31
ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाण
फलविभाग इति ॥ ३९ ॥
फलान्तरमाह--
हानादिबुद्धयो वा ॥ ४० ॥
हानोपादानोपेक्षा275बुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां276
फलत्वेन न विरोधो वैवक्षिक277त्वात् फलस्येति प्रदिपादनार्थम् ॥ ४० ॥
एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह--
प्रमाणाद्भिन्नाभिन्नम् ॥ ४१ ॥
करणरूपत्वात् क्रियारूपत्वाच्च प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेद
व्यवहारानुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणाद्व्यावृत्त्या प्रमाणव्यवहारः,
अफलाद्व्यावृत्त्या च फलव्यवहारो भविष्यतीति चेत्; नैवम्; एवं सति प्रमाणा278न्तराद्व्या
वृत्त्याऽप्रमाणव्यवहारः, फलान्तराद्व्यावृत्त्याऽफलव्य279वहारोऽप्यस्तु, विजातीयादिव सजा280
तीयादपि व्यावृत्तत्वाद्वस्तुनः ।
तथा, तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम
इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । भेदे त्वा281त्मान्तरवत्तदनुपपत्तिः । अथ यत्रैवात्मनि
प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासत्त्या प्रमाणफल
व्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत्; न; समवायस्य नित्यत्वाद्व्यापकत्वान्नि
यतात्मवत्सर्वात्मस्वप्यविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत् सिद्धमेतत्
प्रमाणात्फलं कथञ्चिद्भिन्नमभिन्नं चेति ॥ ४१ ॥
प्रमातारं लक्ष282यति--
स्वपराभासी परिणाम्यात्मा प्रमाता283 ॥ ४२ ॥
स्वम् आत्मानं परं चार्थमाभासयितुं शीलं यस्य स स्वपराभासी स्वोन्मुख
तयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तृक्रियाणां प्रतीतेः, अन्यतर
प्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीप
वत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्तस्वा284भासिपराभासिवादिमतनिरासः ।
स्वपराभास्येव आत्मा प्रमाता ।
-
--॰पेक्षया बु॰--ता॰ ।
↩ -
अर्थप्रकाशादीनाम् ।
↩ -
--॰क्षितत्वात्--ता॰ ।
↩ -
अन्यप्रमाणात् ।
↩ -
--॰लत्वव्य॰
↩
--डे॰ । -
प्रमाणान्तरात् ।
↩ -
यथैकात्मगतस्य प्रमाणस्य सम्बन्धि द्वितीयात्मगतं फलं न भवति तथैकात्मगतयो
↩
रपि मा भूदत्यन्तभेदस्योभयपक्षयोरप्यविशिष्टत्वात् । -
--॰तारं कथयति--डे॰ ।
↩ -
एतत्सूत्रानन्तरं ता--मू॰
↩
प्रतौ एवं लिखितं वर्तते--इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममाह्निकम् ।
सं-मू॰ प्रतौ तु--॰ध्यायस्याद्याह्निकम् । -
बौद्धस्य ।
↩