सकलव्यवहारोच्छेद एव । समानश्च कृतकत्वेन हेतुत्वन्यायः श्रावणत्वस्यापीत्यसावपि कृत1725कत्वसाध्यविपर्ययाव्यभिचारी न गमकः कथं तस्मात् पराभ्युपगमेन विरुद्धाव्यभिचारी नान्यथे
त्याचार्यस्याभिप्रायोऽवगन्तव्यः ।
यदा तर्हि शब्दत्वं नित्यमभ्युपैतीति वचनात् । तस्मादप्रतिबद्ध एव संशयहेतुरिति
व्याप्तिहेत्वादिलक्षणं । तत्र पक्षधर्मो हेतुरिति (।) सामर्थ्यादपक्षधर्मो न हेतुः । विपरीतः
पक्षधर्माविरुद्ध इत्यपक्षधर्मो न विरुद्धः ।
अन्यस्त्वनैकान्तिकाः पक्षधर्म इत्यपक्षधर्मो नानैकान्तिकः (।) ततः स्वनाम्नैव व्यप
देष्टव्यः । सिद्धमिति1726 । धर्म्यसिद्धावप्यसिद्ध एव । अन्यतराद्यसिद्धावपि । तथा चाचार्यः ।
यदि तर्हि पक्षधर्मो हेतुः । कथमनित्यः शब्दः नित्यस्याकृतकत्वात् । अनित्यस्य
कृतकत्वादिति । तथा ।
(अ)सदकरणादुपादानग्रहणात् सर्व्वसम्भवाभावात् ।
अत्रोच्यते ।
तद्यथा नित्यः शब्दः अनित्यस्य कृतकत्वात् । तथा च कृतकः शब्द इति । तथा ऽ
नित्यः शब्दः नित्यस्याकृतकत्वात् । तथा च कृतकः शब्द इति पञ्चम्यन्तेन1728 ।
ननु दृष्टान्तः साधर्म्यवैधर्म्याभ्यामित्यर्थसतत्वं । तथाऽसदकरणादिकमपि द्रष्टव्यं ।
एते च यथा न हेतवः तथा प्रतिपादितं । अपि च ।
असदकरणादिति कथमयं हेतुः । असतः शशविषाणादेर्न करणं दृष्टमिति । न
चैतावता व्यतिरेकेण विपर्ययसाधनं (।) यदि कस्यचिदसतः क्रिया नोपलभ्यते (।) सर्व्वस्य
तथा नेति कुत इयं व्याप्तिः । नहि विपर्यये प्रतिबन्धमन्तरेण व्यतिरेकव्याप्तिप्रसिद्धिः ।
धूमाभावेऽग्न्यभावस्य कथं व्याप्तिः प्रसिध्यति ।
न खलु सकलं जगद् बंभ्रम्यमाणेनापि तत्रान्यत्रात्र च नास्तीति व्यापी व्यतिरेकः
प्रत्येतुं शक्यः । कालदेशव्याप्तिकस्य भ्रमणस्यैवासम्भवात् ।
अन्वयेन तु प्रतिबन्धग्रहणे तत्सामर्थ्यादेव व्यापिव्यतिरेकप्रसिद्धिः । एतच्च प्रागेव
प्रतिपादितं ।
तस्मादेते न हेतवः । पक्षधर्म एव हेतुर्व्विरुद्धोनैकान्तिकश्च ।
अनेन च परार्थानुमानमेव सदसत्त्वप्रख्यापनप्रक्रमेण प्रकटितं (।) शेषः प्रपञ्चः प्रमाण
समुच्चय एवावगन्तव्यः । परिशिष्ट1729
रूपनिरूपणायेति व्युदासितं मनोस्य वार्तिककृतः ।