इहोद्दिष्टे प्रत्यक्षपरोक्षलक्षणे प्रमाणद्वये लक्षितं प्रत्यक्षम् । इदानीं परोक्ष
लक्षणमाह--
अविशदः परोक्षम्291 ॥ १ ॥
सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् सम्यगर्थनिर्णयः इत्यनुवर्तते ।
तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥ १ ॥
विभागमाह--
स्मृतिप्रत्यभिज्ञा292नोहानुमानागमास्तद्विधयः ॥ २ ॥
तद् इति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमा
णान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् ।
ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते ?, किमनेन द्रविड
मण्डकभक्षणन्यायेन ? । मैवं वोचः, परोक्षलक्षणसङ्गृहीतानि परोक्षप्रमाणान्न विभे
दवर्तीनि; यथैव हि प्रत्यक्षलक्षणसङ्गृहीतानीन्द्रियज्ञान-मानस-स्वसंवेदन-योगिज्ञानानि
सौगतानां न प्रत्यक्षादतिरिच्यन्ते, तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न
मूलप्रमाणसङ्ख्यापरिपन्थीनीति । स्मृत्यादीनां पञ्चानां द्वन्द्वः ॥ २ ॥
तत्र स्मृतिं लक्षयति--
वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥ ३ ॥
वासना293 संस्कारस्तस्याः उद्बोधः294 प्रबोधस्तद्धेतुका तन्निबन्धना,
इति वचनाच्चिरकालस्थायिन्यपि वासनाऽनुद्बुद्धा न स्मृतिहेतुः, आवरणक्षयोपशम
सदृशदर्शनादिसामग्रीलब्धप्रबोधा295 तु स्मृतिं जनयतीति वासनोद्बोधहेतुका इत्युक्तम् ।
अस्या उल्लेखमाह त296दित्याकारा सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः, सा पटी, तत्
कुण्डल297मित्युल्लेखव298ती मतिः स्मृतिः ।
सा च प्रमाणम् अविसंवादित्वात् स्व299यं निहितप्रत्युन्मार्गणादिव्यवहाराणां
दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावान्निरालम्बना स्मृतिः कथं प्रमाणम् ? । नैवम्,
अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः, अन्यथा प्र300त्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यं
प्रसज्येत । स्वविष301यावभासनं स्मृतेरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकः ?, तथा
-
अत्र प्रथमं द्वितीयं च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰ ।
↩ -
--॰मिज्ञोहा॰--सं-मू॰ ।
↩ -
धारणा ।
↩ -
स्मृतिजननाभिमुख्यम् ।
↩ -
--॰धा अनुस्मृ॰-मु-पा॰ ।
↩ -
अभ्या
↩
सदशापन्नायां गुणनादौ तदित्याकाराभावात् प्रायिकमिदम् । -
कुण्डमि॰--डे॰ ।
↩ -
--॰वती स्मृ॰--डे॰ ।
↩ -
अविसंवादित्वमस्या असिद्धमिति चेदित्याह ।
↩ -
यद्यनुभूतेनार्थेन सालम्बनत्वेऽपि स्मृतेरप्रामाण्यमातिष्ठसे
↩
तदा प्रत्यक्षस्यापि किं नाप्रामाण्यं भवेदिति एकोद्देशेन तस्यापि निरालम्बनत्वात् । -
अनुभूतविषय॰ ।
↩