646

ननु दर्शनद्वारेण प्रतिबन्धगतौ कथम्व्यतिरेकेण प्रतिबन्धगतिः । नैतदपि समुचितम्वचः ।

अन्वयेनापि सम्बन्धो व्यतिरेकप्रधानतः । अतिक्रम्य न साम्भाव्य इति प्रागेव वर्ण्णितं ।। ६०८ ।।

अन्वयेन हि सम्बन्धग्रहणे तद्व्यक्त्यैव भवेन्नान्यथोक्त्या । तथा हि नान्यस्योक्तेस्तदा
न्वयगतिः । अथ तयापि पश्चात् तथा सति व्यभिचारादसम्बन्ध एव प्राक्तन्या न स्यात् ।
व्यभिचारतः । व्यक्तिसामान्ये सम्बन्ध इति चेत् । किमिदं व्यक्तिसामान्यन्नाम । न
खल्वविभावितस्वरूपं सम्बन्धितयान्यथा वा प्रत्येतुं शक्यं । व्यक्तिषु समानप्रतिपत्तिनिबन्ध
नमिति चेत् । अस्ति समान इति प्रतिपत्तिर्न तु तस्यानिबन्धनमिदमिति शक्यन्निदर्शयितुं ।
यदि नाम प्रत्यक्षतो न प्रतीतिं कार्यदर्शनादनुमानात् प्रतीयतां । प्रतीयतां कारणसामान्यन्न
तु तत्सामान्यन्तस्येदंतया निरूपणात् । एककार्यकारित्वम्वा निबन्धनङ् किमपरेण । तथा हि ।

नास्माकमस्मिन् कर्त्तव्ये भेदः कश्चन विद्यते ।

इति लोकः समस्तोयमेकवाक्यतया स्थितः ।। ६०९ ।।

तस्मादयं धूम एषाम्पावकभेदानामेकेन केनचिद विना न भवतीत्येतदभावाद् व्यावृत्तो
धूम इत्यन्यापोहसम्बन्धेनैव सम्बन्धग्रहणन्नान्येनेति व्यावृत्तिरेव साध्यते हेतुना शब्देन वा ।
ततो व्यावृत्तिरेव प्राधान्येन गम्यते । सामर्थ्यात्तु व्यक्तिसत्तानान्तरीयकतया प्रतीयते ।
अनग्नेरभावे नियतं काचिदग्निव्यक्तिराक्षिप्यते । अन्यथा नग्निव्यावृत्तिरेव न स्यात् ।

नन्वन्यस्त्वनिश्चित इति पञ्चप्रकारो ऽनैकान्तिक उक्तः । न चेदं युक्तं तोषवतो
विरुद्धाव्यभिचारिणश्चापरस्याप्यनेकान्तिकत्वात् । नाभिप्रायपरिज्ञानात् । न ह्ययमर्थः ।
अन्यः पञ्चप्रकारो निश्चितः । अपि तु तत्र यः सत्सजातीये द्वेधा चासँस्तदत्यये निश्चितः स
हेतुः । विपरीततया निश्चितः स विरुद्धः । स च सर्व्वस्तादात्म्यतदुत्पत्तिभ्याम्प्रतिबद्ध एव ।
अन्यस्तु न निश्चित एव । स एव स प्रतिबद्धो ऽनैकान्तिक इति वाक्यार्थः । शेषवद्विरुद्धा
व्यभिचारिणोरपीदमेव लक्षणमिति तयोरप्यनैकान्तिकत्वं न निवार्यं । तस्मात् सकलमनवद्यं ।
तथा हि (।) विरुद्धाव्यभिचारिणोन्येनापहृतविषयस्य साध्याप्रतिबद्धविषयत्वं । कथन्तर्ह्य
व्यभिचारी । अप्रतिबद्धोऽव्यभिचारी चेति व्याहतं । एवन्तर्ह्यव्यभिचारी संशयहेतुरित्यपि
व्याहतमेव । अस्मत्पक्षे त्वप्रतिबन्धादेव संशयहेतुः । अव्यभिचारित्वङ् कथमिति चेत् ।
अभ्युपग (म) द्वारेणेति न दोषः । तथा चाह (।) यदा तर्हि शब्दत्वं नित्यमभ्युपैति तदायं
हेतुरेव स्यात् । यतः ।

न क्वचिच्छ्रावणत्वस्य नाशित्वे दृष्टिसम्भवः ।

नित्य एव हि दृष्टत्वाद् गमकत्वस्य सम्भवः ।। ६१० ।।

गमकत्वलक्षणाभ्युपगमाद् गमकः । दर्शनादर्शनमात्रेण च वैशेषिकस्य गमकहेतुता ।
सा चात्रास्तीति गमक एव प्राप्तः । आचार्यः प्राह । स्याद् गमको यद्यत्र कृतकत्वमपि
कश्चिदनित्यत्वे हेतुन्न ब्रूयात् । उभयन्तु गमकमुपलभमानस्य स्वाभ्युपगमादेव संशयः ।
तस्माद् वैशेषिकस्यैवमभ्युपगच्छतोतिसङ्कटप्रवेशः । तथा हि ।

शब्दस्यानित्यतेष्टा चेद् योज्या शब्दत्वनित्यता । तद्‌द्वारेण हि नित्यत्वे परोपि गमको भवेत् ।। ६११ ।।

न खलु समानन्याययोगी न तथा भवति । न्याय एवासौ तथा न स्यात् । तथा च