(ख) दृश्यदर्शने प्रत्यासत्तिविचारः—
इदं दृष्टं श्रुतं वेदमिति यत्रावसायधीः ।
स तस्यानुभवः सैव प्रत्यासत्तिर्व्विचार्यते ।। ३२५ ।।
दृश्यदर्शनयोर्येन तस्य तत्साधनम्मतं ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ।। ३२६ ।।

यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र । नहि समनन्तरप्रत्ययादयमिति
निश्च(यः) । अपि त्वविषयोऽयं ममानुभवो न समनन्तरप्रत्ययविषय इति । न ह्यर्थानुभव
मन्तरेणार्थ इति निश्चयो युक्तः । अनुभवानुसारित्वान्निश्चयस्य ।

अत्रोच्यते । अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति । तदेतदाया
तमर्थ एकः पन्यानं न प्रतिपद्यते । तेनाकृष्यमाणो द्वितीय इति महदद्‪भूतं । तथा हि ।

साक्षादुत्पत्तिमानर्थात्प्रत्ययो यः स नेक्षते । तमर्थमपरस्तस्मान्न्यूनोपीत्यतिसाहसं ।। ६२६ ।।

अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूपमात्रस्येति ।
अन्यथा तथैव निश्चयो भवेदिति चेत् ।

तदेतदसत् । नन्वनुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्त्वं प्रसिध्यति ।
कुतस्तर्हि निश्चय इति चेत् । अभ्यासादेवेति प्रतिपादितं । सोप्यभ्यासोऽनुभवादेवेति कुतो
विपरीतनिश्चयः । अयमप्यपरिहारः । यत एवं सति न कस्यचिद्विपरितनिश्चयः स्याद्
दृश्यते च । तस्मादयुक्तमेतत् ।

नन्वालोचनमात्रमविवेककारि ततो निश्चयादेवार्थानर्थविवेकः । यद्येवं निश्चयोपि
न विवेककारी स्यात् । नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चयकारी । अथाभ्यासान्निश्चयो
विवेकसाधनं । न (।) अभ्यासस्याहेतुकत्वात् । प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्त्यतां
यायात् (?) । अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव । सा चार्थक्रिया प्रतिभासान्तरमेव ।
न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः । तस्मान्न निश्चयादर्थव्यवस्था ।

920 921 352

यदप्युक्तं । अथ सोऽनुभवः क्वास्येति । तत्राप्युच्यते ।

आत्मा स तस्यानुभवः स च नान्यस्य कस्य चित् ।
प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मता ।। ३२७ ।।

स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्तिमान् । तत
एतदिति । क्वायमिति तु कः प्रश्नार्थः । तथा हि ।

क्वायमनुभव इत्युक्ते यदा प्रत्युच्यते पुनः । अर्थेतदापि प्रश्नःस्यात् सोर्थः क्वेत्यनवस्थितिः ।। ६२७ ।।

क्रीडनकप्रश्न एवम्विध इति चेत् । कस्मात्पर्यवसानस्य दर्शनात् । तथा हि सोर्थः
क्वा भूमौ । सा क्व एवमेव दृश्यते इति न पुनः पर्यनुयोगः । यद्येवमर्थस्यादर्शनादनुभवोपि स्वरूपे
वस्थित एवमेव दृश्यतामिति किमाधारकल्पनया । अनेन षष्ठ्यर्थपर्यनुयोगोपि प्रत्युक्तः । तदाह ।

स च नान्यस्य कस्यचित् ।

कथं तर्हि प्रत्यक्षप्रतिवेद्योर्थो निराकर्तुं शक्यः । तथा हि । प्रत्यक्षेण नीलं पश्यन्ति
तद्वन्तः । नार्थस्यादर्शनादित्युक्तं । तदाकारतैव प्रत्यक्षवेद्या न व्यतिरिक्तोर्थः । तदाकार
एवं नील इति व्यवह्रियते नान्यः । तस्मान्नीलात्मकोऽनुभवो नीलानुभवः शिलापुत्रकस्य
शरीरमिति यथा । न हि षष्ठ्यर्थ इत्येव भेदः । यथाकथञ्चिदस्य भावात् । अथवा स
कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति । न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता ।
पररूपे प्रत्यक्षताऽयोगात् । नहि तद्रूपमन्यस्य । तथा चेत् । अन्य एव भवेत् । अथवाऽ
परोक्षं विज्ञानं यस्यानुभवः सोऽर्थो भविष्यति । यद्येवमात्मा स तस्यानुभवः । अन्यत्रा
वेद्यमानत्वात् । भवतु को दोष इति चेत् । स च नान्यस्य । यद्यात्माऽर्थस्य स्यादन्यस्यापि
तथैव भवेदिति सर्व्वस्तद्दर्शी भवेत् । न चान्यस्य तथा ।

ननु प्रत्यक्षेण वेद्यते नात्मना । न । तदेव रूपं पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः ।
तस्मादनन्यसम्वेद्यो नीलाद्यात्मैवानुभवः । अथवा यद्यर्थो नानुभूयते किमिदं बहिर्देशसम्बद्ध
तयाऽनभवगोचरः । आत्मैवानुभूयते । चित्तमेवानुभूयते । कथं बहिर्देशता । स च नान्यस्य ।
ततोसौ कुतो बहिर्भूतः । अथवाऽऽत्मा स आत्मैवेदमर्थमिति भवतोप्यभ्युपगमात् । तस्य
चानुभवः स च नान्यस्य अपि त्वात्मन एव तद्व्यतिरिक्तभावात् । अथवा तत्स इति चेत् ।
न । प्रत्यक्षप्रतिवेद्यत्वात् । यतस्तदात्मनैव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा ।

नन्वात्मवादः प्रसक्तः । न (।) चित्राकारसम्वेदनात् । अविद्यावशेनोत्पत्तिः सम्वेदनमेव
तत् । नात्मवाद उपयोगी । निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः । एत
देवोत्तरेण दर्शयति ।

नान्योनुभाव्यस्तेनास्ति तस्य नानुभवो परः ।
तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ।। ३२८ ।।

बुद्ध्या योनुभूयते स नास्ति परः । यथान्योनुभाव्यो नास्ति तथा निवेदितं । तस्या
स्तर्हि परोऽनुभवो बुद्धेरस्तु । न (।) तत्रापि ग्राह्यग्राहकलक्षणाभावः । परं हि सम्वेदनस्वरूपेऽ
वस्थितं कथं परस्यानुभवः । साक्षात्करणादिकं प्रत्याख्यातं । तत्सम्वेदनानुप्रवेशे च तयो
रेकत्त्वमेव स्यात् । तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं ।

353

कथन्तर्हि योगिनां परचित्तप्रतिपत्तिः । एतदुत्तरत्र प्रतिविधास्यते । तस्मात्स्वयमेव
स्वरूपप्रकाशकत्वात्तथा भवति । एवन्तर्हि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः ।
अत्राह ।

  1. १ इदं वाक्यं न भोटभाषान्तरे ।

  2. २ तद् दर्शनं मतम् ।