थूलाभासविज्ञानमिति सारूप्याभावात्कथम्बिषयो विज्ञानस्य ।
वृक्षादिपिण्डग्रहणवद् भ्रान्तमे (व) भवेत् । वर्ण्णाकारतया सरूपयन्तीति चेत् । न । वर्ण्ण
व्यतिरेकेण संस्थानाभावात् । वर्ण्णात्मकसंस्थानवत्त्वे स्थूलतैव प्राप्ता । अथ स्थूलता
ग्रहणधर्मः । वर्ण्णस्तु ग्राह्यधर्मः । बहुषु गृह्यमाणेषु स्थूलमिति भवति व्यपदेशः । न स
प्रत्येकं परमाणुषु । नीलादिता तु प्रत्येकमतोऽसौ ग्राह्यधर्मः । यद्येवन्तथा सान्तराणा
मनन्तरत्वग्रहाणद्भ्रान्तिरेव । नाविषयतयान्तरस्यापि प्रतिभासनादिति चेत् । यद्येवं सर्व्व
सामर्थ्योपाख्याविरहलक्षणं निरुपाख्यमिति भाव एवान्तरस्य । ततो निरन्तरमेव वस्तु परि
कल्पनीयं । निरन्तरस्यायोगादिति चेत् । नहि वस्तु सावयवं युक्तं । विज्ञानवत् निरव
यवमेव वस्त्विति परमाणुप्रसिद्धः । न । प्रतिबन्धाभावात् । प्रत्यक्षबाधि (त) त्वाच्च
प्रतिज्ञाया एतदयुक्तं । प्रत्यक्षमन्तरेण चानुमानाभावात् । स्थूलं सूक्ष्मोपचयरूपमेवेति चेत् ।

दत्तमत्रोत्तरं प्रागिति न पुनरुच्यते ।

तन्नार्थरूपता तस्य सत्त्यार्थाव्यभिचारिणा917 ।
तत्संवेदनभावस्य न समर्था प्रसाधने ।। ३२३ ।।

अर्थरूपता सत्यपि व्यभिचारिणी ततो न भावनार्थसम्वेदनमिति सिध्यति । नहि
व्यभिचरन्नेव साधयत्यव्यभिचारार्थत्वात्साधनार्थस्य । व्यभिचारिणोपि साधनत्वे सर्व्वः सर्व्वस्य
साधनम्भवेत् । अस्तित्वेन व्यवस्थानं साधनं । व्यभिचारस्तु कदाचिदसौ नास्त्यपीति
नास्तित्वं पाक्षिकमाक्षिपति । तदिदमस्तित्त्वमितरच्चैकदकत्र विरुद्धं । तस्मान्नीलादिरूपता
मात्रादेव विज्ञानस्यार्थसाधनता नेत्येकान्तः । अपि च सम्वेदनानामर्थानाञ्च सारूप्यन्न च
तेषां परस्परं सम्वेदनभावः । न हि918 सन्तानान्तरसम्वेदनसरूपमपि वेदकं वेद्यम्वा ।

तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणं ।
संवेद्यं स्यात्समानार्थं विज्ञानं919 समनन्तरं ।। ३२४ ।।

यदि यत उत्पद्यते सरूपं च तेन तस्य वेदनं तर्हि अनन्तरविज्ञानं तुल्यविषयं विषयः
स्यात् । यदा पूर्व्वकमपि नीलाकारमुत्तरमपि ततः समनन्तरादुदयवत् । तदा पूर्व्वकस्य सरूपकत्वा
दुदयकारणत्वाच्च विषयवत्त्वं प्रसक्तं । अथ यत उत्पत्तिमान्नीलादिक आकारः स तस्याकारवान्
विषयः । समानविषयविज्ञाने तु य आकारः स न समनन्तरादन्यथा नीलाकारसमनन्तरात्पीत
विज्ञानं न स्यात् । ततो लभ्यते (?) भवति नीलाद्याकारः समनन्तरप्रत्ययकृत इति न तस्य
विषयत्वं । अपरे व्याचक्षते । नीलसमनन्तराद्य दा सविकल्पकं नीलाकारमुदयमासादयति
तस्य स पूर्व्वको विषयः स्यादाकारकारित्वात्तस्य । तदप्यसदिष्यत एव स्मरणस्य सम्वेदन-


351

विषयत्त्वमेव विज्ञायते च । तथा हि सकलो लोकः स्मरणादर्थवेदनं लक्ष्यते । अनुसर
न्नस्मात्साक्षादर्थान्निरीक्षते । सकलमेव स्मरणमर्थानुभवे प्रवर्त्तमानमुपलक्ष्यते यदा न स्मृति
विप्रमोषः । ततश्चानुभवविषयत्त्वमस्येष्यत एव । न चाभ्युपगम एव दोषाय । किं च ।
निर्व्विषयमेतत्स्मरणमस्य किं विषयचिन्तया । अत्र क्रमः । यद्भावानाबलास्येष्टा (?) तमुपजायते
पूर्व्वकान्नीलानुभवात्तस्य स पूर्व्वको विषयः प्राप्तः । कथन्तस्य समनन्तरमिति चेत् । तादृश
स्यापरस्य समानजातीयस्य सम्वेदनस्यान्तरालभाविनोऽभावात् । कथन्तज्जनकमिति चेत् ।
दत्तमत्रोत्तरं । व्यवहितमपि जनकमिति प्रतिपादितमेतत् । अथवा विकल्पाकार एव भावनातः
स्पष्टाकार एव भावनातः स्पष्टाकारजनको विषयः स्यात् । ततस्तत आकारान्नार्थस्य व्यवस्था ।
भावनाबलादेव समानजातीयादयमर्थाकारो यज्जातीय इति न्यायादवतिष्ठत इति नार्थपरि
कल्पनायां न्यायः तस्मात्समनन्त (र) विज्ञानमेव विषयः । एवन्तर्हि ।

(ख) दृश्यदर्शने प्रत्यासत्तिविचारः—
इदं दृष्टं श्रुतं वेदमिति यत्रावसायधीः ।
स तस्यानुभवः सैव प्रत्यासत्तिर्व्विचार्यते ।। ३२५ ।।
दृश्यदर्शनयोर्येन तस्य तत्साधनम्मतं ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ।। ३२६ ।।

यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र । नहि समनन्तरप्रत्ययादयमिति
निश्च(यः) । अपि त्वविषयोऽयं ममानुभवो न समनन्तरप्रत्ययविषय इति । न ह्यर्थानुभव
मन्तरेणार्थ इति निश्चयो युक्तः । अनुभवानुसारित्वान्निश्चयस्य ।

अत्रोच्यते । अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति । तदेतदाया
तमर्थ एकः पन्यानं न प्रतिपद्यते । तेनाकृष्यमाणो द्वितीय इति महदद्‪भूतं । तथा हि ।

साक्षादुत्पत्तिमानर्थात्प्रत्ययो यः स नेक्षते । तमर्थमपरस्तस्मान्न्यूनोपीत्यतिसाहसं ।। ६२६ ।।

अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूपमात्रस्येति ।
अन्यथा तथैव निश्चयो भवेदिति चेत् ।

तदेतदसत् । नन्वनुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्त्वं प्रसिध्यति ।
कुतस्तर्हि निश्चय इति चेत् । अभ्यासादेवेति प्रतिपादितं । सोप्यभ्यासोऽनुभवादेवेति कुतो
विपरीतनिश्चयः । अयमप्यपरिहारः । यत एवं सति न कस्यचिद्विपरितनिश्चयः स्याद्
दृश्यते च । तस्मादयुक्तमेतत् ।

नन्वालोचनमात्रमविवेककारि ततो निश्चयादेवार्थानर्थविवेकः । यद्येवं निश्चयोपि
न विवेककारी स्यात् । नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चयकारी । अथाभ्यासान्निश्चयो
विवेकसाधनं । न (।) अभ्यासस्याहेतुकत्वात् । प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्त्यतां
यायात् (?) । अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव । सा चार्थक्रिया प्रतिभासान्तरमेव ।
न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः । तस्मान्न निश्चयादर्थव्यवस्था ।

920 921 352

यदप्युक्तं । अथ सोऽनुभवः क्वास्येति । तत्राप्युच्यते ।

आत्मा स तस्यानुभवः स च नान्यस्य कस्य चित् ।
प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मता ।। ३२७ ।।

स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्तिमान् । तत
एतदिति । क्वायमिति तु कः प्रश्नार्थः । तथा हि ।

क्वायमनुभव इत्युक्ते यदा प्रत्युच्यते पुनः । अर्थेतदापि प्रश्नःस्यात् सोर्थः क्वेत्यनवस्थितिः ।। ६२७ ।।

क्रीडनकप्रश्न एवम्विध इति चेत् । कस्मात्पर्यवसानस्य दर्शनात् । तथा हि सोर्थः
क्वा भूमौ । सा क्व एवमेव दृश्यते इति न पुनः पर्यनुयोगः । यद्येवमर्थस्यादर्शनादनुभवोपि स्वरूपे
वस्थित एवमेव दृश्यतामिति किमाधारकल्पनया । अनेन षष्ठ्यर्थपर्यनुयोगोपि प्रत्युक्तः । तदाह ।

स च नान्यस्य कस्यचित् ।

कथं तर्हि प्रत्यक्षप्रतिवेद्योर्थो निराकर्तुं शक्यः । तथा हि । प्रत्यक्षेण नीलं पश्यन्ति
तद्वन्तः । नार्थस्यादर्शनादित्युक्तं । तदाकारतैव प्रत्यक्षवेद्या न व्यतिरिक्तोर्थः । तदाकार
एवं नील इति व्यवह्रियते नान्यः । तस्मान्नीलात्मकोऽनुभवो नीलानुभवः शिलापुत्रकस्य
शरीरमिति यथा । न हि षष्ठ्यर्थ इत्येव भेदः । यथाकथञ्चिदस्य भावात् । अथवा स
कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति । न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता ।
पररूपे प्रत्यक्षताऽयोगात् । नहि तद्रूपमन्यस्य । तथा चेत् । अन्य एव भवेत् । अथवाऽ
परोक्षं विज्ञानं यस्यानुभवः सोऽर्थो भविष्यति । यद्येवमात्मा स तस्यानुभवः । अन्यत्रा
वेद्यमानत्वात् । भवतु को दोष इति चेत् । स च नान्यस्य । यद्यात्माऽर्थस्य स्यादन्यस्यापि
तथैव भवेदिति सर्व्वस्तद्दर्शी भवेत् । न चान्यस्य तथा ।

ननु प्रत्यक्षेण वेद्यते नात्मना । न । तदेव रूपं पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः ।
तस्मादनन्यसम्वेद्यो नीलाद्यात्मैवानुभवः । अथवा यद्यर्थो नानुभूयते किमिदं बहिर्देशसम्बद्ध
तयाऽनभवगोचरः । आत्मैवानुभूयते । चित्तमेवानुभूयते । कथं बहिर्देशता । स च नान्यस्य ।
ततोसौ कुतो बहिर्भूतः । अथवाऽऽत्मा स आत्मैवेदमर्थमिति भवतोप्यभ्युपगमात् । तस्य
चानुभवः स च नान्यस्य अपि त्वात्मन एव तद्व्यतिरिक्तभावात् । अथवा तत्स इति चेत् ।
न । प्रत्यक्षप्रतिवेद्यत्वात् । यतस्तदात्मनैव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा ।

नन्वात्मवादः प्रसक्तः । न (।) चित्राकारसम्वेदनात् । अविद्यावशेनोत्पत्तिः सम्वेदनमेव
तत् । नात्मवाद उपयोगी । निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः । एत
देवोत्तरेण दर्शयति ।

नान्योनुभाव्यस्तेनास्ति तस्य नानुभवो परः ।
तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ।। ३२८ ।।

बुद्ध्या योनुभूयते स नास्ति परः । यथान्योनुभाव्यो नास्ति तथा निवेदितं । तस्या
स्तर्हि परोऽनुभवो बुद्धेरस्तु । न (।) तत्रापि ग्राह्यग्राहकलक्षणाभावः । परं हि सम्वेदनस्वरूपेऽ
वस्थितं कथं परस्यानुभवः । साक्षात्करणादिकं प्रत्याख्यातं । तत्सम्वेदनानुप्रवेशे च तयो
रेकत्त्वमेव स्यात् । तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं ।

353

कथन्तर्हि योगिनां परचित्तप्रतिपत्तिः । एतदुत्तरत्र प्रतिविधास्यते । तस्मात्स्वयमेव
स्वरूपप्रकाशकत्वात्तथा भवति । एवन्तर्हि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः ।
अत्राह ।

(ग) नीलाद्यनुभवप्रसिद्धिः—
नीलादिरूपस्तस्यासौ स्वभावोनुभवश्च सः ।
नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोपि सन् ।। ३२९ ।।

नीलरूपत्वान्नीलानुभव न तु नीलस्यापरोनुभवः । शुद्धस्यानुभवस्याभावात् । यो
हि यदव्यतिरिक्तः स तद्रूपेणैव व्यवहारविषयः ।

तथा हि यदि शुद्धः स्यात्तथैवाध्यवसीयते । व्यतिरेकः स्वरूपेपि दृश्यते न ततस्तथा ।। ६२८ ।।

नीलानुभव इति यथा ख्यातिस्तथैवासौ नीलस्वरूपतयाऽनुभवरूपतया भवतीति युक्तं ।
न च व्यतिरेकव्यपदेशमात्रकादेव भेदः । व्यतिरेकव्यपदेशो हि यथा कथञ्चिद्वासनाबलादपि
भवन्नुपलभ्यत इति प्राक्‌प्रतिपादितं ।

ननु नीलं कथमात्मरूपं प्रकाशयति । नहि प्रकाश्या घटादयः प्रदीपादिना स्वप्रकाशकाः ।
आत्मनि क्रिया विरुध्यते । न हि सैवासिधारा तयैव च्छिद्यते ।

अत्र परिहारः ।

प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः ।
यथा प्रकाशोभिमतस्तथा धीरात्मवोदिनी ।। ३३० ।।

अवेद्येवेदकाकारा;

स्वात्मनि क्रियाविरोध इति कुतः प्रमाणादवगतं । नहि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः ।
समीहितस्य विपर्ययेपि दृष्टान्तस्य प्रदीपस्य सम्भवात् । यदि घटः प्रदीपेन बाह्यात्मना
प्रकाश्यते । प्रदीपोपि तथाभूतेनापरेणेति न पर्यनुयोगः । न च घटोपि प्रदीपेन प्रकाश्यते ।
अपि तु तथाभूतस्यैव तत उत्पत्तिः । अथ प्रदीपोप्यपरेण चक्षुरादिना प्रकाश्यते । न । चक्षुरादेः
सकलघटादिसाधारणत्त्वेपि चक्षुषि च (स) त्यपि प्रदीपमपेक्षते प्रकाशकं घतस्तथा प्रदीपोपि
स्यात । अथ घट उत्पद्यत एव तथा प्रकाशनन्तु तस्य चक्षुरादिभिः । एवन्तर्हि ।

अप्रकाशेपि बाह्येर्थे यथा दीपात्प्रकाशनं । व्यपदेशस्य विषयश्चक्षुरादेरपीष्यतां ।। ६२९ ।।

यथा ततस्तथाभूतरूपोत्पत्तावपि प्रदीपात्प्रदीपाभिव्यक्तो घट इति व्यपदेशः । तथा
चक्षुरादिकादपि तथोत्पत्त्यैव व्यपदेशः । अथ द्वयमपि प्रकाशकं घटादेः, प्रदीपादेस्त्वेकमेव ।
एवन्तर्हि ।

एकं कस्यचिदन्यस्य द्वयमेव प्रकाशकं । यथा सम्भवतोन्यस्य नैकमप्यस्तु का क्षतिः ।। ६३० ।।

अत्यन्तमशक्तस्य द्वयमपरस्यैकमन्यस्य नैकमपीति वस्तुस्वभाव एष इति का वात्र
क्षतिः । अथ स्वात्मनि क्रियाविरोध इत्युच्यते ।

यदा स्वरूपन्तत्तस्य तदा कैव विरोधिता । स्वरूपेण विरोधे हि सर्वमेव प्रलीयते ।। ६३१ ।।
354

नहि स्वेनैव रूपेण कस्यचिद्विरोधः, तथा चेत् न किञ्चिद् भवेत् स्वेन रूपेणेति सकल
मस्तंगतं भवेत् । छेदस्तु पुनर्विशिष्टोत्पादनं न च तेनैव तस्योत्पादनं । अयमेवार्थः स्वात्मनि
क्रियाविरोध इति । स्वप्रकाशरूपन्तु तस्य स्वरूपं न तेनैव विरुध्यते । कुतस्तदिति वक्तव्यं
स्वहेतोस्तथाभूतादिति । यदि स हेतुर्न्नास्ति तदा युक्तम्भवेत् नान्यथेति न्यायः । तत
इदम्परेण वक्तव्यं स्वप्रकाशकत्त्वमेव न दृश्यते । तत्र चोत्तरमुक्तमेव सर्व्वस्य स्वरूपेण प्रकाशना
दिति । पुनरप्युच्यते ।

तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ ।

अर्थान्तरभूता बुद्धिः स्वप्रकाशान्यथा वा भवेत् । यदि स्वप्रकाशा स्वरूपेण प्रकाशते
ततोन्यर्थस्तया प्रकाश्यत इति । नाप्रकाशे तस्मिन् व्यपदेशस्तथा भवेत् । प्रकाशते चेत्सोपि
तथैव प्रकाशते तदैवेति कथं तस्य परेण प्रकाशनं । नहि तदा विशेषः प्रकाश्यप्रकाशकयोः ।
क्रमेण तद्व्यापारात्प्रतिपत्तिविशेषस्तस्येति चेत् । तथा हि ।

ढौक्यमाने प्रदीपादौ विशेषस्तस्य गम्यते । ततस्तयोर्द्वयोस्तत्त्वं तथोत्पादो न किम्मतः ।। ६३२ ।।

विशेषः प्रकाशत इति । स्वेनैव रूपेण तस्य प्रकाशनं ततः स्वरूपस्यैव तथा प्रकाशनं ।
ततः स्वप्रकाशनमेवान्तेपि । अथ स्वयं प्रकाशत इति न प्रतीयते । व्यवहार एवम्भूतो न
भवति तत एव उच्यते ।

नन्वनुभवानुरूपो व्यवहारः प्रमाणयितव्यो न सर्व्वः । अथ सर्व्व एव व्यवहारः प्रमाणं
तथा सति न किञ्चित्प्रतिवादिबोधनाय वक्तव्यं । तस्माद्यथा प्रतीयते तथाभ्युपगमः ।

ननु सम्वेदन नाम न परोक्षं युक्तं तथा सम्वेद्यं न सर्व्वदा तथेति922 न्यायः । सम्वेद्यस्य
परोक्षतापि युक्ता । यदि तु सर्व्वदा सम्विदितमेव, ज्ञानार्थयोर्भेदो न गम्यते ।

तदयुक्तं ।

सम्वेद्यतातिरेकेण न नीलादि प्रतीयते । असम्वेद्ये प्रतीतिश्चेत्तदभावे कथम्भवेत् ।। ६३३ ।।

असम्वेद्यमेव प्रतिपन्नमिति व्याहतं । तथा चायमर्थः स्यादप्रतीतं प्रतीतमिति ।
अथाप्रतीयमानं प्रत्यक्षेणानुमानेन प्रतीयते । तदप्यसत् । प्रतीयमानताव्यतिरेकेण नार्थः923
पर इति पक्षो न तु प्रत्यक्षप्रतीततैवेति । अनुमानप्रतीतिरपि स्वरूपे प्रत्यक्षप्रतीतिरेव ग्राह्ये ।

ननु ततः परोपि तत्रार्थोस्ति परेण दृश्यमानोऽन्यथा924 वा । न । प्रतीत्यभावाद
प्रतीयमानमस्तीति कुत एतत् । अनुमानेनैव प्रतीयत इति चेत् । अनुमानतैव तर्हि न स्यादर्थस्य
साक्षात्करणात् । असाक्षात्करणेनेति चेत् । किमिदं तच्च नास्ति तच्चास्तीति युक्तं ।
असाक्षात्करणं प्रतीतिरिति कोर्थः । स्वरूपं चेत्प्रतिपन्नं तदेव साक्षात्करणं न चेदप्रतीत
मेवेति न्यायः ।

स्वरूपेण प्रतीतञ्चेत्साक्षात्करणमेव तत् । स्वरूपेणाप्रतीतञ्चेत्सर्व्वथास्याऽप्रतीतता ।। ६३४ ।।

355
स्वरूपेण प्रतीतेपि तदसाक्षात्कृतं यदि । नीलरूपस्य सम्वित्तेर्भेदस्तर्हि कथम्भवेत् ।। ६३५ ।।
प्रतीतिभेदाद् भेदो हि नीला925 देरेकरूपता । भिन्नेन्यस्मिन्कथम्भेदस्तदन्यस्य प्रमान्वितः ।। ६३६ ।।
तत्संसर्गात्तथात्वञ्चेदपरोक्षः कुतो भवेत् । तदेकताप्रपन्नस्य ततो कुतो मतः ।। ६३७ ।।
अन्वयव्यतिरेकाभ्यां भेदोपोद्धारिको न सन् । न हि प्रत्यक्षसम्वित्तिरन्वयव्यतिरेकयोः ।। ६३८ ।।
अनुमानात्प्रंतीतिश्चेन्नानुमाध्यक्षपूर्व्विका । तदभावेनुमाभावे भवेद धपरम्परा ।। ६३९ ।।
व्याप्यस्यापि हि तद्‪भावो व्यापकेन विना कथं । अप्रतीतं कथन्नाम तदा व्यापकमुच्यते ।। ६४० ।।

यदि हि तदा प्रतीयते प्रतीत्यं तद्‪गतमेव कथमर्थता । अथ न प्रतीयते कथं व्यापकता
प्रतीतिः । व्यापकत्वेन प्राक् प्रतीतमिति चेत् । किमिदानीमनुमानेन । एतत्कालता न
प्रतिपन्ना ततोनुमानं न व्यर्थ । कथन्तर्हि व्यापकताप्रतीतिः ।

प्रागिदानीं प्रतीतिर्न्न कथं व्यापकतागतिः । प्रतीतिमात्रकन्तच्चेत्कथं व्याप्तन्तदुच्यते ।। ६४१ ।।
धूमाकारा प्रतीतिर्हि न विना पावकं यदि । पावकप्रत्ययोप्येष विना पावकमिष्यते ।। ६४२ ।।

पावककार्यो धूमः कथं प्रतीतिमात्रं ।

तदसत् । तथा हि ।

सति पावककार्यत्वे धूमादेर्बाह्यरूप/?/ता । बाह्यत्त्वे च प्रसिद्धे स्यात्तस्य पावककार्यता ।। ६४३ ।।

तदिदमितिरेतराश्रयणव्यवस्थितवस्तुकमनुपन्यसनीयमेव ( ) अनेन प्रत्यभिज्ञाज्ञानमव
ज्ञातं । य आह प्रत्यभिज्ञाबलादेव विज्ञानमात्रता निराक्रियते । तथा हि ।

यदि सम्वेदनान्तस्थः प्रत्यभिज्ञा किमर्थिका । अथासम्वेदनोर्थात्मा कथं विज्ञप्तिमात्रता ।। ६४४ ।।

नहि मध्यसत्तार्थस्य प्रत्यभिज्ञया प्रतीयमाना सम्वेदनान्तद्‪गतापरोक्षतया प्रतीतेरिति ।
तदसत् । तथा हि । परोक्षतयापि प्रतीतिः प्रतीत्यन्तर्गतत्त्वमेव वस्तुनः प्रतीत्यन्तर्गतस्या
प्रतीतेरिति चेत् प्रतिपादितं । अप्रतीत्य मध्यसत्तामन्तरेण कथं प्रत्यभिज्ञति चेत् । पूर्व परयोः
समानजातीयत्वप्रतीतिमात्रकादेव दृष्टा, तथैव भविष्यति किमपरेण, लूनपुनर्जातकेशनख
प्रत्यभिज्ञावत् । अथ तत्र जात्यादिविषयः प्रत्यभिज्ञाप्रत्ययः । जातिरेवँकेति प्रतीयतां ततो
व्यक्तेरेकता न सिध्यति । न च जातिरपि मध्ये विद्यते । प्रमाणाभावात् । प्रत्यभिज्ञा
प्रमाणमिति चेत् । न । स्वरूपमात्रमेव पूर्व्वापरं प्रत्यभिज्ञाया निबन्धनमिति तदेवालम्बनं
प्रत्यभिज्ञायाः । न च तदेव प्रत्यभिज्ञाज्ञानं मध्यरूपालम्बनं, मध्यरूपस्यावेदनात् । न खलु
परोक्षमदृष्टमालम्व्यते । दृष्टत्त्वे च तदपरोक्षत्त्वाद्विज्ञानमेव । ननु परोक्षं चेत्कथं विज्ञानं
यस्यामवस्थायामस्ति तस्यामपरोक्षमेव । इदानीमतीततया परोक्षत्त्वेपि न विज्ञानत्वहानिः ।
यदि स्यादर्थस्याप्यर्थत्वहानिः स्यात् । अर्थस्याप्यतीतत्वेर्थत्वहानिः समस्त्येवेति चेत् । न
तर्हि मध्यसत्तायामर्थत्वं तस्या अप्यतीतत्त्वात् । अतीतत्वेपि परोक्षतायामप्यर्थत्वं नापैति
विरोधाभावात् । सम्वेदनत्वं त्वसम्विदितस्य कथमिति चेत् । अर्थत्वमपि तर्हि कथमनर्थ
क्रियाकारिणः । न ह्यसम्विदितमर्थक्रियाकरणसमर्थ । अनुमानेन तस्य वेदनं प्रत्याख्यातं ।
अन्येन मध्ये वेदने तदेव विज्ञानत्वं न चान्येन विदितत्वं प्रत्यभिज्ञायते । ततस्तेन सहैकता
नास्ति । प्रत्यभिज्ञात एकत्वाप्रसिद्धेः । अनुमानाकारश्च वासनाबलादुत्पत्तरेक एव विज्ञानात्मना
ततो वासनात एव सकल आकारः परिस्फुटप्रतिभासोपि ।

356

ननु वासनाया एकरूपत्वादाकारभेदो विज्ञानानां कथं । वासनाभेदाद् भेद इति
चेत् । यदि वासना नीलपीताद्यनन्तभेदा विज्ञानस्य जनिका तदाकारताया वाह्यस्यास्याश्च
को भेदः । वासनेति हि नाममात्रमेव ।

तदसत् ।

वा स ना पूर्व्वविज्ञानकृतिका शक्तिरुच्यते । तस्या अमूर्तताभावात् कथमर्थसमानता ।। ६४५ ।।

वासनेति हि पूर्व्व विज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः । अर्थस्तु
पुनर्मुर्त्तरूपः सदोपद्रवदायी ।

नन्वर्थोपि सम्विदितावस्थायामेवोपद्रुतिहेतुर्न्न सदा । ततो वासनाबलादुदयभावी प्रति
भास उपद्रुतिहेतुरर्थो वेति कोनयोर्भेदः ।

तदसत् ।

अविशेषेपि बाह्यस्य स्पष्टत्वादेर्व्विशेषतः । भावनाया विशेषेण नार्थस्य प्रतिभासनं ।। ६४६ ।।

भावनाबलायातत्त्वे हि विपरीतवासनाविनिवृत्तौ स्व(ा) भीष्टवासनासमागमसमयेऽनभीष्ट
विनिवृत्तिरिष्टस्य च प्राप्तिरिति महानेष भेदः । ततो बुद्धिरूपवासनाकृत एव सकलो भेदा
वभासः ।

ननु वासनाया एकविज्ञानात्मभूतत्वात्प्रबोधके सति सकलवासनाप्रबोधादनन्तप्रतिभास
विज्ञानोदयः स्यादिति महदसमञ्जसं । बाह्याभ्युपगमे तु न दोषः । य एव सन्निहितोऽर्थः
स एव दृश्यते । न । असन्निहितस्यापि दर्शनाभ्युपगमात् । तथा हि ।

विप्रमोषः स्मृतेरिष्टः कैश्चित्तु विपरीतचित् । असत्‌ख्यातिः परैरन्यैः सर्व्वं सर्व्वत्र विद्यते ।। ६४७ ।।

येषान्तावत्सर्व्वं सर्वत्र विद्यते तेषां समान एव दोषः । असत्ख्यातावपि सकलास
प्रतिभासनप्रसङ्ग । यस्य तु स्मृतिविप्रमोषः तस्याप्यनेकदर्शनं पूर्व्वं कस्मान्नानेकदर्शनं समान
मेतद्विज्ञानवादेपीति न दोषवान् । विज्ञानं वा पूर्व्ववृत्तं स्मर्येतार्थो वेति को भेदः । विप
रीतख्यातिरपि पूर्व्वदृष्टे प्रवर्त्ततामन्यथा वा किन्न सर्व्वत्रेति समानः पर्यनुयोगः पुनरपि तत्र स
एव वासनानियमो वक्तव्य इति समानं । न च समनन्तरविज्ञानात्मभूता वासनेष्यते । पटुप्रकाशः
पूर्व्वात्मप्रतिभासो हि वासना (।)

तथाभूतात्मसम्वित्तिजनकत्वाद्विना कुतः ।

प्रबोधक य सद्भावे धियां जन्म यथायथं । नीलपीतादिनिर्भा (स) सङ्गतानामितीक्ष्यते ।। ६४८ ।।

इदिदमेवात्रेक्ष्यते पूर्व्वविज्ञानमभिमतेतरप्रतिभासं पाटवादिप्रकाराधिष्टितं ततस्दत
नन्तरं कालान्त/?/रे वा तथा भूतम्विज्ञानमुदयवत् । जाग्रद्दृष्टं स्वप्नप्रतिभासं जनयीत यथा । व्यव
हितात्कथमुत्पत्तिरिति चेत् । दृष्टाःस्मृतिः स्वप्नविज्ञानादयो व्यवहितादपीति न दृष्टे926 ऽनिष्टन्नाम ।

ननु नासौ जन(य)त्यथ प्रणिधानादेस्तदेव प्रतिभाति । न । अतीतस्य प्रतिभासा
भावात् । अतीतमपि प्रतिभासमानं दृष्टमिति चेत् । असत्प्रतिभासत इति कोर्थः । तदाकारा
प्रतीतिरित्ययमेव । तस्मादनुभवात्स्मृतिरुदयमासादयन्ती तस्यैव शक्तिविशेषमावेदयति । स

357

शक्तिविशषो वा स नेति व्यपदेश्यः । अयञ्च कार्यकारणभाव एवम्भूत उपलब्ध एव । ततो न
वासनास्तित्वे पूर्व्वविज्ञानभेदे च प्रमाणाभावोऽनादिवासनाभावस्य पदार्थानादितावदेव सिद्धेः ।

कार्यकारणसन्तानो नादिर्व्वाह्यो यथोदितः । तथाविज्ञानसन्तानो नादिः किमिति नेष्यते ।। ६४९ ।।

वासनाभेदे किन्निमित्तमिति चेत् । तदसत् ।

अस्त्येव वासनाभेदस्तन्निमित्तस्य सम्भवात् । ज्ञानभेदो निमित्तं हि तस्य भेदस्ततः पुनः ।। ६५० ।।

पूर्व्वप्रवृत्तज्ञानभेद एव वासनाभेदनिबन्धनं, ज्ञानभेदोपि तत एव वासनाभेदादिति को
दोषः । नन्वेवमितरेतराश्रयणदोषस्तदसद्यतः ।

न सैव वासना तेन जन्या तस्यैव कारणं । ज्ञानस्य येन दोषोयमितरेतरसंश्रयः ।। ६५१ ।।

अपि त्वन्या वासनान्यविज्ञानभेदहेतुरन्यः प्रत्ययोन्यवासनाहेतुः पूर्व्ववासनाभेदजनितः ।
ततो नेतरेतराश्रयदोषः । अन्यथार्थदर्शनेपि समानमेतत् । तथा हि ।

अर्थभेदो निमित्तं चेत् तस्य भेदः कथं पुनः । ज्ञानभेदेन भेदे हि प्रापदन्योन्यसंश्रयः ।। ६५२ ।।

न खल्वर्थभेदोप्यनिमित्त एव ज्ञानभेदनिबन्धनन्तस्यायोगात् । ज्ञानभेदो निमित्त
मितीतरेतराश्रयदोषः । अर्थभेद एवार्थभेदस्य निमित्तमिति सुतरामसङ्गतं । अथान्योर्थ
भेदोन्यस्यार्थ (भे) दस्य निबन्धनमिति सोप्यन्यस्येति वासनायामपि समानमेतत् ।

नन्वर्थभेदः प्रतिभासमानो भिन्न (? न) त्ति विज्ञानमिति युक्तमेतत् । वासना कु कथमिति
कः परिहारः । यदि वासनापि प्रतिभासतेर्थवदर्थ एव सेति नाममात्रकमेव भिद्यते । तत्र वासना
मात्रग्राहके व्याप्रियमाणा ग्राहकभेदमेव जनयेत् । न तु ग्राह्यस्य । तथा ह्यनुभवादुत्पन्ना
वासना स्मृतिमात्रमेव जनयन्ती दृश्यते । अत्र परिहारः ।

पूर्व्वविज्ञानमेवात्र वासनेत्युदितं पुरा । तत्तदाकारविज्ञानं जनयदभेदकं न किं ।। ६५३ ।।
यथा हि शृङ्खलाबन्धः स्त्यनितां गतिमादवत् । अभावेप्यात्मनो दृष्टस्तद्रूपगतिकारणम् ।। ६५४ ।।
वासनाभेदतो भेदो ग्राह्याकारेपि दृश्यते । अभावेपि पदार्थानां कामशोकभयादिषु ।। ६५५ ।।

अथ तत्रापि देशकालान्यथात्मकं बाह्यमेवालम्वनं सर्वविज्ञानानां स लम्बनत्त्वात् ।
यद्यपि तदा तत्र न प्राप्यते तदैव तत्रैव माभूदन्यदान्यत्र तु नास्तीति कमित्र प्रमाणं । तथा हि
घटो यत्र यदा नोपलभ्यते तदा तत्र नास्ति न तु सर्व्वत्र । अत्रोच्यते ।

इहोपलभ्यमानस्य कथं देशादिनान्यता । नीलादित्वेन दृश्यस्य किमन्याकारतास्ति वः ।। ६५६ ।।

यद्यन्यदेशोप्यन्यदेशतयोपलभ्यते नीलाकारोपि तथेति समानमेतत् । अन्याकारे
प्रमाणाभावादन्यथा नेति परिहारेन्यदेशोन्यथेति समा/?/नः परिहारः । आकारे नास्ति बाधनं
देशे तु बाधा तेन स एव देशयोगी नास्ति न त्वाकारः । तत्र तर्हि निरालम्बनं ततः सर्व्वं सालम्बन
मित्यसिद्धं ।

ननु सालम्बनत्वं तत्रापि यतः ।

देशाधेयातिरेकेण न योगः कश्चिदीक्ष्यते । तयोरालम्बनत्वे च ज्ञानानालम्बता कथं ।। ६५७ ।।

देशतदाधेयाकार एव तत्र प्रतिभाति तयोश्च सत्त्वे किमनालम्बनं रूपं । नहि योगोऽ
परस्तयोरिति सालम्बनमेव सकलम्विज्ञानमिति ।

358
यदि योगेपि सालम्बं कथं प्राप्तिस्तथैव न । अप्राप्तावपि सालम्बमिति स्यादसमञ्जसं ।। ६५८ ।।

यदि नास्ति प्राप्तिस्तथापि सालम्बनम्विपरीतख्यातिरपि तर्हि नास्त्येवेति अभ्युपगम
विरोधः । अपि च विपरीतख्यातिस्तथा सर्व्वमेव भवतु किमन्यथा कल्पनयेत्यादर्शितमेवैतदिति
नोच्यते पुनः । बाधकप्रत्ययाभावान्नैवमिति चेत् । बाधकप्रत्ययाभावोपि विपरीतख्यातिरेवेति
न सत्त्या बाधकता । यत्र च कालान्यता तत्र वासनाया एव व्यापारः प्रतीयते नार्थस्य, पूर्व्वानु
भवादेव तदाकारता नाविद्यमानार्थाकारप्रतिभासनम् । अथ क्षणिकम्विज्ञानं कथं वास्यवासक
भावस्तत्र ।

अनुत्पन्नं न वास्येत अतीतोपि न वासकः ।

सहितयोरपि परस्परमसम्बन्धान्न वास्यवासकभावः । तदसत् । कार्यकारणभावविशेष
एव वास्यवासकभाव इति प्रतिपादनात् । क्षणिकानामेव च स विद्यते न नित्यानामिति क्षणिक
त्त्वादिति विपरीतसाधनमेतत् । ततश्च ।

स्मृतौ ग्राहकभेदोन्यो न ग्राह्याकारवर्ज्जितः । अर्थस्तत्र न सत्त्वेन तत्र सन्निहितः पुरः ।। ६५९ ।।
क्षणिकेषु च चित्तेषु विनाशे च निरन्वये । वास्यवासकयोरर्थो न नित्यत्त्वे तु कल्प्यते ।। ६६० ।।
पूर्व्वक्षणाद्भवन्नेव विशिष्टो जायते क्षणः । ततः कालान्तरे तस्मादन्यत्कार्यं विजायते ।। ६६१ ।।

वास्यवासकभावोयं नापरं कार्यकारणात् ।।

विनश्यता हि वास्येत पूर्व्वेणोत्तरमुद्भवत् । अवस्थिता न वास्यन्ते भावा भावैरवस्थितेः ।। ६६२ ।।
नित्यस्य ह्यविकारत्त्वात्कार्यकारणता कुतः । अवस्थितो न पूर्व्वस्माद्वासनासङ्गमर्हति ।। ६६३ ।।
पूर्व्ववद्वासना तस्य न स्यादेवाविशेषतः । भङ्गुरे पूर्व्वसादृश्याद््भिन्नत्त्वाच्चास्ति वासना ।। ६६४ ।।
तच्चानुरूप्यमस्त्येव क्षणिकत्त्वेपि चेतसां । पूर्व्वज्ञानात्तदोत्पन्नादुत्तरस्योदयो न किं ।। ६६५ ।।
नेष्यते क्षण एवासौ कार्यमुत्पादयेत्परं । तेनोत्पद्य विनष्टत्वेप्यस्त्यारम्भः क्षणं स्थितेः ।। ६६६ ।।
निरन्वयविनाशित्त्वे यानुरूप्यस्य कः/?/ क्षति । न तदीयोस्ति कश्चिच्चेद्धर्म उत्तरबुद्धिषु ।। ६६७ ।।
न समानपरामर्शप्रत्ययादेकरूपता । यदि स्यादानुरूप्याच्च गोधियो वासना यदा ।। ६६८ ।।
हस्तिबुद्धिभंवेत्तत्र वैलक्षण्यान्न वासना । अन्यथा व्यवधानेपि वासना पूर्व्वदाढर्यतः ।। ६६९ ।।
दृढमावर्जकं ज्ञानं व्यवधानेपि कार्यकृत् । गजज्ञानाद् गजज्ञानं पू र्वबाजात्प्रवर्त्तते ।। ६७० ।।
मध्ये विलक्षणं ज्ञानं जायते वासनान्तरात् । न चैकज्ञाननाशेन विनष्टाः सर्व्ववासनाः ।। ६७१ ।।
कुसुमस्य विनाशे हि राग उत्पद्यतां कुतः । बीजाङ्कुरादि नालादेस्तद्विलक्षणतः कथं ।। ६७२ ।।
तेपि तज्जनिता एव क्रमात्कार्यस्य कारकाः । महिष्यादिधियामेतत्कस्मादेव न विद्यते ।। ६७३ ।।
तन्न सर्व्वाभ्य एताभ्यः सर्व्वाकारं समुत्थितं । ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति ।। ६७४ ।।
तदाश्रयविनाशेपि शक्तेः स्यादाश्रयोपरः । न च क्षणिकताहानिः शक्तेरव्यतिरेकतः ।। ६७५ ।।
वासनानां प्रवाहस्तु नैव ज्ञानप्रवाहवत् । इष्यते वासनाविदि्भः शक्तिरूपा हि वासना ।। ६७६ ।।
वासनातश्च तज्ज्ञानं भवेत्तेभ्यश्च वासना । कुर्यातां तुल्यमेवैतेऽन्योन्यन्तु (हि) कदाचन ।। ६७७ ।।
विलक्षणोपि हेतुर्यदस्ति शक्त्यन्तरात्मकः । ततो विलक्षणाद्धेतोः फलमन्यद्विलक्षणं ।। ६७८ ।।
तस्मात्सम्वृतिसत्येषाव्यतिरेकेण कल्पिता । न वस्तुत्वे न तस्याः किं कार्यमन्यदसम्भवि ।। ६७९ ।।
यस्यत्ववस्थितो ज्ञाता ज्ञानाभ्यासश्च सम्मतः । न तस्य वासनाधारो नाप्यसौ वासना मता ।। ६८० ।।
कुसुमे बीजपूरादेः यल्लाक्षाद्युपसिच्यति । तद्रूपस्यैव संक्रान्तिः फले तस्येति वासना ।। ६८१ ।।
359

युक्त्योपपन्नां हि सतीं प्रकल्प्य यद्वासनामर्थनिराक्रियेयं ।

तथापि बाह्याभिनिवेश एष जगद् ग्रहग्रस्तमिदं समस्तं ।। ६८२।।

तस्माद्विभक्त आकारः सकलो वासनाबलात् । बहिरर्थत्वरहितस्ततो ऽनालम्बना मतिः ।। ६८३ ।।

अत एव सर्व्वे प्रत्ययो अनालम्बनाः प्रत्ययत्वात्स्वप्नप्रत्ययविदिति प्रमाणस्य परिशुद्धिः ।
तथा हीदमेवानालम्बनत्त्वं यदात्माकारवेदनत्वं ।

ननु सकलप्रत्ययपक्षीकरणे न दृष्टान्त इति कथमनुमानं । न (।) अर्थापरि
ज्ञानात् (।)

प्रमाणफलमेतद्धि प्रमाणापेक्षसाधने । दृष्टान्तस्य ह्यतः सिद्धेः सर्व्व इत्यादियुक्तिमत् ।। ६८४ ।।

विवादास्पदीभूतजाग्रत्प्रत्यया एव पक्षीकृताः । स्वप्नप्रत्ययानान्तु भावनान्वयव्यतिरेकानु
विधानात्सिद्धमेव निरालम्बनत्वं दृष्टान्तीक्रियते । कथं व्याप्तिसिद्धिः । यज्जातीयो यतः सिद्ध इति
न्यायात् । अन्यथा सकलकार्यकारणभावाभाव एव भवेत्प्रमाणाभावात् । अन्वयव्यतिरेकानु
विधानमेव हेतुफलयोस्तत्त्वमाचक्षते तद्‌विदः ।

आदराभ्याससंसर्गि जाग्रद्दृष्टं हि दृश्यते । स्वप्ने ततो परं ज्ञानं तथैवेति प्रतीयतां ।। ६८५ ।।

ननु न प्रत्ययत्वादनालम्बनत्वं स्वप्नप्रत्ययानामपि तु बाधकसद्भावात् । तथा हि ।

स्वप्नदृष्टं पुनर्जाग्रद्दर्शनेन न दृश्यते । तेनान्यदा तदैवान्यैस्तदनालम्बनं ततः ।। ६८६ ।।
बाधकप्रत्ययस्तस्यालम्बनम्विनिवारयन् । नानालम्बनताज्ञानं करोत्यत्र सुनिश्चितं ।। ६८७ ।।

न चैवं स्वप्नज्ञानवद्वाधको जाग्रत्प्रत्यये । तत्कथं तद्दृष्टान्तः ।

नैतदस्ति । बाधकप्रत्ययो हि कथन्तस्य विषयापहारक्षमः । नहि ज्ञानस्यार्थापनयनं
व्यापारोऽङ्कुरादीनामिव । कस्तर्हि । ज्ञापनव्यापार एव । तथा च नास्य विषयोस्तीति परेण
ज्ञापयितव्यं । अभावञ्चानुपलब्धिरेव ज्ञापयति । एकः प्रतिषेधहेतुरिति वचनात् । विरोध
स्याप्यनुपलब्ध्यैव साधनात् । ततस्तत्प्रमेयशून्यतावबोध एव बाधकेन करणीयः । तदभावश्चान्य
भाव एवेति तदन्यालम्बनतैव बाधकत्वं । तच्च जाग्रत्प्रत्ययेपि927 सकलं सम्भवि ।

ननु जाग्रत्प्रत्ययेनैवं भवति नैतदेवमिति, तत्कथं स बाधितः ।

ननु नैतदेवमेतदेवमिति फलमसम्वेदनेतरयोः ततः कथं फलतो व्यवस्था न सम्वेदनात् ।
फलेन हि व्यवस्था प्रमाणाभावात्सम्वृतिसदेव । सम्वेदनमन्तेरण कथं फलमिति चेत् । अ
सम्वेदने सम्वेदनात् । ततः फलमिवार्थसम्वेदनमपि स्वसम्वेदनमात्रमेव । ततस्तत्रैवार्थसम्वे
दनमिति व्यवस्था । तथा हि ।

अर्थसम्वेदने ज्ञाते तदनन्तरतो भवत् । फलन्तस्य भवेदेवं गमकन्नान्यथा तु तत् ।। ६८८ ।।

तस्मादिदमेव तस्य बाधकं यदन्यरूपग्राहकत्त्वं तच्च सर्व्वप्रत्ययापेक्षया प्रत्ययान्तराणां ।

ननु जाग्रत्प्रत्ययार्थः सम्वादी तत्कथन्तस्यान्येनाग्रहणं । स्वप्नप्रत्ययानामपि तत्स्वप्न
दर्शिना तदन्यस्वप्नप्रत्ययग्रहणादविसम्वादनमेव । तत्कथं बाध्यत्वं । जाग्रत्प्रत्ययेन बाध्यत्वादिति 360 चेत् । जाग्रत्प्रत्ययोपि तेनेपि समानमेतत् । निद्रोपहते मनसि तस्य भाव इति न बाधकत्त्वं ।
यथोपहते चक्षुषि न केशादिदर्शनं तद्विपर्ययस्य बाधकमिति । तदसत् ।

सिद्धेनोपहतं चेतः केनेदं संप्रतीयतां । न तावत्तदवस्थायामिदमेवं प्रतीयते ।। ६८९ ।।

स्वपन् प्रत्येति व्युत्थितो वा । ननु स्वप्नेपि विद्यते सर्व्वमेतत् । तथा हि (।)

स्वपन्तमात्मानं प्रत्येति प्रबुद्धं पुनरेति च । स्वप्नेपि तत्केन कृतो विभागो भवतोदितः ।। ६९० ।।

स्वप्नेपि प्रबोधादिव्यवहारो दृश्यते । ततोऽयमपि प्रबोधादिव्यवहारोऽलक्षणत्वेनेक्षणात्
कथं संप्रत्ययकृत् । अथ संप्रत्ययसम्वेदनादेवं स्वप्नेप्येवमिति समानमेतत् । अथ स्वप्नेपि स्वप्न
एष इति कदाचित्संप्रत्ययस्ततो नैवं । सत्त्यमेतदिति किं न संप्रत्ययोस्ति । ततः सत्त्यता भवतु ।
अत एवानवस्थितः स्वप्न इति चेत् । अयमप्यनवस्थित एवैश्वर्यादीनामनवस्थानादेव । सहेतु
कमिहानवस्थानं अहेतुकं स्वप्न इति चेत् । तथा हि । झटित्येव स्वप्नदृष्टं नश्यति । वासना
दाढर्यमेतन्नत्वर्थ एवं साधयितुं शक्यः । तथा हि ।

प्रियादिदृष्टिरत्रापि झटित्येव विनश्यति । तत्स्वप्नेपि भवत्येव दिनं संततदर्शनं ।। ६९१ ।।

ननु स्वप्नास्वप्नप्रत्यययोर्व्विवेकसाधनं ज्ञानं प्रमाणमप्रमाणम्वेति द्वयी कल्पना ।
यदि प्रमाणं तदा सालम्बनं तदिति तेनानैकान्तः । अथ न प्रमाणन्तदा न पक्षदृष्टान्तप्रसिद्धिरिति
कथमनुमानावतारः । कथं निरालम्बनत्वप्रसिद्धिः ।

तदसत् । प्रमाणमेव तदिति न दोषः । न च सालम्बनं सकलं प्रमाणमनुमानस्य
सालम्बनत्वाभावात् । अनालम्बनत्वेपीह व्यवहाराविसम्वादापेक्षया प्रमाणत्वात् । भेदश्च
यद्यपि तयोः सिद्धः स्वप्नेतरविज्ञानयोस्तथापि न तत्साधकं प्रमाण सालम्बनमिति न सर्व्वसा
लम्बनत्वप्रसङ्गः ।

लौकिकप्रतिपत्त्यैव ततो भेदे प्रसाधिते । साध्यदृष्टान्तचिन्तेयं प्रतिभाससमाश्रयात् ।। ६९२ ।।

लोके तावदिदं स्वप्नविज्ञानमिदं जाग्रत इति विभागः प्रतीयते928 । ततस्तदाश्रयेण
साध्यसाधनव्यवहारः । ततः पश्चाद्यदि परामृशतो न किञ्चिदत्र विभागकरणमुपलक्ष्यत
इति साधयत्यभेदं तथा सति कः परस्य दोषः । यदि च दोष एवं स्यात् वेदप्रामाण्यसाधनेपि
दोषो भवेत् । तथा हि ।

वेदो धर्मो कथन्तस्य लौकिकाद्वचनाद्विवेक इति पर्यनुयुक्तेन किम्वक्तव्यं । यद्यप्रमाणं
लौकिकवचनसदृशमिति कथन्तस्य विवेकेन धर्मित्वं । अथ प्रमाणत्वं प्रसाध्य विवेकं कथयेत्
तथा सति किं साधनोपन्यासस्य फलं । तत एव तच्चोद्यं कथं परिहर्त्तव्यं । नत्वन्यत एव
स्वरवर्ण्णानुपूर्व्वीविशेषाद्वेदस्य प्रबन्धभेदसिद्धिः । नान्येषामपि परस्परस्य तथा भेदसिद्धेः ।
अथास्ति तावदेष प्रबन्धः किमयम्वेद उत नेति विचार्यमाणो यदि प्रमाणं भविष्यति वेद एवान्यथा
नानेन प्रयोजनमिति परित्यक्ष्यामः । एवं तर्हि समानमिदमिति परित्यक्ष्यामः । एवन्तर्हि
समानमिदमत्रापि प्रत्ययस्तावदीक्ष्यते ।

स्वप्नप्रसिद्धिरस्मात्किं भिन्ना नो वेति कल्पने । या वा भविष्यति परं तथा द्रक्ष्याम इत्यपि ।। ६९३ ।।
361

यदि पश्चाद्विचार्यमाणं स्वप्नज्ञानमन्यद्वा परस्परं परमार्थतो भिन्नमभिन्नम्वेति भवेत्तथा
ग्रहीष्यामः । तत्र यदि परामृष्यमाणेन भेदे प्रमाणं किमप्यस्तीत्यभेदं प्रतिपत्स्यामहे । ततः
क इवात्र विरोधः । पूर्व्व भेदग्राहकमप्रमाणमिति चेत् । भवतु को दोषः । पक्षादिप्रविभागो
न भवेदिति चेत् । मा भूदिदानीं किं नो विघटितं । इदमेव यदप्रमाणत्त्वमभेदसाधनस्य ।
एवं तर्हि ।

यत्साधारणधर्मित्वप्रतिपत्तिस्तथा सति । प्रमाणन्न भवेदन्यप्येवं द्वारकं परं ।। ६९४ ।।

वेदलक्षणप्रमाणाप्रमाणसाधारणधर्मिप्रत्िपत्तिरप्रमाणमेव स्यात्पश्चात्प्रमाणत्वसाधनेन
निवर्त्तनात् । ततो धर्मिसाधनस्याप्रमाणत्त्वात्तद्‪द्वारेण प्रामाण्यसाधनमप्यप्रमाणं भवेदिति न
वेदप्रामाण्यप्रसिद्धिः । ततः सकल एव साध्यसाधनव्यवहारो विशीर्येत । अथ धर्मिणः साधारणस्य
ग्रहणेपि न तद्‪ग्राहकमप्रमाणं प्रामाण्यस्याधिकस्य तत्रैव साधनात् । यदि तत्प्रमेयोन्माननं
परेण स्यात् स्यादप्रामाण्यं ।

तदप्यसत् । यतः ।

प्रमाणत्वं हि तस्यैव स्वरूपं धर्मिणो यदा । तस्य तत्परिहारेण ग्रहणेपि कथं प्रमा ।। ६९५ ।।

प्रमाणस्वरूपं हि वेदवचनं तस्य तद्विपर्ययग्रहणे तद्विपर्ययप्रमेयोन्मूलने परेण कृते कथम
प्रमाणता न भवेत् । नहि स्वरूपेणैव कस्यचिदाधिक्यं । अगृहीते तदाधिक्यव्यवहार इति
चेत् । अग्रहणे कथं प्रमाणता(।) कस्यचिद्रूपस्य ग्रहणादिति चेत् । न । भेदाभावात् ।
व्यतिरिक्तधर्माभ्युपगमान्नैवञ्चेत् । न । अनवस्थाप्रसङ्गात् ।

व्यतिरिक्तो यदा धर्मस् तेन योगः परो भवेत् । तेन योगः पुनस्तेनेत्यनन्ती धर्मविप्लवः ।। ६९६ ।।
तद्युक्तत्त्वं तयोरेव स्वरूपं यदि सम्मतं । प्रमाणत्वं तथा प्राप्तमस्माकं का विरोधिता ।। ६९७ ।।
भेदेनापि गृहीतस्य समारोपस्य भावतः । परामर्शादभेदस्य प्रतिपत्तिः किमप्रमा ।। ६९८ ।।

अथापि स्याद् भवतोऽभेदं प्रतियतः कथं विवेकेन पक्षीकरणादिविभागेन साधनप्रवर्त्तनं ।

तदसत् । परप्रत्ययापेक्षयेदमनुवादमात्रकं स्वयमपि पूर्व्वाभ्यासेन साधनप्रयोग इति
न किञ्चिदवद्यं । ममाप्येवमासीदिति परः प्रतिपाद्यते ।

स्वप्नादिबाधधीवच्चेत् सकलः प्रत्ययो न किं । सालम्बनः प्रसाध्येत प्रत्ययत्वात्परैरपि ।। ६९९ ।।

यथा निरालम्बनाः सर्व्वप्रत्ययाः प्रत्ययत्त्वात्स्वप्नप्रत्ययवदिति तथा सालम्बनाः सर्व्व
प्रत्ययाः स्वप्नबाधकप्रत्ययवदेव । अत्रोच्यते ।

प्रत्ययत्वाविशेषेण स्वप्नप्रत्ययतः परः । प्रत्ययोन्यो निरालम्ब इति किं प्रतिसाधनं ।। ७०० ।।

यथा स्वप्नप्रत्यत्त्वाविशेषाद्वाधकप्रमाणपरिनिश्चितनिरालम्बनत्वप्रतिबन्धादनालम्बन
त्वसाधनं तथा यदि सालम्बनत्वमपि ततो विरुद्धाव्यभिचारीति नैकस्यापि प्रसिद्धिरिति तदेव
निरालम्बनत्वं । न च सालम्बनत्वे साध्ये प्रतिबन्धः । अनुपलब्ध्या तुद्वयोरपि निरालम्बनत्वं ।
तथा हि ।

यथास्वरूपविन्मात्रादपरस्याप्रवेदनं । स्वप्नादिप्रत्यये जाग्रत्प्रत्ययेपि तथेष्यते ।। ७०१ ।।

नहि जाग्रत्प्रतिभाससम्विदितमपि परेण वेद्यते । प्रत्ययान्तरस्यैव तथा वेदनादित्युक्त
362 मेव तत् । तत्राप्यालम्बनमस्त्येवेति चेत् । तस्मादर्थक्रिया न भवति । यदि नामार्थक्रियाकारि
न भवति प्रतीयमानं त्वस्त्येव । न ह्येकस्याभावेऽपरं न भवति । नहि धूमाभावादग्निर्न भवति ।
सर्व्वादा929 ऽभावात्किंशुकराशिवन्न भवत्येवेति चेत् । एवन्तर्हि तदर्थक्रियाकारि न भवति किंशुक
राशिवत् । स्वेनरूपेणास्तु । किंशुकराशिः स्वेन रूपेणार्थक्रियाकारी भवतु न स्वप्नोपलब्धः ।
नहि स्वप्नभुक्तं पुष्टिकृत् । अथ रूपमेव तत्तथाविधं तेन नेति चेत् । न । स्वरूपसम्वेदना
द्विज्ञानमेव तदिति सूक्तं । अथ स्वरूपत्वे को विरोधः । वासनाबलभावित्वं स्वप्रतीतत्त्वञ्च ।
अर्थ एव तादृशो भविष्यतीति चेत् । नामकरणमात्रकमेतत् । भवतोपि किन्नेति चेत् ।
न(।) अनन्तकारणाधीनस्य प्रतिपादनात् । तेन ज्ञानमेव तत् । तथा च ।

तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ ।।

नहि तदर्थान्तरं तस्या एव भवति रूपं । ततोऽप्रवेशे न वेदनं । प्रवेशे नार्थान्तरं ।
ननु यदि बुद्धिस्वरूपमेव तत्तस्य स्वसम्विदितेन नीलादिना भवितव्यं । कथं परेणापि वेदनं(।)
न । भ्रान्तिरेषा तैमिरिकद्वयद्विचन्द्रदर्शनवत् । तत्राप्यर्थ एवेति चेत् । तथा हि ।

अभ्रान्तः प्रत्ययो यद्वदर्थानां वेदको मतः ।
साधारणानां भ्रान्तोपि तथार्थस्यैव वेदकः ।। ७०२ ।।

यथा साधारणत्त्वेन प्रतीयमानो भ्रान्ताभिमतप्रत्ययार्थस्तथेतरोपि । तदयुक्तं ।

साधारणत्वमर्थस्य न प्रत्यक्षतयेक्ष्यते ।
प्रत्यक्षासम्भवादत्र नानुमानं न वेदनं ।। ७०३ ।।

न तावत्प्रत्यक्षेण परवेदनसाधारणता प्रतीयते । अन्यथा लिङ्गमन्तरेणैव सकलपर
प्रतीतिवेदनप्रसङ्गः । अथ परेणापि प्रतीयमानं तादृशमेव तत् । ततः सैव तस्य साधारणतेति
चेत् । यथा मयैतत्प्रतीयते तथा परेणापि योग्यदेशस्थितेन प्रतीयत इति हि लोकप्रतीतिः ।
न । तैमिरिककेशादिषु स्वप्नदृष्टेषु चैवं प्रतीतेरभावात् । तत्रापि भवत्येवेति चेत् । इदमेव रूपं
स्वप्नावस्थायामपि ततस्तत्समानत्वादसावपि बाह्य एव । न । भावनादावात्मप्रतिभास
एव तादृशो न तु परः तत्रास्तीति लोकस्य प्रतीतिः एवं एतदवस्थापीति समानं । परमार्थतस्तु
स्वरूपप्रतिभासमात्रकभुभयत्रापीति न सालम्बनता ।

ननु स्वप्ने व्याकुलत्त्वमयत्ननिर्व्वर्त्त्य सकलं तत् कथं समानता प्रत्ययानां । तदसत् ।

नीलादिप्रतिभासेभ्यः कान्या व्याकुलतेक्ष्यते ।
साप्यभ्यासबलायाता ततः कथमियं स्थितिः ।। ७०४ ।।

नीलपीतादिप्रतिभास एव केवलः कुतोऽपरा तत्र व्याकुलताऽयत्नोपनतिश्च । स्वप्ने
प्रयत्नमन्तरेण भावो वृक्षादिस्थाने झटित्येव तद्रागादेरिति चेत् । ननु प्रयत्नमन्तरेण भाव
इति केन परिगृहीतं, कार्यभाविना प्रत्ययेन कार्यमेव कारणभाविना तु कारणं । इदमतो भवतीति
क्रमः । इदमन्तरेणेदमित्यपि क्रम इत्यध्यवसायः । न प्रत्यक्षमत्र नानुमानं । आकुलमेत
दित्यपि न केनचिद्वेद्यते । भावनाविशेषाच्च निराकुलतादिभावः स्वप्नेपि । तथा जाग्रद
वस्थायामपि । अरिष्टादावाकुलतादर्शनं । अरिष्टदोषादेव चेत् । न । अरिष्टानरिष्ट
योर्व्विशेषाभावात् । तत्राप्यपरेण विवेककारिणा भवितव्यं । तत्राप्यपरेणेति नैवं भूतोस्ति
यतो विवेकः । स्वयमेव विवेक इति चेत् । न । स्वरूपनिष्ठितामात्रत्वादस्य । नहि
स्वरूपनिष्ठस्य परसम्वेदनं । स्वरूपमात्रवेदनं त्वाकुलानाकुलसमानं । दीर्घकालानुबन्धि-

363

व्यभिचाररहितमनाकुलमिति चेत् । न । प्रत्यक्षेण दीर्घकालानुबन्धाग्रहणात् । ततः परो
विकल्प एवावशिष्यते । तेन च नार्थप्रतिपत्तिः । ततोपि न व्यवस्था तस्यापि स्वरूपे प्रत्यक्ष
त्वात् । वस्त्वनुभवेन जनितो विकल्पः संवादीति चेत् । न । प्रतिबन्धाग्रहणात् । यदा
वस्त्वनुभवो न तदा विकल्पः, स यदा न तदानुभव इति कुतोऽत्र सत्त्यार्थग्रहणं । विकल्पेनेति
चेत् । अयमपि न प्रमाणम् । तस्यापि प्रतिबन्धसापेक्षत्त्वादपरो विकल्प इत्यनवस्था ।
एवन्तर्हि वासनयापि कथं सम्बन्धग्रहणं । न । परमार्थतस्तयापीति पक्ष एवायमिति प्रति
पादितं ।

कार्यकारणभावाख्या वासनाभ्युपगम्यते ।
बाह्यार्थवादिभिर्बाह्यं न तु विज्ञानवादिभिः ।। ७०५ ।।

वासनाजन्यतामन्तरेणापि विज्ञानमात्रकमेतदिति प्रतिपादितमेवेति न दोषः । ननु
वासनाभाविता न जाग्रद्विज्ञाने प्रतीयते । स्वप्नावस्थायां न स्वप्नप्रति (भा)सनमिति समान
मेतत् । उत्थितस्य भवति जाग्रदवस्थायां तु न तथेति चेत् । तदपि यत् किञ्चित् । तथाहि ।

उक्तमेतत्प्रबोधो हि स्वप्नेपि प्रतिवेदितः ।
ततः प्रबोधावस्था या न स्वप्नाद्‪भिन्न लक्षणा ।। ७०६ ।।

प्रबुद्धोहमिति स्वप्नेपि भवत्येव । ततः कथं प्रबोधप्रतिभासतो व्यवस्था । अन्येन
प्रबोधेन सापि स्वप्नत्त्वमापादितेति चेत् । इयन् तु न केनचिदपीति । अतएव पदार्थ
व्यवस्था यद्यपि न तथा तथापि तत्समानत्वान्न प्रत्ययस्थानं । अनुमानकालभाविनो हि धूमस्य
नाग्निपूर्वकत्त्वसिद्धेरनुमानकत्वमपि तु तल्लणक्षत्त्वेन । एवमस्या अपि जाग्रदवस्थायास्तल्लक्षण
त्त्वादेव तद्रूपता ।

ननु न तत्र भावनाव्यापार उपलक्ष्यते जाग्रदवस्थायां कथं स्वप्नतुल्यता । तदाह ।

भावनाव्यधानेपि भवत्येवावभासनं ।
बालदृष्टं यथा वृद्धावस्थायामुपलभ्यते ।। ७०७ ।।
जन्मान्तरादिदृष्टस्य मरणस्वापसम्भवे ।
जन्मान्तरोदयः स्वप्न इति किं न प्रतीयते ।। ७०८ ।।

यथा रजनीस्वाप तथा मरणरजन्यामपि ।

दिने दिने दर्शनमत्र चित्रं स्वापप्रबोधात् न तथा किमेतत् ।
पूर्व्वस्य यद्‪दर्शनमेष हेतुः पदार्थदृष्टेरिति साम्यमेव ।। ७०९ ।।

पूर्व्वदिनदृष्टं यथा रजनीस्वप्नदर्शनस्य हेतुस्तथा पूर्व्वपूर्व्वदिनदृष्टमपररजनीव्यवहित
दिनस्वप्नदर्शनमेवेति महतीयं स्वप्नपरंपरा । अपूर्व्वस्यापि दर्शनमिति चेत्, स्वप्नाभिमते
प्येवमेवेति सर्व्वं समानं ।

गमनागमनं स्वप्ने यथान्यान्योपलम्भकृत् ।
गमनागमनं जाग्रत्स्वप्नेपि न किमिष्यते ।। ७१० ।।

व्यवहाराभावादिति चेत् अनेनैवानुमानेन विदुषां व्यवहार इति किन्न पर्याप्तं । यथा
कार्यकारणव्यवहार आनुमानिकः तथायमपीति समानं । क्षणिकत्त्वे च न व्यवहार इति किं
तेन न भवितव्यं । तदपि नेति चेत् । एतत्प्रतिपादयिष्यामः ।

ननु निद्रोपघातात्स्वप्नदर्शनमसत्त्यार्थंमिति युक्तं । ननु परिस्फुरन्नेवासौ कथं स्वप्नः ।
प्रारम्भे तु स्वप्नत्वं नोपयुज्यते । तदेव तस्य प्रतिभासस्य कारणञ्चेत् । न । भावना
विशेषात्प्रतिभासविशेषदृष्टेः । समानेपि स्वापप्रारम्भे कश्चित्कथञ्चित् स्वप्नदर्शी भवति ।
तदभावेऽभावादिति चेत् । भवतु निमित्तमात्रत्वं तथापि न तस्य प्रतिभासविशेषकारणत्त्वं ।

364

अयमपि स्वापानन्तरमेव प्रतिभासः ततः समानता स्वप्नेन प्रबोधे सतीति चेत् । न ।
प्रतिभासव्यतिरेकेण प्रबोधाभावात् । प्रबुद्ध इति प्रत्ययात् प्रबोध इति चेत् । न । स्वप्नेपि
स प्रत्यय इत्युक्तं । तस्मान्न स्वप्नेतरयोर्विशेषः । ततो यो विशेषदर्शनात् सालम्बननिरा
लम्बनत्वभेदमाह तस्य तद्विशिष्टत्त्वमसिद्धमिति दूषणं । नत्विदानीं सालम्बनत्त्वसिद्धिः प्राप्ता
जाग्रत्प्रत्ययाविशेषादिति विपर्ययसिद्धिः । न । विपरीतादिख्यातेरभावप्रसङ्गात् जाग्रत्प्रत्यय
वदेव तथा चाभ्युपगमबाधः । किञ्च ।

बाधकप्रत्ययो व्यक्तः प्रत्ययत्त्वादिहेतुना ।
विधातुं नान्यथा शक्यो नामुना व्यक्तबाधिका ।। ७११ ।।

बाधकप्रत्ययो ह्यनुपलब्धिलक्षणो विपर्ययोपलब्धिरूपः प्रत्यक्षरूपो नानुमानेन प्रत्यय
त्वादिना बाधितुं शक्यः । यदि धूमादग्न्यनुमाने पश्चाद्विपर्यये प्रत्यक्षवृत्तिः किमनुमानं प्रमाणं ।

184b

ननु प्रत्यक्षवृत्तावपि यदि द्विचन्द्रविषयेनुमानं बाधकं किन्तत्प्रत्यक्षमिति समानो न्यायः ।
न । तत्रापि प्रत्यक्षस्यैव बाधकत्वं । पूर्व्वमेकस्य दर्शनात् । अन्यथानुमानमेव न स्यात् ।

न तु प्रत्यक्षमनुमानपूर्व्वकं । यदि तु स्यात् । अनुमानमेव तत्रापि बाधकमिति
भवेदनुमानबाधायां प्रत्यक्षमप्रमाणम् । तथा च परस्परव्याघातान्न किञ्चिद् भवेत् । ततः
प्रत्यक्षमूलमनुमा
नं । न त्वनुमानमूलं प्रत्यक्षं ।

नन्वनुमानमूलमेव प्रत्यक्षमिति व्यवस्थितं । तथा

नानुमानं विनाध्यक्षं प्रथमं संप्रवर्तकं ।
अनुमानेन सम्बन्धग्रहणे स्यात्प्रवर्तनं ।। ७१२ ।।

अनुमानेन हि सम्बन्धग्रहणेऽर्थक्रियया प्रत्यक्षस्य प्रवर्त्तकत्त्वं ततोऽनुमानात्प्रत्यक्षं प्रमाणं
प्रत्यक्षादनुमानमिति समानं परस्परबाधनं । यद्येवमितरेतराश्रयणदोष एव स्यान्न तु
प्रामाण्य
मेकस्यापि । उक्तमेतत्स्वरूपस्य स्वतो गतिः । प्रामाण्यं व्यवहारेण व्यतिरिक्ते प्रवृत्तिविषये
र्थात्मनि । तच्चानादिव्यवहारान्धपरम्परया । तच्च सम्वादात्प्रमाणं सम्बादश्च भाविनि ।
भाविनि च सम्वेदनमेव । ततः कथमर्थविषयं प्रामाण्यं ।। अनुमानमपि स्वरूपविषये प्रत्यक्ष
मन्तरेणैव चेत् । न । तत्र तस्य प्रत्यक्ष
तैवेति । ततोनुमानेन प्रत्यक्षं व्यतिरिक्ते930 बाध्यते ।
तस्या931नुमानविषयत्वात् । परोक्षत्वात्तस्य । कथं परोक्षे932 प्रत्यक्षं प्रमाणमिति चेत् । प्रवर्त्तक
त्त्वेन । न ग्रहणेन । ग्रहणं चेदप्रवर्त्तकमेव भवेत् । तथा हि ।

यद्यसावेव पूर्वस्मिन् प्रत्यक्षे प्रतिभासिनः ।
प्रवर्तेत किमर्थं स प्राप्त एव स्वरूपतः ।। ७१३ ।।
अर्थक्रियार्थिनो वृत्तिर्न सा तर्हि प्रकाशिता ।
प्रकाशमानतायां हि पुनः स्यादप्रवर्तनम् ।। ७१४ ।।
प्रकाशितार्थक्रियोपि प्राप्त्यर्थं संप्रवर्त्तते ।
प्राप्तेरप्रतिभासत्वात्वृत्तिरप्रतिभासिते ।। ७१५ ।।

तत्र चानुमाने च न(?) बाध्यते यदि सुतरामस्मत्समीहितसिद्धिः । तथा हि ।
व्यतिरिक्तेऽर्थेऽनुमानेन प्रवर्त्यते प्रत्यक्षं । स च परोक्षत्वादनुमानस्य विषय इति तत्रैवानुमानेन
बाधा प्रत्यक्षस्य । तत्र चानुमानबाधायामनुमानमेवानुमानेन बाधितं भवेत् । तच्चान्ध
परम्परायातमनुमानं । तस्यानुमानेन बाधने प्रत्यक्षेण वा न कदाचित्क्षतिः । प्रत्यक्षतत्स
मुल्थापितानुमानयोस्तु नानुमानेन बाधा न प्रत्यक्षेणेति न्याय एषः ।


365

ननु प्रत्यक्षमपि द्विचन्द्रविषयमेकचन्द्रावभासिना तदुत्तरकालभाविनान्येन वा बाध्यत
एव । तस्याप्रत्यक्षत्वादिति चेत् । कस्माद्वाध्यमानत्वात् । परस्परपरिहारेणावस्थितयोः
कथं बाध्यबाधकभावः । एवमेतदिति चेत् । द्वयोरपि बाध्यबाधकभाव इति । न प्रापक
त्वादेकस्य बाधकत्वमेव । तथा ह्येकत्राभिप्रेतप्रापकत्वं नापरस्य । एवन्तर्हि तदेव पारम्पर्ये
णानुमानस्य बाध्यत्वमायातं । ततो निरालम्बनाः सर्व्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोर्थः(।)
स्वरूपालम्बनाः । तत्र च प्रत्यक्षन्तत्समुत्थापितं चानुमानमनुपलब्धिरूपं । तच्च नानुमानेनान्ये
न वा बाधितुं शक्यम् । व्यतिरिक्तालम्बनसाधनं तु न प्रत्यक्षं नापि तदुत्थापितमनुमानमन्ध
परस्परायातत्वात् । तत्र चानुमानं प्रत्यक्षं वा भवति बाधकमित्येकान्त एषः । ततः सर्व्वे
सालम्बना जाग्रत्प्रत्ययवदिति न प्रतिप्रमाणमूलत्वात् । स्वप्नादीनां सालम्बनत्वबाधिका
बुद्धिरनालम्बना । तथा सति तद्‪दृष्टान्तेन कथं सालम्बनत्वसिद्धिः ।

ननु च निरालम्बनत्वं प्रत्ययान्तरगतं तदनया बुद्ध्या साध्यते । तच्च व्यतिरिक्तं ।
ततोन्योपि प्रत्ययो व्यतिरिक्तसाध्यविषय एव प्रत्ययत्वादिति कथमप्रतिप्रमाणम् । यदि नाम
प्रत्यक्षपूर्व्वकत्त्वादस्या933व्यतिरिक्तालम्बनत्वं । तद्विपर्ययबुद्धेस्तु विपर्ययग्रस्तायाः किमायाँत
येन सापि तथेष्यते । न चासौ व्यतिरेकं साधयति, व्यवहारमात्रप्रसाधनात् । अपरं व्यतिरिक्ते
तरालम्बनं सम्वादयति । स च सम्वादस्तदनुभवाभिनिवेशी तत्काल एव । ततो नेदानी
न्त934दत्र प्रतिभाति मयि । अहन्तु स्वाकारपर्यवसितैवेति तदात्मानमनालम्बनमेव प्रतिपादयति
ततो नानया935 सालम्बनया परापि सालम्बना साध्यते ।

(घ)(ग) ग्राह्यग्राहकाकारप्रतिभासव्यवसायः—

ननु यदि तद्रूपं न विषयीकरोति कथमनया तत्साधितम् । तत्र सम्बादादित्युक्तं ।
सम्बादाद्विषयीकृतमिति ज्ञायते । अत एवाह ।

अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते ।। ३३१ ।।
विभक्तलक्षण्ग्राह्यग्राहकाकारविप्लवा ।
तथाकृतव्यवस्थेयं केशादिज्ञानभेदवत् ।। ३३२ ।।
यदा तदा न संचोद्यग्राह्यग्राहकलक्षणा ।

अवेद्य एव वस्तुनि वेदकाकारा केशादौ प्राप्य, न हि तत्र केशादौ प्राप्ये बुद्धिर्वेदिका तस्या
सत्त्वात् । भ्रान्तैस्तु प्राप्य वेदिकेति प्रतीयते । अतश्च प्रतीयते यत्प्रवर्त्तन्ते । तत्रेदानीं प्रवृतानां
प्राप्तिर्नास्ति तत्रानालम्बनत्वं स्फुटमेव । तेनापरमनालम्बनं साध्यते । समानरूपोपलक्षणाद्वि
लक्षणस्यानुपलक्षणात् । सालम्बनत्वन्तु न क्वचिदुपलक्षितं ततः कथं तत्समानत्वात्सर्व्व
सालम्बनत्वप्रसिद्धिः । नहि प्राप्य रूपप्रतिभासि तदुपलक्षितं प्रवृत्तेरेवान्यथा तस्य प्रतिभास
नादप्रवर्त्तनं स्यादित्युक्तं । प्रतिभासितेपि पुनः प्रतिभासनार्थं प्रवर्त्तत इति चेत् । पुनः प्रति
भासमानत्त्वन्तर्हि न प्रतिभासितं । तस्यापि प्रतिभासमानत्वेन प्रवत्ततेत्यनवस्था । पुनः


366

प्रतिभासनञ्च किमर्थं । सुखार्थ ग्रहणार्थम्वेति चेत् । तदर्थं तर्हि प्रवर्त्तते । तच्चाप्रति
भासितमेव । तस्मादप्रतिभासमान एव सर्व्वत्र विषयत्त्वमित्यनालम्बनं सकलं सम्वेदनमिति
कथन्ततो विपर्ययसाधनं । कथनतहर्यविषयीकृते प्रवर्तते ।

तदसत् ।

विषयीकृतेपि हि कथं प्रवर्त्तनमितीरितं । कार्यकारणभावोयमेवमेव व्यवस्थितः ।। ७१६ ।।

स्वसम्वेदनप्रतिपत्तेः प्रतिपत्त्यनन्तरम्भवति स्वहेतुसामर्थ्यादहेतुतो वा । यथा दृष्टं
तथाभ्युपगम्यतामत एवोक्तं (।) निर्व्यापाराः सर्व्वधर्मा इति । अथवा व्यतिरिक्तस्य
पूर्व्वमप्रतिपत्तेः प्राप्यस्य पश्चाच्च भेदप्रमाणाभावात्कथं व्यतिरिक्तप्रतीतिः । एतेनार्थक्रिययापि
सहकार्यकारणभावः प्रत्युक्तः । पूर्व्वापरयोर्भेदाप्रतीतेः समानकालस्य चाजन्यत्वात् स्वरूप
मेवार्थक्रिया सा च स्वप्नेप्यस्तीति समानं । ततो बुद्धिरवेद्यवेदकाकारैव । विभक्तलक्षणौ
ग्राह्यग्राहकाकारौ विप्लव एव ततः । ततः स्वरूपमात्रसम्वेदनापरो विकल्प एव केवल
मुदेति पूर्व्वानुबोधात् । ततस्तथा व्यवस्था न परमार्थस्तत्र तथात्वं । तथा हि केशज्ञाने
सति पूर्व्वानुस्मरणादेवंभूतप्रतिभासानन्तरं प्राप्तिरासीत् । ततो विकल्पो ग्राह्यग्राहकोल्लेखेनो
त्पत्तिमान् । सोपि स्वरूपे ग्राह्यग्राहकरूपरहित एवापरेण तथा व्यवस्थाप्यते । न तस्यापि
स्वतो व्यवस्था ।

सम्वेदनेन बाह्यत्त्वमतोर्थस्य न सिध्यति । सम्वेदनाद्वहिर्भावे स एवन्तु न सिध्यति ।। ७१७ ।।
यदि सम्वेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत्सम्वेद्यते नीलं कथम्बाह्यं तदुच्यते ।। ७१८ ।।
अन्येन वेदने तेन कथम्बाह्यन्तदुच्यते । अन्येन वेदने तेन तेनेत्येषानवस्थितिः ।। ७१९ ।।

अन्येन वेदनञ्चैतत्कुतोऽवसितमात्मना । तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः ।। ७२०।।

नहि कार्यकारणभावः प्रसिध्यतीति निवेदितमेतत् । अनुमानस्य सामान्यविषयत्वस्य
वर्णनात् ।

स एव दृश्यतेन्येनेत्येतदेव न सिध्यति । यथा च रोमहर्षादिकार्यदृष्टेस्तदेकता ।। ७२१ ।।
तथा सुखादेरेकत्वं तत एव प्रसिध्यति । अन्यदेव सुखन्तस्य ग्राह्यमप्यन्यदस्तु तत् ।। ७२२ ।।
देशभेदात्सुखादीनामन्यत्त्वमिति चेन्मतिः । एकत्वे देशभेदोपि कथं सिध्यति तत्वतः ।। ७२३ ।।
तत एव सुखादन्यरोमहर्षादयो न किं । अन्यत्वाद्रोमहर्षादेः सुखस्य यदि भिन्नतां ।। ७२४ ।।
अन्यत्वे ग्राह्यमप्यन्यदिति कस्मान्न गृह्यते । रोमहर्षादयोप्यस्मत्सम्विदन्तर्गता यदि ।। ७२५ ।।
कथन्तेन्योन्यसातादिप्रतिभासगतिः स्फुटा । अस्मत्सुखं विनाप्यस्य रोमहर्षादयो यदि ।। ७२६ ।।
अस्मद्‪ग्राह्यम्विनाप्यस्य रोमहर्षादयो न किं । कालभेदेन तत्रापि यदि भेदः समिष्यते ।। ७२७ ।।
अभिन्नस्य स्वरूपेण कालभित्किङ्करिष्यति । अभेदोप्यस्तु तत्रापि परोक्षो न भवेदसौ ।। ७२८ ।।

सम्वित्तिपरिहारेण स्थितमेकं कथञ्च तत् ।

यदि तदेकमेवाद्याप्यनुवर्त्तते कथमस्य परोक्षता । परस्परसम्वेदनपरिहारेण च व्यवस्थितं
कथमेकमिति चिन्त्यमेवैतत् । यदि च साधारणत्वं प्रतिभाति त्वया दृष्टं न वेति किमिति
प्रश्नः । प्रमाणान्तरसम्वादार्थ । यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति । तदपि
स्वप्रतिभासमेव सूचयति त्वत्प्रतिभासितं मम प्रतिभातीति तेनापि वृथैवं ज्ञातव्यं । तत इतरे-

367

तराश्रयदोषः । यच्च प्रत्यक्षेण न प्रतिपन्नं तत् कथं वचनात्प्रत्येतव्यं । नहि प्रत्यक्षेर्थे परोपदेशो
गरीयान् । किञ्च ।

प्रत्यंक्षस्य प्रमाणत्वे वचनस्य प्रमाणता । वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्यसाध्वदः ।। ७२९ ।।
परस्परसहायत्वं न तैमिरिकयोर्द्वयोः । न प्रत्येकमसामर्थ्ये समुदायस्य तद्यतः ।। ७३० ।।

तस्माच्चक्षुरादिकरणाधीनस्वसम्वेदनत्वाद्विज्ञानमेव नीलादिकमित्यवेद्यवेदकाकारा बुद्धि
रूपा बुद्धिः । तथैव कृतव्यवस्थेयं बुद्धिः । तथैव वेदनादिति परमार्थः । ततः स्वसम्वेदनमेव
फलमर्थ इति च निश्चयस्तत्रैव । नार्थसम्वेदनन्नामास्तीति । ततो यदुक्तं न ग्राह्यस्य
स्वरूपग्राहकत्वे दृष्टान्तः कश्चिदस्तीति । तत्र विपर्ययाभावेऽनुपलब्धिसाधिते कथमदृष्टान्तता
शशविषाणादिरनुपलभ्यमानो दृष्टान्तः प्रत्यक्षप्रसिद्धे वा किं दृष्टान्तेन । ततो यदि शक्ष्यामो
विस्पष्टं स्वाङ्शग्राह्यनिवारणम् । तदा शुद्ध एव ते पक्षो विशेषणरहित एव ग्राह्य
निवारणो भवेत् । तस्य च पक्षस्य प्रत्यक्षेण बाधनं । यतः प्रत्यक्षादेः प्रत्ययवर्गस्य बाह्यमे
वालम्बनमवशिष्यते । स्वाङ्‪शग्राह्यनिवारणात् इति यदुक्तं परेण, तदसङ्‪गतं । प्रत्यक्षस्य
बाह्यविषयत्वाभावस्य प्रतिपादनात् स्वनिश्चयेनैव तेषां जाग्रत्प्रत्ययानां बाधकरहितत्त्वेनाव
लम्बनत्त्वमिति चेत् । न ।

स्वनिश्चितत्त्वमेतेषां स्वाङ्ग एव समीक्ष्यते । निश्चयो बहिरर्थे तु नासावनवभासिते ।। ७३१ ।।

प्रतिभासस्मरणातिरेकेण न निश्चयो नाम । न तावत्प्रतिभासनमर्थस्य प्रतिभासाभावे
च न स्मरणं । ततोऽपरस्य निश्चयस्याभावात् निश्चयो बहिरर्थ इति वचनमात्रकमेवैतदिति
व्यर्थ ।

936 दुष्टज्ञानगृहीतेर्थे प्रतिषेधो हि युज्यते । अगृहीतग्रहग्राहनिषेधः किन्न युक्तिमान् ।। ७३२ ।।

गृहीतमात्रबाधे तु स्वपक्षस्या937 स्त्यसिद्धता । अगृहीतस्य सत्वन्तु भवता कथमुच्यते ।। ७३३ ।।

अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः । अप्रसि938 द्धोभयत्वं वा वाच्यमन्यतरस्य वा ।। ७३४ ।।

भेदेन पूर्व्वग्रहणात्पश्चात्तत्त्वनिरूपने(? णे) । न भेदः परमार्थेन ततः किम्वा विरुध्यते ।। ७३५ ।।
विशेषणविशेष्यत्त्वं व्यावृत्तिपरिकल्पितं । कार्यकृद्धौद्धराद्धान्ते न गतं श्रुतिगोचरं ।। ७३६ ।।

चक्षु939 श्श्रोत्रोश्च यञ्ज्ञानं विशेषणविशेष्ययोः ।

तन्निरालम्बनत्वेन स्ववाग्वाधो न कस्यचित् ।। ७३७ ।।
सम्भवोस्ति प्रभेदस्य विशेषणविशेष्ययोः । ततो निरूपणा किन्न प्रतिज्ञार्थस्य शोभना ।। ७३८ ।।

अपि च ।

निरालम्बनता नाम न किञ्चिद्वस्तु गम्यते । तेनैतद्व्यतिरेकादौ प्रश्नो नैवोपपत्तिमान् ।। ७३९ ।।
यद्यवस्तु कथन्त्वस्माँस्त्वंबोधयितुमिच्छसि । बुध्यसे वा स्वबुध्या त्वं कल्पयित्वाथ साध्यते ।। ७४० ।।

940 368
असतः कल्पना कीदृक् तत् क्लिष्टौ वस्तु सज्यते । कथमिष्टमभावे चेद्वस्तु सोपीति वक्ष्यते ।। ७४१ ।।

उक्तमेतद्व्यावृत्तिभेदकल्पितेन रूपेण विशेषणविशेष्यभावो निरालम्बनत्वं कल्पित
बाह्यालम्बनभेदेन पृथगिवव्यवस्थाप्यते । तथाभूतस्वरूपबोधनाय न परमार्थतो भेद प्रतिपाद्यतेऽ
भेदप्रतिपादतस्य वस्तुत्वात् । अवस्तुनि कल्पना कथमिति चेत् । अत एव । अन्यथा

वस्तुनः कल्पना कीदृक् तथाऽवस्तु प्रसज्यते । अभावे कल्पनावृत्तिर्न च वस्तु स विद्यते ।। ७४२ ।।

941 अथ प्रत्यय इत्येष कर्मभावादि वा भवेत् । भावादिषु विरोधः स्यात्कर्म चेत्सिद्धसाधनं ।। ७४३ ।।

कर्म न उच्यते प्रत्यय इत्येष धर्मिरूपोऽन्यः कर्मव्युत्पत्या वा स्यात् प्रत्याय्यत इति
प्रत्ययः । अथवा प्रतीतिः प्रत्ययः । प्रत्याययति प्रत्याय्यतेऽनेनेति वा प्रत्यय इति ।
भावकर्तृकरणरूपता वा स्यात् सर्व्वमेतदनुपपन्नं । यदि प्रतीतिः प्रत्ययः सा प्रत्याय्येन विना
न भवति । एवं कर्त्रादिकमपि । ततश्च प्रत्यय इति बाह्यार्थापेक्षः । निरालम्बन इति
तदभाव इति परस्परविरोधिता ।

तदसत् । यदि प्रतीतिः प्रत्ययः सा स्वात्मनिष्ठाऽन्येन विना न भवतीति कुत एतत् ।
अन्यस्य तस्यामदर्शनात् । स्वरूपमेव च तत्र प्रत्याय्यं भविष्यति किमन्येन । तथा च प्रति
पादितं । प्रत्याययति प्रत्याय्यतेऽनेनात्मैवेति किम्विरोधगतमत्र । कर्म चेत् कर्मत्वं नाम
नावगम्यते । स्वरूपेण हि नीलादिकं प्रतिभासते न तु तस्यापरा कर्मता नाम । यद्यसावन्येन
कर्त्रा स्वव्यापारेणार्थ्यमान उपलभ्येत तदेवालम्बनमन्यस्य तच्च निराक्रियते यदि कथं सिद्ध
साधनम् । किंत्वसावर्थ्यमान एव न सिध्यति । ततः कथं कर्मतया तस्यालम्बनभावः ।
स्वरूपेण तदा लभ्यते चेदिदमिदानीं सिद्धसाधनम् ।

नन्वालम्व्यमान आत्मना अहं नीलं प्रत्येमीति प्रतीयते । तदसत् ।

अहमित्यपि यत् ज्ञानन्तच्छरीरेन्द्रियात्मवित् । अहं काणः सुखी गौरः समानाधारवेदनात् ।। ७४४ ।।

न हीन्द्रियादिभ्योऽपरमात्मानमहं प्रत्ययालम्बनत्वेनोपलभामहे ।

येन प्रेरणमेतेषां स आत्मा चेदनन्यवित् । स्वस्वभावोदयादेषां प्रमाणं नापरं क्वचित् ।। ७४५ ।।
उदयश्च यतो दृष्टः स एव प्रेरको यदि । अन्योन्यप्रत्ययत्वेन प्रेरकास्ते परस्परम् ।। ७४६ ।।
समुदायात्तदन्यस्य समुदायस्य सम्भवे (।) कार्यकारणभावेन व्यवहारः प्रवर्त्तते ।। ७४७ ।।
बुद्धिरूपविवेकेन प्रेरकं नान्यदीक्ष्यते । पूर्व्वपूर्व्वस्तथाभूताभ्यासो वा प्रेरकः क्वचित् ।। ७४८ ।।
सुखेन्द्रियाकारबुद्धेर्यदि बुद्ध्यन्तरोदयः । नीलाद्याकारतां प्राप्तं तत्कुतः कर्मकर्तृता ।। ७४९ ।।
समानकालवृत्तौ वा व्यापारो न परस्परं । ततः कर्मादिभावानां न भाव उपपत्तिमान् ।। ७५० ।।

यत्तूक्तं ।

प्रत्य942 यस्य हि रूपादेर्निरालम्बनतेष्यते । स्वविज्ञानात्मकत्त्वेन किञ्चिन्नालम्बते ह्यसौ943 ।। ७५१ ।।

तदत्यन्तमसत् । यतः ।

प्रत्ययस्य न रूपादेर्निरालम्बनतेष्यते । अबोधरूपव्यावृत्तः स्वाङ्गमालम्बते ह्यसौ ।। ७५२ ।।

369

व्यतिरिक्तालम्बनत्वेन तु निरालम्बनता विज्ञानात्मकत्वेनैव सुतरामिति प्रतिपादितम् ।
यत्पुनरभ्यधायि ।

कर्त्तृत्वे करणत्त्वे वा पक्षत्त्वं शब्दयोरपि (।)

तन्निरालम्बलनत्वेन पक्षाभावः प्रसज्यत इति ।। ७५३ ।।

तदतिसुभाषितं । यतः । ताभ्यामपि किल प्रत्याय्यते निरालम्बनप्रत्ययशब्दाभ्यां ततः
तयोरपि प्रत्ययत्वं । तदनालम्बनत्वेन कश्चित्प्रत्यक्षः शब्दगतमात्रकमेव केवलं ।

अर्थी नालम्बनं तत्र व्यावृत्तिः शब्दगोचरः । तस्य सम्वादितामात्रात् पक्षत्वं न विरुध्यते ।। ७५४ ।।

नहि शब्दगोचर एव पक्षः । साधनविषयत्वात्तस्य944 । साधनञ्च प्रत्यक्षलक्षणोऽनु
पलम्भः945 । तेन स्वाकारालम्बनता साध्या सा पक्षः । कथं पक्षाभावः । प्रत्यय इति चात्र
ज्ञानं प्रकरणादवगतं तत्कथं शब्दद्वारकदूषणावसरः । नहि यावद्वयुत्पत्त्या विषयीक्रियते स
शब्दप्रतिपाद्योपि तु प्रकरणायात एवान्यथा न शब्दादर्थगतिः । सामान्यशब्दानामपि प्रकर
णाद्विशेषवृत्तिनोपलभ्यते, सैन्धवमानयेति यथा । भोजनबेलायां लवणस्यैव प्रतीतिः । इदम
प्येकफू्त्कारेणैव गतं । यदाह ।

प्रत्याय्येन च वाक्येन946 विना कर्त्राद्यसम्भवः ।

प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते947 ।। ७५५ ।।

यदि न प्रत्यायपयति किञ्चित्प्रत्याय्यते वा न तेन, कथमसौ तथा, प्रत्ययविषयाभावे
वा किम्विषया प्रतीतिरिति । यतः ।

प्रत्याय्येन हि भिन्नेन विना कर्त्रादिसम्भवः । प्रत्यये तन्निमित्ते च बाधः स्ववचनात्कथं ।। ७५६ ।।
कल्पितः कर्मकर्त्रादिः परमार्थो न विद्यते । आत्मानमात्मनैवात्मा निहन्तीति निरुच्यते ।। ७५७ ।।

अबाह्यनिमित्तौ च प्रत्ययशब्दार्थो न स्ववचनबाधः ।।

अथापि रूढिरूपेण प्रत्ययः स्यात्तथापि तु । 948 ग्राहकं वस्तु नः सिद्धं प्रत्ययोन्यस्य वस्तुनः949 ।। ७५८ ।।

रूढ़िरूपेणापि प्रतीतिनिरपेक्षः प्रत्ययशब्दो व्यतिरिक्तस्यैव वस्तुनः सिद्धः प्रत्यय इति ।
ततः सिद्धमेव लोकप्रसिद्धया बाह्यवस्तुविषयत्त्वं । नहि लोकप्रसिद्धमन्यथा शक्यविधानं ।

तदसत् ।

लोकप्रसिद्धिमात्रेण न वस्तूनां व्यवस्थितिः । विचारकस्य लोकस्य वस्तुसिद्धौ निमित्तता ।। ७५९ ।।
सम्वेदनातिरेकेण लोकः को वार्थसिद्धये । सम्वेदनस्य लोकत्त्वे तदनालम्बनीकृतं ।। ७६० ।।
सम्वेदनं विना लोको यदि तत्त्वं विवेचयेत् । विवेचयेयुः सर्वेमी जनात्मानः शिलादयः ।। ७६१ ।।

यदप्युच्यते ।


370

तमभ्युपेत्य950 पक्षश्चेद अभ्युपेतं विरुध्यते ।

विशेष्य (स्याऽ) प्रसिद्धिश्च तवास्माकमतादृशे951 ।। ७६२ ।।

तादृशे वस्त्वन्तरप्रत्यायके तवासिद्धिर्विशेष्ये प्रत्ययेऽस्माकमन्यथाभूते । तथा ।

आत्मधर्मस्वतन्त्रत्वकल्पनेपि तथा भवेत् (।)

न च प्रत्ययमात्रत्त्वं किञ्चिदस्त्यनिरूपणादिति ।। ७६३ ।।

तथा हि । यदि व्यतिरिक्तसाधनत्वमभ्युपगम्य प्रत्ययः पक्षीक्रियेत स तथाभूतो
धर्मी न भवतः सिद्धः । नहि बौद्धस्यैवमभ्युपगमः । अथ विपर्ययाभ्युपगमोऽव्यतिरिक्त
साधनत्वं तथासति प्रतिवादिनामस्माकमसिद्धः । न हयव्यतिरिक्तसाधनः प्रत्ययोरस्माभि
रभ्युपगतः, एवमात्मधर्मत्वं बौ दधा ना मसिद्धं । स्वतन्त्रत्त्वं च मी मां स का नां । न च
प्रत्ययमात्रमस्ति । यस्य धर्मित्त्वमुभयपक्षव्यतिरेकेण निरूपयितुमशक्यत्वादिति । तद्यथा
कथञ्चिन्मुखमस्तीत्युक्तं । यतः उक्तमेतत् ।

विवादपदभूतस्यावश्यमेवाप्रसिद्धता । प्रसिद्धिस्तस्य चेज्ज्ञाता साधनं कस्य साधनम् ।। ७६४ ।।

य एव हि व्यतिरिक्तसाधनधर्मः प्रत्यय धर्मिणो विशेषणत्त्वेनासिद्ध इति तदसिद्धि
द्वारेण विशेष्यासिद्धयुद्भावानांर्थ भवता स एव विवादास्पदीभूतः भवता साध्यः, तेन च विशेषणे
नासिद्धत्वमिष्यत एव धर्मिणः । साधनकाले यदि तु स एव सिद्धः किमिदानीं सिद्धोपस्थायिनां
साधनेन । नत्वसिद्धविशेषणः पक्षो दुष्ट एव यथा सां ख्यं प्रति विनाशी शब्द इति ।

तदसत् । यतः ।

साख्यंप्रत्यपि पक्षस्य दुष्टत्त्वं विनिवारितम् । नहि दृष्टान्तसिद्धेऽर्थे पक्षेऽसिद्धविशेषणः ।। ७६५ ।।
अप्रसिद्धोथ दृष्टान्ते विनाशो हेतुदुष्टता । अनैकान्तिकता वा स्याद्धेतोर्वा स्याद्विरुद्धता ।। ७६६ ।।

यदि पक्षे न सिद्धो निराम (= स्वनाशः) इति दोषः । तदसत् । तत एव साध्यते ।
ततोऽप्रसिद्धविशेषणत्त्वमेव पक्षस्यादोषः कथमसौ दोषः । नहि स्वरूपमेव दोषः । अथ
दृष्टान्तेऽसिद्धिस्तदा दृष्टान्तदोषो हेतुदोषो वेति न पक्षदोषता ।

न चात्मधर्मताऽसिद्धौ धर्मानप्रत्ययो भवेत् ।

न ह्याकाशगुणासिद्धौ शब्दो धर्मी न सिद्ध्यति ।। ७६७ ।।

श्रोत्रग्रहणमात्रेणैव तस्य धर्मित्वं । अन्यथा न कश्चिद्धर्मी भवेत्प्रतिवाद्युपक्षितस्य
धर्मस्य सर्व्वत्रासिद्धत्वात् । तस्मादयमदोष एवेति यत्किञ्चिदेतत् । तत एवापरमपि
परोदितमयुक्तं ।

शब्दार्थ952 मात्ररूपेण यथान्येषां953 निरूपणं ।

तथापि954 भवतो न स्याद्वाद्यभेदमनिच्छत ।। ७६८ ।। इति955


371

वाचकाद्वाच्यन्तरेभ्यश्च भेदानभ्युपगमाद्यस्य च वादिनः शब्दार्थमात्ररूपेणापि निरूपणम
शक्यं सामान्यानभ्युपगमेव धर्मादिविकल्पने सति परवादिना तेन प्रत्यवस्थातुमशक्यमिति ।

तदसत् । प्रत्यय इत्यविशेषणं शब्दार्थमात्रं विज्ञानमिति योऽर्थः प्रतिभासनमिति
यस्य पर्यायः तस्य सिद्धत्वात् । असदेतत् । द्विचन्द्रादिप्रत्ययेन्यत्र च यत्प्रत्ययत्वं । तदेका
कारपरामर्षविषयः सिद्धमेव । तस्य तु पुनः किन्तत्त्वमित्यपरं सकलं विचार्यत्वात्साध्यमध्यम
ध्यासीनमसिद्धमिति किमयुक्तं । अत्रासिद्धता पश्चादाक्षिप्य निराकरिष्यते । अन्यदुच्यते तावत् ।

निरालम्बनता चेह सर्व्वथा यदि साध्यते । विशेषणाप्रसिद्धिः स्याद् दृष्टान्तश्च न विद्यते956 ।। ७६९ ।।
957

सर्व्व एव प्रत्ययो निरालम्बनः साध्यः । को दृष्टान्तस्तत्र । अथ जाग्रत्प्रत्ययस्त
थाप्यसिद्ध एव दृष्टान्तः । स्वप्नप्रत्ययस्यापि सालम्बनत्वात्कथञ्चित्तत्कालान्यकालवस्त्वा
लम्बनत्वात् । अथ तत्कालालम्बनाभावः । तदा

केनचिच्चेत्प्रकारेण निरालम्बनतोच्यते । रसज्ञानस्य रूपादिशून्यत्वात्सिद्धसाधनम्958 ।। ७७० ।।

यथा यस्य यदालम्बनन्तत्कालमन्यकालादि वा तथा तत्सालम्बनमभ्युपगन्तव्यं ।
तथाप्यनालम्बनत्त्वे रसज्ञानमपि रूपेणानालम्बनमिति प्राप्तं तच्चेष्यत एवेति सिद्धसाधनं ।

अथ बुद्धिर्यदाकारा तदालम्बनवारणम् । स्वाकारस्याभ्युपेतत्वात्तदभावो विरुध्यते959 ।। ७७१ ।।

ग्राहकाङ्शो हि ज्ञानस्य नार्थाकारता । किन्तर्हि ज्ञानाकारतैवेति भवतामभ्युपगमः ।
तत्रेदानीं ज्ञानस्य ग्राह्याभावः प्रसक्तोऽनिष्टश्च । तत्र ग्राह्यात्मनालम्ब्येन भाव्यं अथ बाह्य
न्नालम्बनं ।

तदसत् ।

बाह्यानालम्बनत्त्वेपि बाह्य इत्यग्रहो यदि । स्तम्भादौ नैव तद्बुद्धिरित्येवं सिद्धसाधनम् ।। ७७२ ।।

अत्रापि बहिर्घट इति बुद्धिस्तत्रापि न घट एवालम्बनं । अपि तु बहिर्विषय एव ।
तत्सामानाधिकारण्यात्तु घटे तथा प्रत्ययः ।

अथ स्तम्भादिरूपेण निरालम्बनतोच्यते । सम्वेदनस्य दृष्टत्त्वात्तद्विरोधः प्रसज्यते ।। ७७३ ।।

द्विचन्द्रादिषु तुल्यञ्चेदिन्द्रियाप्राप्तितो हि सः ।

तत्रानालम्बनोक्तिः स्यान्नार्थसम्वित्त्यभावत ।। ७७४ ।।

इद्रियेण चक्षुरादिना प्राप्तं गृह्णाति बुद्धिरित निरालम्बनतोच्यते । द्विचन्द्रादिबुद्धेः ।
न तु तदालम्बनमेव । एकचन्द्रप्रतिपत्तिरासीदस्य प्रागिति तेन सम्प्रयोगेण इन्द्रियेण द्वयस्ये
त्यनालम्बना । न तु सर्व्वदाऽर्थ एव नास्ति । एकचन्द्रदर्शने सति तद्विपर्यये नालम्बनत्व
मिति कारणमनालम्बनत्वप्रतिपत्तेः । एतदेव दर्शयति ।

सर्व्वत्रार्थेन्द्रियाणां न संयोगसदसत्तया । सम्वित्तौ विद्यमानायां सदसद्ग्राह्यतास्थितिः ।। ७७५ ।।
भवत960 स्त्विन्द्रियादीनामभावाद् ग्रहणादृते । नालम्बनत्वहेतुः स्वान्निषेधः तेन961 युज्यते ।। ७७६ ।।

372

निरालम्बनाः प्रत्यया इति । तदेतदलीककल्पनामलमलीमसञ्चेतः परेणाहङ्कारमावि
ष्कृतमिति महती मोहस्य महीयस्ता । तथा हि (।)

निरालम्बनशब्दस्या स्वाङ्शालम्बाभिधेयता । प्रसिद्धा चेत्प्रमाणेन दूषणं दूषणं कथम् ।। ७७७ ।।

परपरिकल्पितयाक्षग्राह्यालम्बननिषेधेन स्वांशालम्बन एवायं शब्दः प्रयुक्त इति प्रकर
णादितः प्रतीतिः । अन्यथा शब्दादर्थप्रतीत्यभावात् । तत्र शब्दादयमर्थः प्रतीयते लोके
कथमस्य निरूपणमशक्यं ।

ननु न तस्यापि वाचकाद्वाच्यान्तराच्च भेद इति कथं शब्दार्थमात्रस्य धर्मित्वमित्युक्तं ।

सत्त्यमुक्तमयुक्तन्तूक्तमिति किन्तेन । नेदमिदानीमेवाद्वैतमायातं यतो962 भेदो न स्यादपि
तु भिन्न एव प्रत्ययान्तरेभ्यः परस्परञ्च । तत्र घटशब्दादन्यः प्रत्ययोऽन्यश्च घटः शब्दादित्यादि ।
शब्दाश्च गृहीतमेवार्थं प्राक् स्मरणविषयतामुपनयन्ति । तत्र ये ते प्रत्यया नीलाद्यालम्बनत्वेन
भवतः प्रतीतिगोचरास्ते निरालम्बना इति परमवबोधयतः किमयुक्तं । यदि कश्चिदनग्निकमेव
धूमं प्रत्येति स किमेवं न वक्तव्यः, त्वयाऽनग्नित्वेन यः प्रतीयते धूमः स तथा न भवतीति ।
कुतो वा दोषसम्भावना वक्तुः । अथ साग्नित्त्वेन पूर्व्वदृष्टेन स बोधयितुं शक्य इह तु कथं ।
इहापि निरालम्बनं तैमि (रि) कज्ञानं सिद्धमेव बाह्यस्यासम्भवात् । तत्रापि गगनमालम्बन
मिति चेत् । यथा तर्हि केशालम्बने गगनमालम्बनं तथा गगनालम्बनेपि अन्यदेव । प्रतिभास
मानस्यालम्बनत्त्वाभावात् । प्रतिभासमानमेव गगनप्रत्यये आलम्बनमिति चेत् । इहाप्यस्तु
केशप्रत्यये सर्व्वत्र विपरीतख्यातिस्मृतिसंप्रमोषः । लौकिकेष्वादिकल्पना न वा क्वचिदिति
एकान्त एवः ।

अथ सालम्बनमेकचन्द्रज्ञानमुपलब्दवतो द्विचन्द्रविज्ञानं निरालम्बनमिति युक्तं । एक
चन्द्रविज्ञाननन्तु कथं । तदपि तज्जातीयत्वादिति प्रतिपादितं । बाधितत्वादिति चेत् । तत्रापि
बाधितत्वमिति प्रतिपादितम् । च चाप्रतिभासमानमालम्बनमिति प्रतिपादयिष्यमाः । ज्ञानत्वञ्च
नीलादेः प्रतिपादयिष्यते । यथा च केशादिज्ञानं काशादिनासालम्बनं तथा नीलरूपं ज्ञानं पीतम
धुरादिना सालम्बनमिति प्राप्तं । कथं रसाद्यनालम्बनत्वेन सिद्धसाधनं रूपज्ञानस्य । अथ
रश्मितप्तोषरमन्तरेण न भवति जलज्ञानं रसादिकमन्तरेणापि किम्भवति रूपविज्ञानं । भवति
च सत्त्यजले तप्तोषरमन्तरेणापि जलज्ञानं । विशेषस्तत्रेति चेत् । परस्परस्य विशेषाद्
द्वयमप्यनालम्बनमन्यथा वेति प्राप्तं । भवतु द्वयमपि सालम्बनमिति चेत् । यदि प्रतिभास
मानेन963 रश्मितप्तोषरमित्यादि न वक्तव्यम् । अप्रतिभासमानमालम्बनं कार (ण)त्त्वेनेति964 चेत् । वासना भविष्यतीति सिद्धमस्मत्समीहितं । प्रतिभासमानमेव तर्हि भवतु किमन्येनेति
चेत् । प्रत्यक्षानुमानयोर्भेदाभावप्रसङ्गात् प्रतिभासमाने सकलं प्रत्यक्षमेव ।

भ्रान्ताभ्रान्तविभागश्च न स्याल्लोकप्रसिद्धिभाक् । स्वरूपे सर्व्वमभ्रान्तं पररूपे विपर्ययः ।। ७७८ ।।

प्राप्तेः सालम्बनत्वञ्चेत् प्राप्तिर्न्नास्तीति साधितं ।

मरीचिकाजलभ्रान्तेः प्राप्तिः स्यादपि तद् भवेत् ।। ७७९ ।।

373

सर्व्वदा नास्ति सर्वत्र सर्व्वदा नेति965 दृश्यते । क्षणिकत्वात्

अविनष्ट भवेदेव विनाशी स कथम्भवेत् ।। ७८० ।।

प्रत्यभिज्ञानिरस्तैव ततः सर्व्व समंजसम् ।

तस्मात्प्रत्यक्षानुमानाभ्यां प्रतीतेः सकलमनालम्बनं । उक्तः शेषः ।

एवं परपरिकल्पितं विशेषणमनूद्य यदि तन्निराक्रियते क इवात्र दोषः । अनेनेदमपि
निराकृतं । यदाह ।

तथा हि (।)

बहिर्भावाप्रसिद्धत्वात्तेनानालम्बना मतिः । कथञ्च साध्यते नैष पक्षो हि ज्ञायते यदा966 ।। ७८१ ।।

यथान्यबोधनाशक्तेर्न्नाप्रसिद्धे विशेषणे । पक्षसिद्धिस्तथैव स्याद्विशेषणविशेषणे ।। ७८२ ।।
नाप्रसिद्धे पदार्थे हि वाक्यार्थः संप्रतीयते । तत्पूर्व्वकत्त्वात्पक्षश्च वाक्यार्थः स्थापयिष्यते967 ।। ७८३ ।।

मत्वर्थस्य साध्यत्वमिति स्थापयिष्यत इति ।

तदेतदसदेव । येनैव बाह्यमालम्बनमसिद्धं परमार्थतः । परेण केवलमभ्युपगंत । तत
एव निषिध्यते । भ्रान्तिनिरासाय साधनप्रवृत्तेरित्येतत्पश्चात्प्रतिपादयिष्यते । प्रमाणप्रसिद्धस्य
तु कथमभावः साध्यः स्यात् । प्रमाणस्य बाधनद्वारेणेति चेत् । न । प्रमाणस्य प्रमाणेन
बाधनायामनाश्वासेन प्रमाणतोच्छेदप्रसङ्गात् । न विरुद्धाव्यभिचारी नाम सम्भवतीति
प्रतिपादयिष्यामः । देशकालादौ दृष्टस्यान्यत्र निषेध इति चेत् । न प्रागभावात् ।

नहि देशान्तरादौ यद्दृष्टमन्यत्र कल्प्यते । भ्रान्त्यभावेन तत्रास्य वृथाभावस्य साधनं ।। ७८४ ।।

अथ कुतश्चिच्छास्त्रादन्यतो वा प्रमाणाभावादन्यत्र कल्पना । नहि भ्रान्तयो न
दृश्यन्ते । एवन्तर्हि ।

प्रमाणदृष्टे या भ्रान्तिर्देशादौ क्वचिदेव सा । निवर्त्यते प्रमाणेन भ्रान्तावेव तु काऽक्षमा ।। ७८५ ।।

या हि कदाचिद् भ्रान्तिः सा निवर्त्त्यते । या तु पुनरत्यन्तं सा किन्ननिवर्त्तयितव्या ।
तन्निवर्त्तने महान् पुरुषकारः ।

ननु साऽन्यत्र बाधकप्रमाणोपदर्शनेन निवर्त्त्यते । या तु सदा भ्रान्तिरेव सा कथन्नि
वर्त्तयितव्या । बाधकाभावाच्च कथं सा भ्रान्तिरित्युच्यते । तदप्यसत् । यतो बाधको नाम
नास्त्येव । तथा हि ।

बाधकः किन्तदुच्छेदी किम्वा ग्राह्यस्य हानिकृत् ।

ग्राह्याभावे ज्ञापको वा त्रयः पक्षाः परः कुतः ।। ७८६ ।।

यदि बाधको बाध्यप्रत्ययाभावं करोति तदालम्बस्य वा । तदा तज्जातमजातं वा ।

अजातस्य कथन्तेन तस्याभावो विधीयतां । न जातु खरशृङ्गस्य ध्वंसः केनचिदाहितः ।। ७८७ ।।
जातस्यापि न भावस्य तथाभावो विधीयते । तदस्तिहेतोः तन्नास्ति बाधकादिति साहसम् ।। ७८८ ।।

374

यदि जातोसौ भावः केन तस्याभावः क्रियते । दैवरक्ताः किंशुकाः क एनानधुना
रञ्चयति ।

अथ जातः कारणात्तथा सति यथा जातः तथास्ति कथं विनाशावेशः । तथा सति
तदेव नष्टं तदेव सदिति महदसमञ्चसं । अथ यथा न जातस्तथा विनाश्यते । तथा सति ।

अन्यरूपेण जातस्य यद्यन्येन विनाश्यता । नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता ।। ७८९ ।।

न च तस्य तद्रूपमिति त एव दैवरक्ताः । तेन च

स्वरूपेणासौ पश्चाद् विनाश्यतेऽथ सर्व्वदा । यदि पश्चाद्विनाश्येत पूर्व्वं तद्रूपता भवेत् ।। ७९० ।।
तेन रूपेण जातस्य कथं पश्चाद्विनाशनं । तदैव तेन रूपेण जातं पश्चाद्विनाश्यते ।। ७९१ ।।
पश्चात्तद्रूपनास्तित्वे दैवरक्तः स किंशुकः । पूर्व्वमेवास्य नाशश्चेत् कारणादेव तत्तथा ।। ७९२ ।।

नाशकेन परं कार्यं किमस्येति निरूप्यताम् ।

एतदालम्बनविनाशेपि समानं। तथा हि ।

यथा स जातस्तेनास्य रूपेण न विनाशनं । यथा न जातस्तेनापि न रूपेण विनाशनं ।। ७९३ ।।
व्यर्थकत्वादशक्यत्वात्प्रमाणेनाप्रतीतितः । अस्यार्थस्य कथन्न स्यात्कल्पनापि सचेतसाम् ।। ७९४ ।।

अथालम्बनाभावं ज्ञापयति बाधकः ।

तदप्यसत् ।968

यदासौ दृश्यते भावस्तदाभावो न विद्यते । यदा न दृश्यते भावोऽदर्शनन्तस्य बाधकं ।। ७९५ ।।
तदा भावाप्रसिद्धौ च नाभावः सविशेषणः । विशेषणाप्रसिद्धौ च बोधशक्तिः कथन्तव ।। ७९६ ।।
विशेषणमथान्यत्र सिद्धमत्रानुवादवत् । भावरूपं हि तत्तत्र नाभावस्य विशेषणम् ।। ७९७ ।।
तदेवान्यत्र नास्तीति यद्येवं प्रतिपाद्यते । तथैव प्रतिपन्नस्य निषेधोस्य किमर्थकः ।। ७९८ ।।
अन्यथा प्रतिपन्नस्य तथापि न निषेधनं । प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते ।। ७९९ ।।
न दृश्यते यदा भावः तदा न स्यान्निषेधनं । स्मृत्याव्या कृत्य तत्रास्य क्रियते चेन्निषेधनं ।। ८०० ।।
स्मृत्यानुरूपग्रहणे न कथञ्चिन्निषेधनं । स्मृत्या स्वरूपग्रहणे नाभावस्य विशेषणम् ।। ८०१ ।।
अथ स्मृतौ विकल्पे वा यदेव प्रतिभासते । तत्तावन्मात्रमेवास्ति बाह्यरूपं न विद्यते ।। ८०२ ।।

एवं तर्हि

लोकप्रतीतावन्यत्र यद्वाह्यमिति भासते । तत्तावन्मात्रमेवास्ति न तु तत्तत्त्वमीक्ष्यते ।। ८०३ ।।
प्रतीतिमात्रमालम्बो न तु तद्वाह्यमीक्ष्यते । स्वप्नादिप्रत्ययेभ्योस्य विशेषग्रहणन्नहि ।। ८०४ ।।
प्रतीतिमात्रकादस्य वासनाबलनिर्मितान् (।) न विशेषपरिच्छेद इत्यनालम्बना मतिः ।। ८०५ ।।

कथन्तर्हि बाध्यबाधकभावप्रतीतिः ।

प्रतीयमानस्यैकत्वं भाविनारोप्य तत्र च । बाधकप्रत्ययापाते तन्मध्ये बाधकस्थितिः ।। ८०६ ।।
वाधको यदि नायं स्यादेवमेव भवेदयम् । अविच्छिन्नस्ततश्चेदकारणम्बाधको मतः ।। ८०७ ।।

तथा हि कालान्तरस्थायिता सकलस्य भावस्य । तत्कालमध्य एव यदाऽपरस्वरूपनि-

375

रूपणापरः प्रत्ययो भवति । तदा तेन विच्छिन्नं पूर्व्वकमालम्बनं प्रत्ययो वाऽध्यवसायविषयः ।
तेन स बाधको व्यवस्थाप्यते । तथा हि यद्ययं न स्यात्तदाऽविच्छिन्नमेव पूर्व्वकविज्ञानालम्बनं
भवेदन्यकालवत् । ततो ऽन्वयव्यतिरेकाभ्यां बाधकेन विच्छिन्नमिति गम्यते । एवं विनाश्य
विनाशकभाव आलम्व्य आलम्बनभावश्च । तथा हि ।

परोक्षे भावितामर्थे विनिश्चित्य घटादिके । तदाकारोदयज्ञानन्तदालम्बनतास्थितिः ।। ८०८ ।।

तथा

स्वच्छं स्फटिकवज्ज्ञानं यो यस्तत्रापचीयते । तं तमाकारमासाद्य तच्चकास्ति तथा तथा ।। ८०९ ।।

अपरोक्षस्तावदस्तीति कुतश्चिदागमादनुमानतो वावसितः स्वच्छञ्च विज्ञानं । यदि न
स्यादयमर्थः परिप्लवेतैव केवलं किमस्ति किमत्र नास्तीति । परिदृष्टे चार्थात्मनि प्लवमान
इव तीरमासाद्य स्थिरीभवति तेन तदालम्बनमिति व्यवस्थाप्यते । तथा हि ।

चिन्ताव्यापृतचेतस्कः प्लवमानेन चेतसा । इदं तदा दृष्टमिति पूर्व्वदृष्टे स्थिरीभवेत् ।। ८१० ।।

दृष्टश्रुतविस्मृतं हि विकल्पयन् किं किं दृष्टं तत्र प्रपञ्चकथायां श्रुतम्वेति पर्यन्वेषणपरो
यदा यथाश्रुतादिकमभिमुखीकरोति तदाभिमुखीभते स्थिरत्त्वेन तत्र प्लवमानतापरित्यागनि
मित्तमालम्बनतया व्यवस्थापयतीति लोकव्यवहारः ।

तत्त्वमेव किमेवं चेत् व भवत्यस्य वस्तुनः । न प्रत्यक्षानुमानाभ्यामप्रतीतेरवस्तुता ।। ८११ ।।

न तावत्परोक्षस्य सत्ता प्रत्यक्षेण प्रतीयते । तदभावादनुमानमपि नेति कुतः ।
सति परोक्षप्रतीतौ सद्भावे तदालम्बनता प्रत्यक्षस्य सिध्येत् । सालम्बनतायाञ्च प्रत्यक्षस्य
वस्तुसम्बद्धं सिध्यति । ततोनुमानं तत्प्रतिबद्धवस्तुलिङ्गोदयाद्वस्तु गमयति ततोऽनुमानप्रसि
द्धवस्तुविषयत्वात्सालम्बनं प्रत्यक्षं ततो वस्तुसम्बन्धोऽनुमानस्य ततो वस्तुगतिरित चक्रकम
व्यवस्थापि भवेदिति न वस्तुप्रतिपत्तिसम्भवः ।

एवमप्रतिपन्ने हि वस्तुन्युपगम परं । प्रमाणरूपाविज्ञानात्पूर्वसम्वित्तिसम्भवात् ।। ८१२ ।।
तत्प्रतीत्यनुसारेण विशेषणविशेष्यता । मया प्राक् प्रत्यपादीदं तद्रूपामर्षवर्जनात् ।। ८१३ ।।
त्वया वा पुनरामर्शे कथमस्त्वस्य वेदनं । एवं निरूपणायाञ्चेत् स तथा नास्ति तत्त्वतः ।। ८१४ ।।
नास्त्येव तत्र को दोषो यतः पर्यनुयुज्यते । बाध्यबाधकभावश्चेत् प्रतीत्योः परपूर्व्वयोः ।। ८१५ ।।
स्वप्रतीतौ कस्य दोषो येन पर्यनुयुज्यते (।) आत्मानमेव किं कश्चिदनुयुञ्जन् प्रवेद्यते ।। ८१६ ।।
भ्रान्तिरेव कुतस्तस्य नात्मा पर्यनुयोगभाक् । भ्रान्तित्वेवसितेत्वत्र कारणान्वेषणेन किं ।। ८१७ ।।
परोपि प्रतिपाद्यैत यदैवं सुपरिस्फुटं । तदा सोपि न वक्त्येव कुतो मे भ्रान्तिरीदृशी ।। ८१८ ।।

यदा हि भ्रान्तिसम्भवे स्वयं परामर्शवतः पुनरसौ निवर्त्तते नेदं रजतमिति तदा
किमात्मनः पर्यनुयोगं कश्चित्करोति (—) कथमहमप्रतिपन्ने रजते तद्विशेषणमभावं प्रतिपाद्ये
विशेषणे चाप्रसिद्धे कथन्तद्विशेषणे चाप्रसिद्धे कथन्तद्विशेषणं परोक्षं जानीयां । येन मम
पक्षदोषो न भवेत् । परप्रतिपादनेप्येवमेव ।

ननु तत्र सत्त्यरजतदर्शने सम्भवति भ्रान्तिरिह पुनर्न्न किञ्चिद् दृष्टमिति कुतो भ्रान्तिः
एतदुत्तरत्र प्रतिपादयिष्यामः । अपि च । भ्रान्तिश्चेत्परमार्थेन कथञ्चिदवगता किमिदानीं
भ्रान्तिकारणान्वेषणप्रयासेन । यदि कारणं नास्ति भ्रान्तिरेव न भवेत् ।

376

नैतदस्ति ।

कारणे सति न भ्रान्तिः परमार्थेपि कारणम् । सकारणत्वाद् भ्रान्तिश्चेत्तदापीष्टं विहन्यते ।। ८१९ ।।

न कारणमस्तीत्येव भ्रान्तिः । अन्यथा सर्व्वा भवेद् भवतो भ्रान्तिः । अभ्रान्तावपि
पर्यनुयोगेन भवितव्यमेव कुत इयं भ्रान्तिः । तथाप्रतीतेरिति चेत् । भ्रान्तावपि969 समान
मेतत् । अभ्रान्तिपूर्व्विका भ्रान्तिश्चेत् । यदि कथञ्चिदभ्रान्तिर्न्नाम नास्त्येव कारणाभा
वात्किन्नु भ्रान्त्या भवितव्यम् । भवतु कथं प्रत्येतव्या । अभ्रान्तिविपर्ययेण हि भ्रान्तिरिति
व्यवस्थाप्यते । समानमितरत्रापि भ्रान्तिविपर्ययेणाप्यभ्रान्तिरिति । अथ विधिरूपेण
भ्रान्तिन्नं तु भ्रान्तिविपर्ययेण । भ्रान्तिस्तु बाधके सति । ततो विपर्ययादेवाभ्रान्तेर्भ्रान्तिरिति ।

तदप्यसत् ।

विधिरूपेण यद् दृष्टं तत्तदेव तथेयते (।) न बाह्येविधिरस्तीति भ्रान्तिस्तत्रेति निश्चयः ।। ८२० ।।

अथ यत्र कारणं सा भ्रान्तिरिति नोच्यते970 । या भ्रान्तिः सा कारणम्विना न
भवतीति । एवन्तर्हि सविशेषणो हेतुः ।

भ्रान्तिकारणसद्भावाद् भ्रान्तिर्भवति नान्यथा ।

ज्ञाते च भ्रान्तरूपत्त्वे तत्कारणविनिश्चयः ।। ८२१ ।।

सविशेषणे हि हेतौ भ्रान्तिः प्रथमं ज्ञातव्या पुनः सापि भ्रान्तिः कारणादिति अनवस्था ।
तस्माद्येन रूपेण सा भ्रान्तिस्तद्रूपविज्ञानादेव व्यवस्थाकारणं भवतु मा वाभूत् । स्वरूपेण
हि भावो भवति न कारणरूपेण । तत्स्वरूपं कुत इति चेत् । किमनेन । इयमपि
भ्रान्तिस्वरूपप्रतिपत्तिर्भ्रान्तिर्न्न भवतीति कुतः । यथेयं प्रतिपन्ना तथा यदीयमपि भवतु को
दोषः । पूर्व्विका न भ्रान्तिरिति चेत् । तदप्यसत् ।

रजतप्रतिपत्तौ स्यात् शुक्तिकाप्रत्ययक्षये । शुक्तिकाप्रत्ययस्यापि यद्यन्यः क्षयकारकः ।। ८२२ ।।
ततः किं सत्त्यता तस्य प्रत्ययस्य भवेत्पुनः । रजतग्राहिणः किम्वा द्वयं नास्तीति नेक्ष्यते ।। ८२३ ।।
अथापि सत्त्यता क्वापि प्रतीता यदि तद्भवेत् । तत्रावष्टम्भसद्भावादितरत्र विपर्ययः ।। ८२४ ।।
बाधकप्रत्यये हि स्यादितरत्र विपर्ययः । बाधको यदि नास्त्येव तद्विपर्ययसत्त्यकृत् ।। ८२५ ।।

विपर्ययस्यासद्भावं कस्तदा प्रतिपादयेत् ।

अत्रोच्यते ।

यदि विपर्ययवित्तिरथान्यथा कथमिवाभवनस्य विनिश्चयः ।

अनुपलब्धिकृतोथ विनिश्चयः किमपरेण विनिश्चयकारिणा ।। ८२६ ।।
विपर्ययोपलब्धिश्चेतस्यासिद्धिर्न्निरुच्यते । स्वसम्विन्मात्रमेवास्तु बाह्यस्यासम्विदा ततः ।। ८२७ ।।

तस्मादनुपलब्धिरेव बाधकं प्रमाणं नापरमिति न्यायः । सा चात्राप्यस्तीति कथं
सालम्बनम्विज्ञानमिति । ततोऽवेद्यवेदकात्मबुद्धिः ।

377

यत्पुनरुक्तं मत्वर्थनिरासः साध्यत इति तदप्यत्यन्तमयुक्तं ।

मत्वर्थाभाव एवात्र साध्यते परमार्थतः । निरालम्बनत्वासाधत्वमन्यथा न भवेत्तदा ।। ८२८ ।।

निरालम्बनं विज्ञानमिति । आलम्बनत्वस्याभावः साधयितुं प्रस्तुतो येन कथन्तस्य स
एव साध्य इत्युपरि निक्षिप्यते । इच्छया हि विषयीकृतः पक्षः स कथमन्यथा क्रियेत । यो
यः साधयितुमिष्टः स एव पक्षः । अथ स तथाभूतः साधयितुमशक्यः । तथा सति हेतुदोषः
एवासौ न पक्षदोषः अभाववत्त्वेन साधने मत्वर्थ एव ।

न तु पारमार्थिकमत्वर्थसाध्यतायां प्रमाणमस्ति । कल्पितस्य धर्मिधर्मभावस्याश्रयणात् ।
अन्यव्यावृत्तिद्वारेण स्वभावभूत एव धर्मो व्यतिरेकेण व्यावस्थाप्योऽर्थवत्तया कल्प्यते तत्र यद्यपि
नामायं संवृत्या व्यवहारः तथापि न तावता क्षतिः । ग ज नि मी ल ने न तावदयं व्यवहारः
प्रवर्त्त्यताम् । पुनरयमपि निरूप्यमाणो विशीर्येत एव ।

ननु केयं सम्वृतिः । यदि वस्तु तदेव वक्तव्यम् । किन्तत्र नामान्तरेण । अथ
नास्ति किञ्चित्तदा सम्वृतिरिति किन्नामान्तरेण ।

सत्त्याभासः परन्तत्र न तत्त्वं परमार्थतः । विचार्यमाणशून्यत्वे स म्वृ तिः सेति गीयते ।। ८२९ ।।

तत्त्वसम्वरणात्सम्वृतिः प्रतिभासमानं हि रूपमसदिति न तावता युक्तं । विचार्यमाण
तायां पुनरसत्त्वादभावनिश्चयः । ततः परमार्थपेक्षया संवृतिरुच्यते । संवृत्यास्तीति भ्रान्त
जनापेक्षयास्तीति । न च भ्रान्तस्य बाधकोदय इति सत्त्यतयाऽभिमानात्संवृतिसत्त्यन्तदुच्यते ।
तत इदमपि वक्तुमेव ।

अभावे भ्रान्तता केयं भावश्चेद् भ्रान्तता कथम् ।

अतत्त्वभासो971 भ्रान्तिश्चेदतत्त्वे सम्वृतिर्न्न किम् ।। ८३० ।।
अतत्त्वे सत्त्यता नो चेत्सत्त्याभासो भवेन्न किं । ततः संवृतिसत्त्यत्वं सत्त्याभासत्त्वमित्यपि ।। ८३१ ।।
वञ्चनोक्तिः कथन्तस्यान्तालावक्रासवादिवत् । यस्य सत्त्यावभासित्वमसत्त्येप्यसमञ्जसं ।। ८३२ ।।
यस्यासत्त्यावभासित्त्वकथने कैव वञ्चना । तस्मात्पराशयाज्ञाने आत्मोत्कर्षाभिधित्सया ।। ८३३ ।।

प्रलापः केवलस्तस्मादन्या नास्त्येव वञ्चना ।

तदास्तान्तावदेतत् । अन्यदुच्यते । यदत्रैव परेणोक्तं ।

पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः । प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् ।। ८३४ ।।

प्रमेयत्वेन व्यतिरिक्ततैव नास्ति सम्वेदनात्सर्वस्य जगतः । व्यतिरिक्तस्यालम्बनस्या
भावात् । सिद्धमेव साधनं ।

यदि चात्यन्तभिन्नेननिरालम्बनतोच्यते । कथञ्चिच्‌चेत् विरुध्यते प्राक्‌पक्षः कल्पितेन ते ।। ८३५ ।।
वस्त्वाद्याकारभेदेन धीर्निरालम्बनेष्यते । ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते ।। ८३६ ।।
निरालम्बनबुद्धेश्च यद्युत्पत्तिः प्रसाध्यते । दृष्टत्वात्सेष्यतेऽस्माभिर्बाह्याग्राह्यविवर्जिता ।। ८३७ ।।

सम्यक्‌त्वं पुनरेतस्यास्त्वं नेच्छसि कथञ्चन ।

आत्मांशेऽवसिता ह्येषा मृगतृष्णाम्बुबुद्धिवत् ।। ८३८ ।।
378
चैत्यादिप्रत्ययानाञ्च निरालम्बनता यदि । धर्मभूता न गृह्येत साधनोत्थितया धिया ।। ८३९ ।।
ततो विषयनानात्वात्प्रतियोग्यनिराकृतेः । रूपात्सालम्बनप्राप्तिः सती केन निवार्यते ।। ८४० ।।
यदि प्रत्ययशब्दोपि प्रत्ययत्वेन गृह्यते । सम्वित्त्यालम्बनत्वञ्च वार्यते सिद्धसाधनम् ।। ८४१ ।।

बुद्धयुत्पादनशक्तिश्चेद्वार्या साध्यन्न सिध्यति ।

साधनस्य प्रयोगो हि बोधकत्वाद्विना न ते ।। ८४२ ।।

न चाभिधास्त्यसम्बद्धादृते भेदाच्च नास्त्यसौ ।

न चासौ तद्गतम्भेदं बोधयन्त्या धिया विना ।। ८४३ ।।
प्राश्निकैर्न्नागृहीते च वाक्ये सावयवे पृथक् । पक्षे हेतौ सदृष्टान्ते वादिनि प्रतिवादिनि ।। ८४४ ।।
साधनस्य प्रयोगः स्यात्तदुत्पत्त्येष्यते यदि । पूर्व्वाभ्युपगमेनैव प्रतिज्ञा बाध्यते तदा972 ।। ८४५ ।।

इति सकलं यत्किञ्चिदेतत् । यतः (।)

विज्ञानाद्व्यतिरिक्तेननिरालम्बनमुच्यते । न च नीलादिको बोधात्तद्धर्मापि ततोऽपृथक् ।। ८४६ ।।

यद्यापि ज्ञेयत्वादिनाऽस्य धर्मेण तद्धर्मत्त्वमभे (द ?) स्तथापि ज्ञानत्वस्याभावाद्वयतिरक्त
एवासौ । नहि मनुष्यत्वयोगेपि ब्राह्मणादव्यतिरिक्तो भवति चण्डालः । ततो विज्ञानमात्म
व्यतिरेकिणालम्बनेन न सालम्बनमिति ज्ञानत्वरहितेनेति प्रकरणाद् गतिः । प्रमेयत्वञ्च
यथाव्यतिरिक्तं प्रमेयात्ततो विज्ञानादस्य भेद इति कुतः सिद्धसाधनं ।

प्रमेयत्वादभेदश्चेत् सम्वेदनतदन्ययोः । सम्वेदनात्तदन्यत्त्वं नास्त्येव ज्ञानमेव तत् ।। ८४७ ।।
अत्यन्तभिन्नापेक्षायामनालम्बनसाधने । सिद्धसाधनता कस्मादबोधत्वेऽतिभिन्नता ।। ८४८ ।।

यदि केनचिदप्याकारेण भेदः सर्व्वदा भेद एव भिन्नाभिन्नस्य द्रष्टुमशक्यत्त्वात्ततो
भिन्नस्यात्यन्तं भेद एव तदालम्बनत्वे स्वांगालम्बनत्वमेवे केवलन्ततः कथं सिद्धसाधनता ।
ज्ञानाकारतया चाभेदे ग्राह्यस्य भवत्ववान्तरभदः, तथापि तदव्यतिरिक्ताल बनमेव ।

बोधरूपस्य सद्भावे द्वयोः सालम्बनं कथं । द्वयोरपि न बोधत्वे तदस्ति सुखदुःखयोः ।। ८४९ ।।
ग्राह्यग्राहकभेदश्चेत् कथम्बोधादभिन्नयोः । सितनीलादिभेदश्च न कस्याभेदनास्तिता ।। ८५० ।।
सुखदुःखादिभेदोयं यथा बोधात्मनोरपि । सितसातादिभेदोपि न तु ग्राह्येतरात्मवित् ।। ८५१ ।।

यथा सुखदुःखयोः तत्त्वभेदो बोधत्वादभेदेपि तथा सितसातात्मतयापि भेदे को
विरोधः । ग्राह्यग्राहकाकारात्मता तु न प्रतिभात्येव । नहि सितसातादिव्यतिरेकेण
ग्राहकादिता प्रतिभासमानोपलभ्यते ।

तस्माद् ग्राहकादिव्यपदेशो दुरात्मभिः स्वमनीषिकाविप्रणष्टैरुपाक्षिप्तः ।

निरालम्बनबुद्धश्च यद्युत्पत्तिः प्रसाध्यते । स एव पक्षः प्राक्पक्षात्कथम्भेदेन दर्शितः ।। ८५२ ।।

सर्व्वा बुद्धिर्न्निरालम्ब्या सर्व्वोत्पत्तिमती तथा ।

नानयोः साधने भेदः कथन्धर्मो न साध्यते ।। ८५३ ।।
धर्मभूतैव साध्येयं साधनोत्थितया धिया । बुद्धौ सालम्बनत्त्वं स्यान्निरालम्बतया क्षतम् ।। ८५४ ।।

यदाहि निरालम्बना सर्व्वा बुद्धिरुदयवती साध्यते । तदार्थतो निरालम्बनतैव धर्मभता
साध्यते । तथा सति सालम्बनता भ्रान्तिवशादभ्युपगम्यमाना निराक्रियत एव । कथं

379

साधनोपन्यासो व्यर्थः । प्रत्ययशब्दे तु प्रत्ययशब्दो न वर्त्तत एव प्रकरणादिति प्रतिपादितं ।
ततः सिद्धसाधनता कथमसम्वेदनात्मत्त्वाच्छब्दस्येति । बुद्ध्युत्पादनशक्तिनिषेधस्तु नाभिप्रेत
एव । येन साधनव्यर्थता भवेत् । नहि बुद्धिरेव नोत्पत्तिमती । निरालम्बनवादस्यायमर्थः ।

ननु यदि बुद्धिरुदयवत्यपि निरालम्बना किन्तयोत्पन्नयापि । अथ सालम्बना तदा
तयैवानैकान्तिकत्त्वं (।)

तदप्यसत् ।

अन्यापोहस्य साध्यत्वात् व्यावृत्तिः परवञ्चिते ।

क्रियते साधनेनेति व्यर्थकं साधनं कथम् ।। ८५५ ।।

निरालम्बना सकला बुद्धिरिति प्रमाणेन केनचित्प्रतिपत्तव्य एषोऽर्थः । कथमन्यथा
साधनोपन्यासः । ततश्च साधनानिरालम्बनबुद्धेरपि निरालम्बनतैव साध्यते । तस्या
निरालम्बनत्वे कथं निरालम्बनत्वसिद्धिः । नानुमानस्य सम्वादेन प्रामाण्यात् न सालम्बनत्वेन ।
सालम्बनता नास्तीति कथं सम्वादः । आलम्बनस्यानुपलब्धेः । नास्तीति बुद्धेः कथं सम्वादो
यदि दृश्यानुपलब्ध्या पश्चात्तदासौ पदार्थो नोपलभ्यते । एवञ्चेदनालम्बनापि बुद्धिस्तत्त्वनि
श्चयनिबन्धनम् । ततोन्यापोहबोधक एव साधनप्रयोगो नाबोधकः । ततोन्यापोहेपि शब्दार्थे
सम्बन्धोस्त्येव पदार्थानां । भेदोपि काल्पनिकः । पक्षश्च सावयवः संवृत्त्या भवत्येव भेदग्रह
णविषयः । वादिप्रतिवादिनोर्भेदग्रहणं किं प्रथममेव विशीर्यते । तदपि च पश्चात्स्वप्नवदेव
निरालम्बनन्तदा च निर्वृत्ते कार्ये किमिदानीमसिद्धतादिचोदना करिष्यति । अपि च ।
प्रतिपादितमेव तत्पुरस्तादिति किमनेन चोदितेन ।

स्त्रीशूद्रविस्मापनमेव दुष्टैस्तत्त्वानभिज्ञर्गदितम्वराकै (।)

न तत्त्वाबोधस्य पुनः पुरस्तादयुक्तियोगि प्रलयं प्रयाति ।। ८५६ ।।

तस्मादभ्युपगम्यापि भेदप्रपञ्चपक्षादिकं ग ज नि मी ल ने न पुनः परामर्शप्रक्रमेण
तदभावसाधनेन दोषः ।

नन्वहं स्वप्रतिभासमेव केवलं प्रतिपद्ये इति प्रतिपादयन्परप्रतिपत्ता बाध्यते परेण तदपि
प्रतीयत एव । ततः कथं स्वांगालम्बना सिध्यति बुद्धिः ।

तदसत् । परेण प्रतीयते इति नात्र प्रमाणमिति प्रतिपादितं । प्रा श्नि का नामपि
स्वांशमात्रकादपरत्र नास्ति प्रतीतिः । इति निरालम्बनवचनादस्त्येव प्रतीतिस्ततः कुतः
प्रमाणादेषा तव प्रतीतिर्भेदग्रहणमन्तरेण प्रा श्नि का नां न साधनवृत्तिरिति । अथ ये
भेदप्रतीतिमन्तो न भवन्ति ते न प्राश्निका इति ।

तदसत् ।

ये तत्त्वं प्रतियन्त्यत्र तेषां प्राश्निकता न चेत् । अतत्त्ववेदिनां नैव प्राश्निकत्त्वेधिकारिता ।। ८५७ ।।
अथैकपक्षपातेन प्राश्निकत्वं न विद्यते । पक्षपातविनिर्मुक्तः कुत एव भविष्यति ।। ८५८ ।।
परस्परविरुद्धं हि द्वयम्बोद्धुमसांप्रतम् । एकैकबोधादेकत्र पक्षपातस्य सम्भवः ।। ८५९ ।।
ततः प्राश्निकयोरेव परस्परविरुद्धयोः । विवादे प्राश्निकैरन्यैर्भाव्यमित्यनवस्थितिः ।। ८६० ।।
वादिनो प्राश्निकत्त्वञ्चेदितरेतरसंश्रयः । तयोरपि यतो नूनं पक्षपातः स्वपक्षिणि ।। ८६१ ।।
380
तस्मात्प्रमाणपातत्वे नियताभ्युपगम्यता । यत्तु प्रागभ्युपगतं तद्विरोधि तदस्थ ते ।। ८६२ ।।

प्राश्निकानां यदा पक्षवादिप्रतिवादिषु भेदबुद्धिः । तथापि यद्यसौ वादिवचनाद्विपर्येति
प्रमाणबलायातन्न तत्र तैर्व्विरोद्धव्यम् । स्वबुद्ध्या निरूपयतां तेषां यदि तत्परिशुद्धं भवति
कस्मात्रानभ्युपगमे हेतुः । ततः पूर्व्वाभ्युपगमेन यथा कथञ्चिदस्य वाचा ।

नन्वनेन प्रमाणबलिनापि पूर्व्वस्येति किमिदमनलसमप्युच्चैरुच्यते ।

यत्र सत्त्याभिमानोस्ति सा निरालम्बना मतिः ।

इति पक्षे विरोधः किन्तत्सत्त्यत्वमनिच्छतः ।। ८६३ ।।

अथापि स्यात् ।

धर्मा973 धर्मादिबोधे च नासिद्धे परमार्थतः । शिष्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते ।। ८६४ ।।

तदनुष्ठानतो बुद्धैरिष्टो भेदः स्फुटञ्च तैः । सूत्रान्तरेभ्युपेतत्वाद् भवेदागमबाधनम् ।। ८६५ ।।

सर्व्वलोकप्रसिध्या च भवेत्पक्ष974 स्य बाधनम् । कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः ।। ८६६ ।।

सर्व्वाभावो यथेष्टम्वा न्यूनता975 द्यभिधीयते । तेषां सालम्बनत्वे वातैरनैकान्तिको भवेत् ।। ८६७ ।।

तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा । पक्षा976 द्यनन्तर्गमना977 त्तस्य पक्षादिता नहि ।। ८६८ ।।

तन्मिथ्यात्वप्रसङ्गेन सर्व्वं पूर्व्वं न सिध्यति । साध्य978 साधनविज्ञानभेदो नहि तदा भवेत् ।। ८६९ ।।

यावद्यावत्प्रतिज्ञैव979 न्तदन्येस्येतिभाष्यते । तावत्तावत्परेषां स्यान्मिथ्यात्वा980 दाद्यबाधनम् ।। ८७० ।।

विरुद्धाव्यभिचारित्वं बाधो नाप्यनुमानतः । इत्थं सर्व्वेषु पक्षेषु वक्तव्यं प्रतिसाधनं ।। ८७१ ।।
बाह्यार्थालम्बना बुद्धिरिति सम्यवत्वधीरियम् । बाधकापेतबुद्धित्वाद्यथा स्वप्नादिबाध/?/धीः ।। ८७२ ।।

सापि मिथ्येति चेद्ब्रूयात्स्वप्नादीनामबाधने । न स्या981 त्साधर्म्यदृष्टान्तो भवतः साधनेधुना ।। ८७३ ।।

विज्ञानास्तित्त्वभिन्नत्त्वक्षणिकत्वादिधीस्तथा । सत्त्या982 चेदभ्युपेयेत तदानैकान्तिको भवेत् ।। ८७४ ।।

तन्मिथ्याप्रतिप983 त्तौ वा पक्षबाधः प्रसज्यते । तथा च बद्धमुक्तादिव्यवस्था न प्रकल्पते ।। ८७५ ।।

ततश्च मोक्षयत्नस्य वैफल्यं वः प्रसज्यते984 ।। ८७६ ।।

तदेतदसत् । यतः ।

अन्यत्त्वं यद्यभिप्रेत्य संसारिप्रत्ययः स्थितः । धर्माधर्मादिचिन्तेयन्तदेतन्नासमञ्चसम् ।। ८७७ ।।
अतत्त्वेपीष्टतादित्वं बालक्रीडाबदिष्यते । तत इष्टप्रसिध्यर्थं धर्मो(न) नोपदिश्यते ।। ८७८ ।।

इष्टसाधनस्य धर्मत्वं तदन्यस्य धर्मत्वमिति भेदमसौ संसारी निश्चिनोत्येव तस्य भेदवा
सनानपगमात् । यदा च तस्य मुक्तता तदा न केनचिदपि तस्य प्रयोजनम् । नहि बालक्री
डाविषयेष्टसिध्यर्थं परमार्थवित्प्रवर्त्तते (।) यतः ।


381
प्रवर्त्तते जनः सर्व्वस्तत्र यत्रास्ति तत्त्वधीः । रागाच्छोभनबुद्ध्या किं विरुपायां न वर्त्तनं ।। ८७९ ।।
तस्मादतत्त्वेपि नृणां तत्त्वबुद्ध्या प्रवर्त्तनं । तस्य तस्योपदेशः किं न कृत्त्वा गजनिमीलनं ।। ८८० ।।
अनेन तत्रानुष्ठानमविरोधीति साधितम् । तदभिप्रायसूत्रान्तकथितैः का बिरोधिता ।। ८८१ ।।
अतत्त्ववित्प्रतीत्या च बाधने सिद्धसाधनम् । सर्व्वानालम्बनत्वस्य तं प्रत्यनुपदेशनम् ।। ८८२ ।।
कृत्स्नसाधनबुद्धिश्च तस्यानालम्बनाद्धिना । यदा तु बोध्यते तत्त्वं सर्व्वाभावेप्यदुष्टता ।। ८८३ ।।
इष्ट ए तदाऽभावः सर्व्वस्यालम्बनात्मनः । तत्साधनमनालम्बं ततस्तच्चेन्न सिध्यति ।। ८८४ ।।
अविसम्वादिता तेन साध्यानालम्बनास्तिता । तस्य साधर्म्यदृष्टत्वात्तेनानेकान्तता कुतः ।। ८८५ ।।
तदन्यस्य प्रतिज्ञानं सत्येवमुपगम्यते । तदन्यप्रत्ययस्यापि न मिथ्यात्वञ्च नेष्यते ।। ८८६ ।।
तन्मिथ्यापूर्व्वको दोषः कथमिष्टाप्रसिद्घितः । तदन्यस्य प्रतिज्ञायामनवस्था न विद्यते ।। ८८७ ।।
यत्र सत्ताभिमानोस्ति तदनालंबनं मतं (।) निरालम्बनतान्यत्त्वसम्वादेपि निरूपिता ।। ८८८ ।।
प्रतिसाधनमित्थञ्च कथं शक्यनिदर्शनम् । बाधकापेतबुद्धित्त्वमसिद्धमिति साधितम् ।। ८८९ ।।
स्वप्नादिबाधधीः सत्यानुपलम्भेन साधिता । तदुत्थितानुमानस्य बाधकत्त्वादसिद्धता ।। ८९० ।।
बाधकापेतबुद्धिश्च हेतोः सालम्बसाधने । क्षणिकत्त्वादिबुद्ध्या यदनैकान्तिकचोदनम् ।। ८९१ ।।

तदयुक्तं यतो ज्ञानं क्षणिकं बाह्यवर्जितं ।

विज्ञानरूपक्षणिकत्त्वसिध्या साल (म्ब) नासौ क्षणिकत्वबुद्धिः ।

ततोऽनिरालम्बनता सबाह्या न सिध्यतीत्यर्थतया हि पक्षः ।। ८९२ ।।

बाह्यालम्बनाः प्रत्यया न भवन्ति स्वप्नबुद्धिवत् । इति विशिष्य पक्षः कृतः । क्षणिक
त्त्वादि बुद्ध्यानेकान्त इति चेत् । न, क्षणिकत्त्वं यो गा चा र दर्शने विज्ञानात्मभूतमेव साध्यं
ततो विज्ञानात्मसालम्बनता दृष्टान्तेन तथाभूत सालम्बनतैव भेदवत् । अथ व्यतिरिक्तमाल
म्बनं तावत्सिद्धं । न व्यतिरिक्तालम्बना क्षणिकत्त्वबुद्धिः । तथा हि ।

प्रत्यक्षमनुमानम्वा क्षणिकत्त्वादिवेदनं (।) नानुमानं तदन्येन सालम्बनतया स्थितं ।। ८९३ ।।

अविसम्वादितमात्रान्न सालम्बनता विदाम् ।

अविसम्वादो हि योनुमानेन स प्रत्ययान्तरेण व्यवहितः । ततः प्रत्ययान्तरं तथाभूत
मुत्पादयदनुमानं प्रमाणम् । न स्वाकारमात्रग्रहणात् । प्रत्ययान्तरञ्च प्रत्यक्षमेव । साक्षा
त्करणे हि वस्तुग्रहणाभिमानः । तच्च साक्षात्करणं ज्ञानरूपस्य क्षणिकस्य स्वरूपं सम्वेदनेनैव
न तदात्मभूतं तदन्यसम्वेदनेन ग्रहीतुं शक्यम् । अथ स एव स्वसम्वेदनपक्षो न सिध्यति
प्रतिप्रमाणे सति ।

तद्रूपे वेद्यमाने हि यदान्यन्न प्रवेद्यते । तदा स्वरूपसम्वित्तिं को वारयितुमर्हति ।। ८९४ ।।
अवेदनेन वित्तिश्चेत्किं न सर्व्वेण वेदनं । तथा न दृष्टमिति चेदन्यथापि किमीक्ष्यते ।। ८९५ ।।
अर्थापत्तेः क्षयादेवं यथा दृष्टन्तथेष्यतां । आत्मानुभविता दृष्टस्तस्य दृष्टिः कुतो मता ।। ८९६ ।।
स्ववेदनेन चेदेतन्नीलादावपि नाधिकम् । आत्मनो द्रव्यता नैव साधिष्ठा यदि मीयते ।। ८९७ ।।

नीलादेरपि नीलत्ववृत्तिर्वेदनतो न किम् ।

यथैवात्मनो द्रव्यरूपतान्या सम्वित्या वेद्यते तथा नीलादेरपि किन्नाभ्युपगम्यते ।
नीलस्यापि स्वबोधरूपताऽन्या द्रव्यरूपतान्या भविष्यति । आत्मवत्स्वबोधरूपा नीलादयोपि ।382 अथोभयरूपता बौ द्ध स्यासिद्धा (।) सा भी नां स कस्याप्यसिद्धिः समानैव । न ह्येकमुभयरूपं
नाममात्रकेण शक्यम् ।

एकरूपम्भवेदेकमिति मानं प्रवर्त्तते । अनेकरूपमेकञ्चेत्सर्व्वमेकं प्रसज्यते ।। ८९८ ।।
वेद्यवेदकमेकञ्चेन्नीलादि न किमिष्यते । आत्मनीले भवेतां हि तदैके वेद्यवेदके ।। ८९९ ।।
भिन्नदेशतया नो चेत् भिन्नरूपतया न किं । रूपभेदेन भेदो हि प्रसिद्धः सार्व्वलौकिकः ।। ९०० ।।

देशभेदेन भेदो हि रूपाभेदे कथं भवेत् । तथा च सति देशादिभेदः स्याद्व यापिभेदकः ।। ९०१।।

तस्मात्स्वसम्वेदनमन्तरेण वेदनमेव न सिध्यतीति सकलमनालम्बनमेव वेदनम् ।

बद्धमुक्ताभेदोपि नैवास्ति परमार्थतः । भेदो हि नावभात्येव सर्व्वत्र समदर्शिनां ।। ९०२ ।।

मोक्षादियत्नोपि न पारमार्थिकीं स्थितिन्दधानः क्वचिदस्ति लोके ।

वैयर्थ्यचिन्ता यदि तत्र युक्तिभाक् शशस्य श्रृंगेपि न किम्विधेया ।। ९०३ ।।

यथा स पारमार्थिको न भवति यत्नस्तथा भेदोपि बद्धमुक्तादिष्विति समानमेतत् ।
किञ्च ।

विकल्प्योत्पद्यमाना च बाह्यास्तित्वादिधीर्मृषा । बहिरादिविवेकस्तु नाविकल्पकसाधनः ।। ९०४ ।।

विकल्पयन्नेव बाह्यमान्तरं साधारणमवासनानिमित्तादिकं व्यवस्थापयति । अविकल्पकेन
तु साक्षात्करणरूपेण स्वरूपमेव प्रतीयते न पररूपमिति पुरः प्रतिपादितमेतत् तत एतन्नि
राकृतम् ।

985 विकल्प्योत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि ।

मृषेष्टा न च दृष्टात्र प्रमाणान्तरतो गतिः ।। ९०५ ।।

प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम्986 ।

निर्व्विकल्पकं किल बहिरर्थरूपमेव । बाधोर्थापत्तिगम्यः । सा चार्थापत्तिर्व्विकल्प
रूपा बौ द्ध स्य च न विकल्पकं प्रमाणमिति ज्ञानाद्यस्तिता प्रमाणाभावादवशीर्येत (।)

तदसदेतत् । यतः ।

अन्याभावे विकल्पस्य प्रामाण्यं यदि युक्तिमत् ।। ९०६ ।।
विकल्पस्य प्रमाणत्त्वन्न युक्तमिति युक्तिमत् । यदातु न विकल्पस्य न चान्यस्य प्रमाणता ।। ९०७ ।।
तदा विशीयँमाणोपि सर्व्वस्मिन्कोपराध्यतु । व्यवहारो न चेदेवं सम्वृत्या केन वार्यते ।। ९०८ ।।

ननु विकल्प एव सम्वृतिः सा चेद्व्यवहारनिमित्तं ततः स एव परमार्थः व्यवहारावि
सम्वादात् ।

तदप्ययुक्तम् ।

अविभावितरूपस्य प्रतिभासस्य सम्भवे । अविसम्वादिताख्यातिवासनासङ्गभाविनः ।। ९०९ ।।
कलधौतादिमानेन यदि कामलिनिद्वये । परस्पराविसम्वादः का तत्र परमार्थता ।। ९१० ।।

एतत्तु वक्ष्याम: ।

383

सर्व्वञ्चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् ।

सान्निध्यविप्रकृष्टत्त्वे सत्त्वादि न च दुर्लभम्987 ।। ९११ ।।

इदं सन्निधानम्भगवतः । ततो देशनाधर्मस्य विपर्ययश्चैतयोः । इदं सदिदमसदिति
किल दुर्ल्लभमसत्यत्वादेतत्साधकस्य विकल्पात्मनः । तदेतद्वासनाबलनियमादसदपि परमार्थतः
सदेव ।

बौ द्ध द र्श न988 एकस्मिन् पक्षपातोपि युज्यते । मृषात्वेपि च बुद्धीनां बाधो नैवोपलभ्यते ।। ९१२ ।।

द्ववासनायास्तथा भावाद्वाधके सैव कारणम् । भ्रान्तत्त्वस्य कथम्वित्तिरसति प्रतिवक्तरि ।। ९१३ ।।

प्रतिपादितमेतत्प्राक् न पुनः पुनरुच्यते ।

यदि वासनाबलादेव परवशस्य प्राणिनो भवतः सत्त्यासत्त्यावभासौ । तौ च बाधितु
मशक्यौ किमिदानीम्विवादेन परवादिबोधनेन वा । यदि तस्य वासना प्रबोधाभिमुखी
स्वयमे (व) प्रतिपत्स्यते । अथ न (नगं) वचनशतादपि ।

तदसत्यम् ।

वासनायाः प्रबोधोयं यथानेनाभवन्मम । तथास्यापीति विज्ञाय वचनं वर्त्तयेत्परः ।। ९१४ ।।

ततो यदुक्तं ।

मृषात्त्वं यदि बुद्धेश्च वाधः किन्नोपलभ्यते ।

बाधाद्विनापि तच्चेत्स्याद्व्यवस्था989 न प्रकल्पते ।। ९१५ ।।
प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् । स्वप्नादिबुद्धिरस्माकं तत्र भेदोपि किंकृतः ।। ९१६ ।।

न चान्यः प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनः ।

यद्दर्शनेन मिथ्यात्त्वं स्तम्भादिप्रत्ययो ब्रजेत् ।। ९१७ ।।
स्वप्नादिप्रतियोगित्वं सर्व्वलोकप्रसिद्धितः । तदीयधर्मवैधर्म्याद्बाधकप्रत्यये यथा ।। ९१८ ।।

तदपि पराकृतम् । यद्यपि वासनाप्रबोध एव सर्व्वस्य भवन्नवबोधो व्यामोहो वा
तथापि परावबोधाय वचनं प्रवर्त्तयितव्यमेव । तथा हि स एव वासनाप्रबोधोऽनेन प्रकारेण
मम जात आसीदन्यस्याप्येवमेव भविष्यतीत्यवबोधाय वचनप्रवृत्तिः प्रतिनियतवासना
प्रबोधार्थं । तथाभतवासनाप्रबोधार्थितामवधार्य. ततो न व्यर्थता । ततो यदि बुद्धेर्मृषात्त्वं
किन्न बाधोपलब्धिः । तथाभूतवासनाप्रबोधाभावात् । कथन्तर्हि मृषात्त्वपरिज्ञानं वासना
प्रतिबद्धत्वज्ञानादेव । द्विविधं हि मृषार्थत्वमसदर्थत्वं विसम्वादित्वञ्च । विसम्वादित्त्वं
विपरीतवासनाप्रबोधतोऽविपर्यासवासनाप्रबोधतश्च सम्वादित्वमिति ।

ननु सम्वादश्चेदस्ति कथमसदर्थत्त्वं । अविसम्वादाकारस्यापि वासनाप्रतिबद्धत्वात् ।
न हि सम्वादिप्रतिभासेप्यर्थान्वयव्यतिरेकानुविधानमस्ति । एतदेवासदर्थत्वं (।) ततः स्वप्ना
दिप्रत्यसमानत्वादसदर्थता । न हि बाधकप्रत्ययात्स्वप्नादिप्रत्ययानामसदर्थता, येन तदभावात्
जाग्रत्प्रत्ययसत्यत्वं भवेत् ।


384
वासनाप्रतिबद्‌‌धत्त्वे कथमेतद्विभज्यते । इदं सम्वादि न परं नैकत्रास्ति विरुद्‌धता ।। ९१९ ।।

तदसत् ।

वासनाप्रतिबंधेपि यथा नीलादिभेदिता । स्वप्नादिध्वंसयोगश्च सम्वादादि तथा न किम् ।। ९२० ।।

यत्समानं कथञ्चित्किं सर्वथा तत्समानता । मनुष्यत्त्वे समानेपि990 ब्राह्मणेतरता कथम् ।। ९२१ ।।

यथार्थप्रतिबद्धत्त्वे सर्व्वासम्वादभाङ् न वित् । तथा विपर्ययेप्येतत्किमकस्मादसम्भवि ।। ९२२ ।।
वासनाप्रतिबद्धोर्थविदां नास्त्येव व सर्व्वथा । अर्थप्रतिविवेशो हि सर्व्वासामेव दृश्यते ।। ९२३ ।।

तदसत् ।

यथासौ दृश्यतेर्थार्थी तथैव यदि विद्यते । प्राप्तिरस्तु सदार्थानां बाधकः प्रत्ययः कथम् ।। ९२४ ।।

अलौकिकत्त्वादुभयात्मयोगात्स्मृतिप्रमोषाद्विपरीतवित्तेः ।

सबाधकत्वं न तथार्थसत्त्वं ततः स सम्वादतया न योगः ।। ९२५ ।।

अलौकिकोसवार्थसम्वादप्रत्याद्यगोचरत्वात् । अथवा तस्य सत्त्वस्यासत्त्वञ्च ।
ततो दृश्यतेपि बाध्यतेपि । अथवा स्मर्यमाणोऽसदर्थो देशान्तरस्थः प्रत्यक्षतया प्रतिभाति न
तत्रस्थ एव । ततोऽप्राप्तिस्तत्र (।) एवं विपरीतख्यातावपि योजनीयम् । तदेतदप्रमाणवृत्तम् ।

नादष्टपूर्व्वसर्प्पस्य रज्वां सर्प्पमतिः क्वचित् । पूर्वदृष्ट्यनुसारित्वान्न हेतुर्वासना कथम् ।। ९२६ ।।

पूर्व्वदर्शनमन्तरेण हि न भवति रज्ज्वां सर्प्पबुद्धिः । पूर्व्वदर्शनादिदम्वेदनमत्रार्थो
नास्तिति सकललोंकनिश्चयः । अन्यथा सकलकार्यकारणभावोच्छेद एव । प्रतिभासमात्रेणाश
क्यग्रहणात् प्रतिभासमात्रे हि स्वसम्वेदनमेव केवलं हेतुरहितमिति प्रतिपादितं । तस्मात्त
न्निश्चयादेव कार्यकारणभावः । नात्र विपरीतादिख्यातियोगप्रतीतिः । अथापि स्यादेषापि
विपरीतादिख्यातिरेव नात्रार्थो विद्यत इति ।

विपरीतादिवित्तश्चेत्पूर्व्वविद्धेतुता भवेत् । प्रतीतिरन्यापि ततस्तथैवेति प्रतीयताम् ।। ९२७ ।।
अर्थस्य प्राप्तिरन्यत्र ततो नालौकिकादिता । सर्व्वत्रार्थस्य न प्राप्तिरिति पूर्व्व प्रसाधितम् ।। ९२८ ।।
निश्चयादर्थं इत्येवं नेति चेत्तन्न सङ्गतम् । निश्चयोऽलौकिकाद्येपि बाह्योर्थ इति किन्न सः ।। ९२९ ।।
अर्थेप्यनर्थं इति तु निश्चयस्याप्रवृत्तितः । अनर्थनिश्चयस्यास्य तेनानैकान्तितास्ति न ।। ९३० ।।
वासनामूलताज्ञानमर्थता स न बाधनम् । तेन जाग्रद्धियो नास्ति प्रतियोगित्वसम्भवः ।। ९३१ ।।
पूर्व्वदर्शनतो ज्ञानं तदप्यस्तु तदन्यतः । अनादिवासनाङ्गजनितं सर्व्ववेदनम् ।। ९३२ ।।

निरालम्बनवादोयमत एव विराजते ।

अत एवेदमपि निरस्तम् ।

योगिनां जायते बुद्धिः बाधिका प्रतियोगिनी ।

जाग्रत्स्तम्भादिबुद्धीनां ततः स्वप्नादितुल्यता991 ।। ९३३ ।।
प्राप्तानान्तामवस्थाञ्च सर्व्वप्राणभृतामपि । बाधोयम्भविता तेन सिद्धा सप्रतियोगिता992 ।। ९३४ ।।

385

अवश्यं हि प्रमाणपरिशुद्धार्थभावनाबलात् योगिनां प्रमाणभूतप्रत्यक्षं ज्ञानमुदेति विपर्य
यबाधकम् । तेन (।)

इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते । तामवस्थां993 गतानान्तु न विद्मः किम्भविष्यति994 । ९३५ ।

इति निरस्तम् । यतो विदितमेव भावनायाः सामर्थ्यम् । ततोऽवश्यमेव स प्रत्ययो
भावीति कस्मान्न विद्मः । तत इदमत्यन्तसम्बद्धमेव । यदुच्यते (।)

योगिनां चास्मदीयानां त्वदुक्तप्रतियोगिनी ।

त्वदुक्तविपरीता वा बाधबुद्धिर्भविष्यति995 ।। ९३६ ।।

इति । यतः ।

अप्रमाणबलायातभावनाबलभाविनी । येषां ते योगिनो बुद्धिः किन्न शोकादिविप्लुताः ।। ९३७ ।।

ईदृक्996 त्वे योगिबुद्धिनां दृष्टान्तोस्तीति साधितम् ।

दृष्टान्तो युष्मदीयानां न कश्चिदपि विघते ।। ९३८ ।।

तत(:) स्तम्भादिबुद्धीनां भवेत्सप्रतियोगिता ।

बाध्यत्वं वापि बुद्धित्त्वान्मृगतृष्णादिबुद्धिवत् ।। ९३९ ।।
इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः । तदात्मना च बाध्यत्वं ग्राह्यान्तरतयापि चेत् ।। ९४० ।।
जात्युत्तरमिदं प्राह नैवं बाधकतास्थितिः । बाधकत्त्वविवक्षा हि निर्मूलोच्छेदकारिणी ।। ९४१ ।।

यथाकथञ्चिद्वदतस्तदेतज्जात्ड्यजृम्भितं ।

नहि प्रतियोगित्वमात्रं विवक्षितमपि तु बाधकप्रतियोगित्वं । तेन प्रतियोगित्वमात्रं
साधनमसम्बद्धम् ।

बाध997 कश998 चाप्यनैकान्तस्तदन्यत्त्वञ्च पूर्व्ववत् ।। ९४२ ।।

बुद्धादिप्रत्ययान्यत्त्वसाधकप्रत्ययो मृषा । अत्राप्युत्तरमस्माभिः पूर्व्वमेव निरूपितं ।। ९४३ ।।
बुद्धादिप्रत्ययः सर्व्वः स्वाङ्गमात्रावलम्बनः । व्यवहारप्रसिद्धिस्तु यथा तदभिधास्यते ।। ९४४ ।।
मिथ्याधीप्रतियोगित्त्वं999 स्वप्नादाविव ते भवेत् । इति पूर्व्वमेव विहितं नोत्तरं पुनरुच्यते ।। ९४५ ।।

तथाहि ।

मिथ्यात्त्वे सर्व्वबुद्धीनां तारतम्यादिभावतः । बाध्यबाधकभावोयं वासनातारतम्यतः ।। ९४६ ।।
यथा मिथ्यात्वभावेपि बाह्यभावानुरोधतः । बाध्यबाधकभावोयं भवतामविगानतः ।। ९४७ ।।

तत्र विपरीतादिख्यातित्वादसौ इहापि वासनादार्ढ्यभावाभावाभ्यां बाध्यबाधकभाव
इति न दोषः ।


386

ननु बु द्ध स्य भगवतो बुद्धिर्योगित्वरागादिक्षयनिमित्तवती तस्य च विशेष्यबाधना
द्विरुद्धः । तथा हि ।

रागादिक्षययोनित्वनिमित्तादिगतस्तथा । यावान्विशेष इष्टःस्यात्सर्व्वबाधाद्विरुद्धता1000 ।। ९४८ ।।

स्तम्भादिप्रत्ययबाधके बुद्धादिज्ञाने यावन्तो विशेषा रागादिक्षयनिमित्तत्वादयस्तेषां
बाधनाद्विरुद्धतापि हेतोर्भवेत् । तथा हि मिथ्याधीप्रतियोगित्त्वं यदैव स्वप्नादिज्ञानानां
साधितं । तदा ताथागतमपि ज्ञानं प्रतियोगित्वान्मिथ्याप्रसक्तम् । स्वप्नबाधकस्तम्भादि
ज्ञानवदेव । अत्रोच्यते ।

यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति न दूषितः ।

निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता ।। ९४९।।

यथा स्वप्नबुद्धिर्मिथ्यास्तम्भादिबुद्धिप्रतियोगिनीति साध्यते । तथा प्रतियोगिबुद्धि
प्रतियोगित्त्वमपि बुद्धित्वात्स्वप्नबुद्धिवदेव । एवं यथा धूमोग्निं साधयति । तथा इहेदानी
मग्न्यसम्भवमपि साधयतीति न हेतुरेव कश्चित्साध्यसाधनः स्यात् (।) किं च । बुद्धित्वात्प्र
तियोगित्वमात्रमेव साधयति । न विशेषप्रतियोगित्वं तथा यथा कृतकत्वमनित्त्यत्वं साधयति
शब्दस्य तथाकाशगुणत्वविपर्ययमपि साधयतीति प्राप्तं । न चाकाशगुणत्वमपि शास्त्राङ्गी
करणात्साध्यम् । इष्टः सा ध्य इति वक्ष्यते । तस्मान्न विशेषविरुद्धता हेतुदूषणम् ।

ननु (।)

महाजनस्य चाबाधादिदानीन्तनबुद्धिवत । वाच्योऽनुमानबाधो वा यदि वा प्रतिसाधनम्1001 ।। ९५० ।।

महाजनबाध्यबुद्ध्यभावादिदानीन्तनबाधकबुद्धिवत् स्तम्भादिबुद्धिः सत्या विवादास्प
दीभूतस्तम्भादिबुद्धिरबाध्या । तद्विषयत्वेन महाजनस्य बाधकबुध्यनुत्पादात्स्वप्नादिबाधकबु
द्धिवत् ।

तदप्रतिरूपं । तथाहि ।

प्रतिबन्धविनाभूता दृष्टिमात्रप्रसाधना । इष्टा स्यात्साध्यसिद्धिश्चेत् तदेवं युक्तमुत्तरम् ।। ९५१ ।।

न च स्वप्नाबाधबुद्धिरबाध्या परमार्थतः । प्रत्यक्षस्यैव बाधकस्य दर्शनात्संवृत्या
त्वबाध्यत्त्वं स्तम्भादिबुद्धेरपि न काचिन्नः क्षतिः ।

असत्यया (कथं) तर्हिबाधः स्वप्नादिवद्धिया । तारतम्यस्य सद‌्भावादिति पूर्व्वन्निवेदितम् ।। ९५२ ।।

किञ्च ।

जाग्रद्बुद्धिर्न सत्त्यत्वाद्धाधते स्वप्नदर्शनं ।

तत् ज्ञेयानुपलब्धित्वात्तच्चासत्त्यस्य नास्ति किम् ।। ९५३ ।।

प्रतिपादितमेतन् (।) न बाधको नाम स्वाल (म्ब)नसत्त्यतया बाधकोऽपि तु तदनु-

387

पलब्धितः । सा चानुपलब्धिरुपता विपर्ययोपलब्धिरूपतयैव । सा च स्वांशसम्वेदनत्वेपि
न परिहीयते । तथाहि ।

मेयान्तरं स्वरूपं वा सर्व्वोसौ तद्वियर्ययः ।

ततो जाग्रद्धिया बाध्या स्वांशेपि स्थितया परा ।। ९५४ ।।

नन्वियमपि यदि भ्रान्तिः तदा किमवष्टम्भादसौ बाध्या स्वप्नबुद्धिः ।

तदप्यसत् ।

निवृत्ते साधनार्थे स्यात्स्वप्नबुद्धिसमानता । बाध्यबाधकभावेन तदा किन्नः प्रयोजनं ।। ९५५ ।।

नन्वपरमुच्यते ।

पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना । साध्याभेदादवाच्यत्वाद्धेतोर्न्नोभयसिद्धता1002 ।। ९५६ ।।

बोधनं बुध्यति बुध्यते वानेनेति वा विकल्पाः । तत्र च पूर्व्ववद्दोषाः साध्याभेदेन
प्रतिज्ञार्थेकदेशत्वेनाबाध्यत्वात्प्रत्ययत्वस्य हेतोर्नोभयसिद्धता ।

ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थैकदेशता ।

तदाह ।

सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नन्न विद्यते । भवतोत्यन्तभिन्नञ्च प्रत्यक्षेपि1003 न किञ्चन ।। ९५७ ।।

सारूप्या1004 न्यनिवृत्ती च नेत्येतद् गमयिष्यते ।

तस्मान्न हेतुः सामान्यमस्ति सिद्धं द्वयोरपि1005 ।। ९५८ ।।

न युक्तमेतद्यतः ।

सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नं मतं हि नः । व्यावृत्त्य समभावस्तु तया नेतीति वक्ष्यते ।। ९५९ ।।

तत एव परामर्शयोगात्प्रत्ययः प्रत्यय इत्यर्थस्य हेतुना पारम्पर्येण वस्तुसम्बन्धात् ।
प्रत्यय इति1006 कोर्थः सम्वेदनमात्मरूपसम्वित्तिमात्रं । ततोऽसिद्धमेतद् ।

विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः । न स्यादन्वहीनत्वादतद्धर्मतयापि च ।।९६० ।।

तथा इति ।

न चार्थहीना तद्बुद्धिर्हेतुत्वेन भविष्यति । आश्रयासिद्धता चोक्ता विशेष्यस्याप्रसिद्धितः ।। ९६१ ।।
तथा हेतोर्व्विरुद्धत्त्वं दृष्टान्ते साध्यहीनता1007 । विशेषणाप्रसिद्ध्यर्थविकल्पेनैव बोधिता ।। ९६२ ।।

सर्व्वमेतत्प्रागेव परिकृतं । तस्मादसदेतत् । तत एतदनवद्यं सर्व्वे प्रत्यया निराल
(म्ब) नाः प्रत्ययत्वात्स्वप्नप्रत्ययवत्
 ।


388
(ङ) बाह्यार्थनिरासः—

तेन निरालम्बनत्वे सर्व्वप्रत्ययानां ।

तदान्यसम्विदो(ऽ)भावात्स्वसंवित्फलमिष्यते ।। ३३३ ।।

स्वसम्वेदनमेव फलं । विज्ञानं स्वयमुदयत्स्वरूपमेवावभासयति नार्थम् । अर्थप्रति
पादने तस्य सामर्थ्याभावात्। अदर्शनाच्चार्थप्रतिपादनस्य । अत्रोच्यते ।

यदि बाह्योनुभूयेत को दोषो नैव कश्चन ।
इदमेव किमुक्तं स्यात्स बाह्योर्थोनुभूयते ।। ३३४ ।।

किमनया सूक्ष्मेक्षिकया बाह्यन्नानुभूयत एव । अस्य प्रयासस्य किं फलं । यथा
लोकव्यवहाररस्तथास्तु । न चानालम्बनत्वप्रतिपादेनेऽन्यथा व्यवहारो न च व्यवहारादपरमिह
फलमस्ति ।

तदप्यसदेव ।

यदि व्यवहृतिः साध्या व्यवहारो यथा तथा । वेदस्यापौरुषेयत्वे प्रयासः किंफलस्तव ।। ९६३ ।।

न खलु यदनादिव्यवहारोन्यकृतः । पौरुषेयत्वेतरतया सिद्धो येन तदभावेन तद् भवेत् ।
अथ स एव विचार्य क्रियमाणः सदर्थः । तथा सति विचार्यतामपरमपि । अथ पौरुषेयत्वे
प्रमाण्यमेव न स्यादेतदपरस्यापि समानम् । अपौरुषेयत्वेपि प्रामाण्याभावात् (।) किञ्च ।

यदा बाह्यग्रहाभावस्तदा रागादि हीयते । भावनाबलतो वृत्तेस्तदभावे विपर्ययात् ।। ९६४ ।।

तत्त्वनिरूपणे हि रागादिदोषक्षयः । स च परः पुरुषार्थ इति प्रतिपादितं । ततस्तत्त्वं
निरूप्यते । बाह्यार्थस्यानुभवो नास्ति । तथा हि । बाह्योऽर्थोनुभूयत इति कोर्थः । किमनु
भूतिप्रवेशसद्भावादनुभूयत इति व्यपदेशोर्थाप्रवेशनादेव । तत इदमाह ।

यदि बुद्धिस्तदाकारा सास्त्याकारनिवेशिनी1008 ।
सा बाह्यादन्यतो वेति विचारमिदमर्हति ।। ३३५ ।।

तदाकारा दुद्धिरिति कोर्थः । नीलाद्याकारा । नन्विदमिदानीम्विचार्यते । तदाकारेति
कुतः । ततस्तदाकारा बुद्धिरिति परिज्ञानार्थं स पुनर्द्रष्टव्यः । तत्रापि दर्शने तदाकारतैवेत्य
नवस्था । अथ निराकारेण दृश्यते । तदा तदेव दर्शनं किमाकारपरिकल्पनेन । अथ तदाकारेति
तन्निरूपणाकारात्तद्दर्शनाकारेति । तदा तदेवोच्यते । तन्निरूपणन्तद्दर्शनमिति कोर्थः । अथ
द्वयमपि दृश्यते । तथा सति स्वरूपेण द्वयं दृश्यते । ततः परस्परं ग्रहणं न वा कस्यचिदिति
स्वसम्वेदनमेव द्वयमिति प्रतिपादितं । अथ बाह्यं विनाऽयमेव न भवति । एवन्तर्हि बुद्धिं
विनाऽपरोक्षता न भवतीति प्राप्तम् । अथ दृश्यत एवापरोक्षता(।) तथा सति परं परिकल्प
नीयं(।) तदाकारा बुद्धिरपि दृश्यत एव किमपरपरिकल्पः । यतः ।

दर्शनोपाधिरहितस्याग्रहात्तद्ग्रहे ग्रहात् ।
दर्शनं नीलनिर्भासं; नार्थो बाह्योस्ति केवलः ।। ३३६ ।।
389

यदेव दृश्यते तदेवाभ्युपगम्यते । तथा हि प्रतिभासात्तद‌्‌गतमेव नीलमवभासते नापरं ।
ततः प्रतिभासव्यतिरेकेण न प्रमाणं । ततो नाभ्युपगमः । अथ प्रतिभासत्तद्गतन्तन्न प्रतिभासते
प्रतिभासस्यान्तरत्वान्नीलादेश्च बहिरवभासनात् । न व्यतिरिक्तस्य भावे तस्य प्रतिभासनं
स्वरूपेणापरोक्षेण तस्य प्रतिभासनात् । तथा हि ।

व्यतिरिक्तस्य सद‌्भावे न नीलस्यापरोक्षता । स्वरूपेणापरोक्षत्त्वान्न तस्यान्याऽपरोक्षता ।। ९६५ ।।

अथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात्तथा तेन समनाकालोपि
नीलादिकः । यथा च चक्षुरादिकाद् ग्राहकाकारः तथा तत्समानाकारोपि, तदन्वयव्यतिरेक
लक्षणत्वात्कार्यकारणभावस्य । न पूर्व्वापरसद‌्भावोऽर्थस्य प्रमाणतोऽवसीयते । प्रत्यक्षस्य
पूर्व्वापरयोरप्रवृत्तेः । अथ पूर्व्वमप्यसौ नास्तीति कथं प्रतीयते । पश्चाद्वा ग्राहकाकारोपि
कस्मान्न पूर्व्वं परिकल्प्यते बुद्धिर्व्वा सुखादयो वा । अथ नित्त्यत्त्वादात्मन एवमेवेति चेत् ।
अपरोक्षतापि तर्हि प्रागेवास्तीति किं न परिकल्प्यते । विरोधादिति चेत् । न ह्यप्रतीय
मानाऽपरोक्षता युक्ता । अर्थस्तद्व्यतिरिक्तोऽप्रतीयमानोपि युक्तः । व्यतिरिक्त इति केन
प्रतिपन्नं । अत एव कदाचिद् भवेदिति सन्देहचोदना । अपरोक्षतापि कस्मान्नैवमिति चेत् ।
अपरोक्षत्वप्रसङ्गात् । नान्यस्यापरोक्षत्वान्मम परोक्षेति कल्पना स्यात् । शुक्लतादिवत् ।
शुक्लता यद्यपि एकस्य घटादेर्न भवति द्रव्यान्तरस्य भवत्येव । ततोऽपरोक्षताव्यतिरेकेण
नापरो नीलादिः ।

ननु यदा पदार्थस्य शुक्लतापैति किमसावन्यत्र गच्छति । न (।) अपरोक्षतापि
नापरगतान्यत्र गन्त्री । एवन्तर्हि तदव्यतिरेकादर्थस्यापि तदभावादभावः । अव्यतिरेक एव
न निश्चित इति चेत् । अग्नेरपि तह‌र्यभावेऽग्निरूपाभावो न सिद्ध एव । तद्व्यतिरेकेणाग्ने
रभावादिति चेत् । नाव्यतिरेकस्यासिद्धत्वात् । तद्व्यतिरेकेणादर्शनादिति समान सर्व्वं ।
तस्मादसदेवापरोक्षताव्यतिरिक्ततं । अनुमानमपि नापरोक्षताव्यतिरेकं साधयति । कथं न
साधयति । यदा परोक्षावस्थायामपि साधयति ततो नीलमास्त एव यत्पश्चात्प्रतिपत्स्ये ।
न तत्र पूर्व्वरूपानुसारेण प्रतिपत्तिभावात् । स्मरणन्तदनुभवानुसारि स चानुभवोऽपरोक्ष
रूपस्यैव । न च पृथगपरोक्षरूपतामवस्थाप्य नीलादिस्मरणविषयः । इह कथं प्रतिपत्तिरिति
चेत् । नेहापि तथाभूतमेवाध्यारोप्यते । यदि पूर्व्विकामपरोक्षरूपतां परित्यजति । नीलरूप
तामपि तदव्यतिरेकात्परित्यजेदेव नहि विभागेन स्मरणम् । स्मरणमनुमानं न भवत्यधिकस्य प्रति
पत्तेरिति चेत् । नाधिकस्य प्रतिपत्तौ कारणाभावात् । कथन्तदधिकस्य प्रतिपत्तिरिति चेत् ।
नाभावात् । कथं प्रमाणम् । प्रथममेव व्याप्तिसिद्धेः । यदा धूममग्नेरुदयमासादयन्तं पश्यति
परापरदेशाग्निसम्बन्धेन । तदैवमस्य प्रतिपत्तिः । यत्र यत्रायमुपनीयते तत्र धूमं जनयति ।
नैकदेशोऽन्यदेशसम्बद्धम् । ततो यद्यन्यत्रापि भवत्यग्निस्तत्रापि जनयत्येव । तेन धूमदे
शोऽग्ने: प्रतिपन्न एव । स च भावी धूमोग्निर्व्वा तद्रूप एवाध्यारोप्यते नान्यथा शक्यत्वात् ।
ततोऽधिकधूमदर्शनादधिकपावक प्रतिप्रत्तिः । यस्य तर्हि पूर्व्वकं पावकविषयमध्यारोपं
विनैव झटिति धूमदर्शनात्प्रतिपत्तिस्तस्य कथम् । तस्यापि सामान्यप्रतिबन्धमन्तरेणाप्रतिपत्तेः ।
तथा हि(।)यदि नाम झटिति प्रतिपत्तिस्तथापि यदानुयुज्यते । यदि नामात्र धूमः
कस्मादग्निः । एवमेव दृष्टत्वादिति । तेन वक्तव्यं (।) तच्च दर्शनं न परमार्थतोऽपि390 तु दर्शनाध्यारोपयोरेकत्वाद्व्यवसायात् । न च दृश्यमानादिना व्यतिरेकेण विकल्पेत दर्शनादर्थी
न प्रवर्त्तेत । दर्शनार्थिनो नोपदिशेत् । नहि दृश्यमानतामप्रतियन् दर्शनार्थी भवति । योस्ति
स प्रतीयत इति चेत् । यदि दर्शनेंन सम्बन्धो न गृहीतः कथमस्तित्वमात्रप्रतिपत्तेः प्रवर्त्तकः ।
तस्माद् दृश्यमानतामेव प्रतिपद्यमानः तदर्थी नान्यथा । नहि नीलादितामनवगच्छँस्तदर्थी
दृष्टः । तस्मादनुमानमन्यद्वा विकल्पकं विज्ञानं दृश्यमानताव्यतिरेकेण न नीलादितामव
गच्छति । कथन्तर्हि परोक्षविषयमनुमानं । पूर्व्वस्यापरोक्षत्वस्याध्यारोपात् । कथमतस्त
त्राग्निरिति प्रतिपत्तिः । अध्यारोपस्य तथाभावात्पूर्व्वदृष्टमरीचिकाविषयजलवत् । यत्राध्या
रोप्यते स परो वह्नेरिति चेत् । न(।) तस्य स्वरूपेणाप्रतिपत्तेः । तदेव तस्य रूपमिति
चेत् । अपरोक्षमेव तदिति कथम्परोक्षता । स्वरूपप्रतिपत्तिरेव हि परोक्षता परेण प्रतिपत्ति
रिति चेत् । सैवापरोक्षतेत्यपरिहारः । परेण प्रतिपत्तिरिति च प्रतिबन्धबलादध्यारोप
एव । ततः परप्रतिपत्तिरिति मिथ्या । बाह्यस्य परोक्षस्य प्रतिपत्तिर्युक्तापि तस्य स्वयमपि
पश्चाद्दर्शनादेकत्वाध्यारोपादिदन्तत्परोक्षमासीदिति परप्रतिपत्तौ चेत्तदपि नास्ति । इयं सा
परप्रतिपत्तिः । प्रगासीत्परोक्षेति । तस्मादसत्परोक्षं नाम । तस्माद्दर्शनोपाधिरहितस्या
ग्रहणमेव । कथं व्यतिरेकगतिरर्थस्य । यदि नार्थोस्ति सम्वेदनव्यतिरिक्तः कुतो नीलपी
तादिप्रतिभासभेदः । चक्षुरादिकादेव केशप्रतिभासवत् । ननूपघातबलात्केशादिप्रतिभासनं ।
उपघात इति कुतः । केशादिप्रतिभासनादिति चेत् । नीलादिप्रतिभासनादिति प्रकल्प्यताम् ।
नन्वेकरूपता स्यात्केशादिवदेव नानादेशेपि न नानानीलादिता यथा भ्रमति चक्षुषि भ्रमति
तथा किम् नीलादिकं । यदि च चक्षुर्विज्ञानकारणमिष्यते । बाह्यं ततः किन्न नीलादिकम् ।
यथा रूपग्रहणे चक्षुः कारणम् । तथाऽवान्तरग्रहणे ततः परं । ततो बाह्यार्थसिद्धिः ।
सम्वित्प्रतिनियमादिति ।

अत्रोच्यते । (।)

कस्यचित्कञ्चिदेवान्तर्व्वासनायाः प्रबोधकं ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ।। ३३७ ।।

उक्तमेतन्न बाह्यार्थः सिध्यति प्रत्यक्षतः । कार्यव्यतिरेकात्कल्प्यते । कार्यव्यतिरेके
च वरं चक्षुरेव कल्पितं । अर्थान्तरकल्पनातो वरं दृष्टमेव चक्षुरादिकं तद्विशिष्टमिति
कल्पना । तदपि परोपरोधादुच्यते । वरं समनन्तरप्रत्ययस्यैव विशेषकल्पना । शरीरमपि
कारणञ्चेत् । न । शरीरप्रतिभासव्यतिरेकेण तस्याभावात् । तत्प्रतिभासे सतीति चेत् ।
तथापि विज्ञानादेव विज्ञानं समानकालता च शरीरप्रतिभासेन इत्यादि प्रतिभासस्येति न
कारणता । तथा हि ।

यथा रागादिकल्पनां कालादिनियमः स्फुटः । प्रबोधकस्य नियमाद्विना वा तत्प्रबोधकैः ।। ९६६ ।।

तथा नीलादिनियतप्रतिभाससमागमः ।।

रागादयो हि प्रतिनियतदेशकालावस्थाभाविनः प्रबोधकप्रत्ययवशात् । न तु तेषामाल
म्बननियमो व्यभिचारात् । का न्य कुब्जा दिचिन्ताप्रतिभासिनाञ्च नियमः प्रबोधके सत्यन्यथा च ।
न च बाह्यस्यैव प्रबोधकत्त्वं चिन्ताप्रतिभासेनापि चिन्तान्तरवासनाप्रबोधात् । स्वसामर्थ्येन
यथाभोगसम्भवे । न ह्याभोगस्य क्वचित्पक्षपातः । आभोगसमानत्वेपि कस्यचित् पटुरूपस्य

391

प्रतिभासादभ्यासादितो वा स्वप्नादिप्रत्ययानां च कः प्रतिनियमहेतुः । तदा जन्मान्तरादिदृष्टं
बाह्यमेव नियमहेतुरिति चेत् । न । सर्व्वस्य दृष्टत्वात्तत्काले चाभावात्तत्कालनियमे को हेतुः ।

देशादिनियतं बाह्यं प्रतिभासनियामकं । यदि तद्देशबाह्यस्याभावे स नियमः कुतः ।। ९६७ ।।

यदि तत्र बाह्योऽर्थो न स्यात् तदा वा तत्कालदेशनियतप्रतिभासः कुतः अथ तत्काल
तादिकमन्तरेणापि नियमः पूर्व्वार्थदर्शनात् । किमिदानीमथन पूर्व्वप्रतिभासादेव नियमसम्भवात् ।
तथा हि ।

अर्थशून्योऽवभासो हि माभदित्यर्थकल्पना । पूर्व्वार्थादेव नियमे प्रतिभासेन किं कृतम् ।। ९६८ ।।

इदानीमत्रार्थमन्तरेण न प्रतिभासनन्तस्य युक्तम् । प्रतिभासस्य पूर्व्वमेव निरुद्धत्त्वात्
न तत्प्रतिभासः । न ह्यविद्यमान इहेदानीं प्रतिभासत इति बाह्यार्थः कल्प्यते । यदि
त्वविद्यमानोप्यर्थः पूर्व्वदेशकालदृष्ट इह प्रतिभाति । प्रतिभास एव पूर्व्वकालादिः प्रतिभासतां
किमर्थकल्पनया । बाह्यार्थवादिभिरपि प्रतिभासस्याभ्युपगमात् । तथा तत्र बाह्यार्थ एव
प्रतिभातीह त्वयोगान्न प्रतिभास इति चेत् । तत्र योग इति कुतः । सम्वादादिति चेत् ।
ननु सम्वादोप्यपरसम्वादात्किन्न युक्तः । ततः सम्वादादपरः सम्वाद इति सम्वादप्रतिभासप
रम्परैव युक्ता ।

ननु यो हि जनित्वा प्रध्वंसते स मिथ्याप्रत्ययो यथा नेदं रजतमिति । अयन्तु स्तम्भादिः
स्वपरिनिश्चितः कथम्विपर्यस्तः ।

तदसत् ।

वासनाया दृढत्वेन प्रध्वंसो नास्त्यनन्तरम् । यथा रागादिकल्पानां वासनाबलभाविनाम् ।। ९६९ ।।

वासनाबलावलम्बन एव रागादिविकल्पः । तथा बाह्यरहितः । तथाप्यसौ न
नष्टलोचनेपि झटिति विघटते । तथा स्वप्नव्याख्याप्रबन्धः कथंचिदपि न विघटते । वासना
दाढ‌र्यतः । तथाहि (।) स एव पूर्वपाठक उत्थापोत्थाय पुनः पुनः स्वप्ने व्याखायते ।
तस्मान्न बाह्यार्थव्यपेक्षो नियमः । तथाहि ।

स्वप्नदृष्टन्त्वयं किञ्चिज्जाग्रतो नानुवर्तते । अवस्था तादृशी बालकस्येव मूत्रणम् ।। ९७० ।।

बालकस्य मूत्रावस्था स्वप्नदृष्टा जाग्रदवस्थायामप्यनुवर्त्तिनी न तरुणाद्यवस्थायां ।
प्रतिपादितश्चार्थक्रियाव्यभिचारः प्रागिति न पुनः प्रपञ्चः ।

(च) विज्ञानद्वैरुप्यम्—
तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते चोभयाकारस्यास्य संवेदनं फलं ।। ३३८ ।।

द्विरूपमिति बोधाकारं नीलाकारञ्च व्यतिरेकस्यावेदनादेकं । अपोद्धा रपरिकल्पनया
द्विरूपं । कुत एतत् । यस्मादेवमनु (भू) यतेस्मर्यते च । तत उभयाकारादपरस्य सम्वेद
नस्याभावादर्थस्य सम्वेदनं उभयाकारस्य न फलमित्युपसंहारः । नन्वर्थसम्वेदनतया प्रतीयते
कथं स्वसम्वेदनं ।

392

अत्रोच्यते ।

यदा निष्पन्नतद्भाव इष्टोनिष्टोपि वा परः ।
विज्ञप्तिहेतुर्व्विषयस्तस्याश्चानुभवस्तथा ।। ३३९ ।।

तदा हेतोर्न्निष्पन्नतद्भावस्याऽभावादनुभवस्यैव सम्वेदनं नीलात्मत्त्वाद्यतस्तस्यास्तथैव
नीलादित्वेनैवानुभव इति स्वसम्वेदनमेतत्परमार्थतो नार्थसम्वेदनम् । अर्थत्वेनानुभवेपि
स्वप्नसम्वेदनवत् । यदि वाऽर्थसम्वेदनमेव फलम् । यतः ।

यदा सविषयं ज्ञानं ज्ञानाङ्शेर्थव्यवस्थितेः ।
तदा य आत्मानुभवः स एवार्थविनिश्चयः ।। ३४० ।।

यः पुनरपरं बाह्यं न कल्पयति ज्ञानाङ्ग एव बाह्यतया तेनावसीयते । तदा य
एवात्मनो ज्ञानाकारस्यानुभवः तथैव वासनानियमादर्थ इति निश्चयस्तदा निश्चयबलादर्थस
म्वेदनं फलमिति व्यवस्थाप्यते । तदा विज्ञान वा दे प्यर्थसम्वेदनं फलं । तदा ग्राह्याकारः प्रमेयं ।
ग्राहकाकारः प्रमाणं तत्सम्वेदनफलं । अथवा स एवार्थ इति प्रतीयते । तस्य च सम्वेदन
त्वात्सम्वेदमेव फलम् । अपि च । बाह्यमर्थमभ्युपगच्छतामपि स्वसम्वेदवमेव फलं ।
यतः ।

यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते ।
इष्टोऽनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः ।। ३४१ ।।

नहि सम्वेदनस्यान्यथात्वे वस्त्वन्यथेति (वक्तुं) शक्यम् । तस्मात्सम्वेदनानुसारेणैवार्थव्य
वस्थितेः तदभिन्नयोगक्षेमत्वाद्वाह्यवेदनं स्वसम्वेदनमेव । तेनोपचारात् बाह्यवेदनमुच्यते । यतः ।
यदीष्टाकार आत्मास्य ज्ञानस्य अन्यथा चानुभूयतेर्थः । इष्टोनिष्टो वा । इष्टाकारेणा
निष्टाकारेणापीष्टस्तदा तेन भवत्यर्थः प्रवेदितो मुख्यवृत्याऽन्यथा तूपचार एव । तस्मात्स्ववेदन
मेव फलं बाह्येप्यर्थ इति दर्शयति ।

ननु सत्त्यत्वेर्थसम्वेदनमेव युक्तम् । तस्य भावादसति त्वगत्या स्वसम्वेदनं युक्तं ।

तदसत् ।

विद्यमाने पि बाह्येर्थे यथानुभव एव1009 सः ।
निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ।। ३४२ ।।

नहि विज्ञानवादेपि स्वसम्वेदनमगत्याभ्युपगम्यतेऽपि तु तस्यैव सम्वित्तेः । अगत्या
त्वङ्गीकरणे बाह्य एवार्थः किमनङ्गीकृतः । यतः ।

यदि बाह्यं न विद्येत कस्य सम्वेदनम्भवेत् ।
यद्यगत्या स्वरूपस्य बाह्यस्यैव न किम्मतं ।। ३४३ ।।

सदृश्यगतिः । तस्मात्स्वरूपसम्वेदनमेव दृश्यत इति वक्तव्यं नागतिः । तत्र यदि
बाह्येप्यर्थे स्वसम्वेदनमेव दृश्यते तदेव भवतु । अर्थसंवेदनन्तुं न युक्तमिति परित्यज्यते ।
स्वरूपेण हि वित्तीनां भिन्नत्वात्प्रतिपुरुषं नानाकारवेदनं युक्तं । नत्वर्थस्य नानाकारवेदनं

393

स्वरूपेणानेकात्मताप्रसङ्गात् । नानाप्रतिपत्यसम्वेद्यमानोप्येक एवार्थ इति बाह्यदर्शिमतम् ।
तत एकस्य नानारूपसम्वेदनमयुक्तम् । नानारूप एवार्थ इति चेत् । न ।

अभ्युपायेपि भेदेन न स्यादनुभवो द्वयोः ।।

अकस्मिन्नेवार्थे द्वयोरनुभव इति न स्यात् । स्वाकारपरिसमाप्तत्वात् । यद्याकारा
न्तरमपि तत्रैवानुप्रविश्य प्रतिभासेत तदा स्यादेकत्वगतिः (।) अथवा न स्यादनुभवो द्वयोरिति
वस्त्वर्थः । अथवा भेदेनैकैकपर्यवसानेन न स्यादनुभवः सर्व्वस्यानेकाकारानुभवप्रसङ्गात् ।

अदृष्टावरणान्नो चेन्न1010 नामार्थवशा गतिः ।। ३४४ ।।

यद्यदृष्टमावरणमिति न द्वयदर्शनं दृष्टेनैव तर्हि एकत्वप्रतिपत्तिर्वारितेति कुत एकत्वे
प्रमाणं तिमिरवच्चादृष्टम्भवेत् । चन्द्रद्वयमेव तत्रैकदर्शनं द्वितीयदर्शनस्यादृष्टेन वारणादेषापि
कल्पना भवेत् । ततस्तिमिरसमानत्वाददृष्टस्य नार्थवशा गतिः । अदृष्टेनैव बाह्यार्थशून्यं
विज्ञानं जन्यत इति किन्नाभ्युपगम्यते । अथादृष्टमर्थयोग्यदेशावस्थितार्थप्रतिपत्तिवारणे कथं
समर्थमिति वक्तव्यं ।

तमनेकात्मकं भावमेकात्मत्त्वेन दर्शयत् ।
तददृष्टं कथन्नाम भवेदर्थस्य वेदकम् ।। ३४५ ।।

—इति संग्रह- (श्लोकः) ।

अपि च ।

अभ्यासबलभावित्वमिष्टानिष्टार्थसम्विदः । दृश्यते दृष्टसाध्यत्त्वं कथमत्रावगम्यते ।। ९७२ ।।
तदेवादृष्टमितिचेत्सिद्धमेव समीहितं । वासनाबलसम्भूतं सर्वमेवेति सिद्धितः ।। ९७३ ।।

ननु नार्थ इष्टानिष्टतयावभासते । अर्थाकार एव कल्पना एव तथा भवन्ति ।
अत्रोच्यते ।

इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि1011 ।
अरिष्टादावसन्धानं1012 दृ1013 ष्टन्तत्रापि चेतसां ।। ३४६ ।।

अरिष्टेन गृहीतानामक्षबुद्धिरप्यन्यथा दृष्टा । तस्माद् सदेतत् ।

तस्मात्प्रमेये1014 बाह्येपि युक्तं स्वानुभावः फलं ।
यतः स्वभावोस्य यथा तथैवार्थविनिश्चयः ।। ३४७ ।।

अतो बाह्येप्यर्थे स्वसम्वेदनमेव फलम्। नार्थसम्वेदनं तस्य स्वसम्वेदनानुप्रवेशात्।
अत्रापि फले विषयाकारतैव प्रमाणम् । यदाहाचार्यः ।

यदा तु बाह्य एवार्थः प्रमेयस्तदा विषयाकारतैवास्य प्रमाणम् । तथाहि । ज्ञानं
स्वसम्वेद्यमपि स्वरूपमनपेक्ष्यार्थाभासतैंवास्य प्रमाणम् । यस्मात्सोर्थस्तेन मीयते । यथाह्य
र्थस्याकारः शुभादित्वेन1015 प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते । यावदाकारभेदेन1016 प्रमाणप्रमेयत्त्वमुपचर्यते ।


394

नन्वव्यतिरेकाद् ग्राहकाकारोपि कस्मान्न प्रमाणं । अत्रोच्यते ।

तदार्थाभासतैवास्य प्रमाणन्न तु सन्नपि ।
ग्राहकात्माऽपरार्थत्त्वाद् बाह्येष्वर्थेष्वपेक्ष्य1017 ते ।। ३४८ ।।

नहि तदनुरूपा बाह्यार्थस्थितिः । अपरार्थत्त्वात् । नहि स्वसम्वेदनं परार्थं व्यवस्था
पयति । आकारव्यतिरे (के) ण सर्व्वत्र समानत्वात् ।

यस्मा1018 द्यथा निविष्टो सावर्थात्मा प्रत्यये तथा ।
निश्चीयते निविष्टोसावेवमिति;

आकारवशेन हि । अर्थ एवं नीलादिकः स्वाकारेण निविष्ट इति प्रत्ययः । ते (ना)
र्थाकार एवार्थकल्पनानिमित्तं ततः स एव प्रमाणं । एवन्तर्हि अर्थवेदनमेव फलं किनिदानीं
स्वसम्वेदनेन ।

असदेतद्यतः (।) तदर्थकल्पनमात्मसम्वेदनानुरूपमेव । तदेवाह(।)

आत्मसम्विदः1019 ।। ३४९ ।।
इत्यर्थसम्वित् सैवेष्टा यतोर्थात्मा न दृश्यते ।

यतोऽ(दृ)श्यमानन्न प्रत्यक्षस्य प्रमेयं । कथं हि परोक्षेऽर्थे प्रत्यक्षस्य वृत्तिः प्रत्यक्षस्य1020
च फलव्यवस्था प्रस्तुता तस्मात्स्वरूपप्रत्यक्षत्वादर्थस्यासम्वेदनात्स्वसम्वेदनं फलम् ।

तस्या1021 बुद्धिनिवेश्यार्थः1022 साधनन्तस्य सा क्रिया ।। ३४९ ।।

तेन हि सा क्रियतेऽतस्तस्य सा फलं तत्‌क्रमेण तस्याः प्रथनात् । एवन्तर्हि बाह्येर्थे
प्रमाणमाकारः सम्वेदनन्तु स्वरूपे फलं प्रवृत्तमिति विषयभेदः ।

तदसत् । यतः ।

यथा निविशते सो ऽर्थः तथा हि स प्रकाशते1023 ।
अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता1024 (।) ।। ३५० ।।

स्वविदेवेयं परमार्थतः । व्यवहारतोऽर्थवित् । ततो व्यवहारापेक्षयाऽर्थ एव फलं ।
अर्थ एव प्रमाणमिति कुतो विषयभेदः परमार्थापेक्षयापि स्वरूपे द्वयमपि । तथापि कुतः ।
एतदेवाह ।

तस्माद्विषयभेदोपि न;

(छ) अर्थसंवेदनफलम्—

स्वसम्वेदनं तर्हि बाह्येऽर्थे फलं (।) प्रमेये कस्मान्नोक्तमित्याह ।


395
स्वसंवेदनं फलम्(।।)
उक्तं स्वभावाचिन्तायां तादात्म्यादर्थसम्विदः1025 ।। ३५१ ।।

परमार्थापेक्षया स्वसम्वेदनमेतदर्थसम्वेदनमपि । यदि नाम तदर्थसम्वेदनमनिरूपित
सम्वेदनस्वरूपस्य निरूपणायान्तु स्वसम्वेदनमेव ।

ननु यदि स्वरूपेणार्थस्यानवभासनं ज्ञानमेव स्वेन रूपेण प्रतिभाति कथमर्थस्य प्रमेयता ।
तादृशत्वादर्शस्येति चेत् । तादृश इति कथं ज्ञायते । नानाकारा हि विज्ञप्तय इति चोक्तं ।

अत्रोच्यते ।

तथावभासमानस्य तादृशोन्यादृशोपि वा ।
ज्ञानस्य हेतुरर्थोपीत्यर्थस्येष्टा प्रमेयता ।। ३५२ ।।

यद्यपि जलावभासि विज्ञानमुपजायते जलमन्तरेणैव तथापि मरीचिकाः समाश्रित्योद
यवतः कथञ्चिदर्थहेतुतामाश्रित्यार्थालम्बनमुच्यते ।

ननु यदि हेतुत्वादेवालम्बनता वासनाहेतुकमेव युक्तं । न हि सा न हे तुः । दृष्ट
शक्तिश्च वासना तदाकारजनने । तथा च प्रतिपादितं भवतैव । यदि तु तदाकारता तथा
भूतार्थमन्तरेण न भवेत् । युक्तमर्थसम्वेदनं । अन्यथा तु ।

यथाकथञ्चित्तस्यार्थरूपं युक्त्याव1026 भासिनः ।
अर्थग्रहः कथं; सत्त्यं न जानेहमपीदृशम् ।। ३५३ ।।

सन्निहितमर्थमन्तरेणापि यदा तदाकारता तदा तस्य तावदर्थस्य न ग्रहणम् । अन्यदे
शदृष्टस्य ग्रहणमिति चेत् । अन्यदेशेपि यदि तदा नास्ति कथं प्रतिभासः । यत्रास्ति1027 तत्र
प्रतिभास इति चेत् । यदि क्वापि नास्ति क उपायः । प्रतिभासादेव ज्ञायते । अवश्यं
क्वापीति1028 प्रतिभासोऽर्थमन्तरेण न दृष्टं इति प्रतिबन्धादेवं गतिः । एवं तर्हि स न दृष्टः कथं
प्रतिभाति । सोपि जन्मान्तरादौ दृष्ट एवेति चेत् । न । नियमाभावात् अदृष्टोपि प्रतिभास
इष्यते । एवन्तर्हि ।

अदृष्टोपि हि देशादावर्थाऽन्यत्रावभासते । यदि सर्व्वस्तदा सर्व्वः सर्व्वदर्शी प्रसक्तिमान् ।। ९७४ ।।

अदृष्टस्यापि देशान्तरादौ व्यवस्थितस्य प्रतिभासने सर्व्वः सर्व्वदर्शी प्रसक्तः ।
अवस्थाविशेषमन्तरेण न प्रतिभाति । तिमिरादौ प्रतिभातीति चेत् । न । तिमिरस्य
सर्व्वसाधारणत्वात्सर्व्वप्रतिभासनप्रसङ्गः । किञ्च । तिमिरं दर्शनविघातकृत् तदेव
किन्दर्शनहेतुः1029 । दर्शनहेतुत्वे सकलदर्शनप्रसङ्गः । यदेव दृश्यते तस्यैव जनयतीति चेत् ।
अविद्यमानस्यैव तर्हि दृश्यते । तदेवाविद्यमानदर्शनं जनयतु अर्थमन्तरेण दर्शनन्न दृष्टमिति
चेत् । अर्थयोग्यदेशावस्थानमन्तरेणापि न दृष्टं । अनेनैव व्यभिचार इति चेत् । समान
मुभयस्यापि । स एवार्थ इति चेत् । नार्थत्वस्याभावात् । एवंभूत एवार्थ इति चेत् ।
सर्व्व एवैवंभूतः । अलौ (कि) कत्वे सर्व्वमलौकिकं । नहि दर्शनव्यतिरेकेणापरो विशेष
396 इति प्रतिपादितम् (।) प्राप्तिरिति चेत् । तदपि दर्शनमेव । अनेन दर्शनादि व्याख्यातम् ।

यथैव प्रथमं ज्ञानं तस्य प्राप्तिमपेक्षते । तत्प्राप्त्यापि पुनः प्राप्तिरपेक्ष्येत्यनवस्थितिः ।। ९७५ ।।
कस्यचितु यदीष्येत स्वत एवाप्तिरूपता । प्रथमस्यापि तद‌्भाव इति सर्व्वसमानता ।। ९७६ ।।
प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्त्यता । अन्योन्याश्रयमित्येका सत्त्यर्थे नोभयस्य तत् ।। ९७७ ।।
अर्थकारणशुद्धत्वात्तु ज्ञानस्याति सत्त्यता । तज्ज्ञानस्यापि सत्त्यत्त्वं तत्कारणविशुद्धितः ।। ९७८ ।।
एवं परंपरापेक्षादनवस्था प्रसज्यते । वासनाबलभावित्वं मृगतृष्णाजलेस्थितम् ।। ९७९ ।।
ततःसकलमेवन्तदिति कल्प्यमनाकुलं । अनादिवासनासङ्गप्रतिबद्धप्रवृत्तयः ।। ९८० ।।

यस्य नीलादयस्तस्य न दोषो नाम दृश्यते ।

ननु वासनाप्रतिबन्धोपि स्वसम्वेदनज्ञानात्मनि कथं ।

स्वरूपात्प्रतिबद्धश्चेदपरः केन गृह्यते । स्वरूपमेव स यदि नाममात्रं कृतम्भवेत् ।। ९८१ ।।

यदि स्वरूपव्यतिरिच्यमानात्मा प्रतिबन्धो यत्र च स तदा पृथग्भूतग्रहणेन स्वसम्वेदनं ।
न चेत्पृथग्भावः सम्बन्धसम्बन्धिनावेव तर्हि न स्त इति न सम्बन्धग्रहणसम्भवः ।

तदप्यसत् । यतः ।

वासनाप्रतिबन्धोयं सुखेनैव प्रतीयते । स्मरणं पूर्व्वविज्ञानप्रतिबद्धं प्रतीयते ।। ९८२ ।।

स्मरणमुपजायमानमेवात्मनोऽनुभवप्रतिबन्धं प्रतिपादयति तदव्यवसायवशादेवमुच्यते ।
अस्मरेण तर्हि कथं वासनाप्रतिबद्धत्वप्रतीतिः । तथाहि ।

दृष्टमेतन्मयेत्येवं स्मरणं वेदने सति । न त्वस्मरणमात्मानं निवेदयति कस्यचित् ।। ९८३ ।।

स्मरन्नेव दृष्टमेतदिति निरूपयत्यन्यथा दृष्टत्वस्य निरूपयितुमशक्यत्वात् । अस्मरण
सम्वेदने तु न दर्शनानुसारित्वप्रतीतिः ततस्तद्वासनाप्रतिबद्धमिति कथं प्रतीतिः तत्रापि दृष्टमिति
प्रतीतेः । स्मरणेन सहैकीकृत्य तस्यापि प्रतोतेरन्यथा व्यवहारायोगात् । स्मर्यमाणदृश्य
मानयोरेकतया प्रतीतिः । ततः सकलं वासनाप्रतिबद्धमेव । अथ स्मर्यमाणदृश्यमानयोरे
कताप्रतिपत्तिर्भ्रान्ता । न । बाधकाभावात् ।

एतदेव स्मरामीति पूर्व्वदर्शनमत्र मे । न च बाधकमत्रास्ति तत्र स्मृत्या सहैकता ।। ९८४ ।।

अथ स्मरणाकारेण पूर्व्वरूपन्न गृह्यते । तथा सति पूर्व्वपरयोः कथम्भेदप्रतीतिरतो
ऽद्वैतमेव । तथासति सुतरां सम्वेदनात्मना । अपि च । बाह्यवस्तुनि कार्यकारणभाव
निंयमस्य कर्त्तुमशक्यत्त्वात् तथाहि ।

बाह्यस्यादर्शनात्पूर्वं कथम्विज्ञानकार्यता (।) विज्ञानस्य तु दृष्टत्वाद्युक्ता विज्ञानकार्यता ।। ९८५ ।।

तथा (।)

देशकालाद्यवस्थातस्तत्कार्यस्यान्ययोदयात् । कार्यकारणभावस्य नियमो नोपपत्तिमान् ।। ९८६ ।।

सम्वेदनपक्षे तु सम्वेदनं पूर्व्वं सम्वेदनादेवोपजायते । यद्यपि नामाग्निमन्तरेण भवति
धूमस्तथापि धूमवासनातो भाव इति नाहेतुको जनप्रतिभासश्च । मशकवर्त्तिमृगतृष्णिका
धूमजलवत् । बाह्यमेव वासनाबलाद् भवतीति चेत् । इष्यत एवैतद्वाह्यवासनाबलायातत्वा
न्नाममात्रमेव कृतं स्यात्तच्च लोकेनैव कस्तवात्र पुरुषकारः ।

397

ननु वासनाकार्यत्वेन न प्रतिभाति कथम्वासनाकार्यता । अकस्माद्धूमादग्निं प्रतियतः
किं बाधककार्यत्वं प्रतिभाति । पर्यालोचयतो भवतीति चेत् । वासनाकार्यत्वेपि समानं ।
जन्मान्तरादिवासनाप्रबोधस्यापि सम्भवात् । बुद्धस्य बालक्रीडास्वप्नसम्भववत् । ततश्च(।)

जन्मान्तरादिदृष्टस्य प्रतिभास इतीरितं । वासनाबलभाव्ये वावभास इति निर्णयः ।। ९८७ ।।
ततश्च पूर्व्वपूर्व्वस्य विज्ञानस्यावभासनं । सर्वत्र बाह्यं विज्ञानाद्वाह्यमेवोपपादितम् ।। ९८८ ।।
अनादिवासनासङ्गविधेयीकृतचेतसाम् । विविधः प्रतिभासोयमेकत्र स्वप्नदर्शिनाम् ।। ९८९ ।।
कार्यत्वात्सकलं कार्यं वासनाबलसम्भवं । कुम्भाकारादिकार्यम्वा स्वप्नदर्शनकार्यवत् ।। ९९० ।।
प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते । वासनासङ्गसम्मूढचेतः प्रस्यन्द एव सः ।। ९९१ ।।
प्रधानानां प्रधानं तत् ईश्वराणां तथेश्वरं । सर्व्वस्य जगतः कर्त्री देवता वासना परा ।। ९९२ ।।
असमञ्जसवृत्तस्य सहोद्वेगप्रवर्त्तिनः । अन्यथा जगतः कर्त्ता प्रेक्षापूर्व्वक्रियः कथम् ।। ९९३ ।।

स्वातन्त्र्ये वर्त्तमानस्य शक्तस्य परिजानतः ।

असमञ्जसवृत्तित्वं यदि कः केन शिक्ष्यताम् ।। ९९४ ।।
उपदेशस्य दाता चेत्स एव स्वान्यजन्मनः । स्वयं कर्ता विरूपं यः तस्य का न्यायवादिता ।। ९९५ ।।
असमञ्जसभावाय विधाता चेत्समञ्जसं । प्रक्षालनादमेध्यस्य दूरमस्पर्शनम्वरम् ।। ९९६ ।।
अशक्यमन्यथाकर्त्तुमत्र शक्तिः कथम्मता । वासनाबलतः सोपि तस्मादेवं प्रवर्त्तते ।। ९९७ ।।

इति प्रधानेश्वरकर्त्तृवादनद्यः सदा शीघ्रवहाः प्रवृत्ता (ः।)

विशन्त्य एवक्षयतां प्रयांति तद्वासनामेयसमुद्रमेव ।। ९९८ ।।
वासनैव वरं मूढाः सदुपायेन मेध्यतां (।) तत एव समस्तस्य वांछितस्य प्रसिद्धयः ।। ९९९ ।।

तस्मादर्थग्रहः कथमिति नाहं प्रष्टव्यस्तदभिप्रायपर्यन्तनयनार्थमेतदहन्तु पुनरीदृशन्न
भवतः सर्व्वथा समर्थयितुं शक्तः ।

अतिदुर्विहितं यत्तु कः समर्थयितुं क्षमः । अत्यन्तपूतिबीजस्य कर्षकः किं करिष्यति ।। १००० ।।
(ज) विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था—

ननु यदि ग्राह्यग्राहकाकारता नास्ति कथन्तथाव्यवहारः । अयमपि भवतो व्यामोह
एव (।) नहि ग्राह्यादिव्यवहारोपि सम्विदितः । संवित्स्वरूपे निमज्जनात् । तदात्मक एव
व्यवहार इत्यर्थः । तथा हि ।

अविभागोपि बुद्ध्यात्मविपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।। ३५४ ।।
मन्त्राद्युपप्लुताक्षणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ।। ३५५ ।।

अविभागो बुद्ध्यात्मेति स्वसम्वेदनप्रसिद्धमेतत् । तथा च प्रतिपादितम् । विप(र्य)
स्तदर्शनैस्तु ग्राह्यादिरूपेण गृह्यते । न । अपि तु लक्ष्यते । परेण सदभावेपि दृश्यत
इति विपर्यासमारोप्य तथा व्यवहारः । दर्शनमेतदिदानीं मम, बाह्यं तु परेण दृष्टमासीदेव ।
एतत्पुनरसौ न विचारयति (।) परेण यद् दृष्टं तन्मया दृष्टमिति कथम् । नहि परोप्येवं
जानाति । तस्यापि तदस्मत्सम्वेदनवदेवासाधारणम् । अथ सोपि मया दृष्टमित्यनुमानादेव398 जानाति । तथा सतीतरेतराश्रयदोषः । कार्यदर्शनभावादिति चेत् । नैकत्वप्रतिपत्त्यप्रसङ्ग
गात् । नहि धूमादग्निर्ज्जायमानो महानसस्थ एव ज्ञायते । अन्यत्त्वाद् धूमस्येति चेत् ।
रोमाञ्चादिकार्यस्यान्यत्त्वादपरः परस्य ग्राह्याकारः । किञ्च । सम्वेदनाद्रोमाञ्चादयो
नार्थात् । दर्शनयोश्च न दर्शनेन मिश्रीभावप्रतिपत्तिरन्यथा नानुमानमपेक्ष्येत । नहि
प्रत्यक्षेऽनुमानं प्रवर्त्तते ।

ननु रूपमेव प्रत्यक्षं परदृश्यता तु तत्राप्रत्यक्षा ततोऽनुमानमिति चेत् । ननु परदृश्यता
तत्रास्तीत्यत्रापि नैव प्रमाणम् । अत्र एव संदेह इति चेत् । एवन्तर्हि पीतरूपतापि नीलरू
पतया दृश्यमाने किन्न सन्देहविषयः । पश्चादुपलप्स्यमानेग्नौ वह्निरूपतास्तीति कुतः ।
पश्चादुपलम्भादेव । अत्र तु परदृश्यतायां पश्चादपि नोपलम्भः (।) ननु परदृश्यमानताऽन
वगमे व्यवहार एव नास्ति (।) न (।) सादृश्यमात्रेण व्यवहारप्रसिद्धेः । एकत्वमन्तरेण तु
व्यवहारो नेत्येतत्कुतः ।

ननु यद्यनुमानं प्रवर्त्तते परोक्षे एकत्वेपि प्रवर्त्तते न चेत्सदृशेपि कथम् । सत्त्यमेतत्स
दृशेपि कुतोऽनुमानं । केवलं दृश्यविकल्प्यार्थैकीकरणमात्रेण व्यवहारमात्रमेतत् । परमार्थ
तस्तु स्वरूपमात्रालम्बनमेवानुमानम् । परोक्षविषयता कथमिति चेत् । न ।

ज्ञानं परोक्षविषयं कथमस्तु युक्तं, तत्रावभाति यदि कैव परोक्षता या ।

मुक्त्वावभासनमथापि परोक्षतार्थस्तेन प्रतीतिरिति वाग्विधिरेष शुद्धः ।। १००१ ।।

ततः सम्वादनात्तस्य प्रतीतिरिति चेन्मतम् ।

प्राप्तिरस्तीति तत्तत्र प्राप्तिकाले सदुच्यताम् ।। १००२ ।।
पूर्व्वन्तु तस्य सद‌्भावः केन मानेन गम्यताम् । तद‌्भावेन विना सैव प्रतिपन्नम्भवेत्तदा ।। १००३ ।।
भाविवस्त्त्वनुमाभावे कथमस्ति प्रतीतता । सर्व्वत्र भाविरूपस्य प्रतीतिरिति निश्चयः ।। १००४ ।।
द्वयोरपि प्रतीतिश्चेद्वर्त्तमानभविष्यतोः । एकरूपप्रतीतत्वं कथम्भाविभविष्यतोः ।। १००५ ।।
तस्मान्न परमार्थेन प्रतीतिरनुमानतः । परोक्षश्चेद् घटो नास्ति कथं पश्चात्प्रतीयते ।। १००६ ।।
तदैवोदययोगश्चेत्कथं स्यात्कारणाम्विना । दृष्टत्वादेवमेवेति कोत्र पर्यनुयोगभाक् ।। १००७ ।।
दृष्टत्वापूर्व्वसद‌्भावः कस्मादस्य न कल्प्यते । न तथा दृश्यते तेन न तथा परिकल्प्यते ।। १००८ ।।
तथापि परिदृश्यस्य नानुमानन्तथैव तत् । अस्तीति ज्ञायतां केन परेणेत्यसदुत्तरं ।। १००९ ।।

यतः (।)

परोपि परविज्ञातमिति नैवावगच्छति । अनुमानेन तस्यापि ज्ञातावन्योसंश्रयः ।। १०१० ।।
परसाधारणास्तित्त्वे ज्ञातेस्तीति तदुच्यते । तदस्तित्वेनुमानस्य प्रतिबन्धात्प्रमाणता ।। १०११ ।।
तस्मात्प्रत्यक्षतोस्तित्वे ज्ञाते तत्रानुमा भवेत् । अनुमानेन चास्तित्वे ज्ञाते ध्यक्षस्य तद‌्ग्रहः ।। १०१२ ।।
अन्योन्यसंश्रयादेवमेकस्यापि न सम्भवः । अन्योन्यसंश्रयं किञ्चिदन्यत्रापि न दृश्यते ।। १०१३ ।।

तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्य
ग्राहकसम्वेदनकल्पनाप्रवृत्तेः ग्राह्यादिकल्पना परमार्थतः सम्वेदनमेवाविभागमिति स्थितं । कुत
एष भवतः प्रबोध इति चेत् । मन्त्राद्युपकृतदर्शनानां मृच्छकलादीनां तद्रूपरहितानामपि सर्प्पा
दिरूपेण प्रतिभासनात् । ते हि परैरदृश्यमपि दृश्यतया व्यवहरन्ति । यावदेषामव्युत्पत्तिः ।
यदि तु यत्स्वरूपं यत्तथैव तत्प्रत्यक्षतो वेद्यते । न व्युत्पत्तिमपेक्षेरन् । प्रत्यक्षमपि व्युत्पत्तिम-

399

पेक्ष्य तथेति चेत् । नानुमानस्य सामर्थ्यदर्शनात् । प्रत्यक्षस्यैव सामर्थ्यमिति चेत् । नानु
मानस्य प्रामाण्याप्रसङ्गात् । भवतु प्रत्यक्षमेव तदिति चेत् । तदेव तर्हि वासनाबलायातत्व
मध्यक्षस्यापीति न प(र)मार्थः । अपि च (।) विपर्ययेप्यनुमानमस्त्येव तत्कथमनुमानद्वयम्भवेत् ।
उभयपक्षे भवत्विति चेत् । न (।) प्रतिपुरुषं भावव्यवस्थाप्रसङ्गात् । भवतु को दोष इति
चेत् । तदेव स्वसम्वेदनमायातं । परस्परामिश्रणेनासाधारणत्वात् (।) तस्मात्परस्तथा न
प्रतिपद्यते तथापि साधारणत्वेन प्रतीतिः । अथैतदेव कुतः परो न प्रतिपत्तिमानिति ।
अनुमानेनेति चेत् । विपर्ययेपि तर्हि प्रवर्त्ततामनुमानं । विपर्ययेनुमानमसदिति चेत् । कथं ।
एकत्वेन प्रतिबन्धाग्रहणात् । सादृश्येप्यनुमानं कृतार्थमेव । इह तु पुनरदर्शनानुरूपा क्रिया
दृश्यमाना नियमेनादर्शनमनुमापयति । एतच्च पर एवाभ्युपगच्छेति ।

तथैवादर्शनात्तेषामनुपप्लुतचेतसाम1030 ।
दूरे यथा वा मरुषु महानल्पोपि दृश्यते ।। ३५६ ।।

यद्यसावर्थः परेणापि दृश्यत इति । एवं परस्याप्यभ्युपगमः । तथा महानेवायमिति
प्रतिपत्त्या तदर्थितयोपसर्प्पणं साधारणमिति कृत्त्वा तस्मादन्यथानुमाने परित्यजत्येव तां (?) दृष्ट
मित्यनुमानं सकलं सकलजनप्रसिद्धं । पराभ्युपगमेन तु तत्त्वदर्शिनां । अथवा यदेव प्रतीयते
यथा तादृशादर्थकल्पने कोऽवसरः । अनुमानमपि स्वाकारमात्रपर्यवसाने सति प्रत्यक्षमेव ।

ननु बाह्योप्यत्र दृश्यमानोऽदृश्यमानो वास्तीति व्यवहारिणाम्भवत्येव प्रतीतिः । भवतु
सापि स्वात्मन्येव निमग्ना यावत्प्रत्यक्षाभिमता । स्वात्मनिमग्नेति नापरं प्रतीतिबहिर्भूतं
वस्त्विति विन्नयः । किञ्च साधारणप्रतीतिरपि भावनाबलादेव यथा स्वप्ने । कथन्तर्हि
मेयमानफलस्थितिः ।

अत्रोच्यते ।

1031 यथानुदर्शनं चेयं मेयमानफलस्थितिः ।
क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ।। ३५७ ।।

तदेव प्रतीयमानं वस्तु तत्रास्तीति प्रतीतिविषयतया ग्राह्यं । स्वसम्वेदनरूपं परान
पेक्षमिति । ग्राहकं स्वयमेव तथाभावात्प्रतीतिरूपं सम्विदिति । विकल्पेनानुभवादुपजाय
मानेन व्यवस्थाप्यते व्यवहारतः । अनुदर्शनं दर्शनानुरूपो विकल्पः । अविद्यमानापि ।

अविद्यमानाप्तिके विषये ग्राह्यग्राहकसम्विदां ।

अथवाऽविद्या(म)ा/?/नग्रहणेन साधारणादौ ग्राह्यादीनामिति । शेष उक्त एवान्यैः
तस्मात्सम्विदेव परमार्थतो न त्रयम् ।

नन्वात्मपरिणाम एव सकल इति कस्मादविद्यमानता । यदि नाम तस्य तत्त्वादप्रच्यु
तस्य ते भेदपरिणामाः ।

तदाह ।

अन्यथैकस्य भावस्य नानारूपावभासिन: ।
सत्त्यं कथं स्युराकारास्तदेकत्वस्य हानितः ।। ३५८ ।।
400

—यद्येकः कथन्नाना प्रकाशते । नाना चेत्प्रकाशते तदेकता हीयते । यतः ।

1032 अन्यस्यान्यत्वहानेश्च; नाभेदो(ऽ)रूपदर्शनात् ।
1033 रूपाभेदं हि पश्यन्ती धीरभेदं व्यवस्यति ।। ३५६ ।।

अन्यस्याप्येतदेव तत्त्वं यदभेदप्रतिभासनं नाम । अन्यस्याप्यन्यथात्वं नास्त्येव ।
नेष्यत एवेति चेत् । एवन्तर्हि रूपभेदप्रतिभासने सति कथमभेदाभ्युपगमः । यदि नाम भवता
नेष्यते भेदः स तु पुनरप्रतिभासमानेपि कथमभ्युपगन्तव्यः । रूपाभेददर्शने हि सत्यभ्युपगमः
साधुः । यदि सर्व्व एव ते भेदाः प्रकाशरूपाः सर्व्वेषां सत्त्यता । अथाप्रकाशरूपाः कथम
प्रकाशाः प्रकाशादभिन्नाः । प्रकाशत्वे (? त्व आ) त्मवत्सर्व्व एव सत्त्या भवेयुः । आत्मवदेव ।
प्रकाशरूपतैव चात्मनो रूपं ततः सर्व्व एवात्मानः स्युः । ततः परिणामपक्षक्षयः । अथ
बहुत्वं भ्रांतिः । तथा सति न किञ्चिदिति प्राप्तं सकलमेव शून्यम्भवेत् । भ्रान्तिरपि
नामात्मव्यतिरेकेण नैवास्ति । किम्वा भ्रान्तिरिति नामकरणेन । अभावे भ्रान्तेः सर्व्वमेतन्न
भविष्यतीति न तत्त्वं भेदः । ततोऽतत्त्वाभासनिमितत्वादभ्रान्तिरिति व्यवस्थाप्यते ।

नास्यास्ति भ्रान्तिता यावन्निवर्त्त्यत्वं न सिध्यति (।)

निवर्त्त्यत्वे च विज्ञाते भ्रान्तिरेवेति गम्यते ।। १०१४ ।।
भ्रान्तिनिश्चयमासाद्य प्रवर्त्तेन/?/ निवृत्तये । ततो निवृत्तिरित्येच्चक्रकं केन शाम्यतु ।। १०१५ ।।

तस्मात् ।

भावा येन निरूप्यन्ते तद्रूपन्नास्ति तत्त्वतः ।
यस्मादेकमनेकञ्च1034 रूपं चेषान्न विद्यते ।। ४६० ।।

एकं न विद्यतेऽनेकत्त्वेन प्रतिभासनात् । असम्वेदनञ्च न प्रतिभातीति सम्वेदनात्मना
तेन भाव्यम् । स्वसम्वेदने चानेकत्वाप्रतीतेः । अथ तत्रान्तर्गतत्वात् प्रतीयन्ते तदन्तर्गतत्वं
न प्रतीयत इति तदपि न शक्यम्वक्तुमित्युक्तं । अथवा यस्मादेकं चित्राकारमनेकञ्च न
विद्यत एव । कथन्तर्हि भेदप्रतिभासः । न भेदः प्रतिभातीति प्रतिपादितं प्रतिपादयिष्यते
च । अथवा सकलमेव भेदरूपमन्यथा च भावनाबलादवभासत इत्यसत्त्यं शक्यन्ते हि भावयतो
विपरीतभावनया निवर्त्तयितुमित्यशक्यनिवर्त्तनता नास्तीति निश्चयादसत्त्यम् ।

ननु ।

साधर्म्यदर्शनाल्लोके भ्रान्तिर्न्नामोपजायते ।
अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ।। ३६१ ।।
अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः ।

अत्रोच्यते । न साधर्म्यदर्शनादेव भ्रान्तिः ।

अस्तीयमपि यात्वन्तरुपप्लवसमुद्भवा ।। ३६२ ।।
दोषोद्भवा प्रकृत्या सा विततप्र1035 तिभासिनी ।
अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ।। ३६३ ।।

401

न खलु तिमिरतिरस्कृतदर्शनानां मशकमक्षिकादयो दर्शनान्तरबलादुपजायन्तेऽपित्वान्त
रादेव तिमिरकारणात् ।

ननु तिमिरादप्युपजायमानं वस्तुबलादेव न भावनाबलात् । आन्तरकारणत्वमात्रन्तु
विवक्षितं । सर्व्वस्यापि त्वान्तरं कारणं वासनैव । स्वप्नादिप्रत्ययवत् (।) सा वासना यथा
कथञ्चित्प्रबोधवती स्वानुरूपप्रत्ययप्रसवहेतुः । तत्र च पूर्व्वपूर्व्वमेव दर्शनं साधर्म्यदर्शनं ।
आदौ किं दृष्टं येनेयं भ्रान्तिः । दर्शने कथं तस्य दर्शनमिति वक्तव्यम् । ततस्तु समानत्वा
दभ्रान्तिरेव सकला । अथान्यथा दर्शनं कथं सकला भ्रान्तिः । साधर्म्यदर्शनादिति । न ।
भ्रान्तिपरम्परैवेयं । नाभ्रान्तिरस्तीति प्रतिपादितं (।) तस्मादनादिरयमसद्वासनापरिकल्प
संसारः । कथं प्रमाणादिव्यवस्था स्वात्मनीति चेत् ।

अत्रोच्यते ।

तत्र बुद्धेःपरिच्छेदो ग्रहकाकारसम्मतः ।
तादात्म्यादात्मवित्तस्य स तस्या साधनं मतं1036 ।। ३६४ ।।

तदेव साध्यं तदेव साधनं सैव सिद्धिः ।

तत्रात्मविषये माने यथा रागादिवेदनम् ।
इयं सर्व्वत्र संयोज्या मेयमानफलस्थितिः ।। ३६५ ।।

अर्थादयो हि भावनाबशादुपजायमानाः स्वसम्वेदनरूपा इति प्रतिपादितं (।) सुखादि
सम्वेदनञ्च प्रत्यक्षं प्रमाणं (।) तत्राव्यतिरिक्त (ा) एव प्रमाणप्रमेयप्रमितिव्यवस्था ।
यदुच्यते ।

चतसृषु चैवम्विधासु तत्त्वं परिसमाप्यते (—) प्रमाता प्रमेयं प्रमाणं प्रमिति
रिति
1037 (।)

तदसत् (।) एकत्रैव सर्व्वपरिसमाप्तेः । ननु सुखादौ यदि नामाव्यतिरेकः । पीतादौ
व्यतिरेक इति चेत् । न । इयमेव सर्वत्र योज्या मेयमानफलस्थितिः ।

यथा अर्थादिसम्वेदने तथा नीलादिसम्वेदनेपि । नीलाकारं अर्थाकारमिति वा भवतु
कोऽनयोर्व्विशेषः । द्वयोरपि स्वरूपेण वेदनात् । ततो नीलसुखशरीरवेदनं स्वरूपेणैव सकलं न
पररूपेण । स्वरूपेण चेत् । सर्व्वं स्वसम्वेदनमेव । ननु नीलादिसम्वेदनेनात्मभूतो ग्राहकाकारः
सुखादिवत्तत्कथं ते दृष्टान्तः । सुखादीनां कथं स्वप्रकाशात्मकत्वात् आत्मवत् । केयं
प्रकाशात्मता नाम । अपरोक्षरूपता यथैवं ।

तत्राप्यनुभवात्मत्वात्ते योग्या (ः) स्वात्मसंविदि ।
इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ।। ३६६ ।।
ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि ।
सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनं1038 ।। ३६७ ।।
402

तेपि नीलादयोऽपरोक्षरूपत्वादनुभवात्मकाः । ततः सुखादिवदेव स्वसम्विदि योग्याः ।
नहि तेपि नीलादयः पररूपेणापरोक्षाः ।

ननु चक्षुरादिबलान्नीलादीनामपरोक्षता । न(।) स्वरूपेणैवापरोक्षत्वात् । नहि यतः
चक्षुः प्रसृतं ततोऽपरोक्षं बीजं चक्षुः प्रसृतमपि कदाचिन्नापरोक्षयति । अप्रसृतत्वेप्यपरोक्षत्वसम्भ
वात् । तथा हि ।

रागादिसम्भवे रूपमन्ययैवावभासते । चक्षुषः प्रसृतत्वेपि स्वरूपानवभा (स) नात् ।। १०१६ ।।

यदि चक्षुरादिकस्याभिमुखीकरणेपि स्वरूपेण विषयस्यानवभासनं कथमसावपरोक्षः ।
स्वरूपावभासनमेवापरोक्षता । अथ भावनावशादयं दोषश्चक्षुषः (।) तदाह ।

यदि भावनया चक्षुरादिकस्यान्यथा गतिः । भावनाबलतः सर्व्व नीलादेरवभासनं ।। १०१७ ।।

भावना हि वासनाऽपरनामिका चक्षुराद्यायातप्रतिभासस्य हेतुः । तदा वासनाबल
भाविनः एव नीलादिप्रतिभासाः ।

नन्वन्यथा प्रतिभासनं वासनाहेतुः । स्वरूपप्रतिभासनन्तु वासनामन्तरेणेति चक्षुरा
दिप्रतिबद्धं न परस्परापेक्षया । सर्व्वेषामन्यत्त्वात् । ततोनेकप्रतिभासेन ज्ञायते किं
स्वरूपमिति प्रतिभासः प्रमाणं न चेद्व्यभिचारी कुत आश्वासः । तस्मात् ।

प्रतिभासः समस्तोपि भावनाभावनिर्मितः । स्वरूपाभिमतादन्यप्रति भासस्वरूपवत् ।। १०१८ ।।

बाध्यबाधकभावस्तु प्रत्युक्त एव । तस्मात्स्वसम्वेदनमेव फलं बाह्येप्यर्थे, तदाकारः
प्रमाणम् ।

ननु साकारं विज्ञानमिति न युक्तं । तथा हि ।

यदि दर्पणवत्स्वच्छमुपधानोपरागतः । तदावभासनं प्राप्तं चक्षुरादिर्न चेक्ष्यते ।। १०१९ ।।
यावत्सन्निहितं सर्व्वं दर्पणे तत् प्रकाशते । ततः सर्व्वस्य रूपादेरवभासः प्रसज्यते ।। १०२० ।।
अथ दर्पणवच्चक्षुरवभासस्य कारणम् । तत्संक्रान्तस्य दृष्टिः स्यादस्थूले दर्पणादिवत् ।। १०२१ ।।
ततो न ज्ञायते रूपं कीदृक्किं परिमाणकम् । वर्ण्णस्यापि विपर्यासः काचाभ्रपटलादिवत् ।। १०२२ ।।
गोलकादथ निष्क्रम्य रूपादिष्वनिपातिनः । ज्ञायन्ते निजरूपेषु ग्राहका महदादिषु ।। १०२३ ।।

विशिष्टं जायते रूपं प्रदीपालोकसङ्गमात् ।

यदि स्वरूपसम्वित्तिः प्रदीपालोकसङ्गिवत् ।। १०२४ ।।

न स्यात्तत्रापि चान्यस्य व्यापारादनवस्थितिः ।

अथ स्वरूपसम्वित्तिः तदा ते रश्मयः कथम् ।। १०२५ ।।
तस्मादर्थे स्थिते ज्ञानं तदाकारं प्रवर्त्तते । तस्मादुत्पादमात्राच्चेत्सर्व्वाकारं प्रसज्यते ।। १०२६ ।।
यत एव तदुत्पत्तिःतदाकारं भवेद्यदि । चक्षुराकारतापि स्याज्जायते वित्तितोपि यत् ।। १०२७ ।।

अत्रोच्यते ।

सर्व्वमेव तु1039 विज्ञानं विषयेभ्यः समुद्भवत् ।
तदर्थस्या1040 पि हेतुत्वे कथं चिद्विषयाकृतिः ।। ३६८ ।।
403

नहि यत एवोत्पद्यते तदाकारमेव भवति । तथा हि ।

यथैवाहारकालादेर्हेतुन्वेऽपत्त्यजन्मनि ।
पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ।। २६९ ।।

नहि पित्रोर्द्वयोरपि समानाकारतां धत्ते । तत उत्पद्यमानः स्वतः । अपि तु कस्यचि
देव । तस्मादर्थादेवार्थाकारमिति । तथाहि ।

दूरदेशस्यिताद्व‌ृक्षात्तदाकारं हि जायते । विज्ञानं नेन्द्रियाकारमिति दृष्टमिदं सदा ।। १०२८ ।।
तद्धेतुत्वेन तुल्येपि तदन्यैर्व्विषये मतम् ।
विषयत्त्वं तदंशेन तदभावे न तद्भवेत् ।। १७० ।।

न हेतुतया विषयोऽपि तु तदाकारविज्ञानहेतुतया । हेतुतया विषयत्वे चक्षुरादीनामपि
विषयत्वं । तदाकारतया मरीचिकादिजलज्ञानस्यान्यदेशं जलमपि भवेत् विषयः । नह्याका
रमन्तरेण बोधरूपं विज्ञानं सम्वेद्यमानमन्यथा वा तदाकारविषयव्यवस्थापने समर्थं प्रतीतेतरा
वस्थयोरयोगादिति प्रतिपादितम् । यदि तत्प्रतीयते किमपरेण व्यर्थकत्वात् । अथ न
प्रतीयते तदापि अशक्तेरिति । न ह्यप्रतीयमानं प्रतीतिविषयः । प्रतीयमानञ्चेत्सैव तस्य
तद्रूपताप्रतीतिः । व्यतिरिक्ता च क्रिया न युक्ततेति शतशः प्रतिपादितम् ।

ननु चाकारः प्रमाणं स्वसम्वेदनं फलमिति साकारसिद्धौ स्यात् (।) तदेव तु कथं
सिध्यति । उक्तमत्र । अपि च ।

विषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता ।

विषये रूपादौ यज्ज्ञानन्तदर्थस्वाभासं, विषयज्ञाने तु यज्ज्ञानं तदर्थानुरूपज्ञानाभासं
स्वाभासञ्च । अन्यथा यदि विषयज्ञानमर्थाकारमेव स्यात् । स्वाकारमेव वा विषयज्ञान
मपि तदविशिष्टं स्यात् । विषये यत् ज्ञानं तदर्थस्वाभासमिति साध्यं । उत्तरो हेतुः । अन्य
थेत्यादि बाधकं प्रमाणम् । कीदृशं मम ज्ञानमासीदिति यदा पर्यालोचयति तदाऽर्थप्रतिभासमेव
स्मरणेन व्यवहरति नान्यथा । यश्च यथाधिमोक्षेण विषयीक्रियते तथा भवति यथा गौरित्य
धिमोक्षेण विषयीक्रियमाणः शावलेयः । तथाहि ।

एवम्भूतोऽवभासो न ज्ञानेऽर्थस्तु कीदृशः । इत्यर्थस्य परित्यागाज्‌ज्ञानस्यार्थाविनिश्चयः ।। १०२९ ।।

यदि केनचिन्नियुज्यते कथमसावर्थ इति भवता ज्ञातं तदाऽर्थप्रतिभासस्तादृशोऽर्थस्त
त्रास्ति न वा, तादृशोऽन्यथा वेति न निश्चय इति प्रत्युत्तरयति । ततोर्थपरित्यागी प्रतिभास
एव ज्ञानं । एकत्वे त्वर्थस्य तत्रैव निश्चयः तत्रैवानिश्चय इति कथं । निश्चयानिश्चययो
र्विरोधात् । अर्थस्तु न प्रतिभासे निश्चयः । नावान्तरभेद इति तत एवंभूतः प्रतिभास
इत्येतावत्तत्र प्रतिभासि । तदपरन्तु नेत्यर्थ एव स निश्चयोऽनिश्चयश्च । भागद्वयभावादिति ।
तदेतदुत्तरत्र वक्ष्यते । अपि च ।

अनर्था1041 कारशंका स्यादप्यर्थवति चेतसि ।
अतीतार्थग्रहे सिद्धे द्विरूपत्वात्म1042 वेदने ।। ३७१ ।।

य आह । न ज्ञानं प्रतिभासते स्वसम्वेदनाभावात् । नापि स्मर्यतेऽअर्थस्यैव सर्व्वत्र

404

स्मरणात् । तत्र यथार्थापत्त्या ज्ञानेऽर्थस्य परिकल्प्यते ज्ञानं तथा स्मरणानुपपत्त्यापि न
सम्विदितं ज्ञानमस्ति न च तस्याकारता ततो द्विरूपं ज्ञानमिति प्रत्यक्षबाधः प्रतिज्ञायाः ।

संदिग्वे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः । दृष्टान्ते च प्रतिबन्धग्रहणे हेतुवृत्तितः ।। १०३० ।।

न चैतदस्ति । सर्व्वत्रार्थाकारस्य विवादास्पदत्वात् इति चेत् । अयुक्तं (।) यतो
यत्रार्थोस्ति तत्र नासौ ज्ञानस्याकार इति स्यादपि शंका । अनर्थवति तु चेतसि केशादौ पीता
द्यवभासे च सिद्धमेव द्वयाकारत्वं सम्वेदनञ्च । तत्र परोक्षं विज्ञानमित्येतदेव प्रत्यक्षबाधितं ।
ततस्तद्दृष्टान्तदृष्ट्या प्रतिबन्धग्रहणम् । ततश्च तस्य तथाभूतः प्रतिभास इति तत्त्वायातो
निश्चयः कथमर्थे भवेत् । सर्व्वत्र च विज्ञाने एवमेव निश्चय इति साकारत्वसिद्धिः । स
एव प्रतिभासत्वनिश्चयस्वभावो विषयज्ञाने तज्‌ज्ञानस्य स्वभावः । अथ कदाचित्तत्राप्यर्थ
एवास्ति यदि न व्यक्तिर्जातिरेव भविष्यति ।

(झ) सामान्यस्य नित्यानित्यताप्रतिषेधः—

अत्रोच्यते ।

नीलाद्याभासभेदित्वान्नार्थो जातिरतद्वती ।
सा चानित्या न जातिः स्यान्नित्या वा जनिका कथम् ।। ३७२ ।।

नहि नीलादिरूपा जातिर्व्वर्ण्णाद्याकारशून्यत्वात् । हेतुत्वेनानित्त्यत्वाच्च न सा
जातिः । अथ नित्त्या न जनिका नित्त्यस्य जनकत्वाभावादिति प्रतिपादितं ।

नामादिकं निषिद्धं प्राक् नायमर्थवतां क्रमः ।
इच्छामात्रानुबन्धित्वादर्थशक्तिर्न्न सिध्यति ।। ३७३ ।।

सकलमप्येतत्प्रागेव प्रतिपादितमिति न प्रपञ्च्यते ।

  1. १ B. टि—प्रतिनियतं वेदनं प्रतिविदितम्वा वेदनं विदितयोर्मध्यपदलोपाः ।

  2. २ B. टि—अनेनास्माकं मतेऽर्थस्यज्ञानं नास्ति भिन्नार्थाकाराज्ञानादर्थानुमाना ।

  3. ३ B. टि—तथा कार्यात् चक्षुरपि कारणमनुमीयते यस्याकारः तस्य कारणस्यानुमान
    मिति चेत् चक्षुरपि नीलाकारं क... ।

  4. १ B. सत्याम्वा व्यभिचारिणी ।

  5. २ B. टि—सन्तानान्तरवर्तिनामर्थानां सजातीय पटानां न च तेषां परस्परं सम्वेदनमस्ति ।
    ज्ञानानां सादृश्येपि न वेदनं तदेवाह नहीति ।

  6. ३ B. नार्थविज्ञानं ।

  7. १ इदं वाक्यं न भोटभाषान्तरे ।

  8. २ तद् दर्शनं मतम् ।

  9. १ B टि—सम्विदितं

  10. २ B टि—अनुमानविषयातिरे (के) ण नार्थः बाह्यः । अथवा नार्थ इति प्रत्यक्षप्रती
    तिरेवास्ति नार्थ इति नादरो विषयः

  11. ३ B टि—पश्चादात्मनापि दृश्यते

  12. १ B टि—प्रतीतिभेदाद् यदि न भेद एकता नीलादेः

  13. १ C 33a6–34a3 पृष्ठयोः मोटग्रन्थे प्रमादतो लब्धो मागोत्र ४५-४६ पृष्ठयोरुपलभ्यते ।

  14. १ B. टि—दिवाविज्ञानस्य धारकत्वं स्वप्नविज्ञानविषयालम्बकत्वात् । तच्च जाग्र
    त्प्रत्ययेपि स्वप्नप्रत्ययस्य विषयान्तरालम्बना सम्भवति । पटज्ञानस्य घटज्ञानम्वा ।

  15. १ B. तत्स्वप्नदर्शना—इति बहिःपंक्ति पाठः ।

  16. १ B. टि—सर्वथा

  17. १ B. टि—भाविनि

  18. २ B. टि—तस्य भाविनः

  19. ३ B. टि—समानविषयत्वात् बाध्यबाधकस्य

  20. १ B. टि—अनालम्बनसाधन्या बुद्धेः

  21. २ B. टि—जाग्रत्प्रत्ययगतमनालम्बनं नेदानीमपि प्रति । अहमेव तदाकारबुद्धिरित्यर्थ
    नालम्बना

  22. ३ B. टि—अनुमानसाधन्या

  23. १ श्लोकवार्तिके एताः कारिकाः २२५ पृष्ठे । परं तत्र अगृहीतग्रहग्राह—, अगृहीतस्य
    सत्त्वं तु—
    इत्यर्धद्वयं, भेदेन पूर्वग्रहणात—विशेषणविशेष्यत्वं—इति श्लोकद्वयं च नास्ति ।

  24. २ श्लोकवार्तिके स्वपक्षोऽपि न सिद्ध्यतीति पाठः ।

  25. ३ " अप्रसिद्धोभयत्वं वेतिपाठः ।

  26. ४ " वक्तृश्रोत्रोरिति पाठः ।

  27. ५ श्लोकवार्तिके २२६ पृ. ।

  28. १ श्लोकवार्तिके २२६ पृ॰ ।

  29. २ श्लोकवार्तिके प्रत्याय्यस्येति पाठः ।

  30. ३ श्लोकवार्तिके २२७ पृष्ठे ।

  31. १ तस्य । शब्दस्य प्रत्ययस्य वा

  32. २ टि—निरालम्बनं ज्ञानं व्यतिरिक्तार्थादुष्ट (?)

  33. ३ श्लोकवार्तिके वाक्येनेत्यत्र भिन्नेनेति, बन्ध इत्यत्र वाध इति पाठः ।

  34. ४ श्लोकवार्तिके २२७ पृष्ठे ।

  35. ५ श्लोकवार्तिके ग्राहकं वस्तु सिद्धं नः इति पाठः ।

  36. ६ श्लोकवार्तिके २२८ पृष्ठे ।

  37. १ B टि—सालम्बनः प्रत्ययः पक्षो निरालम्बनो वा सालम्बनमभ्युपगम्याह । धार्म्मिणोप्यसिद्धिः ।

  38. २ B टि—निरालम्बने

  39. ३ B टि—पर्वतमात्ररूपेण

  40. ४ B टि—सामान्यवादिनां

  41. ५ B टि—एतेनापि प्रकारेण विकल्पितेन विकल्पश्चोक्त आत्मव्यतिक्तधर्मप—

  42. ६ श्लोकवार्तिके २२८-२२९ पृष्ठ्योः ।

  43. १ T. श्लोकवार्तिके २२८–२२९ पृष्ठयोः ।

  44. Verses 769--777 misnumbered as 669--677 in edition.
  45. २ T. श्लोकवार्तिके २२९–२३० पृष्ठयोः ।

  46. ३ T. श्लोकवार्तिके २२९–२३० पृष्ठयोः ।

  47. ४ T. भवत इति भोटभाषान्तरे ।

  48. ५ T. निषेधोतो न—इति हे. पुस्तके ।

  49. १ T. यतो भेदो न स्यात् ।

  50. २ B टि॰—सालम्बनत्वं

  51. ३ B टि॰—कारणत्वेनानालम्बनमप्रतिभासनम् ।

  52. १ टि—नष्टत्वात् ।

  53. २ श्लोकवार्तिके २३०–२३१ पृ॰

  54. ३ श्लोकवार्तिके २३०-२३१ पृ॰

  55. १ T.गङ्-छे द्ङोस्-दे मथोङ्-ग्युर्-व । दे-छे मेद्-पर् र्तोंग्‌स् म-यिन् ।। (यदा स
    दृश्यते भावो नाभावप्रत्ययस्तदा ।)—इत्यधिकः पाठो भोटभाषांतरे ।

  56. १ इतोऽग्रे बन्धनीस्थः पाठः C 33a6–34a3 पृष्ठयोः स्थापितः प्रमादेन ।

  57. २ ॰मेव कुत इयं भ्रान्तिः॰ विपर्ययेण हि भ्रान्तिरिति । अथ विधिरूपेण॰ रिति
    नोच्यते—इति पाठो वभूतिचंद्रेण स्वपुस्तकान्ते पुनर्लिखितः ।

  58. १ श्लोकवार्तिके २३१-३२ पृ॰ ।

  59. १ श्लोकवर्तिके पृ० २३२– क्वचित् पाठभेदेन ।

  60. १ श्लोकवार्तिके पृ॰ २३४— ।

  61. २ मुद्रिते ग्रंथे—न्यूनत्त्वं॰ ।

  62. ३ मुद्रिते ग्रंथे—॰नन्तगमना ।

  63. ४ श्लोकवार्तिके—पक्षवाधोत्र ते ध्रुवमिति पाठः ।

  64. ५ श्लोकवार्तिके पक्षादीति नास्ति ।

  65. ६ श्लोकवार्तिके—स्तम्भादिसाधनज्ञानेति पाठः ।

  66. ७ श्लोकवार्तिके—यावद्यावत्प्रतिज्ञेयं तदन्यस्य प्रतीयते इति पाठः ।

  67. ८ श्लोकवार्तिके—॰दन्यबाधनमिति पाठः ।

  68. ९ तत्रैव मुद्रिते ग्रंथे—तस्मात्सा ।

  69. १० श्लोकवार्तिके—सम्यक् चेति पाठः

  70. ११ श्लोकवार्तिके—भ्युपपत्तौ चेति पाठः ।

  71. १२ T. श्लोकवार्तिके २३६ पृष्ठे ।

  72. १ श्लोकवार्तिके ।

  73. २ श्लोकवार्तिके—सत्त्वासत्त्वे च दुर्लभे इति पाठः ।

  74. १ श्लोकवार्तिके पृष्ठे २३७ ।

  75. २ श्लोकवार्तिके—बोद्ध-दर्शन एकस्मिन्पक्षापातो न युज्यते इत्युक्तस्य प्रत्याख्यानमिदम् ।

  76. ३ श्लोकवार्तिके पृ. २३७—बाधः, स्याद्व्यवस्था, प्रत्ययो—इति पाठान्तरेण ।

  77. १ श्लोकवार्तिके प॰ २३८ ।

  78. २ श्लोकवार्तिके—स्वप्नादि तुल्यतेति पाठ: ।

  79. ३ श्लोकवार्तिके प॰ २३८ ।

  80. १ श्लोकवार्तिके—योगवस्थामिति पाठः ।

  81. २ T. तत्रैव ।

  82. ३ श्लोकवार्तिके पृ ॰ २३८ ।

  83. ४ ईदृक्त्वे इत्यादि ग्राह्यन्तरतयापि चेत्यन्तस्य श्लोक वार्तिकस्य (पृष्ठ २४० श्लोक ९५-९८)
    अनुवादेन सह निराकरणम् ।

  84. ५ वाधकैश्चापीति, मिथ्याधीप्रतियोगित्वमित्यर्धद्वयं श्लोकवार्तिकं (पृ॰ २४० श्लोक ९९)
    अनूद्येह खाण्डेतम् ।

  85. ६ B. टि—या बुद्धिः सा बाध्या यथा स्वप्नबुद्धिः बुद्धिश्च बाधिका बुद्धिः । अबाधायाम
    नेकान्तः

  86. ७ B. टि—मिथ्याधियः प्रतियोगित्वं । जांग्रद्बुद्धिं प्रति ।

  87. १ श्लोकवार्तिके (पृ॰ २४०) क्षययोगित्व-निमित्ताधिगति-विशेष इष्टश्चेत्‌सर्वाभावात्
    इति पाठभेदेन् ।

  88. २ श्लोकवार्तिके (पृष्ठ २४०)—दिदानीं वाधबुद्धिवदिति पाठान्तरेण ।

  89. १ श्लोकवार्तिके (पृ॰ २४९)—साध्याभेदादवाच्यत्वादिति पाठान्तरेण ।

  90. २ श्लोकवार्तिके—मत्यक्षेपीति पाठः ।

  91. ३ श्लोकवार्तिके—सारुप्यान्यनिवृत्ति च नेत्येतत्साधयिष्यते इति पाठान्तरेण ।

  92. ४ श्लोकवार्तिके पृष्ठ २४१—२४२ ।

  93. ५ B. टि॰—विशेषस्य सालम्बनस्य निरालम्बनस्यात्मधर्मस्यानात्मधर्मस्य वेति
    पूर्वोक्तं । परः प्राह ।

  94. ६ B. टि॰—स्वलम्बनत्वेन व्याप्तत्वात् ।

  95. १ B. विशेषिणी

  96. १ M. B. ॰मेव

  97. १ M. ॰वरणात् स्यात् चेन्न

  98. २ B. अर्थधीर्यदि

  99. ३ अनिष्टादावसन्धानं—इति M. हे॰ पुस्तके ।

  100. ४ इष्टं—इति हे. पुस्तके

  101. ५ तस्मात्प्रमेयबाह्येपि—इति हे पुस्तके ।

  102. ६ B. टि—सुखादित्वेन

  103. ७ B. टि.— यावदन्तो ग्रन्थो दिग्नागीषः ।

  104. १ ष्वपेक्षते—इति हे. पुस्तके ।

  105. २ B. तस्मा

  106. ३ B. टि.—फलत्वं । संवेदना नुरूपमेव फलमित्यर्थः

  107. ४ B. टि अनुमातो नापरोक्षो निश्चीयते तन्निरासाय

  108. ५ M. तस्माद् ।

  109. ६ एवेत्यधिकः पाठः पुस्तके ।

  110. ७ B. टि—यथा निविशते सोऽर्थो यतः सा प्रथते तथा ।

  111. ८ पादव्यत्यासोऽत्र स. पुस्तके ।

  112. १ पादव्यत्यासोऽत्र स. पुस्तके ।

  113. २ B. मुक्ताव

  114. 3 B.टि—काले जन्यदेशेऽ/?/स्ति वस्तु तत्र काले भाति नार्थविरहिणि काले भातीति भावः ।

  115. ४ B.टि—तिष्ठतीत्याकूतं ।

  116. ५ B टि—अर्थस्य जनयति दर्शनं ।

  117. १ चक्षुषाम्—इति हे. B ।

  118. २ यथार्थ—इति हे. ।

  119. १ अन्यस्या—इति हे. पुस्तके ।

  120. २ रूपाभेदेपि पश्यन्ती धीरभेदव्यवस्थितिः —हे. पुस्तके ।

  121. ३ एकं वा—इति हे. पुस्तके ।

  122. ४ B. वितथ

  123. १ ततः—इति हे. पुस्तके ।

  124. २ वात्स्यायनीये न्यायभाष्ये १।१।१ (पृष्ठे १) स्वल्पभेदेन ।

  125. ३ अयं पाठो हे. पुस्तके विद्यते परमत्र मूलं व्याख्या च न दृश्येते इति चिन्त्यमेतत् ।

  126. १ B. हि

  127. २ B तदन्यस्या॰

  128. १ अनर्थाकार—इति हे. पुस्तके ।

  129. २ द्विरूपत्वात्म—इति हे. पुस्तके ।